स्तवचिन्तामणि · श्लोक 100-119
नमस् त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषाम्
त्रिलोकीनाथतादान निर्विनायकशक्तये ॥
निःशेषक्लेशहानस्य हेतुः क इति संशये
स्वामिन् सो ऽसीति निश्चित्य कस् त्वां न शरणं गतः ॥
भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम्
इत्य् आशंसेह शोभेत शम्भौ भक्तिमतः परम् ॥
नाथ स्वप्ने ऽपि यत् कुर्यां ब्रूयां वा साध्व् असाधु वा
त्वदधीनत्वदर्पेण सर्वत्रात्रास्मि निर्वृतः ॥
ज्योतिषाम् अपि यज् ज्योतिस् तत्र त्वद्धाम्नि धावतः
चित्तस्येश तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः ॥
मन्ये न्यस्तपदः सो ऽपि क्षेम्ये मोक्षस्य वर्त्मनि
मनोरथः स्थितो यस्य सेविष्ये शिवम् इत्य् अयम् ॥
स्थित्युत्पत्तिलयैर् लोक त्रयस्योपक्रियास्व् इह
एकैवेश भवच्छक्तिः स्वतन्त्रं तन्त्रम् ईक्षसे ॥
त्रिलोक्याम् इह कस् त्रातस् त्रिताप्या नोपतापितः
तस्मै नमो ऽस्तु ते यस् त्वं तन्निर्वाणामृतह्रदः ॥
कृत्रिमापि भवद्भक्तिर् अकृत्रिमफलोदया
निश्छद्मा चेद् भवेद् एषा किंफलेति त्वयोच्यताम् ॥
तच् चक्षुर् ईक्ष्यसे येन सा गतिर् गम्यसे यया
फलं तद् अज जातं यत् त्वत्कथाकल्पपादपात् ॥
श्रेयसा श्रेय एवैतद् उपरि त्वयि या स्थितिः
तदन्तरायहृतये त्वम् ईश शरणं मम ॥
अहो स्वादुतमः शर्व सेवाशंसासुधारसः
कुत्र कालकलामात्रे न यो नवनवायते ॥
मुहुर् मुहुर् अविश्रान्तस् त्रैलोक्यं कल्पनाशतैः
कल्पयन्न् अपि को ऽप्य् एको निर्विकल्पो जयत्य् अजः ॥
मलतैलाक्तसंसार वासनावर्तिदाहिना
ज्ञानदीपेन देव त्वां कदा नु स्याम् उपस्थितः ॥
निमेषम् अपि यद्य् एकं क्षीणदोषे करिष्यसि
पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि ॥
धन्यो ऽस्मि कृतकृत्यो ऽस्मि महान् अस्मीति भावना
भवेत् सालम्बना तस्य यस् त्वदालम्बनः प्रभो ॥
शुभाशुभस्य सर्वस्य स्वयं कर्ता भवान् अपि
भवद्भक्तिस् तु जननी शुभस्यैवेश केवलम् ॥
प्रसन्ने मनसि स्वामिन् किं त्वं निविशसे किम् उ
त्वत्प्रवेशात् प्रसीदेत् तद् इति दोलायते जनः ॥
निश्चयः पुनर् एषो ऽत्र त्वदधिष्ठानम् एव हि
प्रसादो मनसः स्वामिन् सा सिद्धिस् तत् परं पदम् ॥
वचश् चेतश् च कार्यं च शरीरं मम यत् प्रभो
त्वत्प्रसादेन तद् भूयाद् भवद्भावैकभूषणम् ॥
मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0