स्तवचिन्तामणि · श्लोक 60-79
नमः सदसतां कर्तुम् असत्त्वं सत्त्वम् एव वा
स्वतन्त्रायास्वतन्त्राय व्ययैश्वर्यैकशालिने ॥
त्रैलोक्ये ऽप्य् अत्र यो यावान् आनन्दः कश्चिद् ईक्ष्यते
स बिन्दुर् यस्य तं वन्दे देवम् आनन्दसागरम् ॥
अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथम्
नमो नमः शिवायेति जपन्त्य् आह्लादविह्वलाः ॥
निष्कामायापि कामानाम् अनन्तानां विधायिने
अनादित्वे ऽपि विश्वस्य भोक्त्रे भव नमो ऽस्तु ते ॥
स्तुमस् त्रिभुवनारम्भ मूलप्रकृतिम् ईश्वरम्
लिप्सेरन् नोपकारं के यतः सम्पूर्णधर्मणः ॥
महत्स्व् अप्य् अर्थकृच्छ्रेषु मोहौघमलिनीकृताः
स्मृते यस्मिन् प्रसीदन्ति मतयस् तं शिवं स्तुमः ॥
प्रभो भवत एवेह प्रभुशक्तिर् अभङ्गुरा
यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥
कुकर्मापि यम् उद्दिश्य देवं स्यात् सुकृतं परम्
सुकृतस्यापि सौकृत्यं यतो ऽन्यत्र न सो ऽसि भोः ॥
एष मुष्ट्या गृहीतो ऽसि दृष्ट एष क्व यासि नः
इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिम् ॥
स्तुमस् त्वाम् ऋग्यजुःसाम्नां शुक्रतः परतः परम्
यस्य वेदात्मिकाज्ञेयम् अहो गम्भीरसुन्दरी ॥
विधिर् आदिस् तथान्तो ऽसि विश्वस्य परमेश्वर
धर्मग्रामः प्रवृत्तो यस् त्वत्तो न स कुतो भवेत् ॥
नमस् ते भवसम्भ्रान्त भ्रान्तिम् उद्भाव्य भिन्दते
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥
यस्याः प्राप्येत पर्यन्त विशेषः कैर् मनोरथैः
मायाम् एकनिमेषेण मुष्णंस् तां पातु नः शिवः ॥
वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियम्
नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः ॥
ब्रह्मणो ऽपि भवान् ब्रह्म कस्य नेशस् त्वम् ईशितुः
जगत्कल्याणकल्याणं कियत् त्वम् इति वेत्ति कः ॥
किम् अन्यैर् बन्धुभिः किं च सुहृद्भिः स्वामिभिस् तथा
सर्वस्थाने ममेश त्वं य उद्धर्ता भवार्णवात् ॥
जयन्ति मोहमायादि मलसंक्षालनक्षमाः
शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः ॥
गायत्र्या गीयते यस्य धियां तेजः प्रचोदकम्
चोदयेद् अपि कच्चिन् नः स धियः सत्पथे प्रभुः ॥
अष्टमूर्ते किम् एकस्याम् अपि मूर्तौ न नः स्थितिम्
शाश्वतीं कुरुषे यद् वा तुष्टः सर्वं करिष्यसि ॥
वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरम्
भवतस् त्व् ईश नामापि मोक्षपर्यन्तसिद्धिदम् ॥
मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0