स्फुटार्था अभिधर्मकोशव्याख्या · भाग 2140
(इइ.25) इमे किलेति. किलशब्दः परमतद्योतने. स्वमतं तु छन्दादयः सर्वचेतसि न भवन्ति. तथा ह्य् अनेनैवाचार्येण पंचस्कन्धके लिखितं. छन्दः कतमः. अभिप्रेते वस्तुनि अभिलाषः. अधिमोक्षः कतमः. निश्चिते वस्तुनि तथैवावधारणम् इत्यादि. चेतना चित्ताभिसंस्कार इति. चित्तप्रस्पन्दः प्रस्पन्द [तिब्. 116अ] इव प्रस्पन्द इत्य् अर्थः. विषयनिमित्तग्राह इति. विषयविशेषरूपग्राह इत्य् अर्थः. स्पर्श इन्द्रियविषयविज्ञानसंनिपातजा स्पृष्टिर् इति. इन्द्रियविषयविज्ञानानां संनिपाताज् जाता स्पृष्टिः. स्पृष्टिर् इव स्पृस्टिः. यद्योगाद् इन्द्रियविषयविषयविज्ञानान्य् अन्योन्यं स्पृशन्तीव स स्पर्शः. धर्मप्रविचय इति. प्रविचिनोतीति प्रविचयः. प्रविचीयन्ते वा अनेन धर्मा इति प्रविचयः. येन संकीर्णा इव धर्माः पुष्पाणीव प्रविचीयन्ते उच्चीयन्त इत्य् अर्थः. इमे सास्रवा इमे ऽनास्रवाः. इमे रूपिणः इमे ऽरूपिण इति. धर्माणां प्रविचयः धर्मप्रविचयः. प्रतीतत्वात् प्रज्ञेति वक्तव्ये श्लोकबन्धानुगुण्येन मतिर् इति कारिकायाम् उक्तं. स्मृतिर् आलम्बनसंप्रमोष इति. यद्योगाद् आलम्बनं न मनो विस्मरति. तच् चाभिलपतीव. सा स्मृतिः. मनस्कारश् ( अभिध्-क्-व्य् 128 ) चेतस आभोग इति. आलम्बने चेतस आवर्जनम्. अवधारणम् इत्य् अर्थः. मनसः कारो मनस्कारः. मनो वा करोति आवर्जयतीति मनस्कारः. अधिमुक्तिस् तदालम्बनस्य गुणतो ऽवधारणम्. रुचिर् इत्य् अन्ये. यथानिश्चयं धारणेति योगाचारचित्ताः. समाधिश् चित्तस्यैकग्रतेति. अग्रम् आलम्बनम् इत्य् [तिब्. 116ब्] एको ऽर्थः. यद्योगाच् चित्तं प्रबन्धेन एकत्रालम्बने वर्तते. स समाधिः. यदि समाधिः सर्वचेतसि भवति. किम् अर्थं ध्यानेषु यत्नः क्रियते. बलवत्समाधिनिष्पादनार्थं.
कथम् एकस्मिंश् चित्ते दशानां भिन्नलक्षणानां चैत्तानाम् अस्तित्वं गम्यत इति अत आह. सूक्ष्मो हि चित्तचैत्तानां विशेष इति विस्तरः. स एष विशेषः चित्तचैत्तानां दुर्लक्ष्यः प्रबन्धेष्व् अपि तावत् किं पुनः क्षणेषु कालपर्यन्तलक्षणेषु. रूपिणीनाम् अपि ओषधीनां मूर्तानाम् अपि कासांचित् हरीतकीप्रभृतीनां बहुरसानां षड्रसानाम् इन्द्रियग्राह्या जिह्वेन्द्रियग्राह्याः दुरवधारा दुःपरिच्छेदा भवन्ति. किं पुनः ये धर्मा अमूर्ता बुद्धिग्राह्या मनोविज्ञानमात्रग्राह्याः. तस्माद् आप्तोपदिष्टा इति कृत्वा तथैव ते प्रतिपत्तव्या इत्य् अभिप्रायः.
(इइ.26) श्रद्धा चेतसः प्रसाद इति. क्लेशोपक्लेशकलुषितं चेतः श्रद्धायोगात् प्रसीदति. उदकप्रसादकमणियोगाद् इवोदकं. सत्यरत्नकर्मफलाभिसंप्रत्यय इत्य् अपरे इति. आकारेण श्रद्धानिर्देशः. सत्येषु चतुर्षु रत्नेषु च त्रिषु कर्मसु च शुभाशुभेषु तत्फलेषु च इष्टानिष्टेषु संत्य् एवैतानीत्य् अभिसंप्रत्ययो ऽभिसंप्रतिपत्तिः श्रद्धेति. अप्रमादः कुशलानां धर्माणां भावनेति. भावना नाम कुशलानां [तिब्. 117अ] प्रतिलम्भनिषेवणस्वभावा.
प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने
इति वचनात् सा कथम् अप्रमादो नाम चैतसिको भविष्यति. यस्मिन् सति सा प्रतिलम्भनिषेवणभावना भवति. सो ऽप्रमादः तात्पर्यलक्षणः. अत आह. या तेषु अवहिततेति. तद् एवं सति भावनाहेताव् अयं भावनोपचारः कृत इति. चेतस आरक्षेति. यः सांक्लेशिकेभ्यश् चित्तम् आरक्षते. सो ऽप्रमाद इति. चित्तकर्मण्यतेति. यद्योगाच् चित्तं कर्मण्यं भवति. सा चित्तकर्मण्यता चित्तलाघवम् इत्य् अर्थः. ननु च सूत्रे कायप्रश्रब्धिर् अप्य् उक्तेति. कश् च पर्यायो यत् प्रश्रब्धिसंबोध्यंगद्वयं भवति. अस्ति कायप्रश्रब्धिर् अस्ति चित्तप्रश्रब्धिः. तत्र यापि कायप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संभोधये निर्वाणाय संवर्तते. यापि चित्तप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तत ( अभिध्-क्-व्य् 129 ) इति. कथम् इयम् एकैवोच्यते. प्रश्रब्धिश् चित्तकर्मण्यतेति. सा तु यथा कायिकी वेदनेति. यथा चेतस्य् अपि वेदना परमाणुसंचयात्मकेन्द्रियाश्रयत्वात् कायिकीत्य् उच्यते तथेयम् अपि प्रश्रब्धिर् अवगन्तव्या. कथं सा बोध्यंगेषु योक्ष्यत इति असमाहितत्वात् पंचानां विज्ञानकायानां पृच्छति. तत्र तर्हीति विस्तरः. [तिब्. 117ब्] तत्र सूत्रे कायवैशारद्यम् एव कायकर्मण्यता भूतविशेषलक्षणा प्रीत्यध्याकृता. प्रीतमनसः कारः प्रश्रभ्यत इति वचनात्. कथं सा बोध्यंगम् इति. पृथक्कलापत्वात् सास्रवत्वाच् च न युज्यत इत्य् अभिप्रायः. प्रीतिः प्रीतिस्थानीयाश् च धर्माः प्रीतिसंबोध्यंगम् इति विस्तरः. तीर्थिकाः किल भगवच्छ्रावकान् एवम् आहुः. श्रमणो भवन्तो गौतम एवम् आह. एवं यूयं भिक्षवः पंच निवरणानि प्रहाय चेतस उपक्लेशकराणि प्रज्ञादौर्बल्यकराणि सप्त बोध्यंगानि भावयतेति. वयम् अप्य् एवं ब्रूमः. तत्रास्माकम् श्रमणस्य च गौतमस्य को विशेषो धर्मदेशनायाः. तेभ्यो भगवता एतद् उपदिष्टं. पंच सन्ति दश भवन्ति. दश सन्ति पंच व्यवस्थाप्यन्ते. प्रतिघः प्रतिघनिमित्तं च नवाघातवस्तूनि व्यापादनिवरणम् उक्तं भगवता. तदानुकूल्यात्. तथा सप्त सन्ति चतुर्दश भवन्ति. चतुर्दश सन्ति सप्त व्यवस्थाप्यन्ते. प्रीतिः प्रीतिनिमित्तं चेत्य् अनेन भेदेन. तदानुकूल्याद् इति. न च संकल्पव्यायामौ प्रज्ञास्वभावाव् इति. तयोर् यथाक्रमं वितर्कवीर्यस्वभावत्वात्. न तौ प्रज्ञास्वभावौ. यदा च त्रिस्कन्धो मार्गः क्रियते शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्ध इति. तत्र प्रज्ञास्कन्धनिर्देश उक्तं. प्रज्ञास्कन्धः कतमः. सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायाम इति. उपेक्षा [तिब्. 118अ] चित्तसमतेति. यद्योगाच् चित्तं समम् अनाभोगे वर्तते. सोपेक्षा संस्कारोपेक्षा नाम. त्रिविधा हि उपेक्षा. वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति.
ननु चोक्तं दुर्ज्ञान एषां विशेष इति. सूक्ष्मो हि चित्तचैत्तानां विशेषः. स एष दुःपरिच्छेदः प्रवाहेष्व् अपि तावद् इत्यादि वचनात्. दुःखेन ज्ञायते दुर्ज्ञानः. अस्ति हि नाम दुर्ज्ञानम् अपि ज्ञायते. यद् अविरुद्धं एकस्मिंश् चित्तक्षणे धर्मान्तरेण स्पर्शादिना. इदं तु खलु अतिदुर्ज्ञानं यद् विरोधे ऽप्य् अविरोध इति. आभोगनाभोगयोर् एकस्मिंश् चित्तक्षणे अविरोधो व्यवस्थाप्यत इति वाक्यशेषः. न हि विरुद्धयोः सुखदुःखयोर् एकस्मिंश् चित्तक्षणे भावो दृष्ट इति. अन्यत्राभोग इति. अन्यत्रालम्बने आभोगो ऽन्यत्रानाभोग इत्य् अविरोधः. एवंजातीयकम् अत्रान्यद् अप्य् आयास्यतीति. विरोधजातीयं यथा वितर्कविचारौ. तयोर् हि लक्षणं चित्तौदारिकता वितर्कः. चित्तसूक्ष्मता विचार इति.
वितर्कविचारौदार्यसूक्ष्मते
इति वचनात्. तयोस् तु एकत्र चित्ते विरोध इति वक्ष्यते. यस् तस्य नयः. सो ऽस्यपीति. पर्यायेणानयोर् वृत्तिर् इत्य् अभिप्रायः. ह्रीर् अपत्राप्यं च पश्चाद् वक्ष्यते इति.
अह्रीर् अगुरुतावद्ये भयदर्शित्वम् अत्रपेत्य्
अत्र विपर्ययग्रहणात्. स तु प्रज्ञात्मक इति. स त्व् अमोहः प्रज्ञास्वभावः. प्रज्ञा च [तिब्. 118ब्] महाभूमिकेति.
मतिः स्मृतिर्
इति वचनात्. नासौ कुशलमहाभूमिक एवोच्यते. किं तर्हि. अकुशलादिभूमिको ऽपीति. अविहेठनेति. यद्योगात् परो न विहेठ्यते. साविहिंसा विहिंसाप्रतिपक्षः चैतसिकः. चेतसो ऽभ्युत्साह इति. कुशलक्रियायां यश् चेतसो ऽभ्युत्साहः. तद् वीर्यं. यस् त्व् अकुशलादिक्रियायां चेतसो ऽभ्युत्साहः. नैतद् वीर्यं. कौसीद्यम् एव तत्. प्रवचने पठ्यते. सीदनात्मकत्वात्. तथा ह्य् उक्तं भगवता. इतो बाह्यकानां यद् वीर्यं कौसीद्यम् एव तद् इति.
(इइ.27अब्) मोहो नामाविद्येति.
विद्याविपक्षो धर्मो ऽन्यो ऽविद्येति.
पश्चाद् व्याख्यायते. भावनाविपक्षो धर्म इति. भावनाया अभावमात्रप्रतिपत्तिर् मा भूद् इति भावनाविपक्ष इत्य् आह. एवं कौशीद्यादिष्व् अपि व्याख्येयं. कायगुरुताचित्तगुरुतेति. प्रश्रब्धिप्रतिपक्षो धर्मः. यथा कायिकी वेदनेति. यथा वेदना रूपीन्द्रियाश्रयत्वात् चैतसिक्य् अपि कायिकीति व्याख्याता. तथा कायिकं स्त्यानं. पंचविज्ञानकायसंप्रयुक्तं स्त्यानं कायिकम् इत्य् उच्यते. औद्धत्यं चेतसो ऽव्युपशम इति. नृत्यगीतादिशृंगारवेषालंकारकाद्यौद्धत्यसंनिश्रयदानकर्मकश् चैतसिको धर्मः.
न चात्र स्त्यानं पठ्यते इत्य् अभिधर्मे. प्राप्तिज्ञो देवानां प्रियो न त्व् इष्टिज्ञ [तिब्. 119अ] इति. पाठप्रामाण्यमात्रेण दश क्लेशमहाभूमिकाः प्राप्ता इत्य् एताम् एव प्राप्तिं जानीते देवानां प्रियो न त्व् आचार्याणाम् इष्टिम् इच्छां जानीते. को ऽयं देवानां प्रियो नाम. र्जुकजातीयो देवानां प्रिय इत्य् एके व्याचक्षते. अशठो हि देवानां प्रियो भवति. मूर्खो देवानां प्रिय इत्य् अपरे.
यो हीश्वराणाम् इष्टः स न ताडनेन शिक्षत
इति मूर्खो भवतीति. यथैवामोह इति. यथैवमोहः कुशलमूलं प्रज्ञास्वभावत्वान् महाभूमिक इति व्यवस्थापितो न कुशलमहाभूमिक एवेत्य् अवधार्यते. ततश् च कुशलमहाभूमिकेषु न पठितः. तथा मुषितस्मृत्यादयो ( अभिध्-क्-व्य् 131 ) ऽपि पंच महाभूमिकत्वात् न क्लेशमहाभूमिका एवेत्य् अवधार्यन्ते. ततश् च इमे न क्लेशमहाभूमिकमध्ये पठ्यन्ते. कथम् इत्य् आह. स्मृतिर् एव हि क्लिष्टा मुषितस्मृतिता. समाधिर् एव क्लिष्टो विक्षेप इत्य् एवमादीति. आदिशब्देन प्रज्ञैव क्लिष्टा असंप्रजन्यं. मनस्कार एव क्लिष्टो ऽयोनिशोमनस्कारः. अधिमुक्तिर् एव क्लिष्टा मिथ्याधिमोक्ष इति दर्शयति.
अत एवोच्यत इति विस्तरः. यत एवं स्मृत्यादयो मुषितस्मृतितादयो व्यवस्थाप्यन्ते. नैतद्व्यतिरिक्ता. अत एवोच्यते चतुष्कोटिक इति. ये महाभूमिकाः क्लेशमहाभूमिका अपि त इति काक्वापृच्छति. चतुष्कोटिकाः. स्युर् महाभूमिकाः न क्लेशमहाभूमिकाः. [तिब्. 119ब्] स्युः क्लेशमहाभूमिका न महाभूमिकाः. स्युर् महाभूमिकाश् च क्लेशमहाभूमिकाश् च. स्युर् नैव महाभूमिका न क्लेशमहाभूमिकाः. तृतीया स्मृत्यादय इति. ये मुषितस्मृत्यादयः पंच यथोक्ताः. एते हि महाभूमिकाः क्लेशमहाभूमिकाश् च. चतुर्थी एतान् आकारां स्थापयित्वेति. उक्तनिर्मुक्ता धर्माः कुशलमहाभूमिकादयश् चैतसिका रूपादयश् चान्य इति. तेषाम् अन्यथा चतुष्कोटिक इति. द्वितीयायां कोट्यां विक्षेपः प्रक्षेप्तव्यः. न तु तृतीयायाम्. अत एवं वक्तव्यं. प्रथमा कोटिः पूर्ववत्. द्वितीया आश्रद्ध्यं कौसीद्यं अविद्या औद्धत्यं प्रमादो विक्षेपश् च. तृतीया स्मृत्यादयश् चत्वारः. मुषितास्मृत्यसंप्रजन्यायोनिशोमनस्कारमिथ्याधिमोक्षा इत्य् अर्थः. चतुर्थी पूर्ववत्. यत् तूक्तं न चात्र स्त्यानं पठ्यत इति. तान् प्रतिब्रवीति. स्त्यानं पुनर् इष्यत इति विस्तरः. तस्यापाठे कस्यापराध इति. किम् अस्य स्त्यानस्य अपाठे ममापराधः. किम् आभिधार्मिकस्येति. अभिधर्मकारस्यायम् अपराधो न ममेत्य् अभिप्रायः. स्त्यानस्य सर्वक्लेशसंयोगित्वेनाभिमतत्वात्. एवं त्व् आहुर् इति. तत्र शास्त्रे स्त्यानस्यापाठे कारणम् आहुर् आभिधार्मिकाः. क्षिप्रतरं किलेति. [तिब्. 120अ] किलशब्दो ऽसंभावनायां. कथं हि नाम क्लिष्टो धर्मः शुक्लस्य समाधेर् अनुगुणो भविष्यति. लयौद्धत्ये हि समाधिपरिपंथिनी. तत् कथं परिपंथ्य् एवानुगुणे. न ह्य् एते जातु सहचरिष्णुतां जहीत इति. न ह्य् एते स्त्यानौद्धत्ये कदाचित् सहचरधर्मतां त्यजत इत्य् अर्थः. तथापि यद् यस्याधिमात्रम् इति. एवम् अपि च स्त्यानम् औद्धत्यं वा यस्य पुद्गलस्याधिमात्रं. स पुद्गलस् तच्चरितः स्त्यानचरित औद्धत्यचारितो वावगन्तव्यः. क्वचिद् धि कलापे कश्चिद् धर्म उद्भूतो भवतीति. नान्यत्रेति कुशलादिषु.
(इइ.27च्द्) अकुशले त्व् आह्रीक्यम् अनपत्रपे ति.
तुशब्दो विशेषणे अवधारणे वा. अकुशल एवेति.
(इइ.28) परीत्तक्लेशभूमिका
इति. परीत्तो ऽल्पकः. को ऽसौ. अविद्यामात्रं. अविद्यैव केवलेत्य् अर्थः. तेनाविद्यामात्रेणेति. नान्येन रागादिना क्लेशेन. भावनाहेयेनेति. न दर्शनहेयेन. मनोभूमिकेनैवेति. न पंचविज्ञानकायिकेन. यस्माद् इमे क्रोधादय उपक्लेशा मनोभूमिका एव भवन्ति. अतो मनःसंप्रयोगात् परीत्तक्लेशभूमिका उच्यन्ते. रागादिकलापे ह्य् अवश्यम् अविद्यया भवितव्यम् इति न परीत्तो रागादिकः. तद् एवं ये सर्वत्र चैतसिके. ते महाभूमिका. ये कुशल एव. ते कुशलमहाभूमिकाः. [तिब्. 120ब्] ये क्लिष्टे निवृते चाकुशले च. ते क्लेशमहाभूमिकाः. यो त्व् अकुशल एव. ते ऽकुशलमहाभूमिकाः. ये परीत्तक्लेशसंप्रयुक्ते चेतसि. ते परीत्तक्लेशभूमिकाः. एषां तु निर्देश उपक्लेशेषु करिष्यत इति. अनुशयनिर्देशे.
(इइ.29-31) अन्ये ऽपि चानियता इति. ये कदाचित् कुशले कदाचिद् अकुशले कदाचिद् अव्याकृते चेतसि भवंति. मिद्धादय इति. आदिशब्देनारतिविजृंभिकातन्द्रीभक्ते ऽसमतादय उपक्लेशाः क्लेशाश् च रागादायो ऽप्य् अनियतत्वेन गृह्यन्ते. न ह्य् एते रागादयः पंचानां प्रकाराणाम् अन्यतमस्मिं नियता भवन्ति. न महाभूमिकास् सर्वत्र चेतस्य् अभावात्. न कुशलमहाभूमिकाः कुशलत्वयोगात्. न क्लेशमहाभूमिकाः सर्वत्र क्लिष्टे तदभावात्. न हि सप्रतिघे चेतसि रागो भवति सरागे च चेतसि प्रतिघः. इति एवम् अन्ये ऽपि क्लेशा वक्तव्याः. अत्राचार्यवसुमित्रः संग्रहश्लोकम् आह.
वितर्कचारकौकृत्यमिद्धप्रतिघसक्तयः
मानश् च विचिकित्सा चेत्य् अष्टाव् अनियताः स्मृता
इति. तद् इदम् अष्टनियमवचनं न बुध्यामहे. दृष्टयो ऽपि कस्मान् नानियता इष्यन्ते. न हि सप्रतिघे सविचिकित्से वा चित्ते मिथ्यादृष्टिः प्रवर्तते.
आवेणिकत्वे ऽकुशले दृष्टियुक्ते च [तिब्. 121अ] विंशतिः
क्लेशैश् चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिर्
इति वचनात्. तस्माद् यद्वा तत् वेदम् उक्तम् इति पश्यामः.
कामावचरं तावत् पंचविधम् इति. कुशलम् एकं. अकुशलं द्विविधम्. आवेणिकम् अविद्यामात्रसंप्रयुक्तं रागाद्यन्यक्लेशसंप्रयुक्तं च. अव्याकृतम् अपि द्विविधं. निवृताव्याकृतं सत्कायान्तग्राहदृष्टिसंप्रयुक्तं. अनिवृताव्याकृतं च विपाकजादीनि. कुकृतभावः कौकृत्यम् इति. अर्थस्य कुकृतस्य धर्मः. स तु चैतसिक इति न संबध्यते. तस्माद् आह. इह तु ( अभिध्-क्-व्य् 133 ) पुनः कौकृत्यालम्बनो धर्म इति. किंस्वभाव इत्य् आह. चेतसो विप्रतिसार इति. यदि कौकृत्यालम्बनो धर्मः कौकृत्यम् उच्यते. तत्संप्रयुक्ता अप्य् अन्ये चित्तचैत्ताः कौकृत्यं प्राप्नुवन्ति. न प्राप्नुवन्ति. तेषाम् अप्राधान्यात्. विप्रतिसारावस्थायां हि कौकृत्य्लक्षणं चैतसिकं कौकृत्याकारम् उद्भूतवृत्तिकम्. अन्ये चित्तचैत्तास् तदाकारेणानुवर्तंते. कस्यचिद् एव हि धर्मस्य कस्मिंश्चिच् चित्तकलापे प्राधान्यम् इति वर्णयंति. शून्यतालम्बनविमोक्षमुखं शून्यतेति. स्कन्धानाम् अन्तर्व्यापारपुरुषरहितालम्बनं विमोक्षमुखं समाधिविशेषः शून्यतेत्य् उच्यते. विनीलकव्याध्मातकाद्यशुभालम्बनः अलोभः अशुभेत्य् उच्यते. भावनासंबद्धत्वात् स्त्रीलिंगनिर्देशः. अशुभा भावनेति. तथेहापि कौकृत्यालम्बनश् चैतसिको धर्मः कौकृत्यम् इति. [तिब्. 121ब्] स्थानेन स्थानिनाम् अतिदेशः. सर्वो ग्राम आगत इति. सभूमिकः शालासमुदायो ग्रामः. स्थानिषु मनुष्येष्व् आगतेषु वक्तारो भवंति सर्वो ग्राम आगत इति. एवं सर्वो देश आगत इति. स्थानभूतं च कौकृत्यं विप्रतिसारस्येति. विप्रतिसारालम्बनत्वात्. तस्माद् युक्तस् तथानिर्देशः. फले वा हेतूपचार इति. हेतुः कौकृत्यं. फलं विप्रतिसारः. तस्मिं फले हेतुर् उपचर्यते. हेतुवाचकेन शब्देन फलम् उच्यत इत्य् अर्थः. यथा षड् इमानि स्पर्शायतनानि पौराणं कर्मेति. पूर्वजन्मकृतस्य पौराणस्य कर्मणश् चक्षुरादीनि षट् स्पर्शायतनानि फलानि. तेषु यथा कर्मोपचर्यते. तद्वत्. यत् तर्ह्य् अकृतालम्बनं तत् कथं कौकृत्यम् इति. यद् अकृतं. तन् न कृतम् इति मत्वा चोदयति. अकृते ऽपि कृताख्या भवतीति. अकृते ऽप्य् अर्थे कृतशब्दप्रयोगो भवति. कथम् इत्य् आह. न साधु मया कृतम् यत्. तन् न कृतम् इति. कृतम् इव तद् इति कृत्वा. यत् कुशलम् अकृत्वा तप्यत इति. यत् कुशलं दानादिकं अकृत्वा तप्यते पश्चात् तापीभवति. तत् कुशलं. अकुशलं च कृत्वा किं. तप्यत इति अधिकृतं. यच् चाकुशलं प्राणातिपातादिकं कृत्वा तप्यते. तद् अपि कुशलं. विपर्ययाद् अकुशलं. यद् अकुशलम् अकृत्वा तप्यते कुशलं च कृत्वेति. यत् पापम् अकृत्वा पश्चात् तापीभवति न साधु मया कृतं यत्. [तिब्. 122अ] तन् न कृतम् इति. तद् अकुशलं कौकृत्यं. यच् च कुशलं दानादिकं कृत्वा पश्चात् तापीभवति न साधु मया कृतं यद् दानादिकं कृतम् इति. तद् अप्य् अकुशलं. तद् एतद् उभयम् अप्य् उभयाधिष्ठानं भवतीति. तद् एतत् कौकृत्यम् उभयम् अपि कुशलं चाकुशलं च उभयाधिष्ठानं भवति यथोक्तेन विधानेन.
आवेणिक
इति. रागादिपृथग्भूत इत्य् अर्थः.
दृष्टियुक्ते चेति.
चशब्दः अकुशल इत्य् अनुकर्षणार्थः. महाभूमिक एव कश्चित् प्रज्ञाविशेषो दृष्टिर् इति. संतीरिका या प्रज्ञा. सा दृष्टिः. सा चेहाकुशला गृह्यते. तस्माद् आह. मिथ्यादृष्टिश् चेत्यादि
कौकृत्येनैकविंशतिर्
इति कौकृत्येन चेति. लुप्तनिदृष्टश् चकारो द्रष्टव्यः. क्लेशैश् चतुर्भिर् इत्यादिषु प्रत्येकं वाक्यपरिसमाप्तिर् वेदितव्या. न हि रागादयः परस्परेण संप्रयुज्यन्त इत्य् आभिधार्मिकाः. स च क्लेश आवेणिकोक्ताश् च विंशतिर् इति. दश महाभूमिकाः षट् क्लेशमहाभूमिकाः द्वाव् अकुशलमहाभूमिकौ वितर्को विचारश् चेति विंशतिः. स च क्लेशो रागः प्रतिघो मानो विचिकित्सा चेत्य् एकविंशतिः. एकविंशतिर् भवत्य् एवेति क्रियावधारणम् अवगन्तव्यं. क्रोधादिभिर् अपीति.
क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सरा
मायामदविहिंसाश् चेति
[तिब्. 122ब्] एभिर् अपि संप्रयुक्ते चित्ते एकविंशतिर् एव चैतसिकाः. ते चावेणिकोक्ताः पूर्ववत्. स चोपक्लेशः क्रोधो वा यावद् विहिंसा वेति. कौकृत्येन च संप्रयुक्ते ते च पूर्वोक्ताः तच् च कौकृत्यं इत्य् एकविंशतिः. कौकृत्यम् अपि ह्य् उपक्लेशः. स्वतंत्रम् इष्यते. समासत आवेणिक इत्य् विस्तरः. अविद्यामात्रसंप्रयुक्ते चेतसि अकुशले दृष्टिसंप्रयुक्ते चाकुशले विंशतिः. अन्यक्लेशोपक्लेशसंप्रयुक्ते त्व् अकुशल एवैकविंशतिः.
निवृताव्याकृतम् इति. क्लेशाच्छादितं कुशलाकुशलत्वेन अव्याकृतं यत्. तन् निवृताव्याकृतम्. अनाच्छादितं त्व् अनिवृताव्याकृतं विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावं. बहिर्देशका अव्याकृतम् अपि कौकृत्यम् इच्छन्तीति. कश्मीरमण्डलाद् ये बहिर्देशस्थिताः. ते बहिर्देशकाः. त्रयोदशेति क्वचिद् अनिवृताव्याकृते कौकृत्यं त्रयोदशमम् अधिकं प्रक्षिप्य. मिद्धं प्रचलायमानावस्थायां स्वप्नदर्शनावस्थायां वा कुशलाकुशलाव्याकृतत्वाद् इति. शास्त्रे वचनात्. कथं मिद्धं कुशलं वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं वक्तव्यम् इति. आह. कुशलं वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं वक्तव्यम् इति. यत्र [तिब्. 123अ] द्वाविंशतिः. तत्र त्रयोविंशतिर् इति विस्तरः. यत्र द्वाविंशतिश् चैतसिका इत्य् उक्तं. तत्र तन् मिद्धं त्रयोविंशं. त्रयोविंशतेः पूरणम् इत्य् अर्थः. यत्र त्रयोविंशतिः कौकृत्यम् अधिकं क्वचिद् इति. तत्र तन् मिद्धं चतुर्विंशम्. एवं यावद् अन्यत्र द्वादशव्याकृते मता मिद्धं ( अभिध्-क्-व्य् 135 ) त्रयोदशं वक्तव्यं. बहिर्देशकमतेन तु कौतृत्याधिके चतुर्दशं मिद्धं भवतीति योज्यं.
(इइ.32) अतो यथोक्ताद् इति. अतो यथावर्णिताच् चैत्तसहोत्पादनियमात्. कौकृत्यं मिद्धं च सर्वथा नास्तीति. न कुशलं नाप्य् अव्याकृतं कुत एवाकुशलम् इति. सर्वथा मिद्धं कौकृत्यं च नास्ति. शाठ्यमदमाया वर्ज्या इति.
माया शाठ्यं च कामाद्यध्यानयोर् ब्रह्मवञ्चनात्.
स्त्यानौद्धत्यमदा धातुत्रय
इति वचनात्. एतानि वर्ज्यन्ते तेषां तत्र सद्भावात्. अन्यत् सर्वं तथैवेति. कुशले चित्ते पूर्ववत् द्वाविंशतिः. आवेणिके दृष्टियुक्ते च निवृताव्याकृते ऽष्टादश कामधातुवत्. रागमानविचिकित्सान्यक्लेशसंप्रयुक्ते मायाशाठ्यमदोपक्लेशसंप्रयुक्ते च एकान्नविंशतिः. ते च स च क्लेश उपक्लेशो वा तत्रैकान्नविंशो भवति. अनिवृताव्याकृते विपाकजैर्यापथिकनैर्माणिके पूर्ववत् द्वादश.
ध्यानान्तरे वितर्कश् चेति.
कौकृत्यमिद्धाकुशलानि चेति चशब्दः. किं. न सन्तीत्य् [तिब्. 123ब्] अधिकृतं. शेषं तथैव वितर्कन्यूनं. यथाप्रतिसिद्धं नास्तीति. कौकृत्यमिद्धाकुशलवितर्का न सन्तीत्य् अर्थः. विचारश् च मायाशाठ्यं चेत्य् अपिशब्दाद् इति. विचारश् चेति एतावति वक्तव्ये विचारश् चपीत्य् अपिशब्दाधिक्याद् अर्थाधिक्यम् इति. मायाशाठ्यम् अपि तत्र नास्तीत्य् अयम् अपरार्थो लभ्यते. मदस् तु नापास्यते.
स्त्यानौद्धत्यमदा धातुत्रय
इति वचनसामर्थ्यात्. शेषं तथैवेति. कुशले वितर्कविचारनिर्मुक्ता विंशतिः. आवेणिके दृष्टियुक्ते षोडश. रागादिक्लेशसंप्रयुक्ते, मदोपक्लेशसंप्रयुक्ते च सप्तदश. दश महाभूमिकाः षट् क्लेशमहाभूमिकाः. स च क्लेशः स वोपक्लेशः. अनिवृताव्याकृते दश महाभूमिका एवेति गमनीयं. ब्रह्मणो हि यावच् छाठ्यम् इति विस्तरः. तत्र शाठ्यपूर्वकत्वान् मायापि गृहीता भवति. पर्षत्सम्बन्धान् नोर्ध्वम् इति. येषां पर्षद् अस्ति. तेषां पर्षद्ग्रहणार्थं मायाशाठ्यं प्रवर्तते. अष्टौ पर्षदः पठ्यन्ते. क्षत्रियपर्षत् ब्राह्मणपर्षत् गृहपतिपर्षत् श्रमणपर्षत् चातुर्महाराजिकपर्षत् त्रयस्त्रिंशत्पर्षत् मारपर्षत् ब्रह्मपर्षत्. तासाम् अन्यतमो ऽपि ऊर्ध्वम् अतो नास्तीति मायाशाठ्यभावः. ब्रह्मणस् तु पर्षद् अस्ति. तस्माद् आह. स हि स्वस्यां पर्षदि निषण्णो ऽश्वजिता भिक्षुणा ब्रह्मलोकगतेन प्रश्नं ( अभिध्-क्-व्य् 136 ) पृष्टः. कुत्रेमानि चत्वारि महाभूतानि अपरिशेषं [तिब्. 124अ] निरुध्यन्त इति. अप्रजानन्न् आरूप्यधातौ चत्वारि महाभूतानि अशेषं निरुध्यन्त इत्य् अनवबुध्यमानः क्षेपं कथाप्रकरणम् अकार्षीत्. अहम् अस्मि ब्रह्मेति विस्तरः. ब्रह्मेत्य् उक्त्वा महाब्रह्मेति वचनं ब्रह्मान्तरेभ्य आत्मनो विशिष्टत्वप्रदर्शनार्थं. ईश्वर ईशनशीलः. कर्ता निर्माता स्रष्टा सृज इति पर्याया उत्तरोत्तरव्याख्यायोगो वा. पितेव पितृभूतः. केषां. भावानां.
(इइ.33) उक्तम् एतद् इति विस्तरः. या भूमिर् यच् चित्तं यावन्तश् च चैत्ताः. सा भूमिस् तच् चित्तं तावन्तश् च चैत्ता इत्य् उक्तम् एतत्. तत्र विहितम् इति शास्त्रे विहितं. तत्र विहितम् इति केचित् पठंति. स एव चात्रार्थः. गुणेषु गुणवत्सु चेति. स्वपरसांतानिकेषु मैत्रीकरुणादिषु गुणेषु. गुणवत्सु च पुद्गलेषु आचारगोचरगौरवादिसंपन्नेषु. यद्योगाद् गौरवं न करोति. असाव् अगौरवता. नास्ति गौरवम् अस्येत्य् अगौरवः. तद्भावः अगौरवता चैतसिकविशेषः. को ऽसाव् इति. पर्यायाव् आहुः. अप्रतीशता अभयवशवर्तितेति. शिष्यं प्रति इष्ट इति प्रतीशः. गुरुस्थानीयः. नास्ति प्रतीशो ऽस्येति अप्रतीशः. तद्भावः अप्रतीशता. भावाभिधानेन चैत्तो गृह्यते. भयं नाम मानसश् चैत्तो धर्मः. भयेन वशे वर्तितुं शीलम् अस्येति भयवशवर्ती. न भयवशवर्ती [तिब्. 124ब्] अभयवशवर्ती तद्भावो ऽभयवशवर्तिता. तद् एव चाह्रीक्यं. नास्ति ह्रीर् अस्येत्य् अह्रीकः. तद्भाव आह्रीक्यं. स च गौरवप्रतिद्वंद्वो धर्मः. न तदभावमात्रं.
अवद्ये भयादर्शित्वम् अत्रपेति.
अवाच्यम् अवद्यम्. अतश् चाह. अवद्यं नाम यद् गर्हितं सद्भिर् इति. तत्राभयदर्शिता अनपत्राप्यम् इति. अवद्ये ऽनिष्टफलादर्शितेत्य् अर्थः. भीयते ऽस्माद् इत्य् अत्र भयशब्दो ऽपादानसाधनः. तस्माद् भयशब्देन अनिष्टं फलम् उच्यते. अभयस्य दर्शनं अभयदर्शितेति विस्तरः. यदि तावद् एवं क्रियेत न भयम् अभयं. अभयं द्रष्टुं शीलम् अस्येति अभद्यदर्शी. तद्भावो ऽभयदर्शितेति. प्रज्ञा विज्ञास्यते. प्रज्ञया हि अभयं पश्यति. अथ पुनर् एवं क्रियते भयं द्रष्टुं शीलम् अस्येति भयदर्शी. न भयदर्शी अभयदर्शी. तद्भावो ऽभयदर्शिता. अभयदर्शितेति अविद्या विज्ञास्यते. तथा ह्य् अविद्यायोगाद् भयं न पश्यति. नैव हि दर्शनं दर्शितेति विस्तरः. न प्रज्ञा नाप्य् अविद्या. किं तर्हि. तयोः प्रज्ञाविद्ययोर् यो निमित्तं उपक्लेशः. ( अभिध्-क्-व्य् 137 ) तद् अभयदर्शनं. तच् चानपत्राप्यम् [तिब्. 125अ] इति. अपत्रपते ऽनेनेत्य् अपत्राप्यं. कृत्यल्युटो बहुलम् इति करणे ण्यत्प्रत्ययः. न अपत्राप्यं अनपत्राप्यम् इति. हृई लज्जायां त्रपूष् लज्जायाम् इत्य् एकार्थयोर् अनयोर् धात्वोः कथम् अर्थांतरे वाचकत्वम् इति अपरितुष्यंतो ऽन्ये पुनर् आहुः. आत्मापेक्षयेति विस्तरः. एवम् अपि द्वे अपेक्षे युगपत् कथं सेत्स्यत इति. अस्मिन्न् अपि पक्षे युगपदपेक्षाद्वयासंभव इति पश्यंश् चोदक अह. एवम् अपीति. अपिशब्देन अयम् अपि पक्षो दुष्यतीत्य् अभिप्रायः. आह्रीक्यम् अनपत्राप्यं चैकस्मिंश् चित्ते कथं भवत इति मत्वा चोदयति. द्वे अपेक्षे युगपत् कथं सेत्स्यत इति. न खलूच्यते युगपद् आत्मानं परं चापेक्षत इति विस्तरः. पर्यायेन वृत्तिम् अनयोर् दर्शयति. कस्यचिद् धि दोषैर् आत्मानम् अपेक्षमाणस्यापि न प्रवर्तते लज्जा. कस्यचित् परम् अपेक्षमाणस्येति. विपर्ययेण ह्रीर् अपत्राप्यं चेति विस्तरः. प्रथमेन तावत् कल्पेन
अह्रीर् अगुरुतावद्ये भयादर्शित्वम् अत्रपेति
अनेन. सगौरवतेति विस्तरेण भयदर्शिता अपत्राप्यम् इति. भयदर्शितानिमित्तम् अपत्राप्यम् इत्य् अर्थः. द्वितीयेन कल्पेन आत्मापेक्षया दोषैर् अलज्जनं आह्रीक्यं परपेक्षयानपत्राप्यम् इति अनेन. आत्मापेक्षया दोषैर् लज्जनं ह्रीः. परापेक्षयापत्राप्यम् इति. एवम् अपि द्वे अपेक्षे इति विस्तरेण चोद्यपरिहारौ वक्तव्यौ. [तिब्. 125ब्] प्रेमगौरवयोर् एकत्वं मन्यंते केचित्. तस्माद् अनयोर् नानाकरणप्रदर्शनार्थम् आह.
प्रेंअ श्रद्धेति.
प्रेमैव श्रद्धा न गौरवं. न तु श्रद्धैव प्रेम. तेनाह. द्विविधं हि प्रेम क्लिष्टं अक्लिष्टं चेत्यादि. स्याच् छ्रद्धा न प्रेमेति चतुःकोटिकः. दुःकसमुदयसत्ययोः श्रद्धैवाभिसंप्रत्ययरूपा न प्रेम अस्पृहणीयत्वात्. स्यात् प्रेम न श्रद्धेति. प्रियतारूपा तृष्णा नाभिसंप्रत्ययरूपेति श्रद्धा न भवति. उभयं श्रद्धा च प्रेम च. अभिसंप्रत्ययरूपत्वात् स्पृहणीयत्वाच् च निरोधमार्गसत्ययोस् तदुभयात्मकं भवतीत्य् अर्थः. नोभयम् एतान् आकारान् स्थापयित्वेति. अन्ये चैतसिका वेदनादयः विप्रयुक्तादयश् च. एवं धर्मालंबनस्य प्रेम्नः श्रद्धायाश् च चतुःकोटिकं कृत्वा पुद्गलालंबनस्य चतुष्कोटिकं करोति. पुद्गलेष्व् इति विस्तरः. तत्र सार्धं विहरंतीति सार्धविहारिणः शिष्याः. ये प्रव्रजिताः गुरोर् अंते वसंतीति अंतेवासिनः. निश्रयाध्ययनसंबंधिनः. तेषु पुत्रादिषु प्रेम न गौरवं क्लिष्टं अक्लिष्टं चेति संभवतः. गौरवं न प्रेम
गुरुत्वं ह्रीर्
इति वक्ष्यमाणलक्षणं गौरवं न प्रेम गौरवस्थानत्वात्. उभयं प्रेम गौरवं च. तदुभयात्मकं भवतीत्य् अर्थः. [तिब्. 126अ] नोभयम् एतान् आकारान् स्थापयित्वा यो ऽन्यो जनो ऽसंबद्धो निर्गुणः. तत्र न प्रेम न गौरवम् इति. तत्पूर्विका च प्रियता प्रेमेति. गुणसंभावनापूर्विका प्रियता तच् च प्रेम. तस्मान् न सैव श्रद्धा प्रेमेत्य् आचार्यः.
गुरुत्वं ह्रीर्
इति. यथोक्ता ह्रीः सगौरवता सप्रतीशता सभयवशवर्तितेत्य् उक्ता. या ह्रीः. तद् गौरवं. तद् एवं प्रेम श्रद्धालक्षणं भवति. ह्रीलक्षणं तु गौरवम् इत्य् उक्तं तयोर् नानाकरणं.
एवं सप्रतीशतापीति. एवं ह्रीर् अपि धर्मेषु च पुद्गलेषु च. ये पुद्गलालंबने श्रद्धाह्रियौ. ते तत्र न स्त इति पुद्गलालंबने श्रद्धाह्रियाव् अधिक्रियेते ययोर् ऐक्यं मन्यन्ते. ते आरूप्यधातौ न स्तः कामरूपधात्वोर् एव भवत इत्य् उक्तं.
(इइ.34) कथं पुनर् अनयोर् एकत्र चित्ते योग इति. न हि तद् एव चित्तं तद्योगाद् औदारिकं च सूक्ष्मं च युज्यते विप्रतिषेधात्. निष्ठ्यूतम् इति. निःपूर्वस्य ष्ठीवते निष्ठायाम् एतद् रूपं निष्ठ्यूतं. निरस्तम् इत्य् अर्थः. नातिश्यायते नातिघनीभवति. नातिविलीयते नातिद्रवीभवति. नातिसूक्ष्मं भवति नात्यौदारिकम् इति. मध्यमावस्थम् इत्य् अर्थः. एवं तर्हि निमित्तभूताव् इति विस्तरः. यथोदकातपौ सर्पिषः श्यानत्वविलीनत्वयोर् निमित्तभूतौ. न तु पुनस् तत्स्वभावौ श्यानत्वविलीनत्वस्वभावौ. एवं वितर्कविचारौ चित्तस्यौदारिकतासूक्ष्मतयोर् [तिब्. 126ब्] निमित्तभूतौ न तु पुनर् औदारिकसूक्ष्मतास्वभावाव् इति. अत एवं वक्तव्यं. चित्तौदारिकताहेतुर् वितर्कः. चित्तसूक्ष्मताहेतुर् विचार इति. ब्रूयास् त्वम् अभ्युपगमाद् अदोष एष इति. तत इदं दोषान्तरम् आहा. आपेक्षिकी चौदारिकसूक्ष्मतेति विस्तरः. भूमिप्रकारभेदात्. भूमिभेदात् प्रकारभेदाच् च. भूमिभेदात् तावत्. प्रथमध्यानम् अपेक्ष्य कामधातुर् औदारिको महाभिसंस्कारतरत्वात्. कामधातुम् अपेक्ष्य प्रथमं ध्यानं सूक्ष्मम् अल्पाभिसंस्कारतरत्वात् प्रशान्तम् इति. तद् एव पुनर् द्वितीयं ध्यानम् अपेक्ष्य औदारिकं. एवं यावद् भवाग्रं सूक्ष्मं. प्रकारभेदाद् अपि तस्याम् एव भूमौ आपेक्षिक्याव् औदारिकसूक्ष्मते. तद्यथा य एव ते त्रयः क्लेशानां मूलप्रकारा मृदुमध्याधिमात्रा गुणानां च. कामधातौ यावद् भवाग्रे तेषाम् अधिमात्रः क्लेश औदारिकः. मृदुः सूक्ष्मः. क्लेशविपर्ययेण गुणानाम् इति. एवं भूमिप्रकारभेदेनापेक्षिक्याव् ( अभिध्-क्-व्य् 139 ) औदारिकसूक्ष्मते इत्य् आ भवाग्राद् औदारिकसूक्ष्मते स्यातां. अनिष्टं चैतत्. वितर्कविचारयोः कामधातुप्रथमध्यानभूमिकत्वाद् इति. न चौदारिकसूक्ष्मतया जातिभेदो युक्त इति. वितर्कविचारयोर् जातिभेद इष्यते. अन्यो वितर्को ऽन्यो विचार इति. न चौदरिकत्वेन सूक्ष्मत्वेन च वितर्कविचारयोर् यथाक्रमं स्वभावभेदो युक्तः. किंकारणं. जातिभिन्नयोर् हि वेदनासंज्ञयोर् औदारिकसूक्ष्मता भवति. न च पुनर् औदारिकसूक्ष्मतयैव तयोः [तिब्. 127अ] स्वभावभेदः. किं तर्हि. अनुभवलक्षणतया निमित्तोद्ग्रहणलक्षणतया च तयोः स्वभावभेदः. तस्माद् अप्य् अनयोर् नास्ति लक्षणं. अन्ये पुनर् आहुर् इति सौत्रान्तिकाः. वाक्संस्कारा इति. वाक्समुत्थापका इत्य् अर्थः. वितर्क्य विचार्य वाचं भाषते नावितर्क्य नाविचार्येति. वितर्कविचारैर् एवं चैवं च भाषिष्य इति. तत्र ये औदारिकाः. ते वितर्का वाक्संस्काराः. कर्मणा स्वभावो द्योतितो न शक्यम् अन्यथा स्वलक्षणं प्रदर्शयितुम् इति. एवं सूक्ष्मास् ते विचाराः. एतस्यां कल्पनायां समुदायरूपा वितर्कविचाराः. पर्यायभाविनश् च भवंति. चित्तचैत्तकलापस्य वाक्समुत्थापकत्वात्. कथं पुनर् अनयोर् एकत्र चित्ते योग इत्य् उक्तं. अतो वैभाषिक आह. यदि चैकत्र चित्ते ऽन्यो धर्म औदारिक इति विस्तरः. एकत्र चित्ते वितर्क औदारिकस्वभावो ऽन्यो धर्मो विचारस् तु सूक्ष्मस्वभावो ऽपरः. तौ च यथाक्रमं चित्तौदारिकतासूक्ष्मताहेतुत्वाच् चित्तौदारिकतासूक्ष्मतेत्य् उच्यते. अथ वा चित्तस्यौदारिकश् चित्तौदारिकः. चित्तौदारिकभावः चित्तौदारिकता. एवं चित्तसूक्ष्मतापि वक्तव्येति को ऽत्र विरोधः. न स्याद् विरोधो यदि वितर्कविचारयोर् जातिभेदः स्याद् वेदनासंज्ञावत्. वेदना ह्य् औदारिकी संज्ञा सूक्ष्मा. तयोस् तु जातिभेदो ऽस्तीति औदारिकसूक्ष्मतायाम् अप्य् एकत्र चित्ते न विरोधः. एकस्यां तु जातौ अनवधृतलक्षणायां ऐक्येन च कैश्चिद् गृहीतायां मृद्वधिमात्रता औदारिकसूक्ष्मतालक्षणा [तिब्. 127ब्] युगपन् न संभवतेत्य् अर्थाद् अयुगपत् संभवतीत्य् उक्तं. तथा हि वेदना अन्यो वा धर्मः पर्यायेण मृदुताम् अधिमात्रतां च भजते. नैवं व्यक्तो भवति. किं. जातिभेदः. कस्मात्. प्रत्येकं जातीनाम् मृद्वधिमात्रत्वात्. वेदना ह्य् औदारिकी भवति. सूक्ष्मा वापेक्षाभेदात्. कथम् इति. वेदना संज्ञाम् अपेक्ष्य औदारिकी. रूपम् अपेक्ष्य सूक्ष्मा. तथा संज्ञा संस्कारान् अपेक्ष्यौदारिकी. वेदनाम् अपेक्ष्य सूक्ष्मा. वितर्कविचारवद् एव वा. भवतो ऽपि हि कामावचरौ वितर्कविचाराव् औदारिकौ प्रथमध्यानभूमिकौ सूक्ष्मौ. ध्यानान्तरे च विचारः सूक्ष्मतर इति. तद् एवं प्रत्येकं जातीनां मृद्वधिमात्रत्वात्. नैवं व्यक्तो भवति. न मृद्वधिमात्रतया जातिभेदो व्यक्तो भवतीत्य् अर्थः. अत्र ( अभिध्-क्-व्य् 140 ) संघभद्राचार्य आह. एकत्र च चित्ते औदारिकसूक्ष्मते भवतो न च विरोधः. प्रभावकालान्यत्वात्.
यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्तिर् भवति. तदा चित्तम् औदारिकं भवति. यदा विचारः. तदा सूक्ष्मं. रागमोहचरितव्यपदेशवत्. रागमोहयौगपद्ये ऽपि हि तयोर् अन्यतरोद्भूतवृत्तियोगात्. रागचरितो मोहचरित इति वा व्यपदिश्यते. तद्वद् इहापि द्रष्टव्यम् इति. अत्र वयं ब्रूमः. भवति कस्मिंश्चित् कलापे कस्यचिद् धर्मस्य उद्भूतवृत्तित्वं. किं त्व् अनयोर् न लक्षणं विवेचितम् इति. न किंचिद् एतत्. ननु च चित्तौदारिकतासूक्ष्मतालक्षणौ वितर्कविचाराव् उक्तौ. [तिब्. 128अ] सत्यम् उक्तौ. प्रत्येकं तु जातीनाम् औदारिकसूक्ष्मते इति ताव् औदारिकसूक्ष्मतालक्षणौ भवितुम् अर्हतो यथोक्तम् इति नैतद् अस्मान् आराधयति. नैव हि वितर्कविचाराव् एकत्र चित्ते भवत इत्य् अपर इत्य् आचार्यमतम्. अस्मिन् मते यथोक्तदोषप्रसंगो न भवति. कस् त्व् अनयोः पर्यायवर्तिनोर् विशेषः. अत्र पूर्वाचार्या आहुः. वितर्कः कतमः. चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पो ऽनभ्यूहाभ्यूहावस्थयोर् यथाक्रमं सा च चित्तस्यौदारिकता. विचारः कतमः. चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पो ऽनभ्यूहाभ्यूहावस्थयोर् यथाक्रमं सा च चित्तसूक्ष्मतेति. अस्मिन् पक्षे वितर्कविचाराव् एकस्वभावौ समुदायरूपौ पर्यायवर्तिनौ पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाव् इष्येते. तत्रोदाहरणं केचिद् आचक्षते. तद्यथा बहुषु घटेष्व् अवस्थितेषु को ऽत्र दृढः को जर्जर इति मुष्टिनाभिघ्नतो य ऊहः. स वितर्कः. इयंतो जर्जरा दृढा वेति यद् अन्ते ग्रहणं. स विचार इति. कथम् इदानीं प्रथमं ध्यानं पंचाङ्गम् इति विस्तरः. विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरतीति सूत्रे पंचांगम् उक्तं. तत् कथं. भूमितस् तत् पंचाङ्गम् उक्तं न क्षणत इति. प्रथमध्यानभूमिः [तिब्. 128ब्] कदाचिद् वितर्केण व्यवकीर्णा कदाचिद् विचारेण. तद् एवं संतानम् अधिकृत्य पंचाङ्गम् उक्तं न क्षणम् अधिकृत्येत्य् अदोषः.
येन केनचित् परतो विशेषपरिकल्पेनेति. भूतेनाभूतेन वा परत उत्कर्षपरिकल्पेन शूरो ऽर्थवान् अस्मि शीलवान् बुद्धिसंपन्न इति वा या चेतस उन्नतिः स मानो नाम चैतसिको धर्मः.
पर्यादानं तु चेतस
इति तुशब्दो विशेषणार्थो भिन्नक्रमश् चावगन्तव्यः. अत एवाह. मदस् तु स्वधर्मेष्व् एव रक्तस्येति विस्तरः. चेतसः पर्यादानम् इति. येन स्वधर्मेष्व् ( अभिध्-क्-व्य् 141 ) एव रूपशौर्यादिषु रक्तं चेतः पर्यादीयते संनिरुध्यते. स रागनिष्यन्दो मदः. यः स्वधर्मेष्व् एव रक्तस्य दर्पचेतसः पर्यादानात् कुशलधर्मक्रियाभ्यः प्रतिसंहारः मद इति आचार्यसंघभद्रः. संप्रहर्षविशेषो मद इति. क्लिष्टसौमनस्यम् अभिप्रेतं. तद् एतन् नेच्छन्ति वैभाषिकाः. यस्मात् सौमनस्यं आ द्वितीयाद् ध्यानात्. मदश् च त्रैधातुकः.
स्त्यानौद्धत्यमदा धातुत्रय
इति वचनात्.
(इइ.35) उक्ताः सह चित्तेन चैत्ताः चैत्ताः प्रकारेण इति. चित्तं तावत् प्रकारेण उक्तं
विज्ञानं प्रतिविज्ञप्तिर्
इत्य् एवमादिना स्वलक्षणस्कन्धधात्वायतनकुशलादिप्रभेदेन. चैत्ता अपि स्वलक्षणपरस्परविशेषेण [तिब्. 129अ] चित्तसंख्यावधारणकामप्रथमध्यानादिभूमिप्रभेदेन.
एकार्थम्
इति. यच् चित्तं. तद् एव मनस् तद् एव विज्ञानम् इत्य् एको ऽर्थो ऽस्येत्य् एकार्थं. निर्वचनभेदस् तूच्यते. चिनोतीति चित्तम् इति. कुशलम् अकुशलं वा चिनोतीत्य् अर्थः. नैरुक्तेन विधिनैवं सिद्धं. मनुत इति मनः. मन ज्ञान इत्य् अस्य औणादिकप्रत्ययात् तस्यैतद् रूपं मन इति. विजानात्य् आलम्बनम् इति विज्ञानं कर्तरि ल्युट्. चितं शुभाशुभैर् धातुभिर् इति चित्तं. भावनासंनिवेशयोगेन सौत्रान्तिकमतेन योगाचारमतेन वा. आश्रयभूतं मनः आश्रितभूतं विज्ञानम् इति आश्रयभावापेक्षं मनः.
षण्णाम् अनन्तरातीतं विज्ञानं यद् धि. तन् मन
इत्य् अर्थपरिग्रहात्. आश्रितभावापेक्षं विज्ञानं. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति वचनात्.
चित्तचैतसाः साश्रयालम्बनाकाराः संप्रयुक्ताश् चेति.
चशब्द एकानुकर्षणार्थः. य एव हि चित्तचैत्ता इत्य् अनेन शब्देनाभिहिताः. त एव साश्रया इत्य् अनेनापि शब्देनाभिधीयन्ते. एवं सालम्बनाः साकाराः संप्रयुक्ताश् च. तत्र साश्रया इन्द्रियाश्रितत्वात्. षडायतनाश्रितत्वाद् इत्य् अर्थः. सालम्बना विषयग्रहणात्. न हि विनालम्बनेन चित्तचैत्ता उत्पद्यन्ते. [तिब्. 129ब्] साकाराः तस्यैवालम्बनस्य प्रकारेण आकारणात्. येन ते सालम्बनाः ( अभिध्-क्-व्य् 142 ) तस्यैवालंबनस्य प्रकारेण ग्रहणात्. कथं. विज्ञानं हि नीलं पीतं वा वस्तु विजानाति उपलभत इत्य् अर्थः. तद् एव तथालम्बनं वस्तु वेदनानुभवति. संज्ञा परिच्छिनत्ति. चेतनाभिसंस्करोतीत्य् एवमादि. अथ वा तस्यैवालम्बनस्य विज्ञानं सामान्यरूपेण उपलभ्यतारूपं गृह्णाति. विशेषरूपेण तु वेदनानुभवनीयतारूपं गृह्णाति. संज्ञा परिच्छेद्यतारूपं गृह्णातीत्य् एवमादि. संप्रयुक्ताः समं प्रयुक्तत्वाद् इति. समा अविप्रयुक्ताश् चान्योन्यम् इति संप्रयुक्ताः. आश्रयालम्बनाकारकालद्रव्यसमताभिर् इति. येनाश्रयेण चित्तम् उत्पद्यते. तेनैवाश्रयेण वेदनासंज्ञाचेतनादय उत्पद्यन्ते. तथा येनालम्बनेन चित्तं. तेनैव वेदनादयः. येनाकारेण चित्तं. तेनैव वेदनादयः. यदि हि नीलाकारं चित्तं नीलाकारा एव तत्संप्रयुक्ता वेदनादय उत्पद्यन्ते. यस्मिंश् च काले चित्तं तस्मिन्न् एव वेदनादयः. यथा च चित्तद्रव्यम् एकम् एवोत्पद्यते न द्वे त्रीणि वा. तथा वेदनाद्रव्यं एकम् एवोत्पद्यते न द्वे त्रीणि वा. तथा संज्ञाद्रव्यं चेतनाद्रव्यं इत्य् एवमादि. तेनेदम् एवान्त्यं दुर्गमम् इति व्याचष्टे. यथैव ह्य् एकं चित्तं एवं चैत्ता अपि एकैका इति.
(इइ.36) विप्रयुक्तान् वक्तुकाम आचार्य उपोद्घातं करोति निर्दिष्टाश् चित्तचैत्ताः सविस्तरप्रभेदा विप्रयुक्तास् त्व् [तिब्. 130अ] अवसरप्राप्ता इदानीम् उच्यन्त इत्य् अभिप्रायः. सविस्तरप्रभेदा इति. विस्तरश् च प्रभेदश् च विस्तरप्रभेदौ. सह विस्तरप्रभेदाभ्यां सविस्तरप्रभेदाः. अथ वा विस्तरेण प्रभेदः विस्तरप्रभेदः. सह विस्तरप्रभेदेन सविस्तरप्रभेदाः. तत्र चित्तं तावत् सविस्तरप्रभेदं निर्दिष्टं.
विज्ञानं प्रतिविज्ञप्तिर् मनआयतनं चेत्य्
एवमादिना. चैत्ता अपि
वेदनानुभव
इत्य् आरभ्य यावत्
पञ्चधा चैत्ता
इति विस्तरेण.
नामकायादयश् चेति.
चशब्द एवंजातीयकानुक्तविप्रयुक्तप्रदर्शनार्थः. संघभेदप्रभृतयो हि द्रव्यतश् चित्तविप्रयुक्ता इष्यन्ते इति ये ऽप्य् एवंजातीयका इति शास्त्रे ऽप्य् उक्तत्वात्. चित्तविप्रयुक्ता इति चित्तग्रहणं चित्तसमानजातीयप्रदर्शनार्थं. चित्तम् इव चित्तेन च विप्रयुक्ता इत्य् अर्थः. किं च तेषां चित्तेन समानजातीयत्वं. ( अभिध्-क्-व्य् 143 ) यद् अरूपिणो ऽमी भवन्ति. रूपित्वाद् एव हि विप्रयुक्तत्वे ऽपि रूपं न विप्रयुक्तत्वे नाम लभते. यद् वामीषां नामरूपम् इति नामत्वं तत् तेषां चित्तेन समानजातीयत्वं. चैत्ता अपि चित्तेन तुल्यजातीयाः. ते तु चित्तेन सहालम्बने संप्रयुक्तास् तद्विशेषणार्थं विप्रयुक्तग्रहणं असंस्कृतम् अपि तत्समानजातीयम् अनालंबनत्वेनेति तत्परिहारार्थं संस्कारग्रहणं [तिब्. 130ब्] अत एवाह. इमे संस्कारा न चित्तेन संप्रयुक्ता न च रूपस्वभावा इति चित्तविप्रयुक्ता उच्यन्त इति.
(इइ.37) तत्रेति. वाक्योपन्यासे निधारणे वा. तावच्छब्दः क्रमे.
प्राप्तिर् लाभः समन्वय
इति. प्राप्तिर् इति सामान्यसंज्ञा. लाभः समन्वय इति विशेषसंज्ञा. लाभः प्रतिलम्भ इत्य् एको ऽर्थः. समन्वयः समन्वागम इत्य् अनर्थान्तरं. प्रतिलम्भ इत्य् उक्ते समन्वागमस्याग्रहणं. समन्वागम इत्य् उक्ते प्रतिलम्भस्याग्रहणं. प्राप्तिर् इत्य् उक्ते तूभयोद्ग्रहणं. अत एवाह. द्विविधा हि प्राप्तिः. अप्राप्तविहीनस्य च प्रतिलम्भः. प्रतिलब्धेन च समन्वागम इति. अप्राप्तं च विहीनं चाप्राप्तविहीनं. तस्याप्राप्तविहीनस्य प्रतिलम्भः. अप्राप्तस्य तद्यथा दुःखे धर्मज्ञानक्षान्तेः. विहीनस्य तद्यथा कामावचरस्य कामवैराग्येण त्यक्तस्य धातुप्रत्यागमनात् परिहाण्या वा पुनःप्रतिलम्भः. प्रतिलब्धेन च द्वितीयादिषु क्षणेषु समन्वागमः. तस्याः समनुवर्तनात्. यश् च प्रतिलम्भः यश् च समन्वागमः. सा द्विधा प्राप्तिर् इति प्रतिलम्भे समन्वागमे च प्राप्तिशब्दो वर्तते. अभेदविवक्षायां तु प्राप्तिः प्रतिलम्भः समन्वागम इत्य् एक एवार्थः. तथा हि प्रथमे क्षणे दुःखे धर्मज्ञानक्षान्तेः प्राप्तिः प्रतिलम्भ इष्यते. सापि समन्वागम इत्य् उच्यते. प्रथमक्षणस्थ [तिब्. 131अ] आर्यपुद्गलो दुःखे धर्मज्ञानक्षान्त्या समन्वागत इत्य् उच्यते.
आज्ञास्यामीन्द्रियोपेतस् त्रयोदशभिर् अन्वित
इत्यादिवचनात्. कथम् अयं लक्षणनिर्देशः. न हि भेदविवक्षायाम् अपि पर्यायवचनेन लक्षणनिर्देशः कल्पते. प्राप्तिः कतमा. यः प्रतिलम्भो यः समन्वागम इति. पर्यायवचनम् अपि कदाचित् लक्षणाय कल्पते. अनलो जातवेदा अग्निर् इति. सूत्रे ऽप्य् उक्तम् अविद्या कतमा. पूर्वान्ते अज्ञानम् अपरान्त अज्ञानम् इति विस्तरः. विपर्ययाद् एवाप्राप्तिर् इति सिद्धम् इति. विपर्ययाद् एवाप्राप्तिर् इति सिद्धे नैतदर्थं सूत्रं कर्तव्यम् इत्य् अभिप्रायः. अप्राप्तिर् अप्रतिलम्भो ऽसमन्वागम इति विपर्ययाद् एतत् त्रयं गम्यते. तथैव चाप्रतिलम्भासमन्वागमयोर् अप्राप्तिर् इति सामान्यसंज्ञा. तस्माद् एवं च वक्तव्यं. द्विविधा अप्राप्तिर् अप्राप्तपूर्वाणाम् अप्रतिलम्भः. प्राप्तविहीनानाम् असमन्वागम ( अभिध्-क्-व्य् 144 ) इति. अथ वाप्रतिलब्धस्य विहीनस्प चाद्याप्राप्तिर् अप्रतिलम्भः. अप्रतिलब्धेन विहीनेन च द्वितीयादिषु क्षणेष्व् असमन्वागम इति.
प्राप्त्यप्राप्ती स्वसंतानपतितानाम्
इति. संस्कृतानां प्राप्त्यप्राप्ती स्वसंतानपतितानाम् एवेत्य् अवधार्यते. न परसंतानपतितानाम् इति. न परसत्त्वसंततिपतितानां धर्माणां. स्वसंततौ प्राप्त्यप्राप्ती भवत इत्य् अर्थः. तेनाह. न हि परकीयैः कश्चित् समन्वागत इति. नाप्य् असंततिपतितानाम् इति नासत्त्वसंततिपतितानाम् इत्य् अर्थः. तस्माद् आह. न ह्य् असत्त्वसंख्यातैः [तिब्. 131ब्] कश्चित् समन्वागत इति. माल्याभरणादयः काष्ठकुड्यादिगताश् च रूपादयो ऽसत्त्वसंख्याताः. चक्षुरादयः सत्त्वसंख्याताः केशादयो रूपीन्द्रियसम्बद्धाः सत्त्वसंख्याता एव वेदितव्याः. तदनुग्रहोपघातपरिणामानुविधानात्. तथा हि रूपीन्द्रियोपघातात् पालित्यादिविकारः केशादीनां दृश्यते. रसायनोपयोगेन चानुग्रहात् पालित्यादिप्रत्यापत्तिर् इति सर्वेषां सत्त्वसंख्यातानां प्राप्तिर् भवतीति सिद्धंतः.
निरोधयोर्
इति प्रतिसंख्यानिरोधाप्रतिसंख्यानिरोधयोर् असत्त्वसंख्यातयोर् अपि प्राप्त्यप्राप्ती भवतः. सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथाप्रत्ययवैकल्यं समन्वागताः. सकलबन्धनादिक्षणस्थवर्ज्या इति. आदौ क्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः. तत्र स्थिता आदिक्षणस्थाः. सकलानि बन्धनान्य् एषाम् इति सकलबन्धना. अप्रहीणसर्वप्रकारक्लेशाः. सकलबन्धनाश् चादिक्षणस्थाश् च त इति सकलबन्धनादिक्षणस्थाः. ते वर्ज्या एषां तैर् वा वर्ज्याः सकलबन्धनादिक्षणस्थवर्ज्याः. के. सर्व आर्याः. ते प्रतिसंख्यानिरोधेन समन्वागताः. सकलबन्धनादिक्षणस्थास् त्व् आर्या न समन्वागतः. तस्यां ह्य् अवस्थायां क्षांतिवध्याः [तिब्. 132अ] क्लेशाश् छिद्यन्ते न छिन्नाः. तन्निरोधो ऽपि प्राप्यते न प्राप्तो
निरुध्यमानो मार्गस् तु प्रजहाति तदावृतिम्
इति सिद्धान्तात्. एकप्रकारोपलिखितादयस् त्व् आर्या लौकिकमार्गप्राप्तेन निरोधेन तस्याम् अवस्थायां समन्वागताः. अत ऊर्ध्वं द्वितीयादिषु क्षणेषु समन्वागता एव अनास्रवमार्गप्राप्तेनापि निरोधेन. पृथग्जनाश् च केचित् समन्वागता इत्य् एकप्रकारोपलिखितादयः. आकाशेन तु नास्ति कश्चित् समन्वागत इति असंबंधात्. निरोधाभ्यां त्व् अस्ति सम्बन्धः. तस्माद् आकाशस्य प्राप्तिर् नास्ति. यस्य च नास्ति प्राप्तिस् तस्याप्राप्तिर् अपि नास्तीति सिद्धान्त एष वैभाषिकाणां.
कुत एतद् इति. रूपादिचक्षुरादिवत्स्वरूपकार्यानुपलम्भात् पृच्छति. ( अभिध्-क्-व्य् 145 ) सूत्राद् इति. व्याख्यानम् एव वैभाषिकः साधयति. दशानाम् अशैक्षाणां धर्माणाम् इति विस्तरः. दशाशैक्षा धर्माः. अष्टाव् अशैक्षाण्य् आर्यमार्गांगानि सम्यग्विमुक्तिः सम्यग्ज्ञानं च. तेषाम् उत्पादात् संमुखीभावात्. प्रतिलंभाद् आदितः प्राप्तेः. समन्वागमात् पश्चात् प्राप्तेः. पंचाङ्गं विप्रहीणः. प्रहीणपंचाङ्ग इत्य् अर्थः. पंचांगानि सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति. एतान्य् अनागामिफलप्राप्तौ प्रहीणानीति न युज्यन्ते. इमानि तु प्रयुज्यमानानि पंचांगानि पश्यामो यद् उतोर्ध्वभागीयानि रूपराग आरूप्यराग औद्धत्यं मानो ऽविद्या चेति. प्रतिनिधिभूतायाः प्राप्तेर् योगात् प्रकृतिस्थो ऽप्य् अर्हन्न् आर्य इत्य् उच्यते. [तिब्. 132ब्] साधनं चात्र. द्रव्यतो ऽस्ति समन्वागमः सूत्रोक्तत्वाद् आयतनद्रव्यवद् इति. आचर्यस् तं प्रत्याह. तेन तर्ह्य् असत्त्वाख्यैर् अपि चक्ररत्नादिभिः परसत्त्वैर् अपि स्त्रीरत्नादिभिः समन्वागमो द्रव्यसन् प्राप्नोति. सूत्रे वदनात्. कथम् इति सूत्रं दर्शयति. राजा यावद् विस्तर इति. राजा भिक्षवश् चक्रवर्ती सप्तभी रत्नैः समन्वागतः. तस्येमानि सप्त रत्नानि. तद्यथा चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् एव सप्तमम् इति विस्तरः. एभिस् सप्तभी रत्नैस् समन्वागमः सूत्र उक्तो न च द्वव्यतो ऽस्तीति अनैकान्तिकतां दर्शयति. प्रतिज्ञादोषम् चायम् उद्ग्राहयति. अनुमानविरोधात्. कथम् इत्य् उच्यते. न द्रव्यसन् दशाशैक्षधर्मसमन्वागमः समन्वागमस्वाभाव्याच् चक्रवर्तिसप्तरत्नसमन्वागमवद् इति. अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यासयति. वशित्वं कामचार इति. इच्छानुविधायित्वं. तत्र वशित्वम् इति चक्रवर्तिसूत्रे. अन्यत्र पुनर् द्रव्यान्तरम् इति. अशाशैक्षसमन्वागमसूत्रे. कः पुनर् एवम् अयोग इति. प्रवचने हि द्विविधम् इष्यते द्रव्यसच् च वस्तु प्रज्ञप्तिसच् चेति कथम् अयुक्तिर् इति वैभाषिकाः. आचार्य आह. अयम् अयोग इति विस्तरः. इह यद् द्रव्यसद् वस्तु तत् प्रत्यक्षग्राह्यं [तिब्. 133अ] वा भवेद् अनुमानग्राह्यं वा. तत्र प्रत्यक्षग्राह्यं रूपशब्दादि पंचेन्द्रियग्राह्यत्वात्. मनोविज्ञानग्राह्यम् अपि किंचित् प्रत्यक्षं. रागद्वेषादि स्वसंवेद्यत्वात्. चक्षुःश्रोत्रादि त्व् अनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात्. तद्भावाभावयोस् तद्भावाभावात्. प्राप्तिः पुनर् न प्रत्यक्षग्राह्या न चानुमानग्राह्या तत्सिद्धौ निरवद्यानुमानादर्शनात्. तस्माद् द्रव्यधर्मासम्भवाद् अयोग इति स्थितम् एतत्. इदानीम् आचार्यस् तत्पक्षम् उत्थाप्योत्थाप्य दूषयति. उत्पत्तिहेतुर् इति विस्तरः. यस्य प्राप्तिर् अस्ति स उत्पद्यते हेतुसद्भावात्. असंस्कृतस्य न स्यात् प्राप्तिर् यस्माद् असंस्कृतम् अनुत्पाद्यं. ये च धर्मा अप्राप्ता दुःखे ( अभिध्-क्-व्य् 146 ) धर्मज्ञानक्षान्त्यादयः. ये च त्यक्ताः भूमिसंचारवैराग्यतः. तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या क्लिष्टाश् च वैराग्येण त्यक्ताः. तेषां धातुप्रत्यागमतः परिहाण्या वा कथम् उत्पत्तिः स्यात्. न हि तेषां प्राप्तिर् अस्ति. अनुत्पन्ननिरुद्धत्वात्. सहजप्राप्तिहेतुका चेत्. का. तेषाम् उत्पत्तिर् अधिकृता. सहजा या प्राप्तिर् इदानीम् उत्पद्यते. सा तेषां जनिकेति. आह. जातिर् इदानीं किंकरी जातिजातिर् वेति. किंकरणशीला किंकरी. जातिर् लक्ष्यं धर्मं जनयति. [तिब्. 133ब्] जातिजातिस् तु तल्लक्षणं जातिं जनयति. तेन यदि लक्ष्याणां धर्माणाम् उत्पत्तिः प्राप्तिहेतुकोच्येत तत्र जातिः किंकरी. अथ लक्षणानाम्. उत्पत्तिस् तद्धेतुकोच्येत. तत आह. जातिजातिर् वा किंकरीति विकल्पः. अथ वा यदि भवतैवं कल्प्येत. जातिर् धर्मं जनयति. प्राप्तिः पुनर् जातिं जनयतीति. तत्र उच्यते. जातिजातिर् वा किंकरीति. सकलबन्धनानां खल्व् अपीति विस्तरः. येषाम् एको ऽपि क्लेशप्रकारो न प्रहीणः. ते सकलबन्धनाः. तेषां सकलबन्धनानां खल्व् अपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकारभेदो न स्यात्. कस्मात्. प्राप्त्यभेदात्. विकलबन्धनानां हि प्राप्तिवैकल्यान् मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदः परिकल्प्येत न तु सकलबंधनानां. प्राप्तिनां तुल्यत्वात्. यतो वा स भेद इति. यतो वा कारणाद् अभ्यासतो ऽन्यतो वा स भेदः. कस्यचित् सकलबन्धनस्याधिमात्रः. कस्यचिन् मध्यः. कस्यचिन् मृदुः. तत एव भेदकारणात् तदुत्पत्तिर् अस्तु.
तेषां मृद्वादीनां क्लेशानाम् उत्पत्तिः. तस्मान् नोत्पत्तिहेतुः प्राप्तिर् इति. वैभाषिक आह. कश् चैवम् आहेति विस्तरः. व्यवस्थाहेतुः प्राप्तिः. असत्यां हि प्राप्तौ लौकिकमानसानाम् इति. लोके भवो लौकिकं. मन एव मानसं. लौकिकं मानसम् एषां ते इमे लौकिकमानसाः. आर्यपृथग्जनाः. आर्याश् च पृथग्जनाश् च. लौकिकमानसग्रहणम् आर्यविशेषणं. [तिब्. 134अ] पृथग्जना हि नित्यम् एव लौकिकमानसाः. आसंज्ञिकासंज्ञिसमापत्त्यवस्थायां वा पृथग्जनविशेषणम् अपि संभवति. तेषां आर्यपृथग्जनानां. तेषाम् इति निर्धारणे षष्ठी. सम्बन्धलक्षणा वा. तेषां न स्याद् व्यवस्थानम् इति परिच्छेदः. यत् कृतं व्यवस्थानं. सा प्राप्तिः. प्रहीणाप्रहिणक्लेशताविशेषाद् इति. प्रहीणक्लेशा आर्याः. अप्रहीणक्लेशाः पृथग्जनाः. तद्भावाः. स एव विशेषः. इति प्रहीणाप्रहीणक्लेशतविशेषः. तस्माद्. एतद् व्यवस्थानं भवितुम् अर्हति. ननु च पृथग्जना अपि केचित् प्रहीणक्लेशा भवन्ति. कथम् अवधार्यते. आर्या एव प्रहीणक्लेशा इति. अत्यंतसमुद्घातवचनाद् एवम् उक्तं. एतच् चैव कथम् इति. एषां प्रहीणः क्लेश एषाम् अप्रहीण इति यद् एतद् व्यवस्थानं. तत् कथं भविष्यति. प्राप्तौ तु सत्यां क्लेशप्राप्त्या एतत् सिध्यति व्यवस्थानं. तद्विगमाविगमात् क्लेशप्राप्तिविगमाविगमात् छेदाच्छेदाद् ( अभिध्-क्-व्य् 147 ) इत्य् अर्थः. येषां तत्प्राप्तिविगमाः. ते आर्याः. येषाम् अविगमाः. ते पृथग्जना इति. ननु च पृथग्जनानाम् अपि केषांचित् क्लेशप्राप्तिर् विगता. विगता. न तु लोकोत्तरेण मार्गेण. स तर्हि लोकोत्तरमार्गकृतो [तिब्. 134ब्] विशेषः कथं परिच्छिद्यते लोकोत्तरेणेयं क्लेशप्राप्तिर् विगता लौकिकेनेयम् इति. सास्रवानास्रवविसंयोगप्राप्तिभेदात्. आश्र्यविशेषाद् एतत् सिध्यतीति. आत्मभावविशेषाद् एतद् व्यवस्थानं एषां प्रहीणः क्लेश एषाम् अप्रहीणः क्लेश इति सिध्यति. तथा परावृत्त इति. तथान्यथाभूतः. तत्प्रहेयाणां दर्शनभावनामार्गप्रहेयाणाम्. अग्निदग्धव्रीहिवद् इति. यथाग्निदग्धो व्रीहिर् अबीजीभूतो भवति. एवं यथोक्तेन न्यायेनाबीजीभूतः आश्रयः क्लेशानां प्रहीणक्लेश इत्य् उच्गते. उपहतबीजभावे वा. आश्रय इत्य् अधिकृतं. तेन लौकिकेन मार्गेण प्रहीण इति शक्यते वक्तुं. बीजस्योपघातमात्रभावात्. विपर्ययाद् अप्रहीण इति. अनिर्दग्धबीज आश्रये ऽनुपहतबीजभावे वा. यश् चाप्रहीण इति विस्तरः. यश् चाप्रहीणो ऽनन्तरोक्तेन विधिना दर्शनप्रहातव्यः कामावचरो यावद् भावाग्रिकः भावनाप्रहातव्यो वा कामावचरो यावद् भावाग्रिकः. तेन समन्वागतः. यश् च प्रहीणस् तथैव यावद् भावाग्रिकः. तेनसमन्वागत इति प्रज्ञप्यते. प्रज्ञप्तिधर्मो ऽयम् इति दर्शयति. कुशला अपि द्विप्रकारा इति विस्तरः. यथा क्लिष्टा द्विप्रकारा इत्य् अपिशब्दार्थः. समुच्चये वा कुशलाश् चेत्य् अर्थः. तद्बीजभावानुपघाताद् इति. तेषाम् उत्पत्तिलाभिकानां कुशलानां बीजं तद्बीजं. तद्बीजस्य भावस् तद्बीजभावः [तिब्. 135अ]. कस्य. आश्रयस्य. तद्बीजभावस्यानुपघातस् तद्बीजभावानुपघातः. तस्मात्. तद्बीजभावानुपघातात् समन्वागतः. कैः. अयत्नभाविभिः कुशलैः. उपघाताद् असमन्वागत उच्यते. को ऽसाव् इत्य् आह. समुच्छिन्नकुशलमूलः. तस्य त्व् इति. तस्याश्रयस्य तद्बीजभावस्य उपघातो मिथ्यादृष्ट्या वेदितव्यो नान्यथा. तेनाह. न तु खलु कुशलानां धर्माणां बीजभावस्यात्यन्तं संततौ समुद्घातो यथा क्लेशानाम् आर्यमार्गेणात्यन्तं संततौ समुद्घात इत्य् अभिप्रायः. ये पुनर् इति विस्तरः. ये प्रायोगिकाः. तैर् उत्पन्नैः. तेषाम् उत्पत्तिस् तदुत्पत्तिः. तदुत्पत्तौ वशित्वं सामर्थ्यविशेषः. तस्याविघातात्. कस्य. संततेः. समन्वागम उच्यते. कैः. तैर् यत्नभाविभिः कुशुलैः. यस्माद् एवं. तस्माद् बीजम् एव शक्तिविशेष एवात्र समन्वागमावस्थायाम् अनपोद्धृतं क्लिष्टानां धर्माणाम् आर्यमार्गेणानुपहतं लौकिकेन मार्गेण. अयत्नभाविनां च कुशलानां धर्माणां मिथ्यादृष्ट्या. परिपुष्टं च वशित्वकाले यत्नभाविनां कुशलानां बीजम् इति प्रकृतं. समन्वागमाख्यां लभते. नान्यद् द्रव्यं. यद् वैभाषिकैः कल्पितं. किं पुनर् इदं बीजं नामेति. ( अभिध्-क्-व्य् 148 ) द्रव्याशंकया पृच्छति.
यन् नामरूपं फलोत्पत्तौ समर्थं. यत् पंचस्कन्धात्मकं रूपं फलोत्पत्तिसमर्थं साक्षाद् अनन्तरं [तिब्. 135ब्] पारंपर्येण दूरतः. को ऽयं परिणामो नामेति. सांख्यानां परिणामाशंकया पृच्छति. संततेर् अन्यथात्वम् इति. अन्यथोत्पादः. का चेयं संततिर् इति. किं यथा सांख्यानाम् अवस्थितद्रव्यस्य धर्मान्तरनिवृत्तौ धर्मांतरप्रादुर्भावः तथावस्थायिन्याः संततेर् अन्यथात्वम् इति. नेत्य् उच्यते. किं तर्हि. हेतुफलभूता. हेतुश् च फलं च हेतुफलं. हेतुफलम् इति नैरन्तर्येण प्रवृत्तास् त्रैयध्विकाः संस्काराः संततिर् इति व्यवस्थाप्यन्ते. यत्र तूक्तम् इति विस्तरः. यत्र तु सूत्र उक्तं. किम् इत्य् आह. लोभेन समन्वागतः अभव्यः अयोग्यश् चत्वारि स्मृत्युपस्थानानि कायस्मृत्युपस्थानादीनि उत्पादयितुम् इति. यदि बीजं प्राप्तिः. बीजं नित्यम् अस्तीति स्मृत्युपस्थानोत्पत्तिर् न स्यात्. भवदीयायाम् अपि प्राप्तौ तदुत्पत्तिर् न स्याद् इति तुल्यम् एतत्. तस्माद् उभाभ्याम् अपि वक्तव्यं. तत्राधिवासनं लोभस्याविनोदनं वा समन्वागम इति. अधिवासनम् अभ्यनुज्ञानम्. अविनोदनम् अव्युपशमनं. सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति. सर्वप्रकारेण यद्य् उत्पत्तिहेतुर् यदि व्यवस्थाहेतुर् यद्य् आश्रयविशेषः यद्य् अधिवासनम् अविनोदनं वा सर्वथा प्रज्ञप्तिधर्मः प्रज्ञप्त्या संवृत्या व्यवहारेण धर्मः प्रज्ञप्तिधर्मो न द्रव्यधर्मः न द्रव्यतो धर्मः स्वभाव इत्य् अर्थः. अथ वा द्रव्यं च तद् धर्मश् च स द्रव्यधर्मो [तिब्. 136अ] न रूपादिवत् विद्यमानस्वलक्षणो धर्म इत्य् अर्थः. तस्य च प्रतिषेधः तस्य च प्रज्ञप्तिधर्मस्य प्रतिषेधो ऽसमन्वागम इति.
इदम् अस्येति ज्ञानचिह्नं प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिर् इत्य् आचार्यसंघभद्रः. इदम् अस्येति ज्ञानचिह्नं इत्य् असिद्धम् एतत्. आश्रयविशेषेण तज्ज्ञानम् इति ब्रूमः. यदि च प्रतिलब्धधर्मविप्रणाशकारणं प्राप्तिर् इष्यते. प्राप्तपरित्यागो नैव स्यात्. भवति च. तस्माद् अकारणम् एतत्. स एव च शक्तिविशेषलक्षणं बीजभावम् आचार्येन व्यवस्थापितं दूषयति. किम् अयं शक्तिविशेषश् चित्ताद् अर्थान्तरम् अतो ऽनर्थान्तरं. किं चातः. अर्थान्तरं चेत्. सिद्धं प्राप्तिर् अस्तीति. संज्ञामात्रे तु विवादः. अनर्थान्तरं चेत्. नन्व् अकुशलं कुशलस्य बीजं अभ्युपगतं भवति. अकुशलस्य च कुशलं. को हि नाम औष्ण्यस्य तेजसो ऽनर्थान्तरत्वे सत्य् औष्ण्यम् एव दाहकम् अध्यवस्येन् न तेजः. कुशलबीजं ह्य् अकुशले चेतस्य् अव्याकृते वा वर्तते. एवम् अकुशलबीजं कुशले चेतस्य् अव्याकृते वा वर्तते. तथैव चाव्याकृतबीजम् अपि कुशले ( अभिध्-क्-व्य् 149 ) चाकुशले च वर्तते. सास्रवबीजं चानास्रवे ऽनास्रवबीजं च सास्रवे चेतसि वर्तत इति सांकर्यदोषः प्रसज्यत इति. अत्र वयं ब्रूमः. अनर्थान्तरभावे सांकर्यदोष भवेत्. तत् तु बीजं न चित्ताद् अर्थान्तरं वक्तव्यं. नाप्य् अनर्थान्तरम्. उपादायप्रज्ञप्तिरूपत्वात्. [तिब्. 136ब्] अथाप्य् अनर्थान्तरभावस् तथाप्य् अदोशः. कुशलेन हि चित्तेनोत्पन्नेन स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. ततः कारणविशेषात् कार्यविशेष इति विशिष्टं. तेन तच् चित्तम् उत्पद्येत. तद् विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थम् उत्पद्येत. एवम् अकुशलेनापि स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. तच् च तेन विशिष्टं चित्तम् अकुशलबीजकार्यक्रियायां समर्थम् उत्पद्येत. एवम् अव्याकृतेनापि चित्तेन स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. तच् चापि तेन विशिष्टम् अव्याकृतबीजकार्यक्रियायां समर्थम् उत्पद्येत. सास्रवेणाप्य् अनास्रवे चित्ते बीजम् आधीयेत. अनास्रवेणापि सास्रव इत्य् एवम् अन्योन्यबीजाधायकम् अन्योन्यजनकं च चित्तं चित्तान्तराद् उत्पद्यमामं अन्योन्यवास्यवसकत्वेन प्रवर्तते. न च कुशलेनाकुशले चित्ते शक्तिविशेष आहित इति तद् अकुशलं कुशलताम् आपद्यते. कुशलं वा तद् अकुशलतां. शक्तिविशेषमात्रत्वात्. शक्तिर् बीजं वासनेत्य् एको ऽयम् अर्थः. एवम् अकुशलादिवासनापि वक्तव्या. यावत् सास्रवेणानास्रवे शक्तिविशेषाधाने ऽपि. अनास्रवेणापि सास्रवे शक्तिविशेषाधाने. न तत् सास्रवं अनास्रवं संपद्यते. अनास्रवं वा सास्रवम् इति. भवताम् अपि वैभाषिकाणाम् इदं चिंत्यते. यदा सास्रवचित्तसमनंतरं [तिब्. 137अ] अनास्रवं अनास्रवचित्तसमनन्तरं वा सास्रवचित्तम् उत्पद्यते. तदा किं पूर्वकः सास्रवकलापो ऽनास्रवकलापो वा शक्तिमान् समनन्तरप्रत्ययादिभावेनोत्तरकलापोत्पत्ताव् उताशक्तिमान्. किं चातः. यद्य् अशक्तिमान् समनन्तरप्रत्ययादिभावो ऽप्य् अस्य हीयेत. अथ शक्तिमान्. सा शक्तिः किं सास्रवे चेतसि सास्रवा आहोस्विद् अनास्रवा. तच् चित्तं सास्रवस्यानास्रवस्य च चित्तान्तरस्य समनन्तरप्रत्ययादिभावं कुर्यात्. तत् किं ययैव शक्त्या सास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात् तयैवानास्रवस्य. यदि तयैव कथं शक्तिकार्यसांकर्यं न भवेत्. अथान्यया शक्त्या सास्रवस्यान्ययानास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात्. कथम् अनयोर् एकत्र शक्त्योस् तस्माच् चित्ताद् अनन्ययोर् भिन्नरूपता भिन्नकार्यता च युज्यते. युज्यते चेत्. अस्माकम् अपि चित्ताद् अनन्यासां शक्तीनां तत्रावस्थानं कार्यभेदश् च भविष्यति. एवम् अनास्रवस्यापि चित्तस्य सास्रवानास्रवचित्तसमनन्तरप्रत्ययादिभावेन संभवतः तथैव शक्त्योर् भिन्नरूपता कार्यभेदश् च वक्तव्यः. तेन यद् उक्तं नन्व् अकुशलं कुशलस्य बीजम् ( अभिध्-क्-व्य् 150 ) अभ्युपगतं भवतीत्यादि तद् अयुक्तं. न हि कुशलाहितेन शक्तिविशेषेण विशिष्टं समर्थम् अकुशलम् अकुशलबीजकार्यं करोति. [तिब्. 137ब्] किं तर्हि. कुशलबीजकार्यम् एव करोति. स्वाहितेन तु शक्तिविशेषेण तद् अकुशलं स्वबीजकार्यं करोति. तत् कथम् इदम् उच्यते. कुशलस्याकुशलं बीजम् इति. ब्रूयास् त्वम् अकुशलचित्ते तत् कुशलबीजम् आहितं कथं अकुशलं न भवतीति. न भवन्तो बीजार्थं जानते. कुशलेन चित्तेन निरुध्यमानेन. तथा शक्तिविशिष्टम् अकुशलं चित्तं जन्येत यथा तच् चित्तं स्वोत्पत्तियोग्यं भविष्यति साक्षात् पारंपर्येण वेति शक्तिविशेष एव बीजं. न बीजं नाम किंचिद् अस्ति. प्रज्ञप्तिसत्त्वात्. अत एव प्राप्त्यप्राप्ती प्रज्ञप्तिसत्याव् उच्येते. द्रव्यसत्याव् एव तु वैभाषिका वर्णयन्ति.
(इइ.38, 39अब्) अतीतानां धर्माणाम् अतीतापि प्राप्तिर् इति विस्तरः. अतीतानां धर्माणां तद्यथा क्लिष्टानाम् अतीता प्राप्तिर् या उत्पन्ननिरुद्धा साग्रजापि संभवति. सहजापि. पश्चात्कालजापि. तेषाम् एवानागता प्राप्तिर् अनुत्पन्ना. प्रत्युत्पन्ना या पश्चात्कालजा उत्पन्ननिरुद्धा. अनागतानाम् अपि प्राप्तिर् अतीता याग्रजोत्पन्ननिरुद्धा. अनागता यानुत्पन्ना. प्रत्युत्पन्नाग्रजोत्पन्नानिरुद्धा. तथा प्रत्युत्पन्नानाम् अप्य् अतीता प्राप्तिर् याग्रजोत्पन्ननिरुद्धा. अनागता यानुत्पन्ना. प्रत्युत्पन्ना या सहजा. अतीतादिजातिसामान्यं च गृहीत्वैवम् उक्तम्. न त्व् एकस्यातीतस्यावश्यं त्रिविधा प्राप्तिर् अस्ति. न हि विपाकजस्यानागतातीता वा प्राप्तिः संभवति.
अव्याकृताप्तिः सहजेति
वचनात्. [तिब्. 138अ] यदि तु प्रतिद्रव्यं प्राप्तिव्यवस्था क्रियेत संभवं प्रत्य् एतद् एवं भवेत्. क्लिष्टानाम् उत्पत्तिप्रतिलंभिकानां च कुशलानाम् अतीतादीनाम् अतीतादयः प्राप्तयो ऽवश्यं भवन्ति. न हि पृथग्जनस्यानुत्पन्नस्य अनास्रवस्य मार्गस्यातीता प्रत्युत्पन्ना च प्राप्तिर् अस्ति. सापवादश् चायम् उत्सर्गो ऽवगन्तव्यः.
अव्याकृताप्तिः सहजेति
वेचनात्. असंस्कृतानां तु प्राप्ति उत्पन्ननिरुद्धातीता. ऽनुत्पन्नानागता. उत्पन्नानिरुद्धा प्रत्युत्पन्ना. सुगमत्वात् तु न सूत्रितम् एतत्. कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् इति. कामधातूपपन्नस्य कामावचराणां धर्माणां कामावचरी प्राप्तिः. तस्यैव रूपावचराणां रूपावचरी. तस्यैवारूप्यावचराणाम् आरूप्यावचरी. रूपधातूपपन्नस्य च कामावचराणां. तद्यथा निर्माणचित्तानां कामावचरी. रूपावचराणां रूपावचरी ( अभिध्-क्-व्य् 151 ). आरूप्यावचराणाम् आरूप्यावचरी. आरूप्यधातूपपन्नस्य तद्धातुकानां तद्धातुकैव प्राप्तिः.
अनाप्तानां चतुर्विधेति.
अधात्वाप्तानां संस्कृतासंस्कृतानाम् अनास्रवाणां चतुर्विधा प्राप्तिः. कामरूपारूप्यावचरी चानास्रवा च. समासेन सर्वान् अनाप्तान् अभिसमस्येत्य् अर्थः. प्रत्येकं तु न चतुर्विधा. तत आह. तत्राप्रतिसंख्यानिरोधस्येति विस्तरः. कामधातूपपन्नस्य [तिब्. 138ब्] कामावचरादीनां यथासंभवम् अप्रतिसंख्यानिरोधस्य प्राप्तिः कामावचरी. रूपधातूपपन्नस्य रूपावचरादीनां अप्रतिसंख्यानिरोधप्राप्ती रूपावचरी. आरूप्यधातूपपन्नस्यारूप्यावचरादीनाम् अप्रतिसंख्यानिरोधप्राप्तिर् आरूप्यावचरी. सत्त्वसंतानवशेनैव हि तत्प्राप्तिर् व्यवस्थाप्यते. न तु तेषां वशेन येषाम् अप्रतिसंख्यानिरोधः. यदि ह्य् एवं स्यात् मार्गसत्यस्याप्रतिसंख्यानिरोधप्राप्तिर् अनास्रवा स्यात्. प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा चेति. न कामावचरी. कामधातोर् अप्रतिपक्षत्वात्. रूपावचरेण तु मार्गेण प्राप्तस्य रूपावचरी प्राप्तिः. आरूप्यावचरेणारूप्यावचरी. अनास्रवेण मार्गेणानास्रवा. आर्यस्य तु रूपावचरेण मार्गेण प्राप्तस्य रूपावचरी चानास्रवा चारूप्यावचरेणारूप्यावचरी चानास्रवा च.
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधेति
वचनात्. मार्गसत्यस्यानास्रवैवेति. लौकिकीम् अस्य प्राप्तिं प्रतिषेधयति. सेयं समस्य चतुर्विधेति. समासेन त्रैधातुकी चानास्रवा चेति उक्तम् अर्थं निगमयति. शैक्षाणाम् इति. शैक्षा धर्माः शैक्षस्यानास्रवा धर्मा. अशैक्षा अशैक्षस्यानास्रवा. [तिब्. 139अ] मार्गसत्यभावा एवैते द्रष्टव्याः. शैक्षाशैक्षेभ्यस् त्व् अन्ये नैव शैक्षा नाशैक्षाः. असंस्कृता अपि यावन् नैव शैक्षा नाशैक्षा इष्यन्ते. तेषां
त्रिधा
प्राप्तिः शैक्षादिभेदेन. शैक्षी अशैक्षी नैव शैक्षी नाशैक्षी चेति. अनार्येण प्राप्तस्येति. पृथग्जनेन प्राप्तस्य. तस्यैव शैक्षेणेति. तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य शैक्षी. अशैक्षेणाशैक्षी. क्षयज्ञानसंप्रयुक्तेन मार्गेण प्राप्तस्य. विसंयोगप्राप्तिसंनिश्रयत्वात् क्षयज्ञानस्य. यद्य् अपि सा वज्रोपमेन शैक्षेण प्राप्यते तदावाहकत्वात्. तत्प्राप्तत्ववचने तु शैक्ष्याः प्राप्तेः अशैक्षी प्राप्तिर् विशेषिता स्याद् इति न तेन शैक्षेण ( अभिध्-क्-व्य् 152 ) अशैक्षीत्य् उक्तं. तस्यैवार्यमार्गप्राप्तस्यानास्रवेति. तस्यैव प्रतिसंख्या निरोधस्य आर्यमार्गप्राप्तस्य अनास्रवा. मार्गसत्यस्य चानास्रवा प्राप्तिर् इत्य् अधिकृतं. आर्येण लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा उताहो ऽनास्रवा. उभयथेत्य् आह. सा कस्मान् नोक्ता. सावशेषं भाष्यं. पश्चाद् दर्शयिष्यते
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधेति
नोच्यते. या त्व् असंकीर्णा प्राप्तिः सैवेहोच्यते इति वेदितव्यं.
(इइ.39च्द्, 40अब्) दुर्बलत्वाद् इति. अनभिसंस्कारवत्त्वाद् दुर्बलत्वं.
द्वे अभिज्ञे इति. दिव्यचक्सुरभिज्ञां [तिब्. 139ब्] दिव्यश्रोत्राभिज्ञां. निर्माणचित्तं च वर्जयित्वा. किं.
अव्याकृताप्तिः सहजेति
संबन्धनीयं. तेषां हि बलवत्त्वाद् इति विस्तरः. तेषां हि दिव्यचक्षुरभिज्ञादीनां बलवत्त्वात्. किं. पूर्वंपश्चात्सहजा प्राप्तिः. प्रयोगविशेषनिष्पत्तेर् इति. प्रयोगविशेषेण निष्पत्तिर् दिव्यचक्षुरभिज्ञादीनां. तस्याः. प्रयोगविशेषनिष्पत्तेर् बलवत्त्वं. बलवत्त्वात् पूर्वंपश्चात्सहजा प्राप्तिर् इत्य् अर्थसम्बन्धः. शैल्पस्थानिकस्यापि कस्यचित् तद्यथा विश्वकर्मणः. ऐर्यापथिकस्य च तद्यथा स्थविरस्याश्वजितस्य. अत्यर्थम् अभ्यस्तस्य भृशम् आत्मसात्कृतस्येच्छन्ति वैभाषिकाः. किं. पूर्वंपश्चात्सहजा प्राप्तिर् इति.
निवृतस्य च रूपस्येति.
चशब्दः समुच्चयार्थः. प्राप्तिः सहजेति समुच्चीयते. तच् च क्लिष्टं रूपं प्रथमध्यानभूमिकम् एव विज्ञप्तिरूपं वेदितव्यं. ततो ऽन्यासु भूमिषु तदुत्थापकाभावात्. अधिमात्रेणापीति विस्तरः. अधिमात्रेणापि चित्तेन निवृता विज्ञप्तिर् उत्थापिता. तद् एव चाधिमात्रं विज्ञप्तिचित्तं अविज्ञप्तिं नोत्थापयति. अतो दौर्बल्यसिद्धिः. तस्या दौर्बल्यसिद्धेः सहजैव प्राप्तिः.
प्राप्तिभेद इति. विपाकजादीनाम् अनिवृताव्याकृतानां सहजा प्राप्तिः. अभिज्ञाद्वयादीनां तु पूर्वंपश्चात्सहजा प्राप्तिर् इति तद्भेदः.
कामरूपस्य नाग्रजेति.
[तिब्. 140अ] कामावचरस्य कुशलाकुशलस्य विज्ञप्त्यव्ज्ञप्तिरूपस्याग्रजाप्राप्तिः सर्वथा नास्ति. यदि कुशलस्य यद्य् अकुशलस्य नास्त्य् एव सर्वथेत्य् अर्थः. सहजा चास्ति पश्चात्कालजा चेति संभवतः. तद्यथा प्रथमस्य विज्ञप्त्यविज्ञप्तिक्षणस्य आदौ सहजा प्राप्तिर् भवति. द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य क्षणस्य पश्चात्कालजा भवति. एवम् अन्येषाम् अपि द्वितीयादीनां क्षणानां सहजा पश्चात्कालजा प्राप्तिर् वेदितव्या. कामावचरस्यैव रूपस्याग्रजा ( अभिध्-क्-व्य् 153 ) प्राप्तिप्रतिषेधाद् ध्यानानास्रवसंवररूपस्याग्रजा प्राप्तिर् अस्त्य् एवेत्य् उत्सृष्टा भवति.
(इइ.40च्द्, 41) अप्राप्तिर् अनिवृताव्याकृतैव सर्वा. कस्माद् व्यवस्थाप्यते. यद्य् अप्राप्तिः क्लेशानां क्लिष्टा भवेत्. प्रहीणक्लेशस्य क्लेशवद् एव न स्यात्. यदि कुशला स्यात् समुच्छिन्नकुशलमूलस्य न स्यात्. अनास्रवाणां धर्माणाम् अप्राप्तिर् अनास्रवा स्यात्. किं स्यात्. पृथग्जनो न स्यान् नित्यम् आर्यधर्मसमन्वागतत्वात्. पारिशेष्याद् अनिवृताव्याकृतैवाप्राप्तिर् इति व्यवस्थाप्यते. प्रत्युत्पन्नस्य नास्त्य् अप्राप्तिः प्रत्युत्पन्नेति. प्रत्युत्पन्नस्य धर्मस्य प्राप्तिर् वर्तते. तस्माद् अस्याप्राप्तिर् नास्ति प्रत्युत्पन्ना. तस्य प्राप्त्यप्राप्त्योः समवधानासंभवात्. अतीतानागतयोस् तु त्रैयध्विकीति. अप्राप्तानां प्राप्तविहीनानां च प्रायोगिकानां गुणानाम् अनागतानां च चक्षुरादीनाम् अपि च येषां [तिब्. 140ब्] प्राप्तिर् नास्ति अतीताप्य् अस्त्य् अप्राप्तिर् अनागतापि प्रत्युत्पन्नापि. स्रोतोन्यायेन हि तेषाम् अप्राप्तिर् उत्पद्यते निरुध्यते ऽनागतवस्थानेति.
कामाद्याप्तामलानां चेति.
त्रिधेत्य् अनुकर्षणार्थश् चकारः. कामादिषु धातुषु आप्ता अवियुक्ताः कामाद्याप्ताः. कामाद्याप्तानाम् अमलानां चाप्राप्तिस् त्रिविधा. उपपत्त्याश्रयवशेन तद्व्यवस्थापनात्. धर्मसहाव्यवस्थापिनी ह्य् अप्राप्तिः. न प्राप्तिवद् धर्मवशेन व्यवस्थाप्यते. तस्मात् कामधातूपपन्नस्य कामरूपारूप्यावचराणां अनास्रवाणां च धर्माणाम् अप्राप्तिः कामावचरी. रूपधातूपपन्नस्य रूपावचरी. आरूप्यधातूपपन्नस्य आरूप्यावचरी. तद्यथा कामधातूपपन्नस्य प्रायोगिकानां गुणानाम् उपपत्तिलाभिकानाम् अपि कुशलसमुच्छेदावस्थायाम् अप्राप्तिर् अवीतरागत्वाच् च रूपारूप्यावचराणाम् अक्लिष्टानाम् अप्राप्तिः पृथग्जनत्वाच् चानास्रवाणाम् अप्राप्तिः कामावचरी. तथा रूपधातूपपन्नस्य कामावचराणां भूमिसंचारत्यक्तानां रूपारूप्यावचराणां च प्रायोगिकानां गुणानां पृथग्जनत्वाच् चानास्रवाणाम् अप्राप्ती रूपावचरी. तथैव चारूप्यधातूपपन्नस्य कामरूपावचराणां भूमिसंचारत्यक्तानाम् आरूप्यावचराणां च प्रायोगिकाणां [तिब्. 141अ] गुणानां पृथग्जनत्वाद् एव चानास्रवाणाम् अप्राप्तिर् आरूप्यावचरीत्य् नेयं.
पृथग्जनत्वं कतमत्. आर्यधर्माणाम् अलाभ इत्य् अनेन शास्त्रपाठेनानास्रवत्वाभावम् अप्राप्तेर् दर्शयति. कतमेषाम् आर्यधर्माणाम् अलाभ इति. आर्यधर्मा दुःखे धर्मज्ञानक्षान्तिम् आरभ्य सर्वो ऽनास्रवो मार्ग इति अत एवं पृच्छति. सर्वेषाम् अविशेषवचनाद् इति. सर्वेषां दुःखे धर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानाम् अलाभः. कस्मात्. अविशेष्तत्वात्. यद्य् ( अभिध्-क्-व्य् 154 ) एवम् उत्पन्नायाम् अपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानाम् आर्यधर्माणाम् अलाभो ऽस्यास्तीति अनार्यः स्यात्. तस्माद् इदम् आह. स तु यो विना लाभेनेति. यो विना लाभेनालाभः. तत् पृथग्जनत्वम् इति. अन्यथा हीति विस्तरः. यद्य् आर्यधर्माणां लाभे ऽपि सति अन्येषाम् अपि धर्माणाम् अलाभः पृथग्जनत्वम् इष्यते बुद्धो ऽपि श्रावकप्रत्येकबुद्धसंतानिकैर् आर्यधर्मैर् असमन्वागमात् अनार्यः स्यात्. केवलालाभग्रहणात् त्व् अप्रसंगः. एवशब्दस् तर्हि पठितव्य इति. आर्यधर्माणाम् अलाभ एवेति. एकपदान्य् अपि ह्य् अवधारणानीति. केवलपदान्य् अपीत्य् अर्थः. अब्भक्षो वायुभक्ष इति. अब्भक्ष एव वायुभक्ष एवेति नोच्यते. एवशब्दस्य चार्थो गम्यते. तद्वद् इहापीति. [तिब्. 141ब्] अथ वा अप एव यो भक्षयति सो ऽब्भक्षः. यो वायुम् एव भक्षयति स वायुभक्ष इति. यथात्र लुप्तनिर्दिष्टस्य एवकारस्यावधारणार्थो गम्यते. तद्वद् इहाप्य् अलाभ एवेति. दुःखे धर्मज्ञानक्षान्तितत्सहभुवां इत्य् अपर इति विस्तरः. दुःखे धर्मज्ञानक्षान्तेस् तत्सहभुवां च वेदनादीनां धर्माणाम् अलाभः पृथग्जनत्वम्. अस्मिं पक्षे उत्पन्नायाम् अपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानाम् आर्यधर्माणाम् अलाभो ऽस्तीत्य् अनार्यः स्याद् इति यो दोष उक्तः. स न संभवति. यदा तर्हि फलप्राप्तिः. तदा दुःखे धर्मज्ञानक्षान्तितत्सहभुवां विहानिर् इति फलप्राप्ताव् अनार्यः स्याद् इति दोषपरिहारार्थम् आह. न च तत्त्यागात्. न च तेषां क्षांतिसहभुवां त्यागाद् अनार्यत्वप्रसंगः. तदलाभस्यात्यन्तं हतत्वात्. तस्यालाभस्यात्यन्तविहीनत्वात्. कथम्. असाव् अत्यन्तं हतस् तत्संताने पुनर् अनुत्पत्तेः. ते तर्हि त्रिगोत्रा इति. श्रावकप्रत्येकबुद्धबुद्धगोत्रा इति. कतमेषाम् अलाभः. सर्वेषाम् इति. श्रावकादिगोत्राणाम्. एवं तर्हि स एव दोष इति. बुद्धो ऽपि त्रिगोत्रालाभाद् अनार्यः स्याद् इत्य् अर्थः. पुनः स एव परिहार इति. स तु यो विनालाभेनेति पूर्ववत् प्रपंचो यावत् तद्यथा अब्भक्षो वायुभक्ष इति. यत्नस् तर्हि व्यर्थ [तिब्. 142अ] इति. क्षांतिपरिशिष्टार्यधर्मालाभसद्भावाद् अनार्यः स्याद् इत्य् अस्य दोषस्य परिहाराय क्षान्तितत्सहभुवाम् अलाभः पृथग्जनत्वम् इति यो यत्नस् स व्यर्थः स्यात्. पूर्वपक्षदोषपरिहार एवायम् आस्थीयते. अनुत्पन्नार्यधर्मा संततिर् इति. अनुत्पन्ना आर्यधर्मा अस्याम् इत्य् अनुत्पन्नार्यधर्मा संततिः पृथग्जनत्वं. अनुत्पन्नार्यमार्गा स्कन्धसंततिर् इत्य् अर्थः. अर्थाद् उत्पन्नार्यधर्मा संततिर् आर्यत्वम् इत्य् उक्तं भवति आश्रयपरावृत्तेः.
अथेयम् अप्राप्तिर् इति. सर्वधर्माप्राप्तिश् चोद्यते. नार्यधर्मप्राप्तिर् एव. यथा तावद् इति. उदाहरणम् एतत्. तस्य लाभात् तद् विहीयत इति. तस्यार्यमार्गस्य लाभात् तत् पृथग्जनत्वम् अलाभलक्षणं विहीयते.
किंधातुकं तत् पृथग्जनत्वं. त्रिधातुकम् इत्य् एके. ननु चोपपत्त्याश्रयवशेनालाभो व्यवस्थाप्यते. पृथग्जनत्वं चालाभस्वभावं. तस्माद् अस्य कामावचरस्य सत्त्वस्य कामावचरम् एव पृथग्जनत्वम् अस्ति. न रूपारूप्यावचरम्. अतस् त्रैधातुकं विहीयत इति अयुज्यमानम् एतत् पश्यामः. अथ पुनर् अनुत्पत्तिधर्मतां तद् आपन्नम् इति कृत्वा त्रैधातुकं तद् विहीयत इति उपचारकल्पना. भवत्व् एषा. नैषा वार्यते. कामावचरस्यैव त्व् एकस्य पृथग्जनत्वस्य प्राप्तिर् अस्ति. तल् लौकिकाग्रभर्मावस्थायां विहीयत [तिब्. 142ब्] इति वेदयामः. तच् च कामवैराग्ये नवमे विमुक्तिमार्गे प्रहीयते. रूपारूप्यधात्वोर् उत्पद्यमानस्य त्व् आर्यस्य प्रतिभूम्यवस्थितानां पृथग्जनत्वानां आर्यमार्गप्राप्तिसामर्थ्यान् नैव प्राप्तिर् उत्पद्यते. प्रतिभूमि तु नवमे विमुक्तिमार्गे तेषां प्रहाणं भवतीति अवगंतव्यं.
भूमिसंचाराच् चेति. यदा च कामधातोर् वैराग्यं कृत्वा प्रथमं ध्यानं संचरति. तदा च तत् कामावचरं पृथग्जनत्वं विहीयते. न चार्यो भवति. प्रथमध्यानभूमिकपृथग्जनत्वप्रादुर्भावात्. एवम् आरूप्यधातुसंचाराद् रूपावचरं पृथग्जनत्वं विहीयते. ऊर्ध्वभूमेश् चाधरां भूमिं संचरते ऊर्ध्वभूमिकं पृथग्जनत्वं विहीयत इति वक्तव्यम्. एवम् अन्येषाम् अपि योज्यम् इति. यथार्यमार्गस्य प्राप्त्या पृथग्जनत्वम् अप्राप्तिर् विहीयत इति योजितं. एवम् अन्येषाम् अपि श्रुतचिन्तामयादिकानां धर्माणाम् अप्राप्तिर् विहीयत इति योज्यं. कथं. कामावचराणां तावच् छ्रुतचिन्तामयादिकानां धर्माणां प्राप्तिलाभाद् अप्राप्तिर् विहीयते. उपपत्तिलाभिकानां च कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर् विहीयते. भूमिसंचाराच् च. यदा चायं कामधातोश् च्युत्वा प्रथमं ध्यानम् उपपत्त्या संचरति. तदा च तद्भूमिकानां गतिसंगृहीतानां स्कंधानाम् अप्राप्तिर् विहीयते. अक्लिष्टाव्याकृता एव हि गतयो वक्ष्यन्ते.
अव्याकृताप्तिः [तिब्. 143अ] सहजेति
चोक्तम्. एवं प्रथमध्यानभूमिकानां प्रायोगिकाणां गुणानां प्राप्तेर् अप्राप्तिर् विहीयते. भूमिसंचाराच् च. ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसंचाराद् विहीयत इति. इदम् एकेषां भूमि संचारव्याख्यानोदाहरणं तत्र अविविक्तं पश्यामः. ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानाम् अप्राप्तिर् न केवलं भूमिसंचाराद् विबीयते. किं तर्हि. तत्प्राप्तितो ऽपीति. इदं त्व् असंकीर्णम् उदाहरणं पश्यामः. तद्यथा द्वितीयादिध्यानभूमिकानां प्रायोगिकाणां गुणानां तदलाभिनः कामावचरस्य सत्त्वस्याप्राप्तिर् अस्ति. स यदि कामवैराग्यं कृत्वा प्रथमध्यान उपपद्यते ( अभिध्-क्-व्य् 156 ). सा तेषाम् अप्राप्तिर् भूमिसंचाराद् विहीयते. प्रथमध्यानभूमिका तु तेषाम् अप्राप्तिर् उद्भवतीति. एवम् अन्येषाम् अपि योज्यं.
ननु चैवम् अनवस्थाप्रसंगः प्राप्तीनाम् इति. प्राप्तेर् अपि प्राप्तिः. अस्या अप्य् अन्या. तस्या अप्य् अन्या इत्य् अनवस्था. परस्परसमन्वागमाद् इति. प्राप्तिप्राप्तियोगात् प्राप्त्या समन्वागतः. प्राप्तियोगात् प्राप्तिप्राप्त्या समन्वागत इत्य् अर्थः. प्राप्त्युत्पादाद् इति विस्तरः. प्राप्त्युत्पादात् तेन धर्मेण चित्तेन वा समन्वागतो भवति. प्राप्तिप्राप्त्या च समन्वागत इति वर्तते. प्राप्तिप्राप्त्युत्पत्तेः प्राप्त्यैव समन्वागतो भवतीति. एवं प्राप्तिर् उभयत्र व्याप्रियते. प्राप्तिप्राप्तिस् त्व् एकत्रेति अतो नानवस्था. कुशलस्य क्लिष्टस्य चेति. अनयोर् अग्रजपश्चात्कालजप्राप्तित्वाद् ग्रहणं. अव्याकृतस्य [तिब्. 143ब्] हि सहजैव प्राप्तिर् इति. द्वितीये क्षण इति विस्तरः. द्वितीये क्षणे तस्य धर्मस्य तत्प्राप्तेः प्राप्तिप्राप्तेश् च प्राप्तय इति तिस्रः प्राप्तयः. प्राप्तियोगाद् धि तैः समन्वागतो भवति. ताभिस् तिसृभिः प्राप्तिभिः समन्वागमार्थं पुनस् तिस्रो ऽनुप्राप्तय उद्भवन्तीति षड् भवन्ति प्राप्तयः. प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणाम् इति. धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तयः सार्धम् अनुप्राप्तिभिर् अष्टादश भवन्ति. एवम् उत्तरोत्तरवृद्धिप्रसंगेनेति विस्तरः. उत्तरोत्तरस्य क्षणस्य वृद्धिः प्राप्तिभिः. उत्तरोत्तरे वा क्षणे वृद्धिः प्राप्तीनां. तस्याः प्रसंगः उत्तरोत्तरवृद्धिप्रसंगः. तेन. उत्तरोत्तरवृद्धिप्रसंगेन. एताः प्राप्तयो विसर्पन्त्य इति. दिङ्मात्रं दर्शयिष्यामः. चतुर्थे क्षणे प्रथमक्षणोत्पन्नैस् त्रिभिर् धर्मैः प्राप्त्यनुप्राप्तिमद्भिर् भवितव्यं. द्वितीयक्षणोत्पन्नाभिर् अपि षड्भिः प्राप्त्यनुप्राप्तिभिः पुनः प्राप्त्यनुप्राप्तिमतीभिर् भवितव्यम्. एवं तृतीयक्षणोत्पन्नाभिर् अष्टादशभिः प्राप्त्यनुप्राप्तिभिः पुनर् अपि प्राप्त्यनुप्राप्तिमतीभिर् भवितव्यम् इति प्रथमद्वितीयतृतीयक्षणोत्पन्नानां सप्तविंशतिः प्राप्तयः सार्धम् अनुप्राप्तिभिस् तावतीभिर् इति चतुःपंचाशत् प्राप्तयश् चतुर्थे क्षणे भवन्ति. पंचमे तु क्षणे प्रथमद्वितीयतृतीयक्षणोत्पन्नाः प्राप्त्यनुप्राप्तयः पुनश् चतुःपंचाशच् चतुर्थक्षणोत्पन्नप्राप्त्यनुप्राप्तयश् च द्विश्चतुःपंचाशद् भवन्ति. त्रीणि चतुःपंचाशत्कानि द्वाषष्त्युत्तरशतं प्राप्तीनां जायते. एवम् उत्तरोत्तरवृद्धिप्रसंगो वक्तव्यः. अतीतानागतानाम् इत्य् अत्र प्रत्युत्पन्नाग्रहणम् अनावश्यकत्वात्. [तिब्. 144अ] उत्पत्तिलाभिकानां चेति. अत्र प्रायोगिकाग्रहणम् अनावश्यकत्वाद् एव. ससंप्रयोगसहभुवाम् इति. सवेदनादिसजात्यादीनाम्. अनाद्यन्तसंसारपर्यापन्नानाम् अनादाव् अनन्ते च संसारे संगृहीतानां. अनन्ता अप्रमेया एकस्य प्राणिनः. किं अङ्ग बहूनां. क्षणे क्षणे उपजायंते प्राप्तय इति. अनन्तद्रव्या एव. अनन्तप्राप्तिद्रव्या इत्य् अर्थः. ( अभिध्-क्-व्य् 157 ) अत्युत्सवो बतायं प्राप्तीनाम् इति. परिहासवचनम् एतत्. केवलं न प्रतिघातिन्यः अरूपिणीत्वात् यतो ऽवकाशं लभंते प्राप्तयः.
(इइ.42अ) सभागता सत्त्वसाम्यम्
इति विस्तरः. समानो भागो भजनम् एषाम् इति सभागाः. तद्भावः सभागता. समानो वा भागो भजनं सभागः. सभाग एव सभागता. यद्योगात् सभागो भवति. तद् द्रव्यं. सत्त्वानां साम्यं सामान्यं सादृश्यम् इत्य् अर्थः. सत्त्वग्रहणम् असत्त्वनिरासार्थं. सत्त्वानां सत्त्वसंख्यातानां च धर्माणां सादृश्यं सभागता. असत्त्वसंख्यातानां शालियवादीनां नेष्यते. निकायसभाग इत्य् अस्याः शास्त्रे संज्ञेति. ज्ञानप्रस्थानादिके शास्त्रे निकायसभाग इति अनया संज्ञया अयं चित्तविप्रयुक्तो निर्दिश्यते. इह तु श्लोकबन्धानुगुण्यात् सभागतेति अनया संज्ञयेत्य् अभिप्रायः. सा पुनर् अभिन्ना भिन्ना चेति. या सर्वसत्त्ववर्तिनी. सा प्रतिसत्त्वम् [तिब्. 144ब्] अन्यान्याप्य् अभिन्नेत्य् उच्यते सादृश्यात्. न हि सा यथा वैशेषिकाणाम् एका नित्या चेति. भिन्ना या क्वचिद् वर्तते क्वचिन् न वर्तते. तत आह. भिन्ना पुनर् इति विस्तरः. धातवस् त्रयः कामादयः. गतयः पंच नरकादयः. योनयश् चतस्रो ऽण्डजादयः. जातयो ब्राह्मणादयः. आदिशब्देन उपासिकाभिक्षुणीनैवशैक्षनाशैक्षादयः संगृह्यन्ते. स्कंधायतनधातुत इति. रूपस्कन्धसभागता यावद् धर्मधातुसभागता. अविशिष्टम् इति. सामान्यरूपं. प्रज्ञप्तिश् चेति. अभिधानं चेत्य् अर्थः. एवं स्कन्धादिबुद्धिप्रज्ञप्तयो ऽपि योज्या इति. यदि स्कन्धसभागताद्रव्यम् अविशिष्टं न स्याद् अन्योन्यविशेषभिन्नेषु स्कन्धेषु स्कन्धः स्कन्ध इत्य् अभेदेन बुद्धिर् न स्यात् प्रज्ञप्तिश् चेति. एवं धात्वादिबुद्धिप्रज्ञप्तयो ऽपि योज्या इत्य् एके पठन्ति. तेषाम् एवं वक्तव्यं. यदि सभागतेति विस्तरेण यावद् अन्योन्यविशेषभिन्नेषु धातुषु कामावचरः कामावचर इति अभेदेन बुद्धिर् न स्यात् प्रज्ञप्तिश् चेति.
चतुःकोटिक इति. स्यात् च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान् न च प्रतिलभेतेति. सत्त्वसभागताम् इति. सत्त्वानां सभागता सत्त्वसभागता मनुष्यत्वादिलक्षणा. सत्त्वग्रहणं [तिब्. 145अ] हि धर्मविशेषणार्थं. सत्त्वसभागता ह्य् अत्र चतुःकोटिके विवक्षिता न धर्मसभागतेति. न तु सत्त्वस् सत्त्व इत्य् आकारसभागतेहाभिप्रेता. यदि हि साभिप्रेता स्यात्. तृतीया कोटिर् न सिध्येत गतिसंचारे ऽपि तस्याः सत्त्वसभागतायास् तादवस्थ्यात्. तत्रैवोपपद्यमान इति. तद्यथा मनुष्यगतेश् च्युत्वा मनुष्यगताव् एवोपपद्यमानः. मनुष्यगतेश् च्यवते मरणाद् उपपद्यते च तस्याम् एव प्रतिसंधिबन्धात्. न चासौ मनुष्यसभागतां विजहाति न च प्रतिलभते तस्या मनुष्यसभागतायास् तादवस्थ्यात्. ( अभिध्-क्-व्य् 158 ) द्वितीया नियामम् अवक्रामन्न् इति. स सत्त्वसभागतां पृथग्जनत्वस्वभावां सभागतां विजहाति आर्यत्वस्वभावां सभागताम् अपरां प्रतिलभते. तृतीया गतिसंचाराद् इति. तद्यथा मनुष्यगतेश् च्युत्वा देवगाताव् उपपद्यमानः. च्यवते तथैव मरणाद् उपपद्यते च प्रतिसंधिबन्धात्. सत्त्वसभागतां मनुष्यसभागतालक्षणां विजहाति. प्रतिलभते च देवसभागतालक्षणाम् अपराम् इति. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. पूर्वोक्तकोटिस्वभावप्रकारान् वर्जयित्वेत्य् अर्थः. तद्यथा जीवन् पृथग्जन आर्यो वा किंचिद् अलभमानः.
यदि पृथग्जनसभागता नाम द्रव्यम् अस्ति किं पुनः पृथग्जनत्वेन आर्यधर्मलाभस्वभावेन कल्पितेन प्रयोजनम् इति वाक्यशेषः. पृथग्जनसभागतयैव पृथग्जन इति परिच्छिद्येत यथा [तिब्. 145ब्] मनुष्यसभागतयैव मनुष्य इति. न हि मनुष्य्सभागताया अन्यन् मनुष्यत्वं कल्प्यते वैभाषिकैर् अलाभवद् अन्यस्वभावं. तत्र च साधनं. न स्वसभागताया अन्यत् पृथग्जनत्वं. स्वसभागताप्रत्ययाभिधेयत्वात्. मनुष्यत्ववत्. नैव च लोकः सभागतां पश्यति अरूपिणीत्वाद् इति. न लोकश् चक्षुषा सभागतां पश्यत्य् अरूपिणीत्वाद् अरूपवतीत्वाद् अरूपस्वभावत्वाद् वा. यथा न पश्यति एवं न शृणोति यावन् न स्पृशतीति. अनेन प्रत्यक्षासिद्धतां दर्शयति. न चैनां प्रज्ञया परिच्छिनत्तीति. अनेनानुमानेनापि न सिध्यतीति दर्शयति. प्रतिपद्यते च सत्त्वानां जात्यभेदम् इति. सत्या अपि तस्याः कथं तत्र व्यापार इति. जात्यभेदप्रतिपत्तौ जात्यभेदप्रतिपत्तिर् अस्ति. सा तु न सभागतया द्रव्यान्तरकल्पितया कृता प्रमाणेनानुपलभ्यमानत्वेन तस्या व्यापारसंभवात्. ब्रूयास् त्वं. न निर्निमित्ता सामान्यबुद्धिर् भवितुम् अर्हति. तेन यन् निमित्तं तस्याः सामान्यबुद्धेः. तत् सभागता नाम द्रव्यम् इति. वयम् अपि तां सामान्यबुद्धिं सनिमित्तांम् ब्रूमः. सादृश्यकृता हि सा बुद्धिः. तच् च सादृश्यं न द्रव्यान्तरम् इति ब्रूमः. तेनोच्यते. अपि चासत्त्वसभागतापि किं नेष्यत इति विस्तरः. न द्रव्यान्तरसभागतानिमित्ता सत्त्वः सत्त्व इति सामान्यबुद्धिः. सामान्याकारप्रवृत्तत्वात्. शालियवमुद्गमाषादिसामान्यबुद्धिवत्. शालियवस्वजातिसादृश्यकृता [तिब्. 146अ] ह्य् एषा सामान्यबुद्धिः. न च तेषां स्वजातिसादृश्यं स्वतो ऽर्थान्तरं भवति. तासां च सभागतानाम् इति विस्तरः. अन्या सत्त्वसभागतान्या धातुसभागतान्या गतिसभागतेति अन्योन्यभिन्नाः सभागता इष्यन्ते. तासां सभागतेति प्रज्ञप्तिर् इयं सभागता इयं सभागतेत्य् अभेदेन कथं भवद्भिः क्रियते. व्यवहारः प्रत्ययश् च कथं जायते. यद्य् अत्रापि सभागतान्तरं प्रतिज्ञायेत येन सभागतासामान्यबुद्धिर् भवेत्. भवेत् सो ऽयम् अपक्षः प्राक्पक्षविरोधात्. ( अभिध्-क्-व्य् 159 ) वैशेषिकाश् चैवं द्योतिता इति. ज्वलिताः समर्थिता इत्य् अभिप्रायः. ते ऽपि हि सामान्यपदार्थवादिनो भवन्तो ऽपीति. अयं तु तेषां वैशेषिकाणां विशेषः. एको ऽप्य् अनेकस्मिं वर्तते स्रक्सूत्रवत्. भूतकण्ठेगुणवच् चेति. यदि द्योतिताः सामान्यपदार्थवादित्वात्. यदि न द्योतिता एकानेकनित्यानित्यत्वादिविशेषवादित्वात्. न हि परलोकास्तित्वादीनि वैशेषिकैः कल्पितानीति न व्यवस्थाप्यन्ते. सचेद् इत्थंत्वम् आगच्छतीति. प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपप्द्यते. सचेद् इत्थंत्वं आगच्छति मनुष्याणां सभागतां प्राप्नोति प्राणातिपातेनाल्पायुर् भवतीति विस्तरः. इदंप्रकार इत्थं. तद्भावः इत्थंत्वम् इति. [तिब्. 146ब्] शरीरेन्द्रियसंस्थानचेष्टाहारादिसाभाग्यकारणं अन्योन्याभिर् अभिसंबंधनिमित्तं च सभागतेति आचार्यसंघभद्रः. तद् एतद् एतेनैव प्रत्युक्तं. वयम् अपि ह्य् एवम् इच्छामः. न तु सा सभागता द्रव्यांतरं. त एव हि संस्कारास् तथाकारणभावं प्रतिपद्यंते इति.
(इइ.42ब्च्द्) आसंज्ञिकम् असंज्ञिषु निरोधश् चित्तचैत्तानाम्
इति विस्तरः. असंज्ञिनाम् इदम् आसंज्ञिकं. असंज्ञिषु वा भवं आसंज्ञिकं. निरुध्यंते ऽनेन चित्तचैत्ताः. चित्तचैत्तान् वा निरुणद्धीति निरोधः. येनानागते ऽध्वन्य् अवस्थिताश् चित्तचैत्ताः कालांतरं तावत्कालं संनिरुध्यंते. नोत्पत्तुं लभंते इत्य् अर्थः. तद् आसंज्ञिकं नाम द्रव्यं. नदीतोयसंनिरोधवत्. सेतुवद् इत्य् अर्थः. ध्यानांतरिकावद् इति. यथा ब्रह्मपुरोहिता नाम ते देवा येषां केचिन् महाब्रह्माणः प्रदेशे भवंति ध्यानांतरिकायां. तथा बृहत्फला नाम ते देवा येषाम् असंज्ञिसत्त्वाः प्रदेशे भवंति. न भूम्यंतरे भवंति. उपपत्तिकाले च्युतिकाले च संज्ञिन इति संबंधनीयं. क्लिष्टेन मनसा प्रतिसंधिबंधात्.
उपेक्षायां च्युतोद्भवाव्
इति च नियमात्. पूर्वसमापत्तिसंस्कारपरिक्षयाद् इति. पूर्वसमापत्तिसंस्कारलक्षणस्य विपाकहेतोः परिक्षयात्. ततः समाप्तफलत्वाद् इत्य् अर्थः. [तिब्. 147अ] पूर्वसमापत्तिसंस्कारावेधपरिक्षयाद् इत्य् अपरे व्याचक्षते. अपूर्वानुपचयाच् चेति. चित्ताभावात् कर्मानुपचयाद् इत्य् अभिप्रायः. क्षिप्ता इव क्षीणवेगा इषवः पृथिवीम् इति. उपपद्यंते इति प्रकृतं. पूर्वम् अयं पदिर् जन्यर्थः. इदानीम् अर्थवशाद् गत्यर्थः. संपद्यंते गच्छंतीत्य् अर्थः. पृथिवीं गच्छंतीति वाक्यशेष इत्य् स्परे.
(इइ.43) असंज्ञिनां सत्त्वानां समापत्तिर् असंज्ञा वा समापत्तिर् इति असंज्ञिसमापत्तिः. एतावत् तथाशब्देनान्वाकृष्यत इति. विपाक इत्य् एवमादेर् अर्थविशेषस्यानभिप्रीतेः. अव्याकृतम् एव हि आसंज्ञिकं. कुशलैव चेयं समापत्तिर् ( अभिध्-क्-व्य् 160 ) इति वक्ष्यते.
पंचस्कंधको विपाक इति. च्युत्युपपत्तिकाले चित्तचैत्ताणां विपाकत्वसद्भावात्.
तत एव तल्लाभीति. यत एव परिहीणो ऽपि पुनर् उत्पाद्यासंज्ञिसत्त्वेषूपपद्यते तत एव तल्लाभी नियामं नावक्रामति. नियामावक्रांत्यैव ह्य् आर्यो ऽपायगत्यासंज्ञिकमहाब्रह्मकौरवोपपत्त्यष्टमभवादीनाम् अप्रतिसंख्यानिरोधं प्रतिलभते. विनिपातस्थानम् इवैनां पश्यंतीति. अपायस्थानम् इवैनां पश्यंतीत्य् अर्थः. गिरितटादिविनिपातस्थानम् इवेत्य् अपरे. निःसरणसंज्ञिनो हि तां समापद्यंते. पृथग्जना मोक्षसंज्ञिन इत्य् [तिब्. 147ब्] अर्थः. न चैवम् आर्या विपरीतसंज्ञिनः प्रतिलभंते. ध्यानवद् इति. चतुर्थध्यानलाभाद् अतीतानागतम् अनादिमति संसारे लब्धपूर्वं चतुर्थं ध्यानं प्रतिलभंते योगिनः. तस्मात् किं तद्वद् एव अतीतानागतां तां प्रतिलभंत इति पृच्छति. अन्ये ऽपि तावन् न प्रतिलभंत इति. पृथग्जना अपि तावन् नातीतानागतां प्रतिलभंते येषां तावद् इयं आत्मीया समापत्तिः. किं पुनर् आर्या येषाम् इयम् अनात्मीयेति. उचितापि सतीति. अनादिमति संसारे लब्धपूर्वापि महाभिसंस्कारसाध्यत्वान् महायत्नाभिनिष्पाद्यत्वाद् इत्य् अर्थः. अचित्तकत्वाच् च.
एकाध्विकाप्यते
समानाध्विका लभ्यत इत्य् अर्थः. यथा प्रातिमोक्षसंवर इति. प्रातिमोक्षसंवरो ऽष्टविधो ऽपि यदा समादीयते. तदा स प्राप्यते. प्राप्तिश् च तस्य तस्मिन्न् एव क्षणे उत्पद्यते. लब्धया तु तया समापत्त्या द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवरवद् एव समन्वागतो भवति. यावन् न त्यजति तां समापत्तिं. तत्त्यागस् तु परिहाण्या भूमिसंचाराद् वा. अचैत्तिकत्वान् नानागता भाव्यते. कुशलं हि चित्तम् अनागतं भाव्यते. न त्व् इयं अचित्तकेति न तद्वद् अनागता भाव्यते.
(इइ.44, 45अब्) निरोधाख्या तथैवे ति.
समापत्तिर् इति वर्तते. एवशब्दो ऽवधारणे. यथासंज्ञिसमापत्तिनिर्देशे अथाशब्देन निरोधश् चित्तचैत्तानाम् इति अतिदिश्यते. तथैवेहापि [तिब्. 148अ] निरोधसमापत्तिनिर्देशे स एवंप्रकारो ऽतिदिश्यते इति. शांतविहारसंज्ञापूर्वकेण मनसिकारेणेति. विहारः कृईदाविहार इव विहारः. समाधिविशेषः. शांतो विहारः शांतविहारः. शांतविहारे संज्ञा शांतविहारसंज्ञा. सा पूर्वा अस्येति शांतविहारसंज्ञापूर्वकः मनसिकारो मनस्कार इति यो ऽर्थः अलुक्समासात् स मनसिकार इति भवति. संज्ञावेदितसमुदाचारपरिश्रांता हि तत्र शांतविहारसंज्ञिनस् तथाविधेन मनसिकारेण एनां निरोधसमापत्तिं समापद्यंते. तां त्व् असंज्ञिसमापत्तिं निःसरणसंज्ञापूर्वकेण मोक्षसंज्ञापूर्वकेणेत्य् ( अभिध्-क्-व्य् 161 ) अर्थः. अपरपर्यायवेदनीया चेति. अपरपर्यायस् तृतीयादिजन्म. तत्र वेदनीया. कथं. य आर्यः कामधातौ निरोधसमापत्तिम् उत्पाद्य भवाग्र उत्पद्येत. तस्य सा परिपूरिकोपपद्यवेदनीया. यस् तु ततः परिहीणो रूपधाताव् उपपद्य कालांतरेण च पुनर् अपि भवाग्रं लब्ध्वा निरोधसमापत्तिम् उत्पाद्यानुत्पाद्य वा भवाग्र उपपद्यते. तस्य सापरपर्यायवेदनीया भवति. यस् त्व् इह परिनिर्वायात्. तस्यानियतेति.
उच्छेदभीरुत्वाद् इति. सर्वात्मभावोच्छेदभीरुत्वात्. व्यथंते ह्य् अपुनर्भवात् प्रपाताद् इव बालिशाः. असंज्ञिसमापत्तौ कस्माद् उच्छेदभयं न भवति. [तिब्. 148ब्] तत्र रूपसद्भावात्. रूपे ह्य् आत्मसंज्ञाम् अभिनिवेश्य तां समापद्यंते. निरोधसमापत्तौ तु आरूप्यभूमिकत्वाद् रूपम् अपि नास्तीति सर्वात्मभावभावं पश्यंतो न तां समापत्तुम् उत्सहंते. ननु चारूप्येषु निकायसभागजीवितेन्द्रियादयश् चित्तविप्रयुक्ता सन्ति. कस्मात् तत्रात्मसंज्ञाम् अभिनिवेश्य तां न समापद्यंते. विप्रयुक्तानाम् अदृश्यत्वात्. आर्यमार्गबलेन चोत्पादनात्. कथं पुनर् गम्यते आर्यमार्गबलेन तद् उत्पादनम् इति अत आह. दृष्टधर्मनिर्वाणस्य तदधिमुक्तित इति. दृष्टे जन्मनि निर्वाणं दृष्टधर्मनिर्वाणं. तस्य. तदधिमुक्तितः. तद् इति अधिमुक्तिः तदधिमुक्तिः. तेन वाधिमुक्तिस् तदधिमुक्तिः. तदधिमुक्तेस् तदधिमुक्तितः. दृष्टे जन्मनि एतन् निर्वाणम् इति आर्यस् ताम् अधिमुच्यते. केचित् पुनर् एवं पठंति. दृष्टनिर्वाणस्य तदधिमुक्तित इति. एवं च व्याचक्षते. दृष्टं निर्वाणम् अनेनेति दृष्टनिर्वाणः. तस्यार्यस्य तस्याम् अधिमुक्तिस् तदधिमुक्तिः. तदधिमुक्तेस् तदधिमुक्तितः. एतद् उक्तं भवति. दृष्टनिर्वाण आर्यस् ताम् अधिमुच्यते नान्य इति. ननु च पृथग्जनो ऽपि लौकिकेन मार्गेण दृष्टनिर्वाणः. न पृथग्जनो दृष्टनिर्वाणः. प्राप्तनिर्वाणस् तु भवेत्. तदुत्तरां हि भूमिं पृथग्जनः शांततः पश्यन् वैराग्यं लभते न निर्वाणम् इति अचोद्यम् एतत्. प्रयोगलभ्यैवेयम् इति. [तिब्. 149अ] इयम् अपि समापत्तिर् असंज्ञिसमापत्तिवद् एव महाभिसंस्कारसाध्येति. तथैव
एकाध्विकाप्यते.
कथम् इत्य् आह. न चातीता लभ्यत इति. यदा परिहीणः पुनस् ताम् उत्पादयति. तदा प्रयोगेणापूर्वैव लभ्यते. प्रातिमोक्षसंवरवद् इति विस्तरेण व्याख्येया. चित्तबलेन तद्भावनाद् इति. चित्तबलेनानागतभावनाद् इत्य् अर्थः.
बोधिलभ्या मुनेर्
इति. प्रयोगलभ्यैवेयम् इत्य् उत्सर्गस्यायम् अपवादः. श्रावकप्रत्येकबुद्धानां स विधिर् इति कृत्वा.
क्षयानुत्पादज्ञाने बोधिर्
इति वक्ष्यति. तेनाह. क्षयज्ञानसमकालम् इति विस्तरः.
सास्रवाश् च क्षयज्ञान
इति बुद्धा भगवंत एतां प्रतिलभंते. नास्ति बुद्धानां किंचित् प्रायोगिकं नामेति. योथोक्तं स्तोत्रकारेण
न ते प्रायोगिकं किंचित् कुशलं कुशलान्तग
इच्छामात्रावबद्धा ते यत्रकामावसायितेति.
कथं पुनर् भगवान् उभयतोभागविमुक्त इति. क्लेशावरणं समापत्त्यावरणं चोभयतोभागः. ततो विमुक्तः. सिध्यत्य् उत्पादितायाम् इवेति. सिध्यति उभयतोभागविमुक्तो भगवां संमुखीकृतपूर्वायाम् इव. तस्यां वशित्वलाभात्. तत्संमुखीकारणकारणसामर्थ्ययोगतः. प्राग् एव ताम् इति विस्तरः. धर्मतैषा यद् बोधिसत्त्वश् चरमभविको भवाग्रलाभी भूत्वा चतुर्थध्यानसंनिश्रयेण दर्शनमार्गम् [तिब्. 149ब्] उत्पाद्य ततश् च व्युत्थाय भवाग्रं समापद्यते. ततो निरोधसमापत्तिं समापद्यते. ततो व्युत्थाय पुनश् चतुर्थध्यानसंनिश्रयेण भावाग्रिकभावनाप्रहातव्यक्लेशप्रहाणं कृत्वा क्षयज्ञानकालात् प्रभृति अनुत्तरसम्यक्संबुद्धो भवतीत्य् एवं शैक्षावस्थायां स ताम् उत्पादयतीति पाश्चात्याः कश्मीरमण्डलात् पश्चाद् भवाः पाश्चात्याः. नेत्रीपदम् इति शास्त्रनाम स्थविरोपगुप्तस्य. यत्रेदं वाक्यं. निरोधसमापत्तिम् उत्पाद्य क्षयज्ञानम् उत्पादयतीति वक्तवय्ं तथागत इति. सत्याभिसमये षोडशभिर् इति. दुःखे धर्मज्ञानक्षांतिम् आरभ्य यावन् मार्गे ऽन्वयज्ञनम् इति षोडशभिश् चित्तक्षणैः. भवाग्रवैराग्ये चाष्टादसभिर् इति. नवप्रकाराणां क्लेशानां भावाग्रिकाणां भावनाहेयानां प्रहाणाय नवानंतर्यमार्गा नव च विमुक्तिमार्गा इत्य् अष्टादशभिः. त एते चतुस्त्रिंशद् भवंति षोडश चष्टादश चेति. अधोभूमिका न पुनः प्रहेया भवंतीति. कामावचरादीनां क्लेशानां लौकिकेन मार्गेण पृथग्जनत्वावस्थायाम् एव प्रहीणत्वात्. यद्य् एष नियमः प्रहीणक्लेशप्रतिपक्षोत्पादनं न कर्तव्यम् इति. अथ किमर्थं प्रहीणेषु कामावचरेषु क्लेशेषु तत्प्रतिपक्षं धर्मज्ञानपक्षम् मार्गम् अभिसमयकाल उत्पादयति. तन्नांतरीयकत्वाद् अन्वयज्ञानपक्षस्य मार्गस्य. [तिब्. 150अ] न ह्य् असत्यां धर्मज्ञानपक्षोत्पत्ताव् अन्वयज्ञानपक्षसंमुखीभावः संभवति. एतद् ध्य् अन्वयज्ञानस्यान्वयज्ञानत्वं यद् अतः पश्चाद् भवतीति. पाश्चात्या आहुः. किं पुनः स्याद् इति विस्तरः. को दोषः स्याद् यदि विसभागं सास्रवं चित्तम् अंतरा संमुखीकुर्यात् ( अभिध्-क्-व्य् 163 ). वैभाषिका आहुः. व्युत्थानाशयः स्याद् इति विस्तरः. व्युत्थानभिप्रायः बोधिसत्त्वः स्यात्. व्युत्थानकुशलः स्याद् इत्य् अपरे. कुशलमूलार्थो ह्य् आशयार्थः. तद् एतद् उक्तं भवति. ईदृशानि कुशलमूलानि बोधिसत्त्वानां यैः संमुखीभूतैस् तावन् न व्युत्तिष्ठंते यावद् एकासन एवानुत्तरा सम्यक्संबोधिः प्राप्तेति. बहिर्देशका आहुह्. सत्यम् अव्युत्थानाशयो न तु यथा भवंतो वर्णयंतीति. पूर्वम् एव तु वर्णयंति. क्षयज्ञानसमकालम् इति यः पक्षः.
(इइ.45च्द्) यद्य् अप्य् अनयोर् बहुप्रकारो विशेष इति. एका
ध्याने ऽंत्ये.
अपरा
भवाग्रजा.
एकां निःसरणसंज्ञया समापद्यते ऽपरां विहारकामतयेत्य् एवमादिबहुप्रकारविशेषः. साम्यं त्व् अनयोः.
कामरूपाश्रये भूते
इति. स्याद् रूपभव इति विस्तरः. यः क्वचिद् रूपभवः सर्वो ऽसौ भवः पंचव्यवचार इति चतुःकोटिकः. स्याद् रूपभवो न चासौ भवः पंचव्यवचारः. [तिब्. 150ब्] रूपावचराणां संज्ञिनां देवानां विसभागे चित्ते स्थितानाम् असंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानाम् असंज्ञिनां च देवानाम् आसंज्ञिके प्रतिलब्धे यो भवः. स्याद् भवः पंचव्यवचारो न चासौ रूपभवः. कामावचराणां सत्त्वानां सभागे चित्ते स्थितानां यो भवः. स्याद् रूपभवः स च भवः पंचव्यवचारः. रूपावचराणां संज्ञिनां देवानां सभागे चित्ते स्थितानां असंज्ञिनां च देवानाम् आसंज्ञिके ऽप्रतिलब्धे यो भवः. स्यान् नैव रूपभवो न चासौ भवः पंचव्यवचारः. कामावचराणां सत्त्वानां विसभागे चित्ते स्थितानाम् असंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानां यो भवः. आरूप्यभवश् च. तत्र प्रथमा कोटिर् उदाहरणं. रूपभवो रूपावचरं स्कंधपंचकं. पंचव्यवचारः पंचस्कंधक इत्य् अर्थः. व्यवचार इति काश्यपस्य तथागतस्य स्कंधसंज्ञा. विशेषेणावचारो व्यवचारः. अन्यथीभावेन विसंवादनम् इत्य् अर्थः. सो ऽस्यास्तीति व्यवचारः. अर्शआदिभ्यो ऽज् इत्य् अकारो मत्वर्थीयः. विसंवादनीत्य् अर्थः.
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमेत्य्-
आदिना विसंवादनात्. तत्र यदि रूपधाताव् असंज्ञिसमापत्तिर् नेष्यते असंज्ञिसमापत्तिं निरोधसमापत्तिं [तिब्. 151अ] समापन्नानाम् इति नोच्येत. तेन रूपावचर्य् असंज्ञिसमापत्तिर् इति गम्यते. तत्र अपि त्व् अयं विशेष इति. तत्र साधर्म्ये ऽपि विशेषो भवति. पश्चाद् रूपधाताव् इति. य आर्या निरोधसमापत्तिम् उत्पाद्य ततः परिहीणा ध्यानं च लब्ध्वा रूपधाताव् उपपद्यंते. तैः परिहीणपूर्वैः. पूर्वाभ्यासवशाद् रूपधातौ निरोधसमापत्तिर् उत्पाद्येत. असंज्ञिसमापत्तिस् तु कामरूपधातौ प्रथमतो ऽपि पृथग्जनैर् उत्पाद्यत इत्य् अयं विशेषः.
किम् अप्य् अस्ति परिहाणिर् इति. निर्वाणसदृसीयम् समापत्तिः. कथम् अतः परिहाणिर् इत्य् असंभावयन् पृच्छति. उदायिसूत्रम् इति. आर्यशारिपुत्रभाषितम् एतत् सूत्रं. उदायी तु तत्र विबंधक इत्य् उदायिसूत्रम् इत्य् उच्यते. कथम् इति. श्रावस्त्यां निदानं. तत्रायुष्मां छारिपुत्रो भिक्षून् आमंत्रयते स्म. इहायुष्मंतो भिक्षुः शीलसंपन्नश् च भवति समाधिसम्पन्नश् च प्रज्ञासंपन्नश् च. सो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च. अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. स न हैव दृष्ट एव धर्मे प्रतिपद्य् एवाज्ञाम् आरागयति. नापि मरणकालसमये. भेदाच् च कायस्यातिक्रम्य देवान् कवडीकारभक्षान् अन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते. स तत्रोपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं [तिब्. 151ब्] समापद्यते च व्युत्तिष्ठते च. अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. तेन खलु पुनः समयेनायुष्मान् उदायी तस्याम् एव पर्षदि संनिषण्णो ऽभुत् संनिपतितः. अथायुष्मान् उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. अस्थानम् एतद् आयुष्मं छारिपुत्रानवकाशो यद् भिक्षुर् अन्यतमस्मिं दिव्ये मनोमये काये उपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्त्ःअते चास्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. द्विर् अपि त्रिर् अपि आयुष्मां उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. अस्थानम् एतद् आयुष्मन्. इति पूर्ववत्. अथायुष्मतः शारिपुत्रस्यैतद् अभवत्. यावत् त्रिर् अपि मे अयं भिक्षुर् भाषितं प्रतिवहति प्रतिक्रोशति. न च मे कश्चित् सब्रह्मचारी भाषितम् अभ्यनुमोदते. यन् न्व् अहं येन भगवांस् तेनोपसंक्रामेयं. अथायुष्मां छारिपुत्रो येन भगवांस् तेनोपसंक्रांतः. उपसंक्रम्य भगवतः पादौ शिरसा वंदित्वैकांते निषण्णः. एकांते निषण्णश् चायुश्मां छारिपुत्रो भिक्षून् आमंत्रयते स्म. इहायुष्मंतो भिक्षुः शीलसंपन्नश् च भवति. पूर्ववत्. तेन खलु समयेनायुष्मान् उदायी पूर्ववत्. एवं द्विर् अपि त्रिर् अप्य् आयुष्मान् उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. पूर्ववत् ( अभिध्-क्-व्य् 165 ). अथायुष्मतः शारिपुत्रस्यैतद् अभवत्. शास्तुर् अपि मे पुरस्ताद् अयं भिक्षुर् यावत् त्रिर् अपि भाषितं प्रतिवहति प्रतिक्रोशति. न च मे कश्चित् सब्रह्मचारी [तिब्. 152अ] भाषितम् अभ्यनुमोदते. यन् न्व् अहं तूष्नीं स्यां. अथायुष्मां छारिपुत्रस् तूष्णीम् अभूत्. तत्र भगवान् आयुष्मंतम् उदायिनम् आमंत्रयते स्म. कं पुनस् त्वम् उदायिन्न् अन्यतमं दिव्यं मनोमयं कायं संजानीषे. ननु यावद् एवारूपिणं संज्ञामयं. एवं भदन्त. त्वं तावन् मोहपुरुषान्ध एव सन्न् अचक्षुश् चक्षुष्मता शारिपुत्रेण भिक्षुणा सार्धम् अभिधर्मे ऽभिविनये संलपितव्यं मन्यस इति. तत्र भगवान् आयुष्मंतम् उदायिनं संमुखम् अवसाद्य आयुष्मंतं आनन्दम् आमंत्रयते स्म. त्वम् अप्य् आनन्द स्थविरं भिक्षुं विहेठ्यमानम् अध्युपेक्षसे. कारुण्यम् अपि ते मोहपुरुष नोत्पन्नं स्थविरे भिक्षौ विहेठ्यमान इति. तत्र भगवान् आयुष्मंतम् उदायिनम् आयुष्मंतं चानन्दं संमुखम् अवसाद्य भिक्षून् आमंत्रयते स्म. इह भिक्षवो भिक्षुः शीलसंपन्नश् भवति. समाधिसंपन्नश् च विस्तरेण यावद् अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानातीत्य् उक्त्वा भगवान् उत्थायासनाद् विहारं प्राविक्षत् प्रतिसंलयनायेति. अत्रायुष्मान् उदायी आरूप्यावचरो ऽयं मनोमयः काय उक्त इति मनसिकृत्वा प्रतिबंधम् अकार्षीत्. तत्र हि रूपं नास्ति. मन एव तु ससंप्रयोगम् अस्ति. तस्मान् मनोमयः कायः. तत्र चेयं समापत्तिर् न समापद्यते इति तस्याभिप्रायः. आर्यशारिपुत्रस्य [तिब्. 152ब्] तु रूपावचरो दिव्यो मनोमयकायो ऽभिप्रेतः शुक्लशोणितम् अनुपाय्य प्रादुर्भावात्. अत एव चासाव् आयुष्मान् उदायी भगवता पृष्टः. कं पुनस् त्वं उदायिन्न् अन्यतमं दिव्यं मनोमयं कायं संजानीषे. ननु यावद् एवारूपिणं संज्ञामयम् इति. तेनाप्य् एवं भदंतेति प्रतिपन्नं. भगवान् अपि रूपावचरम् एव दिव्यं मनोमयं कायम् अभिप्रेत्यार्यशारिपुत्रस्य मतं समर्थयन् तम् आयुष्मंतम् उदायिनम् अवसादयति स्म. त्वं तावन् मोहपुरुषान्ध एव सन्न् अचक्षुश् चक्षुष्मता शारिपुत्रेण भिक्शुणा सार्धम् अभिधर्मे ऽभिविनये संलपितव्यं मन्यस इति. अस्ति चैतत् स्थानम् इति यद् एतन् निरोधसमापत्तेः समापदनं व्युत्थानम् चेत्य् एतत् स्थानं यथाभूतं प्रजानाति. प्रतिपद्य् एवेति पूर्वम् एवेत्य् अर्थः. आज्ञाम् आरागयतीत्य् अर्हत्त्वं प्रप्नोतीत्य् अर्थः. इयं च समापत्तिर् भावाग्रिकीति विस्तरः. निरोधसमापत्तिर् भावाग्रिकी. यश् च तल्लाभी. तस्व भवाग्र एवोपपत्तिः स्यान् न रूपधातौ. उक्तं च सूत्रे. स तत्र रूपधाताव् उपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते चेति. तस्माद् अस्त्य् अतः परिहाणिर् इति गम्यते. युज्यत एवैतद् वैभाषिकाणां ( अभिध्-क्-व्य् 166 ). सौत्रांतिकानां तु कथम् एतत्. आर्य एव हि निरोधसमापत्तिलाभी न चार्यमार्गाद् अस्ति परिहाणिर् इति सौत्रांतिकसिद्धांतः. [तिब्. 153अ] तस्यार्यस्य कथम् उपरिभूमिकाद् आर्यमार्गात् परिहाणिर् इति इष्यते.
तेषाम् अप्य् एतत् सूत्रं न विरुध्यते. कथं. यो हि कश्चिद् भवाग्रलाभी नियामम् अवक्रामति. सो ऽनागामी सन् निरोधसमापत्तिम् उत्पादयेत्. स भवाग्रान् निरोधसमापत्तेश् च परिहीयेत. न तु मार्गात्. ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिद् अनुत्पादितत्वात्. स परिहीणो भूत्वा ध्यानम् उत्पाद्य रूपधाताव् उपपद्येत्. तस्माद् अस्त्य् अतः परिहाणिर् न चार्यमार्गात् परिहाणिर् इति न स्वसिद्धान्तविरोधः. नवानुपूर्वसमापत्तय इति. चत्वारि ध्यानानि चत्वार आरूप्या निरोधसमापत्तिश् च. प्राथमकल्पिकं प्रतीति. आदितः समापत्तिविधायकं प्रतीत्य् अर्थः.
नियतोभयथावेदनीयत्वाद् इति. नियतवेदनीयासंज्ञिसमापत्तिर् उपपद्यवेदनीयत्वात्. उभयथावेदनीया निरोधसमापत्तिर् नियतानियतवेदनीयेत्य् अर्थः. नियतवेदनीया अनागामिनः. अनियतवेदनीयार्हत इहैव परिनिर्वाणात्. प्रथमोत्पादनतो ऽपीति. असंज्ञिसमापत्तिं कश्चित् प्रथमं मनुष्येषूत्पादयति. कश्चिद् रूपधातौ. निरोधसमापत्तिं तु मनुष्येष्व् एवोत्पादयति. परिहीणस् तु रूपधातौ. [तिब्. 153ब्] अथ कस्मान् मनुष्येष्व् एवैनाम् उत्पादयति. संज्ञावेदनाद्वारेण वितर्कविचारादिचैत्तप्रचारपरिखिन्नो ऽनागामी तां तेन विहारेण सुखं विहरेयम् इति निरोधसमापत्तिम् उत्पादयति. रूपधातूपपन्नस् त्व् अनागामी रूपधातोः शांतत्वान् न तथा तत्रत्यचैतसिकप्रवृत्त्या पीड्यत इति न प्रथमतस् तत्रोत्पादयति. परिहीणस् तु पूर्वाभ्यासतस् ताम् उत्पादयति. आरूप्यधातूपपन्नो ऽप्य् अत एव शांतत्वान् नैवसंज्ञानासंज्ञायतनोपपन्नो नोत्पादयति. निरुपधिशेषनिर्वाणप्रसंगाद् वा. तत्र हि रूपं नास्ति चित्तचैत्ता यदि निरुध्येरन् परिनिर्वाणम् एवास्य स्यात्. चित्तविप्रयुक्तानां केवलानाम् अवस्थानासामर्थ्यात्. नियतवेदनीयस्य कर्मणो ऽपरिसमाप्तफलस्य विघ्नभावेनावस्थानान् न परिनिर्वाणसंभवः. असंज्ञिसमापत्तिं तु मोक्षसंज्ञया निःसरणसंज्ञापूर्वकेण मनसिकारेण समापद्यत इति रूपधाताव् अपि प्रथमतः समापद्यते.
कस्मात् पुनर् एते इति विस्तरः. सर्वचित्तचैत्तनिरोधस्वभावत्वात् उभे अप्य् एते समापत्ती चित्तचैत्तनिरोधे इति वक्तव्ये इत्य् अभिप्रायः. तत्प्रातिकूल्येन तत्समापत्तिप्रयोगाद् इति. संज्ञावेदनाप्रातिकूल्येन तयोः समापत्त्योः प्रयोगात्. संज्ञाप्रातिकूल्येनासंज्ञिसमापत्तिप्रयोगः [तिब्. 154अ] संज्ञा रोगः संज्ञा शल्यः संज्ञा गण्डः एतच् छांतं एतत् प्रणीतम् इति विस्तरः. संज्ञावेदितप्रातिकूल्येन निरोधसमापत्तिप्रयोगः. परचित्तज्ञानवचनवद् ( अभिध्-क्-व्य् 167 ) इति. यथा परचित्तज्ञानवचनं न च परचित्तज्ञानेन चैत्ता न ज्ञायंते कदाचित्. अथ च परस्य चित्तं ज्ञास्यामीत्य् एवं प्रथमतः प्रयोगात् परचित्तज्ञानम् इत्य् उच्यते. न परचित्तचैत्तज्ञानम् इति. तद्वद् इहाप्य् अनयोः समापत्त्योस् तथा वचनं.
तत्राचित्तकान्य् एव निरोधसंज्ञिसमापत्त्यासंज्ञिकानीति वैभाषिकादयः. अपरिस्फुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः. आलयविज्ञानसचित्तकानीति योगाचारा इति सिद्धांतभेदः. तस्माद् इदम् उपन्यस्यते. कथम् इदानीं बहुकालनिरुद्धाद् इति विस्तरः. बहुकालनिरुद्धग्रहणं समनंतरनिरुद्धनिरासार्थं. समनंतरनिरुद्धादीदानीं कथं भवति. यदि समनंतरनिरुद्धम् अस्तीत्य् अभ्युपगतं बहुकालनिरुद्धम् अप्य् अस्तीति किं नाभ्युपगम्यते इति वैभाषिकाः. न समनंतरनिरुद्धस्यास्तित्वं ब्रूमः अपि तु वर्तमानं चित्तम् आत्मनो ऽन्यचित्तहेतुभावं व्यवस्थाप्य निरुध्यते ऽन्यच् चोत्पद्यते तुलादण्डनामोन्नामवत्. तच् च निरुद्धम् अपरं च चित्तम् [तिब्. 154अ] उत्पन्नं भवतीत्य् अनंतरनिरुद्धाच् चित्ताच् चित्तान्तरम् उत्पद्यते इत्य् उच्यते. वर्तमानसामीप्ये वर्तमानवद् इति कृत्वा. अपरे पुनर् आहुर् इति सौत्रांतिकाः. कथं तावद् आरूप्योपपन्नानाम् इति विस्तरः. तावच्छब्दः क्रमार्थः. इदम् एव तावद् दृष्टांतार्थं वक्तव्यम् इत्य् अर्थः. रूपस्य हि समनंतरप्रत्ययो नेष्यते. तत् कथम् उत्पद्यते. तस्माच् चित्ताद् एव तज् जायते न रूपाद् इति ब्रूमः. अन्योन्यबीजकं ह्य् एतद् उभयम् इति. चित्ते ऽपि सेन्द्रियस्य कायस्य बीजम् अस्ति काये च सेन्द्रिये चित्तस्येति. परिपृच्छायाम् इति. परिपृच्छानामशास्त्रं कृतिः स्थविरवसुमित्रस्य. स तस्याम् आह. पंचवस्तुकादीन्य् अपि हि तसय संति शास्त्राणि. तस्माद् विशिनष्टि. तस्यैव दोष इति. कतमः स दोषः. कथम् इदानीं बहुकालनिरुद्धाच् चित्ताद् इति य उक्तः. त्रयाणां संनिपात इति. इंद्रियविषयविज्ञानानां. संज्ञावेदनयोर् अप्य् अत्र निरोधो न स्याद् इति. भदंतवसुमित्रस्यैतन् मतं. सचित्तकत्वे ऽपि तस्या निरोधसमापत्तेः संज्ञावेदनयोस् तत्र निरोध इति. तस्माद् भदंतघोषक एवं प्रसंगं करोति. अविद्यासंस्पर्शजम् इति. अविद्यासंहितः स्पर्शो ऽविद्यासंस्पर्शः. तस्माज् जातम् अविद्यासंस्पर्शजं. न तु वेदनोत्पत्ताव् इति. न तु वेदनोत्पत्तौ स्पर्शो विशेषित ईदृशः स्पर्शो वेदनाप्रत्यय इति. स एव भदंतघोषक उपसंहरति. तस्माद् अचित्तिकेति. [तिब्. 155अ] कथम् अचित्तिकायाः समापत्तित्वम् इति. ध्यानादिसमापत्तित्वम् अर्हति. समाधिना हि चित्तचैत्ताः समा आपाद्यंते एकग्रीक्रियंत इत्य् एवं मत्वा पृच्छति ( अभिध्-क्-व्य् 168 ). महाभूतसमतापादनाद् इति. महाभूतानि समान्य् आपद्यंते ऽनयेति समापत्तिः. एवम् अस्यां निओधसमापत्तौ ध्यानादिषु च समापत्तित्वं. का पुनर् इह महाभूतानां समता. चित्तोत्पत्तिप्रातिकूल्यसमवस्थानं. समागच्छंतीति समापद्यंते. समागच्छंति ताम् इति समापत्तिः कर्मसाधनं. ध्यानादीन्य् अपि समागच्छंति योगिनः. तस्माद् ध्यानादीनाम् अपि समापत्तित्वं भवति.
द्रव्यत इति स्वलक्षणतः. चित्तोत्पत्तिप्रतिबंधनात्. यस्माच् चित्तोत्पत्तिं प्रतिबध्नीतः. न. समापत्तिचित्तेनैवेति. नैतद् एवं. कस्मात्. समापत्तिचित्तेनैव तत्प्रतिबंधनात्. चित्तोत्पत्तिप्रतिबंधनाद् इत्य् अर्थः. कथम् इति तत् प्रतिपादयति. समापत्तिचित्तम् एव हीति विस्तरः. तत् समापत्तिचित्तम् एव नान्यद् द्रव्यं. चित्तांतरविरुद्धं अनागतचित्तविरुद्धम् उत्पद्यते. येन चित्तेन कालांतरं नात्यंतं अप्रवृत्तिमात्रं भवति. मात्रशब्दो [तिब्. 155ब्] द्रव्यांतरव्यावर्तनार्थः. तद्विरुद्धाश्रयापादनात्. चित्तविरुद्धस्याश्रयस्य संतानस्यापादनात् कारणात्. यद् एतद् अप्रवृत्तिमात्रं. सासौ समापत्तिर् इति प्रज्ञप्यते. प्रज्ञप्तिधर्मो ऽयं न द्रव्यधर्म इत्य् अर्थः. यदि न द्रव्यधर्मः कथम् असौ संस्कृतम् इति प्रज्ञप्यते इत्य् अत आह. तच् चाप्रवृत्तिमात्रं. न पूर्वम् अभूत् नोत्तरकालं व्युत्थितस्य योगिनो भवतीति. संस्कृतासौ समापत्तिर् असंज्ञिसमापत्तिर् निरोधसमापत्तिर् वा प्रज्ञप्यते संव्यवहारतो न तु द्रव्यतः. अथ वेति विस्तरः. आश्रयस्यैव तथासमापादनं तथाव्यवस्थानम्. अवस्थाविशेषः. समापत्तिजनिताया अस्याः समापत्तिर् इत्य् अर्थः. स चावस्थाविशेषः पूर्वं नासीत् पाश्चाच् च न भवति व्युत्थितस्येति संस्कृतत्वं न विरुध्यते. अथ वा समापदनम् इति पाठः. संस्कृतावस्थाविशेषत्वाद् अस्याः समापत्तेः संस्कृतत्वं सिध्यतीत्य् अर्थः. एवम् आसंज्ञिकम् इति विस्तरः. चित्तम् एवासौ योगी तत्रासंज्ञिषु चित्तप्रवृत्तिविरुद्धं लभते. तच् चाप्रवृत्तिमात्रं चित्तचैत्तानाम् इति वाक्यशेषः. आसंज्निकम् इति प्रज्ञप्यते न तु द्रव्यतो ऽस्तीत्य् अभिप्रायः.
(इइ.46अब्) य ऊष्मण इति विस्तरः. ऊष्मणो विज्ञानस्य च जीवितप्रतिबद्धा प्रवृत्तिः. तस्माज् जीवितम् ऊष्मणो विज्ञानस्य चाधार उच्यते स्थितिहेतुस् तयोर् एव. नित्यानिवृत्तिप्रसंग [तिब्. 156अ] इति. नित्यम् एषां स्रोतः प्रसज्येत. निकायसभागस्य स्थितिकालावेध इति. निकायसभागो व्याख्यातः. त एव तथाभूतास् संस्कारा रूपादिस्कंधस्वभावा इति. तेषां स्थितिः प्रबंधः. तस्याः कालो यावत् तेन स्थातव्यं. त एव तावंतः संस्कारक्षणाः. तस्यावेधः ( अभिध्-क्-व्य् 169 ) प्रतिसंधिक्षणे पूर्वजन्मकर्मणो हेतुभावव्यवस्थानं. कः पुनर् असौ हेतुः. सामर्थ्यविशेषः. स हि स्कन्धप्रबन्धलक्षणायाः स्थितेः क्षणपरंपरया कारणं भवति. अत एव स्थितिकालावेध उच्यते. तावत्कालं प्रवाहाक्षेपलक्षणत्वात्. तावत् सो ऽवतिष्ठत इति. स निकायसभागः. सस्यानां पाककालावेधवत्. यथा सस्यानां पाककालावेधः सामर्थ्यविशेषस्वभावो बीजेनांकुर एवाधीयते यः क्षणपरंपरया आ पाककालात् सस्यसंतानहेतुर् भवति. तद्वद् एतत्. क्षिप्तेषुस्थितिकालावेधवच् च. यथा क्षिप्तस्येषोः शरस्य स्थितिर् आकाशदेशांतरोत्पत्तिः संतानानुवृत्तिः. तस्याः कालो मर्यादा यतः परेण सा न भवति. तस्यावेधो हेतुव्यवस्थानं. कः पुनर् असौ हेतुः. प्रयत्नभूतातिशयनिर्वृत्तवायुधातुजनितसामर्थ्यविशेषः. तद्यथा क्षिप्तेषुस्थितिकालावेधो न द्रव्यांतरं तद्वद् अयम् आयुर्लक्षणम् आवेधो द्रष्टव्यः.
यस् तु मन्यत इति वैशेषिकः. संस्कारो नाम गुणविशेष इति. पृथिव्यादीनां वैशेषिको गुणः संस्कारो नाम कर्मजः [तिब्. 156ब्] कर्महेतुश् च वेगद्वितीयनामा इषौ जायते. यद्वशाद् यस्य गुणस्य वशाद् गमनम् इषोर् आ पतनाद् भवतीति. तं प्रत्य् अदृष्टान्त एषः. यथा हि संस्कारो नाम भावांतरम् अस्ति. एवम् आयुर् स्याद् इति. तेन तन् मतं दूषयत्य् आचार्यः. तस्येति विस्तरः. तस्य वैशेषिकस्य तदेकत्वात् संस्कारैकत्वात्. प्रतिबंधाभावाच् च प्रतिबंधस्य काष्ठप्रत्याघातादिलक्षणस्याभावाच् च. किं. देशांतरैः शीघ्रतरतमप्राप्तिकालभेदानुपपत्तिः. शीघ्रा शीघ्रतरा शीघ्रतमा प्राप्तिः शीघ्रतरतमप्राप्तिः. कैः. सह देशांतरैर् आकाशदेशादिभिः. तस्याः कालः. तस्य भेदः. तस्यानुपपत्ति. शीघ्रा शीघ्रतरा शीघ्रतमा देशांतरैः सह प्राप्तिर् नोपपद्यते. पूर्वोक्ताद् अस्मात् कारणद्वयात् संस्कारस्याविशिष्टत्वात् पतनानुपपत्तिश् च. पतनं च इषोर् नोपपद्यते सति संस्कारे. न ह्य् एतद् इष्टम् सति कारणे कार्यं न भवतीति. वायुना तत्प्रतिबंध इति चेत् स्यान् मतं वायुर् अत्र प्रतिबंधः. प्रतिबंधविशेषाच् छीघ्रतरतमप्राप्तिकालभेदः पतनं चोपपद्यत इति स्पर्शवद्द्रव्यसंयोगाद् अभावः कर्मण इति वचनात्. अत्रोच्यते अर्वाक्पतनप्रसंगो ज्याविभागानंतरम् एवार्वाग् अवरत एव वायुसंयोगात् स इषु पतेत्. अथ प्रतिबध्यमानो ऽपि वायुना नार्वाक् पतेत् न वा कदाचित् [तिब्. 157अ] पतेत् न पश्चाद् अपि पतेद् इत्य् अर्थः. किंकारणं. वायोर् अविशेषात्. यथा हि समीपे वायुर् एवं दूरे ऽपीति.
चतुर्थी विषमापरिहारेणेति. अत्यशनादेर् विषमस्यापरिहारेण. क्षीण आयुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यं. तेन तृतीया कोटिर् न प्राप्नोति. तस्माद् उभयक्षये सति मरणम् उभयक्षयाद् इति. उभयक्षये सतीति यो ऽर्थः. ( अभिध्-क्-व्य् 170 ) सो ऽर्थ उभयक्षयाद् इत्य् अयम् अर्थ उक्तो वेदितव्यः. आयुरक्षयाद् अपि मरणं भवतीति कथं गम्यते. सस्यादिसाधर्म्यात्. सस्यादीनां हि बीजावेधपरिक्षये सति सत्सु प्रत्ययांतरेषु क्षेत्रोदकादिषु दृष्टा संताननिवृत्तिर् अप्राप्यैव फलकालं फलपाककालं वा. बीजस्य नातिसारत्वात्. सत्य् अपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्याभावाद् दृष्टा संताननिवृत्तिः. सारबीजाक्षेपस्थितिवृद्धिप्रत्ययाभावे ऽपि दृष्टा. यदा बीजाक्षेपश् च परिसमाप्तो भवति सलिलस्य चाभावः. सत्य् अपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्यये च जंगमाद्युपक्रमकृता दृष्टा सस्यादीनां संताननिवृत्तिर् इति. यस्याश्रयोपघाताद् उपघातस् तत्संतत्यधीनत्वाद् इति. बहिर्देशिकमतम् एतत्. आश्रयसंततिप्रतिबद्धं तद् आयुर् इति संतत्युपनिबद्धम् इत्य् उच्यते. काश्मीरमते ऽपि स एवार्थः. शब्दमात्रं तु भिद्यते. सांतरायं निरंतरायम् इति. अथ वा संतत्युपनिबद्धम् इति स्वसंतत्युपनिबद्धं संतानवर्त्य् एव तत् केवलं न तु सकृद् उत्पन्नं तिष्ठतीति [तिब्. 157ब्] सांतरायम् इत्य् उच्यते. अनेनागमेन अस्त्य् अकालमृत्युर् इति दर्शयन्न् आह. सूत्रे ऽप्य् उक्तं चत्वार आत्मभावप्रतिलंभा इति विस्तरः. आत्मसंचेतना आत्मना मारणं. परसंचेतना परेण मारणं. बुद्धानां चेति वक्तव्यं. किम्. आत्मसंचेतनैव क्रमते. स्वयंमृत्युत्वात्. अनुपक्रमणधर्माणो हि बुद्धा भगवंतो आयुरुत्सर्गवशित्वलाभिनश् च. प्रायेणेति ग्रहणं चतुर्थकोट्यभिहितनारकांतराभविकादिपरिवर्जनार्थं. राजर्षयश् चक्रवर्तिपूर्वा प्रव्रजिताः. जिनदूतो यो बुद्धेन भगवता दूतः कश्चित् संप्रेषितः तद्यथा शुकः कश्चिद् भगवता आम्रपाल्याः प्रेषितो लिच्छविभिश् च योग्यां कुर्वाणैर् दृष्टः शरजालेनापूर्यमाणो ऽपि मारयितुं न शक्यते. यावद् धि स दूतकृत्यं न करोति तावन् नात्मसंचेतना क्रमते न परसंचेतना. जिनादिष्ट इयंतं कालम् अनेन जीवितव्यम् इति य आदिष्टो भगवता. धर्मिलादयः पूर्वयोगविद्भ्य आगमितव्याः. आदिशब्देन चान्ये ऽपि तत एव चागमयितव्याः. तेषां नात्मसंचेतना क्रमते न परसंचेतना. चरमभविकानां च ये तस्मिन्न् एव जन्ननि अर्हत्त्वं प्राप्नुवंति. बोधिसत्त्वमातुस् तत्गर्भाया बोधिसत्त्वगर्भायाः. चक्रवर्तिमातुः चक्रवर्तिगर्भाया नात्मसंचेतना [तिब्. 158अ] न परसंचेतना. यदि तर्हि सर्वेषां रूपारूप्यावचराणां नात्मसंचेतना न परसंचेतना अथ कस्मात् सूत्रे उक्तम् इति विस्तरः. तत्र चोभयं नास्तीति. तत्र नैवसंज्ञानासंज्ञायतने स्वभूमिक आर्यमार्गो नास्ति यावद् एव संज्ञासमापत्तिस् तावद् आज्ञाप्रतिवेध इति वचनात्. नाप्य् उपरिभूमिसामंतक ऊर्ध्वभूम्यभावात्. परभूमिक आर्यमार्ग इत्य् आकिंचन्यायतनभूमिकः.
आर्याकिंचन्यसाम्मुख्याद् भवाग्रे त्व् आस्रवक्षय
इति वचनात्. पर्यंतग्रहणात् तर्हीति. तर्हीत्य् अर्थांतरविवक्षायां निपातः. तदादिसंप्रत्यय इति. तस्य पर्यंतस्य नैवसंज्ञानासंज्ञायतनस्यादिश् चत्वारि ध्यानानि त्रयश् च शेषा आरूप्याः. न तु कामधातुस् तदादिर् असमाहितत्वेन विसादृश्यात्. समापत्तितो वा ध्यानारूप्या एव तदादिः. नवानुपूर्वसमापत्तय इति वचनात्. तत्र संप्रत्ययस् तदादिसंप्रत्ययः. अस्ति क्वचिद् अन्यत्राप्य् एवं दृष्टम् इति अस्तीत्य् आह. क्वचिद् आदिना पर्यंत इत्यादि.तद्यथा देवा ब्रह्मकायिका इति. देवा ब्रह्मकायिकाः तत्पर्यंतग्रहणाच् च ब्रह्मपुरोहिता महाब्रह्माणश् च प्रथमा सुखोपपत्तिः. तद्यथा देवा आभास्वरा इति. आभास्वरास् तदादिग्रहानाच् च परीत्ताभा अप्रमाणाभाश् च द्वितीया सुखोपपत्तिर् इति. तिस्र एव हि सुखोपपत्तय [तिब्. 158ब्] इष्यंते
सुखोपपत्तयस् तिस्रो नव त्रिध्यानभूमय
इति वचनात्. एष हि दृष्टांतधर्म इति. एतद् दृष्तांतचरितं यद् एकम् अपि तत्प्रकारं निर्दिशते न सर्वं शेषसंप्रत्ययश् च भवति. तद्यथा अनित्यः शब्दः. कृतकत्वात् यथा घट इति पटादीन्य् अपि गृह्यंते. तद्यथाशब्दस्य दृष्टांतवाचकत्वात्. अनुपसंहार एष इति. अदृष्टांत इत्य् अर्थः. मनुष्यास् तदेकत्याश् च देवा इति. तदेके देवाः षट् कामावचरा देवाः प्रथमाभिनिर्वृत्तवर्ज्याश् च प्रथमध्यानोपपन्ना देवा इत्य् एतावंत एव नानात्वकाया नानात्वसंज्ञिनः सत्त्वा नैतद्व्यतिरिक्ताः संतीति नायं तद्यथाशब्दो दृष्टांतवाचकः. तस्माद् उपदर्शनार्थ एवायं द्रष्टव्यः. उपदर्शनार्थत्वे च सति तद् एव स्थितम् एतत्. पर्यंतग्रहणात् तदादिसंप्रत्यय इति.
(इइ.46च्द्) विपर्ययाद् असंस्कृत इति. यत्रैतानि न भवंति. सो ऽसंस्कृत इति. ननु च स्थितिर् असंस्कृतलक्षणम् अस्ति. नासंस्कृतस्य स्थितिर् द्रव्यांतररूपास्ति. द्रव्यांतररूपाणि चेह संस्कृतलक्षणानीष्यंत इत्य् अचोद्यम् एतत्. ननु च त्रीणीमानीति विस्तरः. कथं. सूत्रे त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि. कतमानि त्रीणि. संस्कृतस्य भिक्षव उत्पादो ऽपि प्रज्ञायते. व्ययो ऽपि प्रज्ञायते. स्थित्यन्यथात्वम् अपीति. चतुर्थम् अप्य् अत्र वक्तव्यं स्याद् इति वैभाषिकाः. किं चात्र नोक्तम् इति चोदकः. स्थितिर् इति वैभाषिकाः. यत् तर्हीदं स्थित्यन्यथात्वम् अपीति [तिब्. 159अ] स्थितिशब्दो ऽत्र श्रूयते. कथम् इदम् उच्यते स्थितिर् नोक्तेति चोदकाभिप्रायः. जराया एष पर्याय इति. जरेयम् उक्ता स्थितेर् अन्यथात्वं स्थित्यन्यथात्वम् इति. तद्यथा जातेर् उत्पाद इति पर्यायः. अनित्यतायाश् च व्ययः. तथा जरायाः ( अभिध्-क्-व्य् 172 ) स्थित्यन्यथात्वं पर्याय इति. कस्मात् पुनर् लक्षणचतुष्टे सति भगवता त्रीण्य् एवोक्तानीति. अत आह. ये हि धर्मा इति विस्तरः. उद्वेजनार्थं विनेयानां जातिजरानित्यता इति धर्माणां लक्षणान्य् उक्तानि. आभिप्रायिको हि सूत्रनिर्देशो न लाक्षणिको यथाभिधर्मः. जरानित्यते पुनः प्रत्युत्पन्नाद् अतीतम् इति. संचारयति इत्य् अधिकारो ऽनुवर्तते. जरानित्यते प्रत्युत्पन्नाद् अध्वनो ऽतीतम् अध्वानं संचारयतः. कस्मात्. दुर्बलीकृत्य विघातात्. जरा दुर्बलीकरोति. अनित्यता निहंतीति कृत्वा. ननु चानित्यतैव धर्मं प्रत्युत्पन्नाद् अध्वनो ऽतीतम् अध्वानं संचारयति. न जरा. जरा हि केवलं धर्मं दुर्बलीकरोति. कस्माद् एवम् उच्यते. जरानित्यते प्रत्युत्पन्नाद् अतीतं संचारयत इति. आह. दुर्बलीकरणं अपि तदध्वसंचारायैव वर्तते. न ह्य् अदुर्बलीकृतस्याध्वसंचारो ऽस्तीति जरापि तत्संचारे व्यवस्थाप्यते. असंस्कृतस्यापि च स्वलक्षणस्थितिभावाद् इति. स्वलक्षणे स्थितिः. स्थित्या भावः. तस्मात् स्थितिभावात्. असौ स्थितिः संस्कृतलक्षणं न व्यवस्थापिता. स्थितिर् ह्य् असंस्कृतावस्थाविशेषलक्षणया स्थित्या [तिब्. 159ब्] सदृशीति तस्यासंस्कृतस्य संस्कृतत्वप्रसंगपरिजिहीर्षया न लक्षणम् उक्तम् इत्य् अभिप्रायो भगवतो धर्मस्वामिनः.
अन्ये पुनः कल्पयंतीति. सूत्रे ऽपि स्थितिर् उक्तेति कथयंति. स्थितिं जरां चाभिसमस्य स्थितिश् च स्थित्यन्यथात्वं च स्थित्यन्यथात्वम् इति अभिसमस्य एकं लक्षणम् उक्तं सूत्रे. न विभागशः. कस्मात्. त्रीणीमानि संस्कृतलक्षणानीति वचनविरोधप्रसंगात्. किम् अत्र प्रयोजनम् इत्य् अत आह. एषा ह्य् एषु संगास्पदम् इति विस्तरः. एषा हि स्थितिर् एषु जात्यादिषु संगास्पदं संगस्थानं धर्मो ऽनया तिष्ठतीत्य् अभिप्रायः श्रियम् इवैनां स्थितिं कालकर्णीसहितां अलक्ष्ंईसहितां दर्शयामास भगवान् तस्यां स्थित्याम् असंगार्थं. नास्याम् आसंगः कर्तव्यो यस्माद् इयम् अनिततयानुबद्धा लक्ष्मीर् इवालक्ष्म्येति तद् एकीयं व्याख्यानं. अपरे तु व्याचक्षते. नास्याम् आसंक्तव्यं यस्माद् इयं जरयानुबद्धा लक्ष्मीर् इवालक्ष्म्येति. जरया ह्य् अन्यथात्वलक्षणया अस्या एकीकरणं नानित्यतयेति. अतश् चत्वार्य् एव संस्कृतलक्षणानीति. उभयोर् अपि पक्षयोर् अयम् उपसंहारः.
(इइ.47अब्) अन्यैर् जात्यादिभिर् भवितव्यम् इति. जातिसामर्थ्यात् कश्चित् संस्कृतो धर्मो जायते. जातिर् अपि संस्कृता. तस्मात् तस्या अपि अन्यया जात्या भवितव्यं स्वात्मनि वृत्तिविरोधात्.
सर्वं संस्कृतलक्षणैर्
इति च सिद्धंतात्. एवं जरादयो [तिब्. 160अ] ऽपि योज्याः.
जातिजात्यादयस् तेषाम्
इति. जातिजात्यादयश् च तेषाम् इति चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः. ननु चैकैकस्येति विस्तरः. एकैकस्य लक्षणस्य चतुर्लक्षणी चतुर्णां लक्षणानां समाहारः चतुर्लक्षणी प्राप्नोति. अपर्यवसानदोषश् च अनिष्ठादोषश् च. तेषाम् अनुलक्षणानां पुनर् अन्यजात्यादिप्रसंगात्. जातेर् जातेर् जातिजातेर् यावद् अन्तियताया अनित्यताया अनित्यतानित्यतायाश् च प्रसंगात्.
ते ऽष्टधर्मैकवृत्तयः.
ते इति पुंलिंगनिर्देशो धर्माभिसंबंधात्. ते जात्यादिजातिजात्यादिस्वभावा धर्मा यथाक्रमम् अष्टधर्मैकवृत्तयः. जात्यादीनाम् अष्टासु धर्मेषु वृत्तिः. जातिजात्यादीनां चैकधर्मे. आत्मनवमा हीति लक्षणानुलक्षणापेक्ष एवम् उक्तं. न हि यथासंभवं तत्र प्राप्त्यादयो भूतानि भौतिकानि वा नोत्पद्यंते.
कामे ऽष्टद्रव्यको ऽशब्दः.
सर्वं संस्कृतलक्षणैः प्राप्त्या वेति
चैवमादिवचनात्. जातिर् आत्मानं विरहय्येति विस्तरः. स्वात्मनि वृत्तिविरोध इत्य् अतः आत्मानम् विरहय्य मुक्त्वाष्टौ धर्मान् जनयति. कतमान् अष्टौ. तं धर्मं रूपं चित्तं वा स्थितिं जराम् अनित्यतां जातिजातिं स्थितिस्थितिं जराजराम् अनित्यतानित्यतां च जनयति. जातिजातिस् तु ताम् एव जातिं जनयति. एवं जरानित्यते अपि यथायोगं योज्ये इति. [तिब्. 160ब्] जरा आत्मानं विरहय्य अष्टौ धर्मान् जरयति. जराजरा पुनस् ताम् एव जरां. अनित्यता आत्मानं विरहय्य अष्टौ धर्मान् विनाशयति. अनित्यतानित्यता पुनस् ताम् एवानित्यताम् इति.
तद् एतद् आकाशं पाट्यत इति. विभिद्यत इत्य् अभिप्रायः. सप्रतिघद्रव्याभावमात्रम् आकाशं. नाकाशं नाम किंचिद् अस्ति. तद् विभक्तुं यथा न शक्यते न युज्यते वा. एवम् इमे जात्यादयः असंतो धर्मा विभक्तुं न शक्यंते न युज्यंते वा. तत आह. न ह्य् एत इति विस्तरः. न ह्य् एते द्रव्यतः स्वलक्षणतः संविद्यंते यथा विभज्यंते. जातिर् आत्मानं विरहय्याष्टौ धर्मान् जनयतीत्य् एवं विस्तरेण विभज्यंते यथा रूपादीनां धर्माणाम् इति. अत्रादिशब्देन शब्दादिवेदनादिचक्षुरादीनां ग्रहणं. तत्र रूपशब्दादि तावत् प्रत्यक्षेण चक्षुर्विज्ञानादिलक्षणेन प्रमाणेनोपलभ्यते. वेदनाद्य् अपि प्रत्यक्षेणैवोपलभ्यते स्वसंवेद्यत्वात्. चक्षुरादि तु चक्षुर्विज्ञानादिनानुमानेनानुमीयते. चक्षुर्विज्ञानादिसंनिश्रयो रूपप्रसादश् चक्षुरादीनि तद्भावभावयोस् त्द्भावाभावात्. आगमो ऽपि चक्षुषा रूपाणि दृष्ट्वेति विस्तरः. एवं श्रोत्रेण शब्दां च्छ्रुत्वेति विस्तरेण एवं गन्धादिष्व् अपि योज्यं. [तिब्. 161अ] तथा यत्किंचिद् रूपम् अतीतनागतप्रत्युत्पन्नम् ( अभिध्-क्-व्य् 174 ) इति विस्तरः. एवं वेदनादिष्व् अपि योज्यं. पारसांतानिकानां त्व् अरूपिणां वेदनादीनाम् अस्तित्वानुमानम् आत्मीयवच् छरीरविकारं दृष्ट्वा तत्संप्रतिपत्तेः. आगमो ऽपि चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं सहजाता वेदाना संज्ञा चेतनेति विस्तरः. जात्यादयस् तु न चक्षुरिन्द्रियादिप्रत्यक्षा भवंति. न चैषाम् अस्तित्वे समर्थम् अनुमानम् अस्ति. न चाप्य् आगमो द्रव्यतो ऽस्तित्वे. यत् तर्हि सूत्र उक्तम् इति विस्तरः. ननु चायम् आगमो ऽस्ति संस्कृतस्योत्पादो ऽपि प्रज्ञायते इति विस्तरः. अर्थश् च प्रतिसरणम् उक्तं भगवतेति. चत्वारीमानि भिक्षवः प्रतिसरणानि. कतमानि चत्वारि. धर्मः प्रतिसरणं न पुद्गलः. अर्थः प्रतिसरणं न व्यंजनं. नीतार्थसूत्रं प्रतिसरणं. न नेयार्थं. ज्ञानं प्रतिसरणं न विज्ञानम् इति. तथार्थप्रतिसरणो भवति. न व्यंजनप्रतिसरण इति. कः पुनः अस्यार्थ इति. अस्योपन्यस्तस्य संस्कृतलक्षणसूत्रस्य. तम् अर्थम् आह. अविद्यांधा हि बाला इति विस्तरः. संस्कारप्रबन्धम् आत्मत आत्मीयतश् चाधिमुक्ताः कृतरुचयो ऽभिष्वजंते इत्य् अर्थः. संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वम् इति पर्यायाव् एतौ. समेत्य संभूय प्रत्ययैः कृतं संस्कृतं. तं [तिब्. 161ब्] तं प्रत्ययं प्रतीत्य समुत्पन्नं प्रतीत्यसमुत्पन्नम् इति. न तु क्षणस्येति. प्रवाहस्यैव संस्कृतत्वं द्योतयितुकाम इदम् आह. न तु क्षणस्य संस्कृतत्वं. न हि क्षणस्योत्पादादय उत्पादव्ययस्थित्यन्यथात्वलक्षणा धर्माः प्रज्ञायंते क्षणस्य दुरवधारत्वात्. ब्रूयास् त्वम् अप्रज्ञायमाना अप्य् एते लक्षणं भवितुम् अर्हंतीत्य् अत आह. न चाप्रज्ञायमाना एते लक्षणं भवितुम् अर्हंतीति. प्रज्ञायमानम् एव हि लक्षणं भवति. तद्यथा जलस्य बलाकेति. अत एवात्रेति. अत एवात्र सूत्रे प्रज्ञायत इति पदग्रहणम्. अन्यथा हि संस्कृतस्योत्पादो ऽपि व्ययो ऽपि स्थित्यन्यथात्वम् अपीत्य् एवावक्ष्यत्. संस्कृतत्वे लक्षणानीति. संस्कृतम् इति लक्षणानीत्य् अर्थप्रतिग्रहार्थं पुनः संस्कृतग्रहणं. जलबलाकावद् इति. वैधर्मदृष्टांतो ऽयं यथा बलाका जलास्तित्वे लक्षणं न पुनर् जलस्य जलत्वे लक्षणं. मैवं विज्ञायि. किं. संस्कृतस्य वस्तुनः अस्तित्वे ऽमूनि लक्षणानि. साध्वसाधुत्वे वा कन्यालक्षणवद् इति. यथा कन्यायाः शुभाशुभानि लक्षणानि यथाक्रमं साध्वसाधुत्वे लक्षणानीति. यदि ह्य् अमूनि तथा संस्कृतस्य वस्तुनो ऽस्तित्वे साध्वसाधुत्वे वा लक्षणानीष्येरन् त्रीणीमानि संस्कृतलक्षणानीत्य् उच्येत. संस्कृतस्य संस्कृतलक्षणानीति न क्रियेत. कृतम् च. तेन ज्ञायते संस्कृतत्वे लक्षणानीति. [तिब्. 162अ] कथं पुनर् अविद्यमाना जात्यादयः प्रवाहे व्यवस्थाप्यंते प्रज्ञायंते वा. न ब्रूमो जात्यादयो न संविद्यंत इति. यथा तु द्रव्यरूपेण विभज्यंते. तथा न संविद्यंत इति ब्रूमः. यथा तर्हि भवतां ( अभिध्-क्-व्य् 175 ) संविद्यंते. तथा कथ्यतां. अत आह. प्रवाहस्यादिर् उत्पाद इति विस्तरः. निवृत्तिर् व्यय इति. प्रवाहस्योपरतिर् व्ययः. स एव प्रवाहो ऽनुवर्तमान इति. सदृशक्षणानुवृत्तेर् अनुवर्तमानः प्रवाहः. स्थितिर् इति उच्यते. तस्याः पूर्वापरविशेष इति. पूर्वस्माद् अपरस्य क्षणस्य विशेषः. पूर्वापरयोः क्षणयोर् वा विशेषः पूर्वापरविशेषः. एवं च कृत्वोक्तम् इति. प्रवाहरूपान् एवोत्पादादीन् कृत्वानित्योपस्थितस्मृतिताम् आयुष्मतः सुंदरनन्दस्यारभ्योक्तं. प्रवाहगता हि वेदनास् तस्य विदिता इवोत्पद्यंते विदिता इव तिष्ठंते विदिता इव परिक्षयं पर्यादानं गच्छंति न क्षणगताः. क्षणस्य दुरवधारत्वाद् इति. विदितस्य च क्षणस्यावस्थानासंभवात्. एतम् एवार्थं श्लोकद्वयेन संगृह्णन्न् आह.
जातिर् आदिः प्रवाहस्येत्य्
आदि सर्वम् उक्तं.
स्थितिस् तु स
इति. स एव प्रवाहः स्थितिः.
तस्यैवेति.
तस्यैव प्रवाहस्य.
तदुच्छेद इति.
प्रबन्धोच्छेदः.
क्षणिकस्य हि धर्मस्येति
श्लोकः. क्षणिको हि धर्मः.
स्थितिम् अंतरेण
विनश्येद् इत्य् अर्थः. स्थितिर् अस्तीति मन्यसे चेत्. स च धर्मो व्येत्य् एव सत्याम् अपि स्थितौ. विनश्यत्य् एव क्षणिकत्वात्. विनाशहेत्वभावात्.
तस्माद् वृथा तत्परिकल्पना
निष्प्रयोजना स्थितिपरिकल्पनेनेत्य् अर्थः. द्वितीयादिक्षणावस्थानेन [तिब्. 162ब्] हि स्थितिपरिकल्पना न वृथा भवेत्. तस्मात् प्रवाह एव स्थितिः. यस्मात् क्षणिकस्य हि धर्मस्य स्थितिपरिकल्पना व्यर्थेति. एवं च कृत्वायम् अपीति. प्रवाह एव स्थितिर् इति कृत्वेत्य् अर्थः. न हि क्षणस्योत्पन्नस्याविनाशो ऽस्तीति. अत्र कस्यचिद् एवम् अभिप्रायो भवेत्. स्थितिसद्भावाद् एकं क्षणम् अविनाशो धर्मस्योत्पन्नस्य. यदि हि स्थितिर् न स्यात्. सो ऽप्य् एकः क्षणो न स्याद् इति. न. हेतुप्रत्ययपूर्वकत्वात् तदस्तित्वस्य. अस्मिन् सतीदं भवतीति वचनात्. स्थितिर् उपगृह्णातीति चेत्. स्यान् मतं हेतुप्रत्ययेभ्य उत्पद्यमानं धर्मं स्थितिर् उपगृह्णातीति. यदि स्थितिर् नोपगृह्णीयात् किं स्यात्. आत्मसत्ता धर्मस्य न भवेत्. ( अभिध्-क्-व्य् 176 ) जनिका तर्हि स्थितिः प्राप्नोति न स्थापिका. संतानम् अवस्थापयतीति चेत्. हेतुप्रत्ययेषु स्थित्याख्या प्रसज्यते. हेतुप्रत्ययानां संतानहेतुत्वात्. निकायसभागचित्तं युज्यत इति. एकस्मिं निकायसभागे ऽनेकम् अपि चित्तं एकम् इत्य् उच्यते. एकनिकायसभागसंभूतत्वाद् इत्य् अभिप्रायः. तच् चित्तं युज्यत एकस्मिंश् चित्त इति वक्तुम्. अन्यथा हि कथम् एकस्यैव चित्तक्षणस्य जातिश् च मरणं चान्यथात्वं च स्यात्.
उत्तरोत्तरक्षणानुबन्धः स्थितिर् इति. पूर्वस्य क्षणस्य उत्तरः क्षणः प्रतिनिधिभूतः सादृश्यात्. अतः स पूर्वः क्षणो ऽद्यापि अवतिष्ठत इवेति कृत्वोत्तरः क्षणः स्थितिर् उच्यते. यदा तर्हि सदृशा उत्पद्यन्ते इति. यदा सदृशा उत्पद्यन्ते. तदा विसदृशत्वं [तिब्. 163अ] नास्ति. विसदृशत्वं च स्थित्यन्यथात्वम् उक्तम्. अतः सदृशोत्पत्तौ स्थित्यन्यथात्वं नास्तीति अव्यापिलक्षणं स्याद् इत्य् अभिप्रायः. क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्येति विस्तरः. क्षिप्तं च तद् अक्षिप्तं च क्षिप्ताक्षिप्तं. बलिदुर्बलाभ्यां क्षिप्तं बलिदुर्बलक्षिप्तं. क्षिप्ताक्षिप्तं च तद् बलिदुर्बलक्षिप्तं च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं. किं तत्. वज्रादि. आदिग्रहणेन लोहपासाणादेर् ग्रहणं. अपरे पुनर् एवं विग्रहं कुर्वन्ति. क्षिप्तश् चाक्षिप्तश् च क्षिप्ताक्षिप्तौ. बलिदुर्बलाभ्यां क्षिप्तौ बलिदुर्बलक्षिप्तौ. क्षिप्तस्यैवायं द्विधाभेदः. क्षिप्ताक्शिप्तौ च बलिदुर्बलक्षिप्तौ च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं. वज्रादिर् अस्य वज्रादिः. अस्मिन् विज्रहे वज्रादि विशेषणं. क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं विशेष्यं. तस्य वज्रादेर् एवंविधस्य यथासंभवं चिराशुतरपातः. क्षिप्तस्य चिरंपातः. अक्षिप्तस्य चिरतरः पातः. दुर्बलक्षिप्तस्याशुपातः. बलिक्षिप्तस्याशुतरः पातः. तस्य कालः. कालस्य भेदः. चिराशुतरपातकालभेदात्. [तिब्. 163ब्] तद्भूतानां वज्रादिमहाभूतानां. परिणामविशेषः क्षिप्तस्यान्यथापरिणामो येन चिरंपातः. एवं यावद् बलिक्षिप्तस्यान्यथापरिणामो येनाशुतरः पातः. तस्य परिणामविशेषस्य सिद्धिः. तस्याः परिणामविशेषसिद्धेः न ते निर्विशेषा भवन्तीत्य् अधिकृतं. अन्तिमस्य तर्हीति विस्तरः. शब्दस्यार्चिषश् च दीपादेर् यो ऽन्त्यः क्षणः संतानोपरतिकाले. निरुपधिशेषनिर्वाणकाले वार्हतः. तस्य षडायतनस्य उत्तरक्षणाभावात् स्थितिर् नास्ति. स्थितेर् अभावात् स्थित्यन्यथात्वं नास्तीति अव्यापिनी लक्षणव्यवस्था प्राप्नोति. येयम् उक्ता तस्या विसदृशत्वम् स्थित्यन्यथात्वम् इति. यस्यास्ति स्थितिः. तस्यावश्यम् अन्यथात्वं भवति. यस्य नास्ति स्थितिः. तस्य नास्ति स्थित्यन्यथात्वम् इत्य् उक्तं भवति. संभवं हि प्रत्य् एवम् उक्तं सूत्रे त्रीणीमानि संस्कृतलक्षणानीति. तस्माद् अंत्यशब्दार्चिःक्षणप्रभृतीनाम् उत्पादव्ययाव् एव द्वे लक्षने इति अभिप्रीयेते. तदन्येषां तु स्थित्यन्यथात्वम् अपीति. अपर आह. ( अभिध्-क्-व्य् 177 ) अंत्यानाम् अपि शब्दार्चिःक्षणप्रभृतीनां स्थितिर् अस्ति यत् स्वावस्थानं. तस्याश् चान्यथात्वं पूर्वक्षणापेक्षम् इति. तेषाम् अपि त्रीणि संस्कृतलक्षणानि व्यवस्थाप्यंत इति. कथम् इदानीं स एव धर्ंओ लक्ष्यः. तस्यैव च लक्षणम् इति. लक्ष्यलक्षणयोर् [तिब्. 164अ] जलबलाकावत् अन्यत्वं पश्यंतश् चोदयंति. तद् व्यभिचारयंतः सौत्रांतिका आहुः. कथं तावन् महापुरुषलक्षणानीत्यादि. महापुरुषलक्षणानि महापुरुषसंगृहीतत्वान् नातो ऽन्यानि. ब्रूयान् न महापुरुषलक्षणमात्रं महापुरुषः. धर्ममात्रं त्व् अभूत्वा भवति भूत्वा च न भवतीति अदृष्टांत एषः. अत्र ब्रूमः. समम् एवैतत्. यथा हि महापुरुषलक्षणानि महापुरुषाख्यानि महापुरुषलक्षणाख्यानि च भवंति. एवं संस्कृतो धर्मः संस्कृतं चोयते संस्कृतलक्षणं च. उत्पादादिलक्षणेन ह्य् अवस्थाविशेषेण स धर्मो लक्ष्यते. यदा च प्रवाहलक्षणव्यवस्था क्रियते. तदा समुदायिभिः समुदायो लष्यते. यथा महापुरुषसंज्ञः समुदायो महापुरुषलक्षणैः समुदायिभिर् इति. एतेन सास्नादीनि लक्षणानि व्याख्यातानि. कूठिन्यादीनि चेति विस्तरः. उभयसिद्धो ऽयं दृष्टांतः प्रवचनसिद्धत्वात्. कठिनलक्षणो हि पृथिवीधातुर् उच्यते. न च पृथिवीधातोर् अन्यत् काठिन्यम्. एवं सर्वत्र योज्यं. स एव हि पृथिवीधातुः कठिनलक्ष्यमाणः कठिनलक्षण उच्यते. एतद् एव संस्कृतम् अभूत्वाभवद्भूत्वाचाभवल्लक्ष्यमाणं संस्कृतलक्षणम् उच्यते.
लक्ष्यत इति लक्षणम् इति कृत्वा. न च तत् तस्माद् अन्यत्. यथा चोर्ध्वगमनेनेति विस्तरः. क्सणिकवादिनो वैभाषिकस्य धूमस्योर्ध्वगमनं [तिब्. 164ब्] नान्यद् अस्ति. स एवोर्ध्वदेशांतरेषु निरंतरम् उत्पद्यमान ऊर्ध्वगमनाख्यां लभते. तद् ऊर्ध्वगमनं ततो भिन्नम् इव लक्ष्यते. न च धूमस्य ऊर्ध्वगमनत्वम् अन्यद् इष्यते. न च तत् तस्माद् अन्यत्. न च तद् ऊर्ध्वगमनं तस्माद् धूमात् अन्यत्. स एवात्र न्याय इति. एवम् उत्पादो विनाशो ऽन्यथात्वं च ततो भिन्नम् इव लक्ष्यते. न च संस्कृतस्य संस्कृतम् अन्यद् भवतीति. न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते गृह्णतापि स्वभावं गृह्णतापि रूपादीनां स्वभावं. यावत् प्रागभावो न ज्ञायते. यावत् तेषां रूपादीनां प्रागुत्पत्त्यभावो न ज्ञायते. पश्चाच् च. किम्. अभावः. प्रागभावश् च प्रध्वन्साभावश् च यावन् न ज्ञायते. संततेश् च विशेषो यावन् न ज्ञायते इति वर्तते. तस्मान् न तेनैव तल् लक्षितं भवति. न तेनैव संस्कृतत्वेन संस्कृतत्वं लक्ष्यते. किं तर्हि. प्रागभावादिभिस् तत् संस्कृतत्वं लक्ष्यते. यदि हि रूपादीनां स्वभावं गृह्णन् संस्कृतम् इति गृह्णीयात् प्रागभावं पश्चादभावं च संततेश् च विशेषं अज्ञात्वा तेनैव तल् लक्षितं स्यात्. न त्व् एवं जानीत इति न तेनैव तल् लक्षितं भवति. न च तेभ्यो ऽपि रूपादिभ्यो द्रव्यांतराण्य् एव जात्यादीनि विद्यंते.
जातिर् आदिः प्रवाहस्येति
विस्तरेण वचनात्. एषां सहभूतत्वात् जात्यादीनां समानकालोत्पादत्वात्. न. कारित्रकालभेदाद् इति. नैतद् एवं. कस्मात्. कारित्रकालभेदात्. पुरुषकारकालभेदाद् इत्य् अर्थः. तत् प्रतिपादयन्न् आह. अनागता हि जातिः कारित्रं करोतीति विस्तरः.
किम् अनागतं [तिब्. 165अ] द्रव्यतो ऽस्ति नास्तीति. अनागतम् एव तावद् द्रव्यतो नास्तीति प्रतिपादयिष्यते. कुतो ऽनागता जातिः कारित्रं करोतीत्य् अभिप्रायः. सत्य् अपि तु तस्मिन्न् इति. सत्य् अपि तु द्रव्यतो ऽनागते जातिर् अनागतावस्थायां कारित्रं कुर्वती कथम् अनागता सिध्यति. अप्राप्तकारित्रं हि अनागतम् इति सिद्धांतः. स विरुध्येत. तस्मात् तद् वक्तव्यं. कथं वर्तमाना सिध्यतीति. उपरतकारित्रो ऽतीत इष्यते. जातिश् चानागतैव. उपरतकारित्रे हि वर्तमानावस्थायाम् एवातीता प्राप्नोतीति न वर्तमाना भवेद् इति वर्तमानलषणं वक्तव्यम् इति. अपरिसमाप्तकारित्रो वर्तमान इति चेत्. अतीतो ऽप्य् वर्तमानः स्यात्. अतीतस्यापि हि फलदानकारित्रम् इष्यते. यदैवं ह्य् एनं स्थितिर् इति विस्तरः. स्थितिजराविनाशवृत्तयो ह्य् अन्योन्यविप्रतिषिद्धाः. न हि स एव धर्मस् तिष्ठति च जीर्यति च विनश्यति चेति युक्तो व्यवस्थापयितुं. तस्य क्षणिकत्वं बाध्यत इति. प्रथमं स्थितिः स्थापयति. ततो जरा जरयति. ततो ऽनित्यता विनाशयति. क्षणत्रयावस्थानात्. क्षणिकत्वं बाध्यत इति. एष एव हि नः क्षण इति. कार्यपरिसमाप्तिलक्षणो न तूत्पत्त्यनंतरविनाशलक्षण इत्य् अर्थः. एवम् अपीति विस्तरः. सहोत्पन्नानां क्रमेण कारित्रं न युज्यते. कुत एतत्. स्थितिस् तावत् स्थापयति. न तु तस्मिन् काले जरा जरयति नाप्य् अनित्यता विनाशयतीति. पुनः केनाबलीयस्त्वं [तिब्. 165ब्] पश्चात् केनाबलीयस्त्वं यद् एनां यस्माद् एनां स्थितिं सह धर्मेण यस्यासौ स्थितिः. तेन धर्मेण सहानित्यता निहंति. कृतकृत्या पुनः कर्तुं नोत्सहते जातिवद् इति. यथा जातिः कृतकृत्या जन्यं जनयित्वा परिक्षीणशक्तिर् न पुनर् जनयति. तथा स्थितिर् अपि तद्वद् एव न पुनः स्थापयतीति. न हि शक्यम् इति विस्तरः. न वर्तमानताम् आनीतं जन्यं पुनर् आनेतुं शक्यते ऽनवस्थाप्रसंगात्. शक्यं तु खलु स्थित्या स्थाप्यम् अत्यंतं स्थापयितुं. स्थितेर् विनाशप्रतिबन्धलक्षणत्वात्. ते एव जरानित्यते इति. ते एव जरानित्यते प्रतिबन्धः. येन स्थितिः स्थाप्यम् अत्यंतं स्थापयितुं न शक्नोति. जरा हि स्थितिं दुर्बलीकरोति दुर्बलाम् अनित्यता निहंतीति.
आचार्य आह. यदीति सर्वं. यदि हि ते जरानित्यते बलीयस्यौ स्यातां पूर्वम् एव स्यातां स्थितिकारित्रकाले. यतः सा स्थितिर् न लभते कारित्रं कर्तुं. निवृत्तकारित्रायाम् इति विस्तरः. यदा निवृत्तकारित्रा स्थितिः. तदा ते ऽपि जरानित्यते न तिष्ठतः. स चापि धर्मः. स्थितिकारित्राद् धि तेषां स्थितिः कल्पते. ( अभिध्-क्-व्य् 179 ) तस्मात् ते ऽपि न तिष्ठतः. कथम् अतिष्ठन्त्यौ जरानित्यते कुत्र वा धर्मिण्य् अतिष्ठति कारित्रं कर्तुम् उत्सहिष्येते. किं वा पुनस् ताभ्यां जरानित्यताभ्यां कर्तव्यं. स्थितिसामर्थ्याद् धि स धर्म उत्पन्नमात्रो न विनष्टो ऽभूत्. स तया उपरतकारित्रया स्थित्याप्य् उपेक्ष्यमाणो ऽस्थाप्यमानो ध्रुवं न स्थास्यतीति. अयम् एवास्य विनाशो यद् इदम् अनवस्थानं. किं पुनर् जरानित्यताभ्यां [तिब्. 166अ] कार्यम् इत्य् अभिप्रायः. न च तस्माद् एव तस्यान्यप्रकारता युज्यत इति. यदि स एव नासाव् अन्यथा. अथान्यथा न स एव. ययोर् हि अन्यथात्वं. तयोर् अन्यत्वं दृष्टं तद्यथा देवदत्तयज्ञदत्तयोः.
यो ऽप्य् आह निकायांतरीय इति आर्यसंमतीयः. स घटादेर् मुद्गरादिकृतो विनाश इति मन्यते कालांतरावस्थायि हि तस्य रूपं. चित्तचैत्तानां तु क्षणिकत्वं. अत उच्यते. चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात् तदनित्यतायाश् चित्तचैत्तानित्यताया विनाशकारणानपेक्षत्वात् स्वयं विनश्वरत्वात् स्थित्यनित्यते कारित्रं युगपत् कुर्यातां. अत एकस्य चित्तस्य चैत्तस्य वा युगपत्स्थितिविनष्टता अन्योन्यविरुद्धो ऽपि संप्रसज्यते. एवम् एतत् सूत्रं सुनीतम् इति. यद् एतत् त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानीति.
(इइ.47च्द्) सति सामग्र्ये भावात्. असति चाभावाद् इति. सति हेतुप्रत्ययानां सामग्र्ये भावात् जन्यस्य. असति चाभावात्. न जातेः. किं. सामर्थ्यं पश्याम इत्य् अधिकृतं. न हि हेतुप्रत्ययसामग्र्ये ऽपि तज् जन्यं कदाचिद् भवति कदाचिन् न भवति. अत्र भदंतानंतवर्मा आह. यथा चक्षुर् न विना आलोकादिभिश् चक्षुर्विज्ञानं जनयति. न चातस् तदुत्पत्तौ न कारणं. एवं जातिर् न विना हेतुप्रत्ययैर् धर्मं जनयति. न चातस् तदुत्पत्तौ न कारणम् इति. अत्रोच्यते. [तिब्. 166ब्] असमानम् एतत्. चक्षुर् हि दृष्तसामर्थ्यम् सत्स्व् आलोकादिषु अन्धानन्धयोश् चक्षुर्विज्ञानस्यानुत्पत्त्युत्पत्तिदर्शनात्. न त्व् एवं जातिर् इति. सूक्ष्मा अपि हि धर्मप्रकृतय इति. तद्यथा स्पर्शादीनां चैतसिकानां प्रकृतयः स्वभावा दुःपरिच्छेद्यत्वात् सूक्ष्माह्. अस्त्य् एतद् एवं. अदृश्यमानो ऽपि कश्चिद् धर्मः कारित्रेण निर्धार्यते. न त्व् एवं जातिः कारित्रेण निर्धार्यते. स्पर्शस्य हि कारित्रं भगवतैवनिर्धारितं. यः कश्चिद् वेदनास्कंधः संज्ञास्कंधः संस्कारस्कंधः. सर्वस् स स्पर्शं प्रतीत्येति विस्तरः. जातम् इत्य् एव तु न स्यात् असत्यां जाताव् इति. स्वलक्षणापेक्षा रूपे रूपबुद्धिः. न तु जातम् इति स्वलक्षणापेक्षा जातबुद्धिः. वेदनादिष्व् अपि भावात्. तस्माद् अर्थांतरभूतजातिद्रव्यापेक्षेयं जातबुद्धिर् इति निर्धार्यते. षष्ठीवचनं च न स्यात् रूपस्योत्पाद इति. वैयधिकरण्ये हि षष्ठीनिर्देशो न सामानाधिकरण्ये. तेनाह. यथा रूपस्य रूपम् इति. वैधर्मदृष्टांत एषः. यथा रूपं रूपाद् अनन्यद् इति कृत्वा षष्ठीनिर्देशो न भवति ( अभिध्-क्-व्य् 180 ) रूपस्य रूपम् इति. तथा रूपस्योत्पाद इति न स्यात्. तस्माज् जातिनिमित्तो ऽयं षष्ठीनिर्देश इति गम्यते. एवं यावद् अनित्यता यथायोगं वक्तव्येति. स्थितम् एव तु न स्यात् असत्यां स्थितौ. षष्ठीवचनं च रूपस्य स्थितिर् इति यथा रूपस्य रूपम् इति. जीर्णम् इत्य् एव तु न स्यात् असत्यां जरायां. षष्ठीवचनं च रूपस्य [तिब्. 167अ] जरेति यथा रूपस्य रूपम् इति. तथा विनष्टम् इत्य् एव तु न स्यात् असत्याम् अनित्यतायां. षष्ठीवचनं च रूपस्य विनाश इति यथा रूपस्य रूपम् इति.
तेन तर्हीति विस्तरः. यदि जातमित्येवमादिबुद्धिसिद्ध्यर्थं षष्ठीविधानार्थं च जात्यादयः कल्प्यंते अनात्मत्वम् अप्य् एष्ट्व्यं. न हि निर्निमित्ता अनात्मबुद्धिर् भवितुम् अर्हति. अथानात्मत्वं प्रज्ञप्तिसद् इष्यते. तन्निमित्तानात्मबुद्धिः. जात्याद्य् अपि प्रज्ञप्तिसद् एष्टव्यं. तन्निमित्ता च जात्यादिबुद्धिर् इति. साधनं चात्र. प्रज्ञप्तिसत् जात्यादि. द्रव्यसद् अपेक्ष्य गृह्यमाणत्वाद्. अनात्मत्ववद् इति. सत्तादयो ऽपीति. आदिशब्देन द्रव्यत्वरूपघटत्वादि गृह्यते. एकं रूपं द्वे रूपे महद् अणु पृथक् संयुक्तं विभक्तं परम् अपरं सद्रूपम् इति. तथा द्रव्यम् एतद् रूपम् इदं घटो ऽयम् इत्य् एवमादिबुद्धिसिद्धार्थं संख्यादयो ऽपि वैशेषिकपरिकल्पिता अभ्युपगंतव्याः. षष्थीविधानार्थं च रूपस्य संयोग इति. संयोगग्रहणम् उदाहरणमात्रं. रूपस्य विभागः परत्वापरत्वम् इत्येवमाद्य् अपि योज्यं. एषा च षष्ठी कथं कल्प्यते रूपस्य स्वभाव इति. न हि वैभाषिकाणां [तिब्. 167ब्] रूपाद् अन्यो रूपस्य स्वभाव इष्टः. जातम् इति. जातम् एव न विनष्टम् इत्य् अभूत्वाभावज्ञापनार्थं क्रियते प्रज्ञप्तिः. बहुविकल्प इति. बहुभेदो रूपवेदनादिभेदात्. तस्य विशेषणार्थं रूपस्योत्पाद इति न वेदनादीनाम् उत्पाद इति विशेषणार्थं षष्ठीं कुर्वंति. मान्यः प्रत्यायि रूपसंज्ञक एवोत्पादो न वेदनादिसंज्ञक इति. दृष्टांतं कथयंति. चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरम् इति. अनर्थांतरभावे ऽपि षष्ठीनिर्देशः क्रियते. गन्धादिसमूहमात्रं हि चन्दनम् इति बौद्धसिद्धान्तः. वैशेषिकसिद्धान्तापेक्षया तु असिद्धश् चन्दन इत्य् अपरो दृष्टान्त उपन्यस्यते. शिलापुत्रकस्य शरीरम् इति. शिलापुत्रकशरीरयोर् वैशेषिकाणाम् अपि सिद्धान्ते नार्थान्तरभावो भवति च षष्ठीनिर्देशः. अर्थान्तरपरिकल्पकृतो हि तथा निर्देशः. एवं स्थित्यादयो ऽपि यथायोगं वेदितव्या इति. तस्मात् प्रज्ञप्तिमात्रम् एवेदं प्रवाहावस्थानज्ञापनार्थं क्रियते स्थितम् इति. सा च प्रवाहावस्थानलक्षणा स्थितिर् बहुविकल्पा. तस्या विशेषणार्थं रूपस्य स्थितिर् इति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञकैव [तिब्. 168अ] स्थितिः प्रतीयेत मान्या प्रत्यायीति. तथा प्रज्ञप्तिमात्रम् एवैतत् पूर्वपरविशेषज्ञापनार्थं ( अभिध्-क्-व्य् 181 ) क्रियते जीर्णम् इति. सा च पूर्वापरविशेषलक्षणा जरा बहुविकल्पा. तस्या विशेषणार्थं रूपस्य जरेति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञकैव जरा प्रतीयेत मान्या प्रत्यायीति. तथा प्रज्ञप्तिमात्रम् एवैतत् प्रवाहनिवृत्तिज्ञपनार्थं क्रियते विनष्टम् इति. स च प्रवाहनिवृत्तिलक्षणो विनाशो बहुविकल्पः. तस्य विशेषणार्थं रूपस्य विनाश इति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञक एव विनाशः प्रतीयेत मान्यः प्रत्यायीति. सर्वत्र च दृष्टान्तद्वयं वक्तव्यं. तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरम् इति.
यथा च धर्मतयेति. धर्मता धर्मप्रक्र्तिः धर्मस्वभावो धर्मशैलीत्य् अर्थः. धर्मता धर्मप्रकृतिर् इति कुत एतत्. चक्षुः समृद्धे शून्यं नित्येन ध्रुवेण शाश्वतेन अविपरिणामधर्मेण आत्मनात्मीयेन च. तत् कस्य हेतोः. प्रकृतिर् अस्यैषेति. यथा च धर्मतया न सर्वं जातिमद् इष्यते आकाशादि. तथा धर्मतया न सर्वं जायत इत्य् एष्टव्यम्. न ह्य् अत्र किंचित् काराणम् अस्ति. यत् संस्कृतम् एव जातिमद् भवति नासंस्कृतम् इति अन्यत्र धर्मतायाः. एवम् असत्याम् अपि जातौ संस्कृतम् एवोत्पद्यते. नासंस्कृतम् इति. यथा च तुल्यजातिमतां केषांचिद् रूपवेदनादीनां तदन्ये प्रत्ययास् तेभ्यो रूपोत्पत्तिप्रत्ययेभ्यो ऽन्ये वेदनाद्युत्पत्तिप्रत्ययास् तदन्ये. ते तदन्ये प्रत्ययास् तदन्यस्योत्पादने न समर्था भवन्ति. तेभ्यो वेदनादिभ्यो ऽन्यत् तदन्यत् [तिब्. 168ब्]. किं तद्. रूपं. तस्य. तदन्यस्य ते वेदनादिप्रत्यया उत्पादने यथा न समर्था भवन्ति. एवम् असंस्कृतस्याकाशादेर् उत्पादने सर्वे ऽपि रूपवेदनादिप्रत्यया न समर्थाः स्युर् इति. पूर्वं स्वभावनियमेनोक्तम् इदानीं शक्तिनियमेनेति.
न हि दूषकाः सन्तीति विस्तरः. यथा न मृगाः सन्तीति यवा नोप्यंते उप्यन्त एवेत्य् अर्थः. द्वौ प्रतिषेढौ प्रकृतम् अर्थं गमयतः. यथा न मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते. किं तर्हि. भक्ष्यन्त एव. तथा न दूषकास् सन्तीति आगमो ऽभिधर्मशास्त्राण्य् अपास्यन्ते. तस्माद् दोषेषु प्रतिविधातव्यं. दोषेषु परव्यवस्थापितेषु परिहारः कर्तव्यः. सिद्धान्तश् चानुसर्तव्यो न परित्याज्य इत्य् अभिप्रायः.
(इइ.48अब्) नामकायादयः संज्ञावाक्याक्षरसमुक्तय
इति. संज्ञासमुक्तयो नामकायाः. वाक्यसमुक्तयः पदकायाः. अक्षरसमुक्तयो व्यंजनकायाः. संज्ञाकरणम् इति लोकभाषेयं. संज्ञाकरणं नामधेयम् इति पर्यायः. तथा हि लोके वक्तारो भवन्ति. देवदत्त इत्य् अस्य संज्ञाकरणम् इति. संज्ञायाः करणं संज्ञाकरणं. येन संज्ञा चैतसिको धर्मः क्रियते जन्यते. संज्ञैव वा करणं संज्ञाकरणं. संज्ञाग्रहणं चान्यकरणनिवृत्त्यर्थं. करणग्रहणं चैतसिकविशेषणार्थं ( अभिध्-क्-व्य् 182 ). यदि हि संज्ञा नामेत्य् उच्येत चैतसिको ऽपि संभाव्येत. तत् पुनः संज्ञाकरणं [तिब्. 169अ] नाम रूपं शब्दो रसो गन्धो वेत्य् एवमादि. वाक्यं पदम् इति. पद्यते गम्यते ऽनेनेति. पदं तु सुप्तिङन्तं पदं गृह्यते. तेनाह. यावतार्थपरिसमाप्तिस् तद्यथा
अनित्या बत संस्कारा
इति एवमादीति. आदिशब्देन
उत्पादव्ययधर्मिणः
उत्पद्य हि निरुध्यन्ते. तेषां व्युपशमः सुखम्
इत्य् एवमादि. अस्या गाथाया एवम् अर्थं व्याचक्षते.
अनित्या बत संस्कारा
इति प्रतिज्ञा.
उत्पादव्ययधार्मिण
इति हेतुः. यस्माद् उत्पादव्ययधर्मवन्तस् तस्माद् अनित्या इति परिच्छिद्यन्ते
उत्पद्य हि निरुध्यन्त
इति दृष्टान्तः. य उत्पद्यन्ते निरुध्यन्ते च ते अनित्याः. तद्यथा घटादयः. तथा च संस्कारा इति. अपरे पुनर् व्याचक्षते. असिद्धहेतुसाधनार्थम् एतद् इति. कथम् एतद् गम्यते.
उत्पादव्ययधर्मिणस्
त इति यस्माद् एते उत्पद्य निरुध्यमाना दृष्ता इति. अपरे वर्णयन्ति.
अनित्या बत संस्कारा उत्पादव्ययधर्मिण
इति पर्यायद्वयम् एतद् उच्यते. कस्माद् इत्य् आह. यस्माद्
उत्पद्य निरुध्यन्त
इति हेतुवचनं.
तेषां व्युपशमः सुखं
ये ह्य् अनित्यास् ते दुःखा अतस्
तेषां व्युपशमः सुखम्
इति विनेयजनं नियोजयति. येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते. साव्ययकारकविशेषणं वाक्यम् इति वाक्यविदो वदन्ति. तद्यथा पचति पठति गच्छतीति कृष्णो गौरो [तिब्. 169ब्] रक्त इति पचति पक्ष्यति अपाक्षीद् इति क्रियागुणकालानां संबन्धविशेषा गम्यन्ते. तत् पदं. तथा हि सामान्यवर्तमानानां पदानां यद् विशेषे ऽवस्थानं स वाक्यार्थ इत्य् आहुः. तद् एवं स्वलक्षणाभिद्योतकं नाम क्रियादिसंबन्धविशेषाभिद्योतकं पदम् इत्य् उक्तं भवति. व्यंजनम् अक्षरम् इति वर्ण इत्य् अर्थः. न तु हल् एव अचाम् अपि व्यंजनकत्वेनेष्टत्वात्.
ननु चाक्षराण्य् अपि लिप्यवयवानां नामानीति. लिपयो मनुष्यादिभिः पत्त्रादिषु ये लिखिताः. तेषाम् अक्षराणि नामानि. रूपनामग्रहणे रूपप्रतीतिवद् व्यंजनग्रहणे लिपिप्रतीतिः. अतो व्यंजनम् अपि लिप्यवयवानां नाम भवतीति लक्षणसांकर्यं. ततश् च यद् अभिप्रेतं नाम्नो व्यतिरिक्तम् अन्यद् एव व्यंजनम् अक्षरम् इति. तन् नोपपद्यते. न वै लिप्यवयवानाम् इति विस्तरः. विपरीतम् एतद् इति व्याचष्टे. यत् तु व्यंजनग्रहणे लिपिप्रतीतिर् इति. तत् प्रत्याय्यप्रत्यायकभावेन संकेतितत्वात्. न तु तन्नामभावात्.
समुक्तिर् इति उच समवाय इत्य् एतस्य धातोः क्तिनि समुक्तिर् इति एतद् रूपं भवति. यो ऽर्थः समवाय इति. सो ऽर्थः समुक्तिर् इति. समवाय इत्य् अर्थः.
ननु च ते इति सौत्रान्तिकवचनं. नैते वाक्स्वभावा इति विस्तरेण वैभाषिकवचनं. न च घोषमात्रेणेति. नानक्षरात्मकेन घोषेणार्थो ऽवगम्यते. किं तर्हि. वाङ् नाम्नि प्रवर्तते. तन् नामात्मरूपताम् इव वाच आपादयद् अर्थत्वं द्योतयति. तां वाचम् उपादाय पदार्थं द्योतयति. [तिब्. 170अ] प्रत्याययतीत्य् अर्थः. सौत्रान्तिक आह. न वै घोषमात्रं वाग् इति विस्तरः. न वयं घोषमात्रं वाग् इति वर्णयामः. कश्चिद् एव तु घोषो वर्णात्मकः. सैव वाक्. यो ऽर्थेषु कृतावधिः कृतमर्यादः. एतेन संकेतापेक्षः शब्दो ऽर्थं प्रत्याययति. न यः कश्चिच् छब्द इति दर्शयति. कृतसंकेतः शब्दो ऽर्थं प्रत्याययतीति. तच् चैतच्छब्दमात्रात् प्रतीतपदार्थकात् सिध्यतीति. तच् चैतदर्थद्योतनं नामरहिताच् छब्दाज् जात्याद्यभिधेयपदार्थकात् सिध्यतीत्य् अयम् अस्यार्थ इति. यद्य् उत्पादयतीति विस्तरः. वाचि सत्यां स चित्तविप्रयुक्त उत्पद्यत इतीष्यते तेनाशंक्यते यद्य् उत्पादयतीति. एवं चेत् सर्वं घोषमात्रं वृषभादिगर्जितम् अपि नामोत्पादयिष्यति. घोषस्वभावा वाग् इति कृत्वा. ब्रूयास् त्वं विशिष्ट एव घोषो यो वर्णात्मकः संभावितः. स एव नामोत्पादयतीति. अत्रोच्यते. यादृशो वा घोषविशेष इष्यते नाम्न उत्पादकः. स एवार्थस्य द्योतको भविष्यति. न तु स चित्तविप्रयुक्त इत्य् अभिप्रायः. अथ प्रकाशयतीति विस्तरः. घोषेणोत्पद्यमानेन स चित्तविप्रयुक्त उत्पद्यते. स तं प्रकाशयत्य् अर्थद्योतनायेति यदीष्यते. अत्रोच्यते. सर्वं घोषमात्रं नाम प्रकाशयिष्यतीति पूर्ववद् वाच्यं. न खल्व् अपि शब्दानां सामग्र्यम् अस्तीति. यद् अनेकाक्षरं नाम. तदुत्पत्तिपरिकल्पो ऽनेकशब्दापेक्षः. तेनैवं विचार्यते. इहोच्चरितप्रध्वन्सिनः शब्दाः. तस्माद् एषां युगपदवस्थानं नास्ति. एकस्य च द्रव्यसतो [तिब्. 170ब्] धर्मस्य भागशः खण्डश उत्पादो न युक्तो यथा घटपटादेः प्रज्ञप्तिसतः कल्प्यत इति कथम् उत्पादयन्ती वाङ् नामोत्पादयेत्. यदा तद् उत्पादयति. तदा ( अभिध्-क्-व्य् 184 ) कथं सा तद् उत्पादयतीति वाक्यार्थः. वर्तमाना हि वाङ् नामोत्पादयन्त्य् उत्पादयेत्. न च सर्वे वाच्छब्दक्षना युगपद्वर्तमाना भवन्ति. यदा हि रूपम् इति रशब्दो वर्तमानो भवति. तदा ऊकारपकाराकारा अनागता भवन्ति. यदा ऊकारो वर्तमानो भवति. तदा रशब्दो ऽतीतः. पकाराकाराव् अनागताउ. एवं पकाराकाराव् अपि क्रमशो यदा वर्तमानौ भवतः. तदेतरे न वर्तमाना इति. एवम् सा वाङ् नाम नैवोत्पादयेत्. ब्रूयास् त्वं वर्तमानो रशब्दस् तस्य रूपनाम्नः पूर्वं भागम् उत्पाद्यति. ऊशब्दो ऽपि वर्तमानो द्वितीयं भागम् एवं यावद् अकारशब्दस् तस्य चतुर्थभागम् उत्पादयतीति. तद् अयुक्तम्. एकस्य धर्मस्य भागश उत्पादसंभवाद् इति. उक्तम् एतत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्य् अविज्ञप्तिम् इति. प्रातिमोक्षसंवरसमादाने कायवाग्विज्ञप्तयः प्रवर्तन्ते. तासां नास्ति सामग्र्यं. अथ चातीतकायवाग्विज्ञप्तिक्षणापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रातिमोक्षसंवरसंगृहीताम् अविज्ञप्तिम् उत्पादयति. एवम् अतीतशब्दक्षणापेक्षः पश्चिमो वाच्छब्दक्षणो नामोत्पादयतीति. एवं तर्हीति विस्तरः. पश्चिमशब्द एव नाम्न उत्पादात् [तिब्. 171अ] यो ऽपि तम् एवैकं शृणोति यो ऽपि पश्चिमम् एवैकं शब्दं शृणोति रूपम् इति. सो ऽप्य् अर्थं प्रतिपद्येत. सो ऽपि रूपनामार्थं गृह्णीयात्. तन्नामोत्पत्तेः. न चैवं प्रतिपद्यते. तस्माद् अयुक्तम् एतत्. अथाप्य् एवं कल्प्येतीति विस्तरः. क्षणप्रतिभासा वर्णवाग् व्यंजनम् अपि तत्प्रतिभासम् इति पक्षान्तरम् उपन्यस्यते. वाग् व्यंजनं जनयति. व्यंजनं तु नाम जनयतीति. अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्याभावात्. कथं. न खलु व्यंजनानां सामग्र्यम् अस्ति. न चैकस्य धर्मस्य भागश उत्पादो युक्त इति कथम् उत्पादयद् व्यंजनं नामोत्पादयेत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्य् अविज्ञप्तिम्. एवं तर्हि पश्चिम एव व्यंजने नाम्न उत्पादात् यो ऽपि तम् एवैकं पश्चिमं व्यंजनोत्पादकं शब्दं शृणोति. यो वा तद् एवैकं पश्चिमं व्यंजनं शृणोति. सो ऽप्य् अर्थं प्रतिपद्येत. एष एव तु प्रसंगो नाम्नः प्रकाशत्वे वाच इति. न खल्व् अपि शब्दानां सामग्र्यम् अस्ति. न चैकस्य धर्मस्य भागशः प्रकाशो युक्त इति कथं प्रकाशयन्ती वाक् नाम प्रकासयेत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रकाशयत्य् अविज्ञप्तिं. एवं तर्हि पश्चिम एव शब्दे नाम्नः प्रकाशाद् यो ऽपि तम् एवैकं शब्दं शृणोति. सो ऽप्य् अर्थं प्रतिपद्येत. अथाप्य् एवं कल्प्येत. वाग् व्यंजनं प्रकाशयति. व्यंजनं तु नामेति. अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्यभावात्. यस्य तर्हि शब्दमात्रं नामानेकाक्षरं च नाम भवति न च शब्दानां ( अभिध्-क्-व्य् 185 ) सामग्र्यम् अस्ति. तस्य कथं नामार्थं प्रत्याययति. [तिब्. 171ब्] सर्वाक्षरस्मृत्यनन्तरत्वात् अर्थप्रतिपत्तेः. अत एव च नान्तरीयकन्यायेन प्रथमाक्षरश्रवणकाल एव शेषाक्षरानुस्मृतिबलेन कश्चिद् अर्थं प्रतिपद्यत एवेति. व्यंजनस्यापि वाङ् नैवोत्पादिका न प्रकाशिका युज्यत इति. पूर्वं शब्दस्योत्पाद्यं शब्दस्य व्यंग्यं वा व्यंजनम् अभ्युपगम्य दोष उद्ग्राहितः. इदानीं शब्दव्यतिरिक्तानुपलब्धेः उत्पाद्यव्यंग्यत्वम् अपि तस्य नास्तीति तद् एव उन्मूलयति. न तु शब्दानां सामग्र्यभावाद् इति
दोशो वक्तव्यः. न ह्य् अनेकशब्दापेक्षा व्यंजनप्रतिपत्तिः. अपि च घोषस्वभावत्वाद् वाचः सर्वं घोषमात्रं व्यंजनम् उत्पादयिष्यति प्रकाशयिष्यति वा. यादृशो वा घोषविशेष इष्यते व्यंजनस्योत्पादकः प्रकाशको वा. स एव व्यंजनार्थं करिष्यतीति. अथाप्य् अर्थसहजं नाम जात्यादिवद् इष्येतेति विस्तरः. अथ सहजे नाम्नि कल्प्यमाने वाचोत्पाद्यं प्रकाश्यं वा नामेत्य् एवमादिघोषप्रसंगो न भविष्यतीति मत्वा पक्षान्तरम् इदं विकल्प्यते. यथा जात्यादीनि लक्षणानि अर्थसहजान्य् एवेष्यन्ते नातीतानागतस्यार्थस्य वर्तमानानि भवन्ति. एवम् एव यदि नामेष्यते. अतीतानागतस्यार्थस्य वर्तमानं नाम न स्यात्. ततश् चातीतानागतार्थव्यवहारो न शक्येत कर्तुं. न ह्य् अतीतानागतं नामार्थं द्योतयितुम् अर्हति. यथातीतानागता वाङ् नाम नोत्पादयितुं व्यंजयितुं चार्हति. नामबहुत्वे च न सहजं नाम परिच्छिद्येत. असंस्कृतानां [तिब्. 172अ] चानुत्पत्तिमत्त्वात् सहजनाम न स्याद् इति अनिष्टिर् एवेयं न कर्तव्यैवेयम् इष्टिर् इत्य् अभिप्रायः.
नामसंनिश्रिता गाथेति.
गाथा वाक्यं. सा नानानि संनिश्रिता नामसूत्पन्नेषु भावात्. तस्मात् सन्ति नामानि वाक्यं चेति वचनावकाशो ऽस्तीत्य् आह. तत्रार्थेषु कृतावधिः शब्दो नामेति विस्तरः. अर्थकृतावधिशब्दस्वभावानां नाम्नां रचनाविशेषो गाथा. विन्यासविशेष इत्य् अर्थः. पंक्तिवद् इति. यथा पंक्तिः पिपीलीकादीनां रचनाविशेषो न ततो द्रव्यान्तरम् उपपद्यते. तद्वत्. एककालवर्तिनां पक्षिपिपीलिकादीनां रचनाविशेषः पंक्तिर् इत्य् उच्यते. क्रमवर्तिनां तु शब्दानां न रचनाविशेषः तेन वैषम्यम् इति वचनावकाशम् अभिसमीक्ष्य द्वितीयो दृष्टान्त उपन्यस्यते. चित्तानुपूर्व्यवच् चेती. यथानुक्रमवर्तिभ्यश् चित्तेभ्यो नान्यद् आनुपूर्व्यम् अस्ति. तद्वत्. अपार्थिका तत्प्रकॢप्तिर् इति. निस्प्रयोजना नामपदयोर् अर्थान्तरपरिकल्पनेत्य् अर्थः. न हि सर्वे धर्मास् तर्कगम्या इति. केचिद् एव तर्कगम्या न सर्वे. ये हि तथागतज्ञानगोचरपतिता एव. न ते तर्कगम्या इत्य् अभिप्रायः.
(इइ.48च्द्) चित्तविप्रयुक्तप्रभेदविवक्षया इदम् उपन्यस्यते. अथ किं प्रतिसंयुक्ता इति विस्तरः. कस्मिन् धातौ प्रतिसंयुक्ताः किं प्रतिसंयुक्ताः. ( अभिध्-क्-व्य् 186 ) सत्त्वाख्या असत्त्वाख्या इति किं इति.
कामरूपाप्तसत्त्वाख्या निष्यन्दाव्याकृता
इति. कामरूपाप्ता [तिब्. 172ब्] एव सत्त्वाख्या एव निष्यन्दा एवाव्याकृता एव चेत्य् अवधारणं. ते त्व् अनभिलाप्या इति. ते त्व् आरूप्याप्ता नामकायादयो ऽकथ्या वाचस् तत्राभावात्. कथं ते सन्तीति गम्यंते. यदा ते नाभिलप्यन्ते. तस्मात् कामरूपाप्ता एव नारूप्याप्ता इति वैभाषिकाः. सत्त्वाख्या एव च सत्त्वप्रयत्नाभिनिर्वृत्तवर्णादिस्वभावत्वात्. यश् च द्योतयति. स तैः समन्वागत इति. कुतः. पुनर् इयम् आशंका. अन्योन्यस्य तैः समन्वागमः स्याद् इति. अस्येदं नामेति व्यपदेशात्. यथा चक्षुरिन्द्रियेण द्रष्टैव समन्वागतो न दृश्यः सत्त्वः. तथा द्योतयितैव तैः समन्वागतो न द्योत्यः. नैष्यन्दिकाः सभागहेतुजनितत्वात्. न विपाकजा इच्छातः प्रवृत्तेः. नौपचयिका अरूपिणां चयाभावाद् इति. अनिवृताव्याकृताश् च. न कुशला नाकुशलाः. कस्मात्. समुच्छिन्नकुशलमूलकामवीतरागाणाम् अपि तत्समन्वागमप्रसंगात्. इतरथा हि यदा समुच्छिन्नकुशलमूलः कुशलान् धर्मान् द्योतयति. तदास्य कुशलधर्मसमन्वागमः स्यात्. एवं कामवीतरागस्याप्य् अकुशलधर्मद्योतने योज्यं. तस्माद् अनिवृताव्याकृता एव. अनिवृताव्याकृतानां कुशलाकुशलैर् अविरोधात्.
(इइ.49) तथा सभागते ति. [तिब्. 173अ]
तथाशब्देन सत्त्वाख्यनैष्यन्दिकाव्याकृतत्वम् एव सभागताया अतिदिश्यते. त्रिधात्वाप्ताया अपवादरूपेण वक्ष्यमाणत्वात्.
सा त्व्
इति. तुशब्दो विशेषणार्थः. नामकायादिभ्यो हि सभागता विशिष्यते. कथम् इत्य् आह.
विपाकापीति.
विपाकजापीत्य् अर्थः. न केवलम् इयं नैष्यन्दिकी. किं तर्हि. विपाकजापीति. न त्व् औपचयिकी तथैव चयाभावात्.
आप्तयो द्विधेति
द्विधाशब्देन नैष्यंदिकविपाकजत्वप्रभेदाव् एव प्राप्तीनाम् उच्येते. प्रभेदान्तरस्योक्तत्वात्.
लक्षणानाम् अपि
जात्यादीनां ताव् एव प्रभेदाव् एवम् एव वक्तव्यौ.
असमन्वागमो
ऽप्राप्तिः. सानिवृताव्याकृतापि न विपाकजा. न हि विपाकस्याप्य् असमन्वागमो विपाको भवितुम् अर्हति. तथा ह्य् अकुशलस्य कुशलसास्रवस्य च विपाक इष्यते. न चानयोर् अप्राप्तिर् विपाको भवितुम् अर्हति. यो हि बुद्धिपूर्वकश् चेतनात्मकस् तत्संप्रयुक्तसमुत्थो वा धर्मः. स विपाकहेतुः. न चासमन्वागम ( अभिध्-क्-व्य् 187 ) एवं बुद्धिपूर्वककर्ंअकृत इति अतो न विपाकजः. शेषम् एषां वक्तव्यम् उक्तम् इति. एषां प्राप्तिलक्षणसमापत्त्यसमन्वागमानां वक्तव्यं व्याख्यातव्यम् उक्तं व्याख्यातम् इत्य् अर्थः. [तिब्. 173ब्] किं पुनस् तच् छेषम् इति. धात्वाप्तता सत्त्वासत्त्वाख्यता कुशलाकुशलव्याकृतता च. कथं पुनस् तद् उक्तं. प्राप्तेस् तावद् धात्वाप्ततोक्ता
स्वधातुका तदाप्तानाम्
इति वचनात्. सत्त्वाख्यतोक्ता समन्वागमवचनात्. न ह्य् असत्त्वसंख्यातेन संस्कृतेन सन्ति समन्वागमाः.
प्राप्त्यप्राप्ती स्वसंतानपतितानाम्
इति वचनात्. कथं कुशलाकुशलाव्याकृततोक्ता.
शुभादीनां शुभादिकेति
वचनात्. लक्षणानाम् अपि त्रैधातुकप्रतिसंयुक्ततोक्ता
सर्वं संस्कृतलक्षणैर्
इति वचनात्. सत्त्वासत्त्वाख्यताप्य् अत एवोक्ता. सर्वसंस्कृतसहभूत्वात्. अत एव च कुशलाकुशलाव्याकृतताप्य् उक्ता.
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च
चित्तानुवर्तिनः कालफलादिशुभतादिभिर्
इति वचनात्. असंज्ञिसमापत्ते रूपधात्वाप्ततोक्ता
ध्याने ऽन्त्य
इति वचनात्. कुशलतापि
शुभेति
वचनात्. सत्त्वाख्यताप्य् अत
एवोपपद्यवेद्यैवेति
वचनात्. निरोधसमापत्तेर् अप्य् आरूप्यधात्वाप्ततोक्ता
भवाग्रजेति
वचनात्. कुशलतापि
शुभेति
वचनात्. सत्त्वाख्यतापि अत एव. कुशलसंस्कृतत्वात्. असमन्वागमस्य त्रिधात्वाप्ततोक्ता
कामाद्याप्तामलानां चेति
[तिब्. 174अ] वचनात्. सत्त्वाख्यता समन्वागमवचनात्. अव्याकृतताप्य् उक्ता
अक्लिष्टाव्याकृताप्राप्तिर्
( अभिध्-क्-व्य् 188 ) इति वचनात्. शेषयोश् चासंज्ञिकजीवितयोः. किं. वक्तव्यम् उक्तम् इति वर्तते. आसंज्ञिकस्य रूपाप्तसत्त्वाख्यविपाकाव्याकृततोक्ता
विपाकस् ते बृहत्फला
इति वचनात्. जीवितस्य त्रिधात्वाप्ततोक्ता
आयुर् जीवितम्
इति वचनात्. आयुषश् च त्रैधातुकत्वात्. सत्त्वाख्यताप्य् उक्ता
विपाको जीवितम्
इति सूत्रात्. विपाको हि सत्त्वाख्य एव
विपाको ऽव्याकृतो धर्मः सत्त्वाख्यो व्याकृतोद्भव
इति वचनात्. अत एवास्यानिवृताव्याकृतताप्य् उक्तेति. आचार्येण तु यद् दर्शनं वक्तव्यम् उक्तं. तद् विवृतं. कथं प्राप्तादीनां सत्त्वाख्यतोक्ता. समन्वागमवचनाद् इत्यादि.
(इइ.50) क इमे हेतवः के च प्रत्यया इति. हेतूनां प्रत्ययानां च कः प्रतिविशेषः. न कश्चिद् इत्य् आह. तथा ह्य् उक्तं भगवता. द्वौ हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेर् उत्पादाय. कतमौ द्वौ. परतश् च घोषो ऽध्यात्मं च योनिशोमनस्कार इति. हेतुः प्रत्ययो निदानं कारणं निमित्तं लिंगं उपनिषद् इति पर्यायाः. उपनिषच्छब्दस् तु कदाचिद् उपांशौ कदाचित् प्रामुख्य इति. तद्यथापि सूर्योपनिषदो देवा इति. उपांशुप्रयोग उपनिषत्प्रयोग [तिब्. 174ब्] इति. यदि प्रतिविशेषो नास्ति किम् अर्थं हेतूनां प्रत्ययानां च पृथग्निर्देशः. अन्येनार्थविशेषेण हेतुनिर्देशो ऽन्येन प्रत्ययनिर्देशः. हेतुनिर्देशे हि अविघ्नभावसहभूत्वसदृशत्वादिर् अर्थविशेष उक्तः. प्रत्ययनिर्देशे तु हेतुसमनन्तरत्वादिभिर् अपरो ऽर्थविशेष उक्त इति. अथ कतमस्मिन् सूत्रे षड् ढेतव उक्ताः. सर्वो ह्य् अभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानम् इति. अंतर्हितं तत् सूत्रम् इति वैभाषिकाः. तथा हि एकोत्तरिकागम आ शताद् धर्मनिर्देश आसीत्. इदानीं त्व् आ दशकाद् दृश्यंत इति कथयन्ति. अपि तु संति प्रतिनियतहेतुवाचकानि सूत्राणि. तान्य् उदाहरिष्यामः. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इति कारणहेतुः. जननाविघ्नभावेन ह्य् एष व्यवस्थाप्यते. इमानि त्रीणि मार्गांगानि सम्यग्दृष्टिम् अनुपरिवर्तन्ते. तैः सह जाता वेदना संज्ञा चेतना चेति सहभूहेतुः. अन्योन्यानुपरिवर्तनैककृत्यार्थेन ह्य् एष व्यवस्थाप्यते. समन्वागतो ऽयं पुद्गलः कुशलैर् अपि धर्मैर् अकुशलैर् अपि यावद् अस्ति चास्याणुसहगतं कुशलमूलम् असमुच्छिन्नं यतो ऽस्य कुशलमूलाद् अन्यत् कुशलमूलम् उत्पत्स्यते ( अभिध्-क्-व्य् 189 ). एवम् अयं पुद्गल आयत्यां विशुद्धिधर्मा भविष्यतीति सभागहेतुः. एष ह्य् अतीतप्रत्युत्पन्नानां धर्माणां स्वफलनिर्वर्तनार्थेन व्यवस्थाप्यते. इयम् उच्यते दर्शनमूलिका श्रद्धावेत्यज्ञानसंप्रयुक्ता. यद् विजानाति. तत् [तिब्. 175अ] प्रजानातीति संप्रयुक्तकहेतुः. एकालंबनकृत्यार्थेन ह्य् एष व्यवस्थाप्यते. मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तद्दृष्टेर् यच् च वाक्कर्म या चेतना यः प्रणिधिः ये च संस्कारास् तदन्वयाः. सर्वे ऽप्य् एते धर्मा अनिष्टत्वाय संवर्तन्ते ऽकान्तत्वायाप्रियत्वायामनआपत्वाय. तत् कस्य हेतोः. दृष्टिर् ह्य् अस्य पापिका यद् उत मिथ्यादृष्टिर् इति सर्वत्रगहेतुः. एष हि सभागविसभागक्लिष्टधर्मप्रबंधजनकार्थेन व्यवस्थाप्यते. इह कृतस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य तत्रोत्पन्ना विपाकं प्रतिसंवेदयन्ते. संचेतनीयस्य कर्मणः कृतस्योपचितस्य विपाक इति विपाकहेतुः. एष हि विसदृशफलाक्षेपकत्वेन व्यवस्थाप्यते. इत्य् अत एते षड् ढेतवः सूत्रत एव प्रसिद्धा इति
षड्विधो हेतुर् इष्यते
वैभाषिकैर् इत्य् अभिप्रायः.
(इइ.51अ) स्वतो ऽन्य
इति आत्मनो ऽन्य इत्य् अर्थः. स्वात्मनि वृत्तिविरोधात् स्वात्मा न हेतुः. सर्वधर्माः संस्कृतासंस्कृताः कारणहेतुर् इति. कारणम् एव हेतुः कारणहेतुः. यो हेतुर् विशेषसंज्ञया नोच्यते सामान्यं हेतुभावं परिगृह्योच्यते. स कारणहेतुः. अन्येषु हि विशेषसंज्ञानिरुक्तेषु हेतुषु यो न विशेषितः कारणं च. तस्य तद् विशेषणं भवति. यथा रूपायतनम् उक्तम् इति. [तिब्. 175ब्] उत्पादं प्रत्य् अविघ्नभावावस्थानाद् इति. यस्माद् उत्पादं प्रत्य् उत्पत्तिमतां स्वतो ऽन्ये धर्मा अविघ्नभावेनावतिष्ठन्ते. तस्मात् कारणहेतुर् इत्य् उच्यते.
