स्तवचिन्तामणि · श्लोक 41-59
क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो
दृश्यो ऽसीत्य् उपदेशेन प्रसादः क्रियतां मम ॥
नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे
सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥
अहो क्षेत्रज्ञता सेयं कार्याय महते सताम्
ययानन्तफलां भक्तिं वपन्ति त्वय्य् अमी प्रभो ॥
महतीयम् अहो माया तव मायिन् ययावृतः
त्वद्ध्याननिधिलाभे ऽपि मुग्धो लोकः श्लथायते ॥
आरम्भे भव सर्वत्र कर्म वा करणादि वा
विश्वम् अस्तु स्वतन्त्रस् तु कर्ता तत्रैकको भवान् ॥
त्रिगुणत्रिपरिस्पन्द द्वन्द्वग्रस्तं जगत्त्रयम्
उद्धर्तुं भवतो ऽन्यस्य कस्य शक्तिः कृपाथवा ॥
दोषो ऽपिदेव को दोषस् त्वाम् आप्तुं यः समास्थितः
गुणो ऽपि च गुणः को नु त्वां नाप्तुं यः समास्थितः ॥
रागो ऽप्य् अस्तु जगन्नाथ मम त्वय्य् एव यः स्थितः
लोभायापि नमस् तस्मै त्वल्लाभालम्बनाय मे ॥
अहो महद् इदं कर्म देव त्वद्भावनात्मकम्
आब्रह्मक्रिमि यस्मिन् नो मुक्तये ऽधिक्रियेत कः ॥
आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणाम्
तदन्तर्वृत्तयश् चित्रास् तवैवेशो धियः पथि ॥
यावद् उत्तरम् आस्वाद सहस्रगुणविस्तरः
त्वद्भक्तिरसपीयूषान् नाथ नान्यत्र दृश्यते ॥
उपसंहृतकामाय कामायतिम् अतन्वते
अवतंसितसोमाय सोमाय स्वामिने नमः ॥
किम् अशक्तः करोमीति सर्वत्रानध्यवस्यतः
सर्वानुग्राहिका शक्तिः शांकरी शरणं मम ॥
गुणातीतस्य निर्दिष्ट निःशेषातिशयात्मनः
लभ्यते भव कुत्रांशे परः प्रतिनिधिस् तव ॥
निर्द्वन्द्वे निरुपाधौ च त्वय्य् आत्मनि सति प्रभो
वयं वञ्च्यामहे ऽद्यापि माययामेयया तव ॥
अणिमादिगुणावाप्तिः सदैश्वर्यं भवक्षयः
अमी भव भवद्भक्ति कल्पपादपपल्लवाः ॥
या या दिक् तत्र न क्वासि सर्वः कालो भवन्मयः
इति लब्धो ऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यताम् ॥
नमः प्रसन्नसद्वृत्त मानसैकनिवासिने
भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे ॥
हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना
त्वद्बोधदीपिका मे ऽस्तु नाथ त्वद्भक्तिदीपिका ॥
विसृष्टानेकसद्बीज गर्भं त्रैलोक्यनाटकम्
प्रस्ताव्य हर संहर्तुं त्वत्तः को ऽन्यः कविः क्षमः ॥
मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0