स्तवचिन्तामणि · श्लोक 20-paus-39-paus
नमस्+नमस्+शिवाय+इति मन्त्रसामर्थ्यम्+आश्रिताः ।
श्लाघ्यास्+ते शाम्भवीम्+भूतिम्+उपभोक्तुम्+ये+उद्यताः ॥
कस्+पन्थास्+येन न प्राप्यस्+का च वाक्+न+उच्यसे यया ।
किम्+ध्यानम्+येन न ध्येयस्+किम्+वा किम्+न+असि यत्+प्रभो ॥
अर्चितस्+अयम्+अयम्+ध्यातस्+एष तोषितस्+इति+अयम् ।
रसस्+स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥
नमस्+निःशेषधीपत्रिमालालयमयात्मने ।
नाथाय स्थाणवे तुभ्यम्+नागयज्ञोपवीतिने ॥
अज्ञानतिमिरस्य+एकम्+औषधम्+संस्मृतिस्+तव ।
भव तत्तत्प्रदानेन प्रसादस्+क्रियताम्+मयि ॥
नमस्+ईशाय निःशेषपुरुषार्थप्रसाधकः ।
प्रणन्तव्यस्+प्रणामस्+अपि यदीयस्+इह धीमताम् ॥
मग्नैस्+भीमे भवाम्भोधौ निलये दुःखयादसाम् ।
भक्तिचिन्तामणिम्+शार्वम्+ततस्+प्राप्य न किम्+जितम् ॥
निरावरणनिर्द्वन्द्वनिश्चलज्ञानसम्पदाम् ।
ज्ञेयस्+असि किल के+अपि+एते ये त्वाम्+जानन्ति धूर्जटे ॥
निर्गुणस्+अपि गुणज्ञानाम्+ज्ञेयस्+एकस्+जयति+अजः ।
निष्कामस्+अपि प्रकृत्या यस्+कामनानाम्+परम्+फलम् ॥
श्रीरत्नामृतलाभाय क्लिष्टम्+यत्र न कैस्+सुरैः ।
तत्+क्षीरोददम्+ऐश्वर्यम्+तव+एव सहजम्+विभो ॥
नमस्+भक्त्या नृणाम्+मुक्त्यै भवते भव ते+अवते ।
स्मृत्या नुत्या च ददते शम्भवे शम्+भवे+अभवे ॥
सर्वज्ञस्+सर्वकृत्+सर्वम्+असि+इति ज्ञानशालिनाम् ।
वेद्यम्+किम्+कर्म वा नाथ न+आनन्त्याय त्वया+अर्प्यते ॥
इच्छायास्+एव यस्य+इयत्+फलम्+लोकत्रयात्मकम् ।
तस्य ते नाथ कार्याणाम्+कस्+वेत्ति कियती गतिः ॥
ब्रह्मादयस्+अपि तत्+यस्य कर्मसोपानमालया ।
उपरि+उपरि धावन्ति लब्धुम्+धाम नमामि तम् ॥
अयम्+ब्रह्मा महेन्द्रस्+अयम्+सूर्याचन्द्रमसौ+इमौ ।
इति शक्तिलता यस्य पुष्पिता पातु+असौ भवः ॥
भ्रमस्+न लभ्यते यस्य भ्रान्तान्तःकरणैस्+अपि ।
दूरगैस्+अपि यस्य+अन्तस्+दुर्गम्+अस्तम्+स्तुमस्+मृडम् ॥
नमस्+स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा ।
प्राप्तौ च+आनन्दवृन्दाय दयिताय कपर्दिने ॥
किम्+स्मयेन+इति मत्वा+अपि मनसा परमेश्वर ।
स्मयेन त्वन्मयस्+अस्मि+इति मामि न+आत्मनि किम्+मुदा ॥
चिन्तयित्वा+अपि कर्तव्यकोटीस्+चित्तस्य चापलात् ।
विश्राम्यन्+भव भावत्कचित्तानन्दे रमे भृशम् ॥
सूक्ष्मस्+अपि चेत्+त्रिलोकी+इयम्+कलामात्रम्+कथम्+तव ।
स्थूलस्+अथ किम्+सुदर्शस्+न ब्रह्मादिभिस्+अपि प्रभो ॥
मूल पाठ: Stavacintāmaṇi · Edition: Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies X) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0