भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकरण्डकथा · श्लोक 1-20

1

इ. पुण्यप्रोत्साहनकथा
मानुष्यं समवाप्य दुष्करशतैर् लब्ध्वा दुरापं क्षणं
मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि ।
पाथेयं दमदानसंयममयं यैर् न प्रभूतं कृतं
संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते

2

मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचञ्चलम् ।
भवक्षये मतिः कार्या भवोपकरणेषु वा

3

मनुष्यत्वं समासाद्य विद्युज्ज्वालोर्मिचञ्चलम् ।
पुण्यम् एवात्र कुर्वीत यतश् चिन्तामणिर् नृणाम्

4

यस्यानुभावान् मानुष्यं प्राप्तं भूयो ऽपि सांप्रतम् ।
पुण्यं तद् वर्ध्यस्वेह यस्माद् धेतुः सुखस्य ते

5

मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं
रूपौदार्यकुलोन्नतिप्रभृतिभिर् युक्तं विचित्रैर् गुणैः ।
तत् पुण्यं सुहृद् एक एव जगतां बन्धुश् च जन्मान्तरे
तस्मात् तूर्णम् इदं कुरु त्वम् असकृत् सर्वार्थसंपत्करम्

6

लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं प्रभुत्वम् ।
तान्य् एव पुण्यानि विवर्धयेथा न कर्षणीयो ह्य् उपकारिपक्षः

7

विरमत पापतः कुरुत पुण्यम् उदारतरं
दमयत दुर्दमं विषयलोलमनस्तुरगम् ।
भवत मुनीन्द्रवत् परहिताभिरताः सततं
दशति न यावद् एव मरणाहिर् असह्यविषः

8

॥ इति पुण्यप्रोत्साहनकथा ॥
इइ. धर्मश्रवणप्रोत्साहनकथा
जलनिधिकूर्मकन्ठयुगरन्ध्रसमागमवत्
क्षणम् अनवाप्यम् अद्भुतम् इमं समवेत्य चलम् ।
प्रशमपुरैकवर्त्म विनिपातभयापहरं
शृणुत सुदुर्लभं क्षणम् अपीह मुनेर् वचनम्

9

यद् दुर्लभम् कल्पशतैर् अनेकैर् मानुष्यम् अष्टाक्षणदोषमुक्तम् ।
तत् सांप्रतं प्राप्तम् अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः

10

पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे ।
यो न चिन्तयति कर्मसत्पथम् तस्य जन्म भवतीह निष्फलम्

11

न नरकगतैः प्रेतैस् तिर्यग्गतैर् विकलेन्द्रियैर्
अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः ।
मुनिसवितरि प्रज्ञालोकेन चानुदिते जिने
सनरविबुधैः शक्यं पातुं मुनीन्द्रवचोमृतम्

12

तस्मात् कुकार्यम् व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मम् ।
श्रोतव्य एव प्रयतेन धर्मो यस्माद् अतः सर्वगुणा भवन्ति

13

मौनीन्द्रं वाक्यरत्नम् जनयति सुधियाम् एतद् आदौ प्रमोदं
श्रोत्रापाते ततश् च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति ।
चिन्ताध्यानावसाने स्फुटयति सकलम् जन्मचक्रप्रबन्धं
निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानम्

14

हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यम् अनुत्तरम् ।
तद् इदम् एवम् अवेत्य मुनेर् वचः शृणुत संप्रति निर्मलमानसाः

15

॥ इति धर्मश्रवनप्रोत्साहनकथा ॥
इइइ. दुर्लभमनुष्यकथ
यत् प्राप्य जन्मजलधेर् अपि यान्ति पारम् आरोपयन्ति शिवम् उत्तमबोधिबीजम् ।
चिन्तामणेर् अपि समभ्यधिकं गुणौघैर् मानुष्यकं क इह तद् विफली करोति

16

यो मनुष्यं कुशलविभवैः प्राप्य कल्पैर् अनल्पैर्
मोहात् पुण्यद्रविणम् इह न स्वल्पम् अप्य् आचिनोति ।
सो ऽस्माल् लोकात् परम् उपगतस् तीव्रम् अभ्येति शोकं
रत्नद्वीपाद् वणिग् इव गतः स्वं गृहं शून्यहस्तः

17

नाकुशलैः कर्मपथैर् मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये दुःखम् एव कुतः सुखम्

18

नातः परं वञ्चनास्ति न च मोहो ऽस्त्य् अतः परम् ।
यद् ईदृशं क्षणं प्राप्य न कुर्यात् कुशलं बहु

19

एकक्षणकृतात् पापाद् अवीचौ कल्पम् आस्यते ।
नैकजन्मकृतात् पापात् का पुनः सुगतौ कथा

20

अत एवाह भगवान् मानुष्यम् अतिदुर्लभम् ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पनोपमम्

मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc