भाषा

ENहिગુ
ग्रंथ पाठ

श्रीघनाचारसंग्रह · अध्याय 3.8

3.8.1

8 गन्धमाल्यविलेपनविरतिशिक्षापदं
चन्दनादिक[गन्धं हि धारयेद्] व्याधितो यतिः ।
दत्त्वा [च] मुनये पूर्वं भिषगादेर्वचनेन [सः]

3.8.2

न तिष्ठेत् प्रकटे देशे क्षालयित्वा बहिर्व्रजेत् ।
अनेनैव विधानेन धारयेत् कुसुमस्रजं

3.8.3

नेत्रदुःखशिरःशूलपूतनाग्रहरुग्वतः ।
मालया वेष्टयेत् शीर्षं मेखलां न च लंबयेत्

3.8.4

हरितालादिचूर्णेन तैलेन वा सुगन्धिना ।
न वदनादिकं गात्रं वर्णार्थं मर्षयेद् यतिः

3.8.5

यतेरप्रतिरूपत्वाद् गन्धमाल्य[विलेपनं] ।
रागौद्धत्यकरं यस्मात् तस्मात्तद् गर्हितं जिनैः

3.8.6

न दर्पणे निरीक्षेत मुखं वा तैलभाजने ।
मुक्त्वान्येनेक्षणीयं[हि] शिरोव्यथागदातुरं

3.8.7

विभूषणाय तैलेनात्मनो नाभ्यंजयेद् मुखं ।
स्फुटितास्यशिरोरोगादन्येनाभ्यंजनं न च

3.8.8

न कुंकुमादिचूर्णेन मण्डयेद् वदनं यतिः ।
पिटकशमनार्थं तु लेप इष्टस्तिला[दिभिः]

मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc