भाषा

ENहिગુ
ग्रंथ पाठ

श्रीघनाचारसंग्रह · अध्याय 3.6

3.6.1

6 उच्चशयनमहाशयनविरतिशिक्षापदं
शयने यतिरासीत जिनाष्टांगुलपादके ।
[विना] शल्येन[मंचे वा] हेमरूप्यकृते न तु

3.6.2

सांघिके शयने दद्यात् तत् प्रत्यास्तरणं यतिः ।
वस्त्रकम्बलयोरिष्टं यत् त्रिद्वयेकपुटं क्रमात्

3.6.3

न्यस्य गर्त्तेषु तत्पादानतिरेकप्रमाणकान् ।
प्रक्षिप्य प्रतिपादेषु टंकित्वा कीलकेषु वा

3.6.4

एवं वेक्षुयवादीनां रक्षार्थं मंचके स्वपेत् ।
यतिर्न लंबयेत्पादावध्वगो दीर्घपादके

3.6.5

अल्पं चेद् द्वादशेभ्यो हि देयमेकं विहारकं ।
निर्मुष्टहस्तं स्वल्पत्वे बहुत्वे तु विपर्ययात्

3.6.6

स्तोकं चेद् नवकः पीठे वृद्धो मंचे[तदा] स्वपेत् ।
स्वप्तव्यं वृक्षमूले [ऽपि] नवेनाभ्यवकाशके

3.6.7

अन्तर्वर्षासु नोपस्थाप्यो ऽन्यः सब्रह्मचारिकः ।
यतिना [स्व] विहारे[तु] यथावृद्धिकया यतिः

3.6.8

संस्कारपरिभोगार्थं परिपालनार्थमेव च ।
उद्दिश्यते [यतिभ्यो वै] सांघिकं शयनासनं

3.6.9

हीनमध्योत्तमं [स्थाप्यं भिक्षुभ्यो] लयनत्रयं ।
वृद्धाद्यागन्तुकेभ्यस्तदुद्दिशेद्दहरक्रमात्

3.6.10

शयनासनमत्युच्चं प्रतिषिद्धं यतेर्हि तत् ।
मदौद्धत्यकरं यस्माद् लोकावध्यानकारणं

मूल पाठ: Śrīghanācārasaṃgraha · Edition: the reconstruction by Sanghasena Singh from Jayaraksita's Srighanacarasamgrahatika (see separate file) [cf. Sanghasena Singh: "On the restauration of the Śrighanācārasaṃgraha", in: Philosophy, Grammar and Indology, Essays in Honour of Professor Gustav Roth, ed. H.S. Prasad, Delhi 1992, pp. 283-301] · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc