भाषा

ENहिગુ
ग्रंथ पाठ

स्तवचिन्तामणि · श्लोक 80-99

80

मुहुर् मुहुर् जगच्चित्रस्य् -आन्यान्यां स्थितिम् ऊहितुम्
शक्तिर् या ते तया नाथ को मनस्वी न विस्मितः ॥

81

दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा
एकवीरा स्मृतिर् यस्य तं स्मरामः स्मरद्विषम् ॥

82

जयन्ति गीतयो यासां स गेयः परमेश्वरः
यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः ॥

83

भवान् इव भवान् एव भवेद् यदि परं भव
स्वशक्तिव्यूहसंव्यूढ त्रैलोक्यारम्भसंहृतिः ॥

84

मन्त्रो ऽसि मन्त्रणीयो ऽसि मन्त्री त्वत्तः कुतो ऽपरः
स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो ॥

85

भारूपः सत्यसंकल्पस् त्वम् आत्मा यस्य सो ऽप्य् अहम्
संसारीति किम् ईशैष स्वप्नः सो ऽपि कुतस् त्वयि ॥

86

तद् अभङ्गि तद् अग्राम्यं तद् एकम् उपपत्तिमत्
त्वयि कर्मफलन्यास कृताम् ऐश्वर्यम् ईश यत् ॥

87

क्षमः कां नापदं हन्तुं कां दातुं सम्पदं न वा
यो ऽसौ स दयितो ऽस्माकं देवदेवो वृषध्वजः ॥

88

मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः
निर्मलीकरणे नाथ त्वद्भक्तिः परमाञ्जनम् ॥

89

निर्भयं यद् यद् आनन्द मयम् एकं यद् अव्ययम्
पदं देह्य् एहि मे देव तूर्णं तत् किं प्रतीक्षसे ॥

90

अहो निसर्गगम्भीरो घोरः संसारसागरः
अहो तत्तरणोपायः परः को ऽपि महेश्वरः ॥

91

नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने
मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥

92

ऐश्वर्यज्ञानवैराग्य धर्मेभ्यो ऽप्य् उपरि स्थितिम्
नाथ प्रार्थयमानानां त्वद् ऋते का परा गतिः ॥

93

त्वय्य् अनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणम्
त्वदिच्छानुगृहीतस् तु वहेद् ब्राह्मीं धुरं न कः ॥

94

हरप्रणतिमाणिक्य मुकुटोत्कटमस्तकाः
नमेयुः कं परं कं वा नमयेयुर् न धीधनाः ॥

95

सर्वविभ्रमनिर्मोक निष्कम्पम् अमृतह्रदम्
भवज्ज्ञानाम्बुधेर् मध्यम् अध्यासीयापि धूर्जटे ॥

96

चित्रं यच् चित्रदृष्टो ऽपि मनोरथगतो ऽपि वा
परमार्थफलं नाथ परिपूर्णं प्रयच्छसि ॥

97

को गुणैर् अधिकस् त्वत्तस् त्वत्तः को निर्गुणो ऽधिकः
इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे ॥

98

कीर्तने ऽप्य् अमृतौघस्य यत्प्रसत्तेः फलं तव
तत् पातुम् अपि को ऽन्यो ऽलं किम् उ दातुं जगत्पते ॥

99

निःशेषप्रार्थनीयार्थ सार्थसिद्धिनिधानतः
त्वत्तस् त्वद्भक्तिम् एवाप्तुं प्रार्थये नाथ सर्वथा ॥

मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc