स्तवचिन्तामणि · श्लोक 120-19-paus
स्तवचिन्तामणिं भूरि मनोरथफलप्रदम्
भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधात् ॥
सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
जयति+उल्लासितानन्दमहिमा परमेश्वरः ॥
यस्+स्फीतस्+श्रीदयाबोधपरमानन्दसम्पदा ।
विद्योद्द्योतितमाहात्म्यस्+स जयति+अपराजितः ॥
प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमस्+अनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥
द्विष्मस्+त्वाम्+त्वाम्+स्तुमस्+तुभ्यम्+मन्त्रयामस्+अम्बिकापते ।
अतिवाल्लभ्यतस्+साधु विश्वक्+नो धृतवान्+असि ॥
संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये ।
वियन्मायास्वरूपाय विभवे शम्भवे नमः ॥
भिन्नेषु+अपि न भिन्नम्+यत्+छिन्नेषु+अछिन्नम्+एव च ।
नमामस्+सर्वसामान्यम्+रूपम्+तत्+पारमेश्वरम् ॥
प्रणवोर्ध्वार्धमात्रातस्+अपि+अणवे महते पुनः ।
ब्रह्माण्डात्+अपि नैर्गुण्यगुणाय स्थाणवे नमः ॥
ब्रह्माण्डगर्भिणीम्+व्योमव्यापिनस्+सर्वतोगतेः ।
परमेश्वरहंसस्य शक्तिम्+हंसीम्+इव स्तुमः ॥
निरुपादानसम्भारम्+अभित्तौ+एव तन्वते ।
जगच्चित्रम्+नमस्+तस्मै कलाश्लाघ्याय शूलिने ॥
मायाजलोदरात्+सम्यक्+उद्धृत्य विमलीकृतम् ।
शिवज्ञानम्+स्वतस्+दुग्धम्+देहि+एहि हरहंस नः ॥
षट्प्रमाणीपरिच्छेदभेदयोगे+अपि+अभेदिने ।
परमार्थैकभावाय बलिम्+यामस्+भवाय ते ॥
अपि पश्येम गम्भीराम्+परेण ज्योतिषा+अभितः ।
उन्मृष्टतमसम्+रम्याम्+अन्तर्भव भवद्गुहाम् ॥
नमस्+तेभ्यस्+अपि ये सोमकलाकलितशेखरम् ।
नाथम्+स्वप्ने+अपि पश्यन्ति परमानन्ददायिनम् ॥
भगवन्+भव भावत्कम्+भावम्+भावयितुम्+रुचिः ।
पुनर्भवभयोच्छेददक्षा कस्मै न रोचते ॥
यावज्जीवम्+जगन्नाथ कर्तव्यम्+इदम्+अस्तु नः ।
त्वत्प्रसादात्+त्वदेकाग्रमनस्कत्वेन या स्थितिः ॥
शाखासहस्रविस्तीर्णवेदागममयात्मने ।
नमस्+अनन्तफलोत्पादकल्पवृक्षाय शम्भवे ॥
वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो ।
त्वन्मयीभूय निर्द्वन्द्वास्+कच्चित्+स्याम+अपि कर्हिचित् ॥
जगताम्+सर्गसंहारतत्तद्धितनियुक्तिषु ।
अनन्यापेक्षसामर्थ्यशालिनि शूलिने नमः ॥
व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः ।
नाम+अपि ध्यायताम्+ध्यानैस्+किम्+अन्यालम्बनैस्+फलम् ॥
मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0