भाषा

ENहिગુ
ग्रंथ पाठ

Stotraratna · श्लोक 21-40

21

नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।
नमो नमो ऽनन्तमहाविभूतये नमो नमो ऽनन्तदयैकसन्धिवे ॥

22

न धर्मनिष्ठो ऽस्मि, न चात्मवेदी, न भक्तिमांस् त्वच्चरणारविन्दे ।
अकिञ्चनो ऽनन्यगतिः शरण्य ! त्वत्पादमूलं शरणं प्रपद्ये ॥

23

न निन्दितं कर्म तद् अस्ति लोके सहस्रशो यन् न मया व्यधायि ।
सो ऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्य् अगतिस् तवाग्रे ॥

24

निमज्जतो ऽनन्त ! भवार्णवान्तश् चिराय मे कूलम् इवासि लब्धः ।
त्वयापि लब्धं भगवन्न् इदानीम् अनुत्तमं पात्रम् इदं दयायाः ॥

25

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ ! न ते ऽनुरूपः ॥

26

निरासकस्यापि न तावद् उत्सहे महेश ! हातुं तव पादपङ्कजम् ।
रुषा निरस्तो ऽपि शिशुः स्तनन्धयो न जातु मातुश् चरणौ जिहासति ॥

27

तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथम् अन्यद् इच्छति ।
स्थिते ऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥

28

त्वदङ्घ्रिम् उद्दिश्य कदापि केनचिद् यथा तथा वापि सकृत् कुतो ऽञ्जलिः ।
तदैव मुष्णात्य् अशुभाब्य् अशेषतः शुभानि पुष्णाति न जातु हीयते ॥

29

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥

30

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् ।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ? ॥

31

कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् ।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानम् अलङ्करिष्यति ॥

32

विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥

33

चकासतं ज्याकिणकर्कशैः शुभैश् चतुर्भिर् आजानुविलम्भिर् भुहैः ।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ॥

34

उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकन्बुकन्धरम् ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥

35

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतम् उज्ज्वलाधरम् ।
शुचिस्मितं कोमलगण्डम् उन्नसं ललाटपर्यन्तविलम्बितालकम् ॥

36

स्फुरत्किरीटाङ्गदहारकण्ढिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः ।
रथाङ्गशङ्खासिगदाधनुर्वरैर् लसत्तुलस्या वनमालयोज्ज्वलम् ॥

37

चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थम् अम्भोधिर् अमन्थ्य् अबन्धि च ॥

38

स्ववैश्वरूप्येण सदानुभूतयाप्य् अपूर्ववद्विस्मयमादधानया ।
गुणेन रूपेण विलासचेष्टितैस् सदा तवैवोचितया तव श्रिया ॥

39

तया सहासीनम् अनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥

40

निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस् तव शेषतां गतैर् यथोचितं श्ष इतीरिते जनैः ॥

मूल पाठ: Stotraratna · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc