Stotraratna · श्लोक 41-60
दासस् सखा वाहनम् आसनं ध्वजो यस् ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभना ॥
त्वदीयभुक्तोज्जिहितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना न्यवेदि तत्तथानुजानन्तम् उदारवीक्षनैः ॥
हताखिलक्लेशमलैः स्वभावतस् त्वदानुकूल्यैकरसैस् तवोचितैः ।
गृहीततत्तत्परिचारसाधनैर् निषेव्यमाणं सचिवैर् यथोचितं ॥
अपूर्वनानारसभावनिर्भद्रप्रबद्धया मुग्धविदघलीलया ।
क्षणाणुवत् क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजनम् ॥
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थम् आपत्सखम् अर्थिकल्पकम् ॥
भगवन्तम् एवानुचरन् निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।
कदाहम् ऐकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥
धिग् अशुचिम् अविनीतं निर्भयं माम् अलज्जं परमपुरुष यो ऽहम् योगिवर्याग्रगण्यैः ।
विध्शिवसनकाद्यैर् ध्यातुम् अत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अतगिं शरणागतं हरे कृपया केवलम् आत्मसात्कुरु ॥
अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।
भगवन् भवदुर्दिने पथः स्खलितं माम् अवलोकयाचियुत ॥
न मृषा परमार्थम् एव मे शृनु विज्ञापनम् एकम् अग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस् तव नाथ दुर्लभः ॥
तद् अहं त्वद् ऋते न नाथवान् मद् ऋते त्वं दयनीयवान् न च ।
विधिनिर्मितम् एतम् अन्वयं भगवान् पलय मा स्म जीहपः ॥
वपुरादिषु यो ऽपि को ऽपि वा गुणतो ऽसानि यथातथाविधः ।
तद् अयं तव पादपद्मयोर् अहम् अद्यैव मया समर्पितः ॥
मम नाथ यद् अस्ति यो ऽस्म्य् अहं सकलं तद् धि तवैव माधव ।
नियतस्वम् इति प्रबुद्धधीर् अथ वा किं नु समर्पयामि ते ॥
अवबोधितवान् इमां यथा मयि नित्यां भवदीयतां स्वयम् ।
कृपयैवम् अनन्यभोग्यतां भगवन् भक्तिम् अपि प्रयच्छ मे ॥
तव दास्यसुखैकसङ्घिनां भवनेषु अस्त्व् अपि कीटजन्म मे ।
इतरावसथेषु मा स्म भूद् अपि मे जन्म चतुर्मुखात्मना ॥
सकृत् त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर् माम् अवलोक्यतां नय क्षणे ऽपि ते यद् विरहो ऽतिदुस्सहः ॥
न देहं न प्राणान् न च सुखम् अशेषाभिलषितं न चात्मानं नान्यत् कि अपि तव शेषत्वविभवात्
बहिर्भूतं नाथ क्षणम् अपि सहे यातु शतधा विनाशं तत् सत्यं मधुमथन विज्ञापनम् इदम् ॥
दुरन्तस्यानादेर् अपरिहरणीयस्य महतो निहीनाचारो ऽहं नृपशुर् अशुभस्यास्पदम् अपि
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे तव स्मारं स्मारं गुणगणम् इतीच्छामि गतभीः ॥
अनिच्छन्न् अप्य् एवं यदि पुनर् इतीच्छन्न् इव रजस्तमश्छन्नच् छद्मस्तुतिवचनभङ्गीं अरचयम् ।
तथापीत्थंरूपं वचनम् अवलम्ब्यापि कृपया त्वम् एवैवम्भूतं धरणिधर मे शिक्षय मनः ॥
पिता त्वं माता त्वं दयिततनयस् त्वं प्रियसुहृत् त्वम् एव त्वं मित्रम् गुरुर् असि गतिश् चासि जगताम् ।
त्वदीयस् त्वध्बृत्यस् तव परिजनस् त्वद्गतिर् अहं प्रपन्नश् चैवं सत्य् अहम् अपि तवैवास्मि हि भरः ॥
मूल पाठ: Stotraratna · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0