भाषा

ENहिગુ
ग्रंथ पाठ

Stotraratna · श्लोक 61-64

61

जनित्वाहं वंशे महति जगति ख्यअतयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम्
निसर्गाद् एव त्वच्चरणकमलाइकान्तमनसाम् अधो ऽधः पापात्मा शरणद निमज्जामि तमसि ॥

62

अमर्यादः क्षुद्रश् चलमतिर् असूयप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथम् अहम् इतो दुःखजलधेर् अपाराद् उत्तीर्णस् तव परिचरेयं चरणयोः ॥

63

रघुवर यद् अभूस् त्वं तादृशो वायसस्य प्रणत इति दयालुर् यच् च चैद्यस्य कृष्ण ।
प्रतिभवम् अपराद्धुर् मुग्ध सायुज्यदो ऽभूर् वद किम् अपदम् आगस् तस्य ते ऽसि क्षमायाः ॥

64

ननु प्रपन्नस् सकृद् एव नाथ तवाहं अस्मीति च याचमानः ।
तवानुकम्प्यस् स्मर्तः प्रतिज्ञानां मदेकवर्जं किम् इदं व्रतं ते ॥

मूल पाठ: Stotraratna · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc