भाषा

ENहिગુ
ग्रंथ पाठ

स्तवचिन्तामणि · श्लोक 1-20

1

सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया
जयत्य् उल्लासितानन्द महिमा परमेश्वरः ॥

2

यः स्फीतः श्रीदयाबोध परमानन्दसम्पदा
विद्योद्द्योतितमाहात्म्यः स जयत्य् अपराजितः ॥

3

प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने
नमो ऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥

4

द्विष्मस् त्वां त्वां स्तुमस् तुभ्यं मन्त्रयामो ऽम्बिकापते
अतिवाल्लभ्यतः साधु विश्वङ् नो धृतवान् असि ॥

5

संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये
वियन्मायास्वरूपाय विभवे शम्भवे नमः ॥

6

भिन्नेष्व् अपि न भिन्नं यच् छिन्नेष्व् अछिन्नम् एव च
नमामः सर्वसामान्यं रूपं तत् पारमेश्वरम् ॥

7

प्रणवोर्ध्वार्धमात्रातो ऽप्य् अणवे महते पुनः
ब्रह्माण्डाद् अपि नैर्गुण्य गुणाय स्थाणवे नमः ॥

8

ब्रह्माण्डगर्भिणीं व्योम व्यापिनः सर्वतोगतेः
परमेश्वरहंसस्य शक्तिं हंसीम् इव स्तुमः ॥

9

निरुपादानसम्भारम् अभित्ताव् एव तन्वते
जगच्चित्रं नमस् तस्मै कलाश्लाघ्याय शूलिने ॥

10

मायाजलोदरात् सम्यग् उद्धृत्य विमलीकृतम्
शिवज्ञानं स्वतो दुग्धं देह्य् एहि हरहंस नः ॥

11

षट्प्रमाणीपरिच्छेद भेदयोगे ऽप्य् अभेदिने
परमार्थैकभावाय बलिं यामो भवाय ते ॥

12

अपि पश्येम गम्भीरां परेण ज्योतिषाभितः
उन्मृष्टतमसं रम्याम् अन्तर्भव भवद्गुहाम् ॥

13

नमस् तेभ्यो ऽपि ये सोम कलाकलितशेखरम्
नाथं स्वप्ने ऽपि पश्यन्ति परमानन्ददायिनम् ॥

14

भगवन् भव भावत्कं भावं भावयितुं रुचिः
पुनर्भवभयोच्छेद दक्षा कस्मै न रोचते ॥

15

यावज्जीवं जगन्नाथ कर्तव्यम् इदम् अस्तु नः
त्वत्प्रसादात् त्वदेकाग्र मनस्कत्वेन या स्थितिः ॥

16

शाखासहस्रविस्तीर्ण वेदागममयात्मने
नमो ऽनन्तफलोत्पाद कल्पवृक्षाय शम्भवे ॥

17

वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो
त्वन्मयीभूय निर्द्वन्द्वाः कच्चित् स्यामापि कर्हिचित् ॥

18

जगतां सर्गसंहार तत्तद्धितनियुक्तिषु
अनन्यापेक्षसामर्थ्य शालिनि शूलिने नमः ॥

19

व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः
नामापि ध्यायतां ध्यानैः किम् अन्यालम्बनैः फलम् ॥

20

नमो नमः शिवायेति मन्त्रसामर्थ्यम् आश्रिताः
श्लाघ्यास् ते शाम्भवीं भूतिम् उपभोक्तुं य उद्यताः ॥

मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc