स्तवचिन्तामणि · श्लोक 21-40
कः पन्था येन न प्राप्यः का च वाङ् नोच्यसे यया
किं ध्यानं येन न ध्येयः किं वा किं नासि यत् प्रभो ॥
अर्चितो ऽयम् अयं ध्यात एष तोषित इत्य् अयम्
रसः स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥
नमो निःशेषधीपत्रि मालालयमयात्मने
नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने ॥
अज्ञानतिमिरस्यैकम् औषधं संस्मृतिस् तव
भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि ॥
नम ईशाय निःशेष पुरुषार्थप्रसाधकः
प्रणन्तव्यः प्रणामो ऽपि यदीय इह धीमताम् ॥
मग्नैर् भीमे भवाम्भोधौ निलये दुःखयादसाम्
भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितम् ॥
निरावरणनिर्द्वन्द्व निश्चलज्ञानसम्पदाम्
ज्ञेयो ऽसि किल के ऽप्य् एते ये त्वां जानन्ति धूर्जटे ॥
निर्गुणो ऽपि गुणज्ञानां ज्ञेय एको जयत्य् अजः
निष्कामो ऽपि प्रकृत्या यः कामनानां परं फलम् ॥
श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः
तत् क्षीरोददम् ऐश्वर्यं तवैव सहजं विभो ॥
नमो भक्त्या नृणां मुक्त्यै भवते भव ते ऽवते
स्मृत्या नुत्या च ददते शम्भवे शं भवे ऽभवे ॥
सर्वज्ञः सर्वकृत् सर्वम् असीति ज्ञानशालिनाम्
वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयार्प्यते ॥
इच्छाया एव यस्येयत् फलं लोकत्रयात्मकम्
तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः ॥
ब्रह्मादयो ऽपि तद् यस्य कर्मसोपानमालया
उपर्य् उपरि धावन्ति लब्धुं धाम नमामि तम् ॥
अयं ब्रह्मा महेन्द्रो ऽयं सूर्याचन्द्रमसाव् इमौ
इति शक्तिलता यस्य पुष्पिता पात्व् असौ भवः ॥
भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैर् अपि
दूरगैर् अपि यस्यान्तो दुर्गम् अस्तं स्तुमो मृडम् ॥
नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा
प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने ॥
किं स्मयेनेति मत्वापि मनसा परमेश्वर
स्मयेन त्वन्मयो ऽस्मीति मामि नात्मनि किं मुदा ॥
चिन्तयित्वापि कर्तव्य कोटीश् चित्तस्य चापलात्
विश्राम्यन् भव भावत्क चित्तानन्दे रमे भृशम् ॥
सूक्ष्मो ऽपि चेत् त्रिलोकीयं कलामात्रं कथं तव
स्थूलो ऽथ किं सुदर्शो न ब्रह्मादिभिर् अपि प्रभो ॥
वाच्य एषां त्वम् एवेति नाभविष्यद् इदं यदि
कः क्लेशं देव वाग्जालेष्व् अकरिष्यत् सुधीस् तदा ॥
मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0