सुभाषितरत्नकरण्डकथा · श्लोक 181-191
यद् देवा वियति विमानवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् ।
अत्यन्तं विपुलफलप्रसूतिहेतोर् वीर्यस्य स्थिरविहितस्य सा विभूतिः
॥ इति वीर्यकथा ॥
xxवि. ध्यानकथा
क्लेशारिवर्गं त्व् अभिभूय धीराः संबोधिलक्ष्मीपदम् आप्नुवन्ति ।
बोध्यङ्गदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम्
जन्मप्रबन्धकरणैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् ।
आकाशतुल्यमनसः समलोष्टहेमा ध्यानाद् भवन्ति मनुजा गुणहेतुभूताः
जित्वा क्लेशारिवृन्दं शुभबलमथने सर्वथालब्धलक्ष्यं
प्राप्ताः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभाम् अन्यभूतैः ।
सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन् नरेन्द्रा
ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुर् आर्या गुणौघाः
मोहान्धकारं प्रविदार्य शश्वज् ज्ञानावभासं कुरुते समन्तात् ।
संबुद्धसूर्यः सुरमानुषाणां हेतुः स तत्र प्रवरः समाधिः
॥ इति ध्यानकथा ॥
xxविइ. प्रज्ञाकथा
प्रज्ञाधनेन विकलं तु नरस्य रूपम् आलेख्यरूपम् इव सारविहीनम् अन्तः ।
बुद्ध्यान्वितस्य फलम् इष्टम् उदेति वीर्याद् वीर्यं तु बुद्धिरहितं स्ववधाय शत्रुः
यो ऽनेकजन्मान्तरितं स्वजन्म भूतं भविष्यत् कुलनामगोत्रैः ।
मध्यान्तविद्यो ऽपि जनः प्रवेत्ति प्रज्ञाबलं तत् कथयन्ति तज्ज्ञाः
यद् बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तं
ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् ।
आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुम् उत्कीर्तयन्ति
कार्यार्णवे चापि द्र्धं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात् ते विजयं लभन्ते प्रज्ञा यतः सा शुभहेतुभूता
तस्मात् सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यतां
न प्रज्ञाविकला विभान्ति पुरुषाः प्रातः प्रदीपा इव ।
[मत्वैवं स्वपरात्मभद्रचरणे सद्धर्मसंसाधने
जित्वा क्लेशगणाञ् छुभार्थनिरताः क्रीडन्तु धर्मार्थिनः ॥] 190 ॥
॥ इति प्रज्ञाकथा ॥
स्वर्गापवर्गगुणरत्ननिधानभूता एताः षड् एव भुवि पारमिता नराणाम् ।
ज्ञात्वा नरः स्वहितसाधनतत्परः सन् कुर्यान् न कः सततम् आसु दृढं प्रयत्नम्
मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0