सुभाषितरत्नकरण्डकथा · श्लोक 101-120
बुद्धप्रचोदनवचो ऽपि मुनेर् अशेषम् आरोच्य सार्ययतिसंघविहारहेतोः ।
यज् जाग्रतो ऽपि चरतः स्वपतः स्थितस्य पुण्याभिवृद्धिर् उपरिप्रभवाप्रमाणा
प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात्
संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति ।
प्रासादे वैजयन्ते प्रवरमणिमये स्तम्भभित्तौ प्रियाभिः
सार्धं सर्वर्तुरम्ये चिरम् अभिरमते देवलोके स एव
श्रीमद्वितानवरपङ्कजचित्रवस्त्रं नीलादिसंस्थगितभित्तिगृहं प्रधानम् ।
दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नम् अधिगच्छति वैजयन्तम्
॥ इति विहारकथा ॥
xx. शयनासनदानकथा
पर्यङ्कविष्टरसमास्तृततूलिकासु सीमन्तिनीघनपयोधरपीडिताङ्गाः ।
संशेरते क्षितिभुजो निशि यैः प्रदत्तं शय्यासनं शमितदोषगणोत्तमाय
दिव्यस्त्रीचारिकाणां कलरवकलिते चित्रवस्त्रावृतायाम्
शय्यायां रत्नमय्यां सुरभिपरिमलामोदवत्यां महत्याम् ।
कान्ताबाहूपधानश् चिरं अमरपुरे निर्भयस् तत्र शेते
यत् तच् छय्यासनानां फलम् इदम् उदितं भिक्षुसंघाय दानात्
कर्पूरचन्दनवरागुरुलिप्तगात्रा दिव्याङ्गनास्तनयुगान्तरवर्तिदेहाः ।
नित्यं स्वपन्ति वरवस्त्रसुतूलिकायां स्तूपाय चात्र शयनासनदानतस् तत्
॥ इति शयनासनदानकथा ॥
xxइ. क्षेत्रकथा
यद् द्वीपांश् चतुरो विजित्य रभसाद् यातो मघोनः पुरं
मान्धाता त्रिदशाधिपाच् च मुदितो लेभे यद् अर्धासनम् ।
सप्ताहं च हिरण्यवृष्टिर् अतुलायातास्य यन् मन्दिरे
तत् पात्रप्रतिपादितस्य महतो दानस्य चित्रं फलम्
तच् च पात्रं चतुर्धा तु गतिदुःखादिभेदतः ।
पृथक् पृथक् फलं तस्माद् विशिष्टं जायते नृणाम्
वृत्ताननाः कुवलयेन्दुसमानवर्णा मर्त्याः सदा विमलदृष्टिविशालवक्षाः ।
दानान् मनुष्यगतिकेषु समाप्नुवन्ति रम्याणि यानशयनासनभोजनानि
ग्लानेषु यन् नरवराः प्रदिशन्ति दानं दीनेषु दुर्बलधनेषु कृपान्विता ये ।
लक्ष्मीं हि ते समधिगम्य नरेन्द्रतुल्याः क्रीडन्ति नित्यमुदिताः सह पुत्रभृत्यैः
चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः ।
राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत् स्वगुरुमातृजनेषु दानात्
यद् गच्छन्ति क्षितीशा हयरथकरिभिर् वन्द्यमाना जनौघैश्
छत्त्रैः सौवर्णदण्डैः शशिकरसदृशै रुद्धतीक्ष्णार्कपादः ।
राजा यच् छक्रवर्ती वरनृपतिशतैर् याति सार्धं पृथिव्यां
क्षेत्रे सम्यक् तद् एतत् प्रवरगुणफलं शोधिते दानबीजात्
मान्धाता मुद्गदानात् क्षितिपतिर् अभवत् पांशुदानाद् अशोको
राजा वै कप्फिणाख्यस् त्रिदशपतिर् अभूत् पञ्चसारप्रदानात् ।
चित्राख्यः क्षीरदानान् मधु पनसयुतं क्षीणदोषाय दत्त्वा
प्राप्तं वै क्ष्मापतित्वं सुरपतिभवने सिंहनाम्नाधिपत्यम्
दत्तं बह्व् अपि नैव तद् बहुफलं सत्पात्रहीनं धनं
क्षिप्तं बल्बजकण्टकाकुलतले क्षेत्रे क्षिते बीजवत् ।
रागद्वेषतमोमलव्यपगते पात्रे गुणालंकृते
दानं स्वल्पम् अपि प्रयाति बहुतां न्यग्रोधबीजं यथा
॥ इति क्षेत्रकथा ॥
xxइइ. विचित्रकथा
यो धर्मरत्नं लिखतीह नित्यं शृणोति तच् चिन्तयते सदैव ।
संभावनां वा यदि चात्र कुर्याज् जातिस्मरत्वं लभते स नित्यम्
यद् देवलोके वरकल्पवृक्षाः सर्वार्थसंसिद्धिकरा भवन्ति ।
देवोत्तमानां सुखहेतुभूतास् तत् गोप्रदानस्य फलं विशालम्
यद् गर्भे परिपुष्टिम् एति शुचिभिः प्रोन्नीयमानो रसैर्
बाल्ये यन् मधुसर्पिषी च पिबति क्षीरं च काले पुनः ।
भिन्नेन्दीवरकेसरद्युतियुतं पानं च यद् यौवने
वृद्धत्वे च यथेप्सितं वररसं तद् गोप्रदानोद्भवम्
सिंहासनं प्रमुदितो रुचिरं गणाय भक्त्या ददाति विधिवत् खलु यः स दाता । सिंहासनानि लभते प्रवराण्य् अभेद्यं वज्रासनं च सुरपन्नगसिद्धवन्द्यम्
सौवर्णपात्रे सततं नरेन्द्रा यत् क्षीरम् अश्नन्ति रसादियुक्तम् ।
लक्ष्मीसमृद्धाश् च नरीर् लभन्ते पद्माननास् तन् महिषीप्रदानात्
यानप्रदानेन सदातुराणां सुदुर्बलानां वहनेन चैव ।
संमाननां वै कुरुते गुरूणाम् ऋद्धिं समाप्नोति नरस् तु तेन
मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0