Stotraratna · श्लोक 1-20
नमो ऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनये ऽगाधभगवद्भक्तिसिन्धवे ॥
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनये ऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयम् ॥
भूयो नमो ऽपरिमिताच्युतभक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर् वचोभिः ।
लोके ऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ॥
तत्त्वेन यश् चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीर् उदारः ।
संदर्शयन् निरमिमीत पुराणरत्नं तस्मै नमो मुनिविराय पराशराय ॥
माता पिता युवतयस् तनया विभूतिः सर्वं यद् एव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर् वकुलाभिरामं श्रीमत् तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥
यन् मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्न् अस्मन्मनोरथपथः सकलः समेति ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत् पादारविन्दम् अरविन्दविलोचनस्य ॥
तत्त्वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुम् अपि शर्वपितामहाद्यैः ।
कर्तुं तदीयमहिमस्तुतिम् उद्यताय मह्यं नमो ऽस्तु कवये निरपत्रपाय ॥
यद् वा श्रमावधि यथामति वाप्य् अशक्तः स्तौम्य् एवम् एव खलु ते ऽपि सदा स्तुवन्तः ।
वेदाश् चतुर् मुखमुखाश् च; महार्णवान्तः को मज्जतोर् अणुकुलाचलयोर् विशेषः ? ॥
किं चैष शक्त्यतिशयेन न ते ऽनुकम्प्यः स्तोतापि तु स्तुतिकृतेन परिश्रमेण ।
तत्र श्रमस् तु सुलभो मम मन्दबुद्धेर् इत्य् उद्यमो ऽयम् उचितो मम चाब्जनेत्र ! ॥
नावेक्षसे त्यदि ततो भुवनान्य् अमूनि नालं प्रभो भवितुम् एव कुतः प्रवृत्तिः ? ।
एवं निसर्गसुहृदि त्वयि सर्वजन्त्âüः स्वामिन् ! चित्रम् इदम् आश्रितवत्सलत्वम् ॥
स्वाभाविकानवधिकातिशयेशितृत्वं नारायण ! त्वयि न मृष्यति वैदिकः कः ? ।
ब्रह्मा शिवः शतमखः परमस्वराड् इत्य् एते ऽपि यस्य महिमार्णवविप्रषस् ते ॥
कश् श्रीः श्रियः ? परमसत्त्वसमाश्रयः कः ? कः पुण्डरीकनयनः ? पुरुषोत्तमः कः ? ।
कस्यायुतायुतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥
वेदापहारगुरुपातकदैत्यपीडापद्विमोचनमहिष्ठफलप्रदानैः ।
को ऽन्यः प्रजापशुपती परिपाति ? कस्य पादोदकेन स शिवः स्वशिरोधृतेन ? ॥
कस्योदरे हरविरिञ्चमुखः प्रपञ्चः ? को रक्षतीमम् ? अजनिष्ट च कस्य नाभेः ? ।
क्रान्त्वा निगीर्य पुनर् उद्गिरति त्वदन्यः कः ? केन वैष परवान् इति शक्यशङ्कः ? ॥
त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश् च शास्त्रैः ।
प्रख्यातदैवपरमार्थविदां मतैश् च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥
उल्लङ्घितत्रिविधसीमसमातिशायिसंभावनं तव परिब्रढिमस्वभावम् ।
मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिद् अनिशं त्वदनन्यभावाः ॥
यद् अण्डम् अण्डान्तरगोचरं च यद्दशोत्तराण्य् आवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं परात् परं ब्रह्म च ते विभूतयः ॥
वशी वदान्यो गुणवान् ऋजुः शुचिर् मृदुर् दयालुर् मधुरः स्थिरः समः ।
कृती कृतज्ञस् त्वम् अपि स्वभावतः समस्तकल्याणगुणामृतोदधिः ॥
उपर्य् उपर्य् अब्जभुवो ऽपि पूरुषान् प्रकल्प्य ते ये शतम् इत्य् अनुक्रमात् ।
गिरस् त्वद् एकैकगुणाव्धीप्सया सदा स्थिता नोद्यमतो ऽतिशेरते ॥
त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः ।
भवन्ति लीलाविधयश् च वैदिकास् त्वदीयगम्भीरमनोऽनुसारिणः ॥
मूल पाठ: Stotraratna · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0