श्रीघनाचारसंग्रह · अध्याय 3.9
9 विकालभोजनविरतिशिक्षापदं
रात्रेरन्यत्र[भुंजाने मयि बभूवाल्परोगता] ।
तथैव [खलु] वः कार्यं [भोक्तव्यं दिनयेवच]
विण्मूत्रगर्त[के] पातः चौराहिभिः समागमः ।
उदरार्थं गृहे नो ऽटन्तीत्यवध्यातवान् जनः
सायं प्रातश्च पिण्डार्थमटन्ति भुंजते [तथा] ।
सभाचत्वरश्रृंगाटमन्दिरेषु गृहेषु च
सुगतः प्राह भुंजीत काले यतिः ॥
उदितादित्यमध्याह्नकेशमात्रानतीतके
सक्तुरोदनकुल्माषं मत्स्य- मांसं च कालिकं ।
यावज्जीविकतैलादिपिप्पलीपानवर्जितं
यत्किंचिदद्यते दन्तैर्गलके वा प्रवेश्यते ।
कुक्षिविष्टभ्मकं काले तत्तदद्याद्यथोदिते
सक्त्वाद्यामिषनिर्मुक्तं नीरजं कर्दमादिकं ।
वर्षोपलकमश्नीयात् पिपासार्त्तो यतिर्हिमं
कल्प्यवारिग्रहे तावत् प्रक्षाल्यौ न [सशोणितौ] ।
हस्तौ द्वौ चांगुलीक्षाले न ग्राह्यं कल्पिकोदकं
मायाशाठय[युतः] कुर्यात् न च प्रक्षालनं तयोः ।
सशब्दौ [यदि] तौ शुद्धौ वेद्यौ स्निग्धत्वचो यतेः
न दास्यथ[मह्यं] भोक्तुं क्षुत्तृष्णापीडितो [म्रिये] ।
इत्येवं [स] विरुक्तः स्यात् क्षेप्तव्यो मण्डकुण्ड[के]
अष्टासु धौतधान्यं यत् पात्रे दिशेदनामिषे ।
स्फुटं तु यदि पातुं तन्नैव ग्लानाय कल्पते
लोभोत्यापितवाक्कायकर्मणा समुपार्जितं ।
विहारचीवराहारं वर्जयेद् विषभक्तवत्
मद्यशस्त्रविषप्राणिलाक्षविक्रयणं व्रती ।
न कारयेत् न कुर्यान्न जीविकां तेन कल्पयेत्
सत्कारार्थं [च लाभार्थ] कुहना ह्यक्षसंवरः ।
वस्त्रादिकस्य प्राप्तयर्थं लपना चाटुवादिता
नैष्पेषिकत्वमन्नादि-लाभाय परकुत्सनं ।
अन्यदीयस्य पात्रादेर्नैमित्तिकं [तु] वर्णनं
लाभेन लिप्सा लाभानां वृद्धिषर्येषणं च [यत्] ।
यतिर्विवर्जयेदेतान् मिथ्याजीवान् पुरीषवत्
क्रीडापरोपघातं च कायवागुच्छितं [सदा] ।
व्रती विवर्जयेन्नित्यं विट्प्रदिग्धमिवोरगं
विपणितरगुल्मादौ द्यूतबन्धगृहे तथा ।
अगोचरो यदाख्यातस्तिष्ठेत्तत्र न चेल्लकः
मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0