ननु च ये ऽस्याजानत इति विस्तरः. ज्ञानं चेन् नोदयन्त्य् एते. उदपत्स्यन्त आस्रवास् त इति विस्तरो लृङ्य् अर्थः. तेनाह. अस्याजानतः अनुत्पन्नदर्शनभावनामार्गपुद्गलस्य ये दर्शनभावनामार्गवध्या रागादय आस्रवा उदपत्स्यंत. जानत उत्पन्नदर्शनदर्शनभावनामार्गस्य पुद्गलस्यास्य तद्वध्यास् ते रागादयो नोत्पद्यन्ते. ततः किम् इत्य् आह. ज्ञानम् एषां विघ्नम् उत्पत्तौ करोति दर्शनभावनामार्गसंगृहीतं. सूर्यप्रभा च ज्योतिषां दर्शनस्य विघ्नम् उत्पत्तौ करोतीत्य् अधिकृतं. एवं सति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर् भवंति. यस्माद् आस्रवोत्पत्तौ न ज्ञानं कारणहेतुः. ज्योतिर्दर्शनोत्पत्तौ च सूर्यप्रभा. एवं हि वक्तव्यं स्यात्. आस्रवोत्पत्तौ स्वभावज्ञानवर्ज्याः सर्वधर्माः कारणहेतुः. ( अभिध्-क्-व्य् 190 ) ज्योतिर्दर्शनोत्पत्तौ च स्वभावसूर्यप्रभावर्ज्याः सर्वधर्माः कारणहेतुर् इति. उत्पद्यमानस्याविघ्नभावावस्थानाद् इति. समग्रेषु हेतुप्रत्ययेषु अनन्तरभावी धर्म उत्पद्यमान उच्यते. तस्योत्पद्यमानस्योत्पादं प्रति सर्वधर्मा एवाविघ्नभावेनावतिष्ठंते. न सर्वस्येत्य् अवगंतव्यं. ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवंति. प्राप्त्याद्यभावेन प्रत्ययसामग्र्यभावात्. ज्योतिर्दर्शनम् अपि प्रत्ययवैकल्याद् एव [तिब्. 176अ] नोत्पद्यमानम् इति योज्यं. अतस् तदवस्थम् इदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर् भवंतीति. तद्यथानुपद्रोतारं भोजकम् इति विस्तरः. अनुपद्रवकरं ग्रामपतिम् अभिसंधाय मनुष्या ब्रूयुः. स्वामिना स्मः सुखिता इति. कस्मात् त एवं वक्तारो भवन्ति. यस्माद् असाव् उपद्रवकरणे समर्थ उपद्रवं न करोति. तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च. किं. कथं हेतुभावः सर्वोत्पत्तौ. नारकादीनां च नारकतिर्यग्योन्यादिकानाम् आरूप्यस्कंधोत्पत्तौ कथं हेतुभावः. नारकादिग्रहणं मनुष्यादीनां कदाचिद् भवेत् उपदेशादिनेत्य् अभिप्रायः. असंतो ऽपि हि एव इति. असंतो ऽपि ह्य् एते निर्वाणादयस् तथैव. यथा संतो विद्यमाना विघ्नं कर्तुम् असमर्थाः स्युः. अतो ऽसतां सतां चैषाम् निर्वाणादीनां विघ्नकरणे निर्विशिष्टत्वं. असत्तुल्यास् त इत्य् अर्थः. असमर्थे ऽपीति विस्तरः. उपद्रवं कर्तुम् असमर्थे ऽपि भोजके ग्रामीणास् तथा वक्तारो भवन्ति. स्वामिना स्मः सुखिता इति. स एवात्र दृष्टान्तो यः प्राक्तनः. अतो ऽनेनैव दृष्टांतेन विघ्नयितुम् असमर्थानाम् अपि निर्वाणादीनाम् अविघ्नभावावस्थानात् कारणहेतुभावः सिद्धः. कस्मात् पुनर् असत्तुल्यानां निर्वाणादीनां कारणहेतुत्वम् [तिब्. 176ब्] इष्यते. न पुनर् असतां शशविषाणादीनां. असद्दृष्टांताभावात्. न ह्य् असन्तं भोजकम् अधिकृत्य ग्रामीणा भवंति वक्तारः. स्वामिना स्मः सुखिता इति. न वा शशविषाणेन स्मः सुखिता इति. अचोद्यम् एतत्. सामान्येन एव निर्देशः इति. यश् च प्रधानः कारणहेतुर् यश् चाप्रधानः सर्वम् अधिकृत्योक्तं.
स्वतो ऽन्ये कारणहेतुर्
इति. यो हि प्रधानो जनकः. स कारणहेतुः. स सुतराम् अविघ्नभावेनावतिष्ठते न केवलम् इतरः. आहारः शरीरस्योत्पादने ऽपि समर्थ इत्य् अधिकृतं. आहारसमुदयात् कायसमुदय इति वचनात्. रसादिपरिणामयोगात्. बीजादयो ऽ; ंकुरादीनाम् इति. बीजांकुरनालगण्डप्रसवादीनां उत्पादने समर्था इत्य् एवं.
यस् त्व् एवं चोदयतीति विस्तरः. कारणे सति कार्येण भवितव्यम् इति मत्वा चोदयति. कस्मान् न सर्वस्योत्पादो युगपद् भवति. यथा च प्राणातिपातकारकः प्राणातिपातभाग् भवति. तथा सर्वे ऽपि कस्मान् न तद्भाजो भवंतीति. ( अभिध्-क्-व्य् 191 ) न कारकभावेनेति. न मुख्यवृत्त्यास्य कारणत्वम् इति दर्शयति. तेन सर्वस्य तावद् युगपद् उत्पादो न प्राप्नोति. प्रत्ययसामग्र्यभावेनानुत्पाद्यमानत्वात्. प्राणातिपातयोगश् च न भवत्य् अकारकत्वात्. यस् तु कारकः. स प्राणातिपातभाग् एव भवति.
मनोविज्ञानम् उत्पद्यते कुशलाकुशलम् इति. कुशलं मनोविज्ञनम् इति निर्वाणालंबनत्वात्. निर्वाणालंबनात् [तिब्. 177अ] कुशलाद् अकुशलाद् वा मनोविज्ञानम् उत्पद्यते. ततश् चक्षुर्विज्ञानम् इति. एवं परंपरया तस्यापि निर्वाणस्य प्रत्ययीभावाद् अस्ति सामर्थ्यं. क्व. चक्षुर्विज्ञान इत्य् अधिकृतं. एवम् अन्यस्यापि प्रतिपत्तव्यम् इति. नारकादीनाम् अप्य् आरूप्यस्कंधोत्पत्तौ सामर्थ्यं. कथम्. अमी बत नारकप्रेतादयः परमदुःखिता इति नारकाद्यालंबनं मनोविज्ञानं कुशलम् उत्पद्यते. यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगात् आरूप्यसमापत्तिर् उपपत्तिश् चोपयद्यत. इति.
(इइ.51ब्-द्) सहभूर् ये मिथःफला
इति. हेतुर् इति वर्तते. सहभूर् हेतुस् ते धर्मा भवंति. ये धर्मा मिथःफला ये परस्परफला इत्य् अर्थः. सहभूहेतुः सहभुव इति नोक्तं. कस्मात्. संति हि धर्माः केचित् सहभुवो न तु सहभूहेतुः. तद्यथा नीलाद्युपादायरूपं भूतैः सहभूर् भवति. न चान्योन्यं सहभूहेतुः. अतो
मिथःफला
इत्य् अर्थपरिग्रहः. इदं च सावशेषं लक्षणं. अतो वक्ष्यति. विनापि चान्योन्यफलत्वेन धर्मो ऽनुलक्षणानां सबभूहेतुः. न तानि तस्येत्य् उपसंख्यातव्यम् इति. उपसंख्यानकरणं च महाशास्त्रताप्रदर्शनार्थं. सोपसंख्यानं हि व्याकरणादि महाशास्त्रम् दृश्यते.
भूतवद्
इति. तद्यथार्थे वतिप्रत्ययः. एवं च कृत्वा सर्वम् एव संस्कृतं सहभूहेतुर् यथायोगम् इति. [तिब्. 177ब्] यस्मात् संस्कृतलक्षणानि लक्ष्यस्य सहभूहेतुः. सो ऽपि तेषाम्. अतो यथायोगं यथासंभवं सर्वं संस्कृतं सहभूहेतुः संस्कृतस्य लक्षणवत्त्वात्. लक्ष्यलक्षयोश् च सहभूहेतुत्वात्. न तु सर्वं सर्वस्य. अन्यलक्षणैर् असहभूहेतुत्वाद् इति यथायोगग्रहणं.
(इइ.52अ-च्) तेषां च ये जात्यादयश् चित्तस्य चे ति. तेषां च चित्तसंप्रयुक्तानां चेतनादीनां ध्यानसंवरस्यानास्रवसंवरस्य ये जात्यादयश् चत्वारो धर्माश् चित्तानुपरिवर्तिन उच्यन्ते.
(इइ.52द्) कालफलादिशुभतादिभिर्
इति. कालेन च फलादिभिश् च शुभतादिभिश् चेति
कालफलादिसुभतादिभिः.
कालतस् तावद् इति विस्तरः. चित्तेन सहैते एकोत्पादा एकस्थितय एकनिरोधाश् च. तद्भावः. तयैकोत्पादस्थितिनिरोधतयेति. एकम् अध्वानं पतिता एकाध्वपतिताः. तद्भावः. तेनैकाध्वपतितत्वेन चतुर्थेनेति. कालतश् चित्तम् अनुपरिवर्तन्ते. एकफलतयैकविपाकतयैकनिष्यंदतया च चित्तम् अनुपरिवर्तन्ते. फलम् इह पुरुषकारफलं विसंयोगफलं च. विपाकफलनिष्यंदयोः पृथग्गृहीतत्वात्. अधिपतिफलं तु सर्वसाधारणत्वात्. न गण्यते. अयं चैकशब्दः संख्याने साधारणे वा एकफलतयेत्यादि [तिब्. 178अ]. पूर्वकस् त्व् एकशब्दः सहार्थे चित्तेन सहोत्पादस्थितिनिरोधतयेत्य् अर्थः. न ह्य् अत्र संख्यानार्थः संभवति. न हि यश् चित्तस्योत्पादः. स एव चित्तानुपरिवर्तिनां. यो वा तेषां. स चित्तस्येति. एवं दशभिः कारणैर् इति. कालतश् चतुर्भिर् एकोत्पादतयैकस्थितितयैकनिरोधतयैकाध्वपतितत्वेन चेति. ननु चैकोत्पादस्थितिनिरोधतयेति एतेनैव एकाध्वपतितम् उक्तं. न सर्वम् उक्तं. अनुत्पत्तिकधर्मिणि हि चित्ते ते चित्तानुपरिवर्तिन एकाध्वपतिता भवंति. नैकोत्पादनिरोधा इति. तस्माद् एकाध्वपतितत्वं चतुर्थं कारणं उच्यते. एकफलविपाकनिष्यंदतयेति त्रिभिः. कुशलाकुशलाव्याकृततया चेति पुनस् त्रिभिर् इति दशभिः. पर्यायवृत्तिं जातिं वा प्रत्य् एवम् उक्तं दशभिर् इति. न ह्य् एकत्र चित्ते दश कारणानि भवंति. न हि कुशले चेतसि अकुशलाव्याकृते कारणे भवतः. न चाकुशलाव्याकृते चित्ते अनुत्पत्तिधर्मिणि. अव्याकृते चित्ते अनुत्पत्तिधर्मिणि एकाध्वपतितत्वेन एकफलनिष्यंदताभ्यां अव्याकृतत्वेन चेति चतुर्भिः. उत्पत्तिधर्मिणि त्व् एभिर् एव चतुर्भिर् एकोत्पादस्थितिनिरोधताभिश् चेति सप्तभिः. अनास्रवे ऽप्य् एवं. अव्याकृततां तु केवलम् अपनीय कुशलता [तिब्. 178ब्] प्रक्षेप्तव्या. अकुशले तु कुशलसास्रवे चानुत्पत्तिकधर्मिणि अकुशलतया कुशलतया च यथावस्तु एकाध्वपतितत्वेन एकफलविपाकनिष्यन्दताभिस् चेति पंचभिः. उत्पत्तिधर्मिणि तु तस्मिन्न् एभिर् एव पंचभिर् एकोत्पादस्थितिनिरोधताभिश् चेत्य् अष्टाभिः.
सर्वाल्पं चित्तम् इति. सर्वेभ्यो यद् अल्पपरिवारं चित्तं. तत् सर्वाल्पम् इत्य् उच्यते. तत् पुनः कतमत्. द्वितीयध्यानात् प्रभृति ऊर्ध्वम् अनिवृताव्याकृतं चित्तं. तत्र वितर्कविचारौ न स्तः. न चापि कुशलादिमहाभूमिकाः. केवलमहाभूमिका एव दश भवन्ति. तल्लक्षणानाम् इति. दशमहाभूमिकलक्षणानां. न तदनुलक्षणानां विप्रकृष्टत्वात्. स्वानुलक्षणानां तु भवति ( अभिध्-क्-व्य् 193 ) संनिकृष्टत्वात्. अत आह. अष्टानां च स्वलक्षणानुलक्षणानाम् इति. स्वान्य् अनुलक्षणानि स्थापयित्वेति. लक्षणेषु अनुलक्षणानां व्यापारः. न विशिष्ते च चित्ते. न्यूनानि तानि. राजायते हि चित्तं लक्षणानुलक्षणानाम्. अतस् चित्तम् अनुलक्षणानां सहभूहेतुः. न तु तानि चित्तस्य. लक्षणानां तु चित्ते ऽस्ति व्यापार इति तानि चित्तस्य सहभूहेतुर् भवन्ति.
चतुर्दशेत्य् अपर इति. यथानुलक्षणानां नास्ति धर्मे व्यापारः. किं तर्हि. धर्मस्य लक्षणेषु. अतो न तेषां हेतुभावो धर्म इष्यते. तथा संप्रयुक्तेष्व् एव तल्लक्षणानां व्यापारः. [तिब्. 179अ] न चित्त इति न तानि चित्तस्य सहभूहेतुः. चित्तं तु तेषां राजकल्पम् इति सहभूहेतुर् भवतीत्य् अपरेषाम् अभिप्रायः. प्रकरणग्रन्थो ह्य् एवं विरुध्येत दशानां महाभूमिकानां यानि चत्वारिंशल् लक्षणानि. तानि यदि चित्तस्य सहभूहेतुर् नेष्येरन्. यस्मात् प्रकरणेषूक्तं. चत्वार्य् आर्यसत्यानि दुःखसत्यं यावन् मार्गसत्यं. एषां कति सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर् हेतुः. कति सत्कायदृष्टेर् हेतुर् न सक्त्कायदृष्टिहेतुकानि. कति सत्कायदृष्टिहेतुकानि सत्कायदृष्टेश् च हेतुः. कति नैव सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर् हेतुः इति प्रश्ने कृते विसर्जनं करोति. द्वे नैव सत्कायदृष्टिहेतुके न सत्कायदृष्टेर् हेतुः. निरोधसत्यं मार्गसत्यं च. द्वयोर् भेदः. दुःखसमुदयसत्ययोर् विभंगः. कथम् इति. दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुः. स्यात् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुः. स्यान् नैव सत्कायदृष्टिहेतुकं न सत्कायडृष्टेर् हेतुर् इति त्रिकोटिकं. द्वितीया कोटिर् नास्ति. तत्र सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुः. अतीतप्रत्युत्पन्नान् दुःखदर्शनप्रहातव्यान् अनुशयांस् तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा. [तिब्. 179ब्] अतीतप्रत्युत्पन्नान् समुदयदर्शनप्रहातव्यान् सर्वत्रगान् अनुशयान् तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा. अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वा. सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वा यत् तद् अन्यत् क्लिष्टं दुःखसत्यं. सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुर् यद् एतत् स्थापितम् इति. नैव सत्कायहेतुकं न सत्कायदृष्टेर् हेतुर् अक्लिष्टं दुःखसत्यं. यथा दुःखसत्यं एवं समुदयसत्यम् इति प्रकरणग्रन्थः. तस्यार्थं विवृण्महे. ये ऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयाः सत्कायदृष्ट्यादयः. ते स्थापिताः. तैर् दशभिर् अनुशयैः संप्रयुक्तं दुःखसत्यं वेदनादिकं स्थापितं. किम् अत्रास्थापितं. एत एवानागता दशानुशयास् तत्संप्रयुक्तं च वेदनादिकं दुःखसत्यं वर्जयित्वानागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं. तद् धि ( अभिध्-क्-व्य् 194 ) स्थापयिष्यते. अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेति वचनात्. तत्प्राप्तिजात्यादयश् चास्थापिता वर्जयित्वा सत्कायदृष्टेस् तत्संप्रयुक्तानां [तिब्. 180अ] च धर्माणां जात्यादीन्. ते हि स्थापयिष्यन्ते. सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति वचनात्. तद् एवं तावद् अनागतो ऽनुशयस् तत्संप्रयुक्तं च स्थापिताद् अन्यत्. तद् अन्यत् क्लिष्टम् इत्य् उच्यते सत्कायदृष्टिहेतुकम्. सत्कायदृष्टिहेतुर् अस्येति सत्कायदृष्टिहेतुकं. सभागहेतुना सर्वत्रगहेतुना चातीतप्रत्युत्पन्नसत्कायदृष्टिहेतुकत्वात्. न तु सत्कायदृष्टेर् हेतुः न ह्य् अनागतो धर्मः सभागहेतुः सर्वत्रगहेतुर् वा व्यवस्थाप्यते. न च सहभूहेतुः संप्रयुक्तकहेतुर् वात्र संभवति. न हि सत्कायदृष्टिः सत्कायदृष्ट्या सह भवति संप्रयुज्यते वा. एकस्मिं कलापे द्वितीयसत्कायदृष्ट्यभावात्. न चाप्य् अन्तग्राहदृष्ट्यादिभिः सह भवति संप्रयुज्यते वा. पृथक्कलापत्वात्. विप्रयुक्तास् तेषाम् अतीतप्रत्युत्पन्नानां दुःखदर्शनहेयानां प्राप्तयो जात्यादयश् चास्थापिताः. ते स्थापितकाद् अन्ये क्लिष्टाश् च. ते ऽपि सर्वत्रगहेतुना पूर्वोत्पन्नसत्कायदृष्टिहेतुका. न तु ते सत्कायदृष्टेर् हेतुः. कस्मात्. प्राप्तयस् तावद् वृक्षप्रपाटिकावत् स्वसर्वत्रगेभ्यो बहिर् अवस्थितत्वान् न सर्वत्रगा व्यवस्थाप्यन्ते. सर्वत्रगत्वाभावाच् च [तिब्. 180ब्] न सत्कायदृष्टेः सर्वत्रगहेतुः. सर्वत्रगजात्यादयो ऽप्य् यद्य् अपि सर्वत्रगा इष्टाः.
प्राप्तिवर्ज्याः सहभुवो ये ऽप्य् एभिस् ते ऽपि सर्वगा
इति सिद्धान्तवचनात्. न तु ते चित्तचैत्तवत् पश्चिमानां चित्तचैत्तानां सर्वत्रगहेतुः. स्वलक्ष्यव्यापारपरत्वेन अप्राधान्ये सति चित्तचैत्तान्तरेषु सर्वत्रगपुरुषकाराभावात्. सर्वत्रगव्यवस्थानं तु तेषां जात्यादीनां स्वसंतानसर्वत्रगहेतुत्वात्. तस्मान् न ते सत्कायदृष्टेर् हेतुर् इति शास्त्रार्थो लक्ष्यते. सभागहेतुस् तर्हि कस्मान् न भवति. सभागहेतुव्यवस्था हि पुरुषकारापेक्षयापि. यस्य हि धर्मस्य जनने यः पुरुषकारवान् धर्मः. स तस्य सभागहेतुः. इदम् एव च ज्ञापकं यथेष्टं सभागहेतुव्यवस्थेति. विभाषायाम् अप्य् एवम् उक्तं. चक्षुश् च चक्षुषः सभागहेतुर् देवदत्तचक्षुषो देवदत्तचक्षुः सभागहेतुः. दक्षिणं दक्षिणस्य वामं वामस्य यावच् चक्षुर्द्रव्यं चक्षुर्द्रव्यान्तरस्य. बाह्येष्व् अपि यवो यवस्य शालिः शालेर् इति. यदि हि सर्वचक्षुः सर्वस्य चक्षुषः सभागहेतुर् इष्येताव्याकृतत्वं तुल्यम् इति कृत्वा नैवं विशेषणम् उच्येत. तस्मान् न ते सत्कायदृष्टेः सभागहेतुर् इत्य् अवगन्तव्यं. अपरे त्व् आहुः. सावशेषम् एतद् भाष्यं. तस्मात् [तिब्. 181अ] सजात्यादिकास् ते ऽनुशयास् तत्संप्रयुक्ताश् च धर्माः ( अभिध्-क्-व्य् 195 ) स्थापिता वेदितव्या. ये हि धर्मस्य तत्संप्रयुक्तानां च जात्यादयः सहभूहेतुर् भवन्ति. तैः सार्धं ते धर्माः पूर्वोत्पन्नाः सर्वत्रगहेतुः सभागहेतुर् वा भवन्तो भवन्ति.
प्राप्तिवर्ज्याः सहभुवो ये ऽप्य् एभिस् त ऽपि सर्वगा
इति सिद्धान्तात्. अत एवोक्तं. सत्कायसंप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति. तस्माज् जात्यादयो ऽपि केचित् स्थापिताः. अतो ऽन्यद् अस्थापितम् इत्य् अवगन्तव्यं. युक्तिर् इह द्रष्टव्या. यतो युक्तिः. ततो ऽवगन्तव्यं. समुदयदर्शनप्रहातव्या अपि ये सर्वत्रगा अतीतप्रत्युत्पन्नास् तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं. तत् स्थापितं. किम् अन्यत् समुदयदर्शनप्रहातव्यम् अस्थापितं. ये सर्वत्रगा अनागतास् तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं. तद् अस्थापितं. ये ऽप्य् असर्वत्रगा रागादयस् त्रैयध्विका अपि. याश् च तेषां सर्वेषां प्राप्तयः. न ते स्थापिताः. जात्यादयस् त्व् एकस्मिं पक्षे नैव स्थापिताः. पक्षान्तरे तु केचित् स्थापिताः. केचिन् न स्थापिताः. तद् एतत् सर्वम् अस्थापितं समुदयदर्शनप्रहातव्यं [तिब्. 181ब्] सर्वत्रगहेतुना सत्कायदृष्टिहेतुकं भवति. पूर्वोत्पन्नसत्कायदृष्टिहेतुकत्वात्. न तु सत्कायदृष्टेर् हेतुः. सर्वत्रगाणां तत्सहभुवां चानागतत्वेनासर्वत्रगहेतुत्वात्. असर्वत्रगाणां च रागादीनां तत्सहभुवां च वेदनादीनां जात्यादीनां चैकस्मिन् पक्षे सर्वप्राप्तीनां चासर्वत्रगत्वात्. निरोधमार्गदर्शनप्रहातव्या भावनाप्रहातव्याश् च क्लिष्टा अनुशयतत्संप्रयुक्ततत्समुत्थजात्यादिस्वभावा अस्थापिताः. ते सर्वत्रगहेतुना सत्कायदृष्टिहेतुकाः. न तु ते सत्कायदृष्टेर् हेतुः. सर्वत्रगहेतुत्वासंभवाद् इतरहेत्वयोगाच् च. सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुर् यद् एतत् स्थापितम् इति. ये ऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयास् तत्संप्रयुक्तं च दुःखसत्यं यच् च पक्षान्तरे जात्यादिकं. तत् सभागहेतुना सर्वत्रगहेतुना च पूर्वसत्कायदृष्टिहेतुकं. ये च सत्कायदृष्टिजात्यादयस् तत्संप्रयुक्तजात्यादयश् च. ते सहभूहेतुना पूर्वोक्ताभ्यां च हेतुभ्यां तद्धेतुकाः. ये पुनः सत्कायदृष्टिसंप्रयुक्ताः. ते संप्रयुक्तहेतुना च पूर्वोक्तैश् च हेतुभिस् तद्धेतुकाः. सत्कायदृष्टेश् च तथैव हेतुः. ये ऽप्य् अतीतप्रत्युत्पन्नाः समुदयदर्शनप्रहातव्याः सर्वत्रगास् [तिब्. 182अ] तत्सहभुवश् च वेदनादयो जात्यादयश् च पक्षान्तरे. ते सर्वत्रगहेतुनैव सत्कायदृष्टिहेतुकाः. सत्कायदृष्टेश् च हेतुः. पूर्वोत्पन्ना हि सत्कायदृष्टिस् तेषां हेतुः. ते च पूर्वोत्पन्नाः सत्कायदृष्टेर् इति. असंक्लिष्टं तु दुःखसत्यं कुशलम् अनिवृताव्याकृतं च न सत्कायदृष्टिहेतुकं न च सत्कायदृष्टेर् हेतुः. पंचविधहेतुत्वसम्भवात्. जनको ( अभिध्-क्-व्य् 196 ) ह्य् अत्र हेतुर् अधिक्रियते. न कारणहेतुः. साधारणत्वात्. विपाकहेतोश् चेहायोगः. सत्कायदृष्टेर् निवृताव्याकृतत्वेनाविपाकत्वात्. तत्र यद् एतद् उक्तं सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति तद् विरुध्येत. यदि हि सत्कायदृष्तिसंप्रयुक्तधर्मजात्यादयो न सहभूहेतुर् भवेयुः. न ते स्थाप्येरन्. ये हि स्थापिताः. ते सत्कायदृष्टिहेतुकाः. सत्कायदृष्टेश् च हेतुर् इति. ये तर्हि तत्संप्रयुक्तानाम् इत्य् एतन् न पठन्ति. तेषां कथं प्रकरणग्रन्थो विरुध्येतेत्य् अध्याहार्यं. ते हि सत्कायदृष्टेर् जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेत्य् एवं पठन्ति. तत्संप्रयुक्तेष्व् एव तल्लक्षणानि व्याप्रियन्ते. न सत्कायदृष्टौ. [तिब्. 182ब्] अतस् तानि तस्या न सहभूहेतुर् इति तेषाम् एवंवादिनाम् अभिप्रायः. तैर् अप्य् एतत् पठितव्यम् इति. एवम् अपाठे दोष इत्य् अतस् तैर् एतत् परं पठितव्यं. तत्संप्रयुक्तानां चेति. तत्संप्रयुक्ता हि सत्कायदृष्टेर् आत्मकल्पा एकालम्बनकृत्याद्यर्थत्वात्. तस्माद् यथा तेषु तत्संप्रयुक्तेष्व् एतानि लक्षणानि सहभूहेतुः. तथा सत्कायदृष्टाव् अपीति वैभाषिकाभिप्रायः. अर्थतो वैवं बोद्धव्यम् इति. सत्कायदृष्टिग्रहणेन सत्कायदृष्टिसंप्रयुक्तानाम् अपि ग्रहणम् अधिकारानुवृत्तेर् वा तैर् एवं बोद्धव्यं. तत्संप्रयुक्तानां चेति. काश्मीरा न बहिर्देशका इति दर्शयति.
सहभ्व् अपि तद् इति. चैत्तादि. चित्तस्य हि चैत्तास् तानि च लक्षणानि सहभूहेतुः सहभूनि च तानि भवन्ति. धर्मस्यानुलक्षणानीति विस्तरः. धर्मस्य जातिजात्यादीनि सहभूनि. न सहभूहेतुना हेतुर् विप्रकृष्टत्वात्. जात्यादिषु हि तेषां व्यापारो न धर्मे. तानि चान्योन्यं तानि चानुलक्षणानि अन्योन्यं सहभूनि जात्यादिषु व्यापारात्. न सहभूहेतुना हेतुः. धर्मस् तु तेषां सहभूहेतुर् भवति. प्राधान्यात्. स हि राजेव यात्रायां सभृत्यः तद् भृत्यवर्गं सर्वं स्वकलापम् आकर्षन्न् इव प्रवर्तते. चित्तानुपरिवर्त्यनुलक्षनानि चेति. चित्तानुपरिवर्तिनां चैत्तध्यानानास्रवसंवराणाम् [तिब्. 183अ] तेषां च लक्षणानाम् अनुलक्षणानि च तथैव चित्तस्य सहभूनि. न तु सहभूहेतुना हेतुः. एवशब्दो ऽर्थप्रदर्शनार्थः. तानि चान्योन्यम् अनुपरिवर्त्यनुलक्षणानि सहभूनि. न तु सहभूहेतुना हेतुः. सप्रतिघं चोपादायरूपम् अन्योन्यम् अष्टद्रव्यकादिषु परमाणुषु रूपशब्दगन्धरसस्प्रष्टव्यात्मकं सहभूः. न तु सहभूहेतुना हेतुः. सप्रतिघग्रहणम् अप्रतिघनिरासार्थं. अप्रतिघं हि ध्यानानास्रवं संवररूपं सप्तविधविज्ञप्तिस्वभावं परस्परं सहभूः. सहभूहेतुना च हेतुर् इति. सर्वं च भूतैर् इति. सप्रतिघं चाप्रतिघं चोपादायरूपं यथास्वभूतैः सहभूः. न तु सहभूहेतुना हेतुः. प्राप्तयश् च सहजाः ( अभिध्-क्-व्य् 197 ) प्राप्तिमतो धर्मस्य सहोत्पादे ऽपि न सहभूहेतुः पूर्वंपश्चात्कालजात् प्राप्तीनां. असहभूत्वाद् एव सहभूहेतुत्वाप्रसंग इति. सहज इति विशेषणं. कस्माद् इत्य् आह. अनेकफलविपाकनिष्यन्दत्वाद् इति. यस्मात् तासां प्राप्तिमता सह नैकं फलं पुरुषकारफलं वृक्षप्रपाटिकावत् पृथक्स्रोतत्वात्. नाप्य् एकं विपाकफलं.
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च
इति वचनात्. [तिब्. 183ब्] न चाप्य् एकनिष्यन्दफलं प्राप्तीनां हि प्रातय एव निष्यन्दफलं पृथक्संतानत्वात्. चित्तानुपरिवर्तिनाम् एवैकं फलं विपाकनिष्यन्दफलं चेष्यते. न प्राप्तीनां. न ताश् चित्तैः सहचरिष्णवः सहचरणशीलाः.
सर्वम् अप्य् एतत् स्याद् इति. यत् तावत् सहभूहेतुना हेतुर् इति विस्तरेण यद् उक्तं. बीजादीनाम् इति. आदिशब्देनांकुरनालकाण्डादीनां ग्रहणं. एष न्यायो न दृष्ट इति. सहोत्पन्नयोर् हेतुफलभावलक्षणो न्यायो न दृष्टः. पूर्वं हि बीजं पश्चाद् अंकुरः. पूर्वम् अभिघातः पश्चाच् छब्द इति. तद्यथा प्रदीपप्रभयोर् अंकुरछाययोश् च. किं. हेतुफलभाव इति वर्तते. प्रदीपः सप्रभ एवोत्पद्यते. न निष्प्रभः. अंकुरस्यातपे उत्पद्यमानस्यैव छाया भवति. अथ च प्रदीपः प्रभायाः सहोत्पन्नाया हेतुर् भवति छायायाश् चांकुरः. तद्वत्. संप्रधार्यं तावद् इति विस्तरः. असिद्धो दृष्टान्त इति परस्याभिप्रायः. यस्मात् पूर्वोत्पन्नैव वर्तिस्नेहादिका सामग्री सप्रभस्य प्रदीपस्योत्पत्तौ हेतुः. प्रदीपस्य प्रभायाश् च सैव सामग्री हेतुः. न तु प्रदीपः प्रभाया हेतुर् इष्यते. एवं सच्छायस्यांकुरस्योत्पत्तौ पूर्वोत्पन्नैव सामग्री बीजातपादिका वाच्या. नियमत इति. यस्य धर्मस्य भावे यस्य धर्मस्य भावो नियमेन न यदृच्छया. स हेतुः. इतरो हेतुमान् कार्यधर्म [तिब्. 184अ] इत्य् अर्थः. सहभुवां च धर्माणां. तद्यथा भूतानां चतुर्णां चित्तचैत्तानुपरिवर्तिनां लक्ष्यलक्षणानां चैकस्य भावे सर्वेषां भाव एकस्य चाभावे सर्वेषाम् अभाव इति युक्तो हेतुफलभावः.
स्यात् तावत् सहोत्पन्नानाम् इति विस्तरः. सहोत्पन्नानां हेतुफलभाव इष्यते. तद्यथा चक्षुः सहोत्पन्नम् अपि चक्षुर्विज्ञानेन तदुत्पत्तौ हेतुर् भवति. परस्परं तु कथं. न हि चक्षुर्विज्ञानं तस्य चक्षुषो हेतुर् भवतीति. आह. अत एव कारणाद् भावाभावयोस् तद्वत्त्वाद् इत्य् अर्थः. चैत्तादीनां भावे चित्तस्य भावाद् अभावे चाभावात् ते ऽपि चित्तस्य हेतवो भवन्तीति. एवं तर्हीति विस्तरः. यद्य् एकस्य भावे सर्वेषां भावः सर्वेषां चाभाव एकस्येत्य् अतो ऽन्योन्यं हेतुफलभावः.
कामे ऽष्टद्रव्यक
इत्य् अविनाभाविनो ऽपि रूपरसगन्धस्प्रष्टव्यस्वभावस्योपादायरूपस्यान्योन्यम् एष प्रसंगः. अन्योन्यसहभूहेतुप्रसंग इत्य् अर्थः. भूतैश् च सार्धम् उपादायरूपस्य सहभूहेतुत्वप्रसंगः. चित्तानुलक्षणादीनां चेति. आदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च. चित्तादिभिर् इति. अत्राप्य् आदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च. चित्तादिभिर् इति. अत्राप्य् आदिशब्देन चित्तानुपरिवर्तिभिश् चान्योन्यहेतुप्रसंगः. तेनैव चादिशब्देन प्राप्तिभिः सहजाभिः [तिब्. 184ब्] प्राप्तिमताम् एष प्रसंग इति वक्तव्यं. त्रिदण्डान्योन्यबलावस्थानवद् इति. अन्योन्यबलेनावस्थानम् अन्योन्यबलावस्थानं. त्रिदण्दस्यान्योन्यबलावस्थानं त्रिदण्डान्योन्यबलावस्थानं. तद्वत्. यथा त्रिदन्डस्य दण्डत्रयस्यान्योन्यबलेनावस्थानं. एवं सहभुवां चित्तचैत्तादीनां हेतुफलभावः सिध्यति. मीमांस्यं तावद् एतद् इति विस्तरः. परीक्ष्यम् एतत्. न सिद्धो ऽयं दृष्टान्त इत्य् अभिप्रायः. सहोत्पन्नास् त्रयो दण्डास् तेषां बलं. तेन सहोत्पन्नबलेन किम् एषां दण्डानाम् अवस्थानं. आहोस्वित्पूर्वसामग्रीवशात् तथोत्पादः. आहोस्विद् यथैवैषाम् अवस्थितः पूर्वभूतभौतिकसमुदायलक्षणसामग्रीवशात् सहभावः. तथैव पश्चाद् अपि परस्पराश्रितानाम् उत्पाद इति. अन्यद् अपि च तत्र किंचिद् भवति नान्योन्यबलम् एवेति दर्शयति. किं तद् इत्य् आह. सूत्रकं दण्डत्रयं निवेशितं. शंकुको वा कीलको वेत्य् अर्थः. पृथिवी वा धारिकाधस्तात्. एषाम् अपि नामेति. एषाम् अपि सहभुवाम् अन्ये ऽपि सभागसर्वत्रगविपाककारणहेतवः सूत्रकादिस्थानीया भवन्तीति सिद्धः सहभूहेतुः.
(इइ.53, 54अब्) क्लिष्टाः क्लिष्टानाम् इति. क्लिष्टा अकुशला निवृताव्याकृताश् च क्लिष्टत्वसामान्येन सभागहेतुत्वम् एषां. तेनाकुशला अकुशलानां सभागहेतुः. निवृताव्याकृता [तिब्. 185अ] निवृताव्याकृतानां. अकुशला निवृताव्याकृतानां. निवृताव्याकृताश् चाकुशलानां सभागहेतुर् इति दर्शितं भवति, अव्याकृता अव्याकृतानाम् इति. अनिवृताव्याकृता अनिवृताव्याकृतानाम् इत्य् अर्थः.
रूपम् अव्याकृतम् अव्याकृतो रूपस्कन्धः पंचानां स्कन्धानां सभागहेतुः. चत्वारस् तु स्कन्धा वेदनादयो न रूपस्य सभागहेतुर् विशिष्टत्वात्. न हि विशिष्टो न्यूनस्य सभागहेतुर् इष्यते.
समविशिष्टयोर्
इति वचनात्. कुशलाकुशलं तु रूपम् आभिसंस्कारिकत्वात् समं विशिष्टं चेति चत्वारस् तस्य सभागहेतुर् भवन्ति.
कललं कललादीनाम् इति. पंचगर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः पंच जातावस्थाः बालकुमारयुवमध्यवृद्धावस्था इत्य् एते दश दशानाम् अवस्थानां सभागहेतुः. कललं कललान्तरस्य यावद् ( अभिध्-क्-व्य् 199 ) वार्द्धस्य. अर्बुदम् अर्बुदस्य यावद् वार्द्धस्य. एवं यावद् वार्द्धं वार्द्धस्यैव. एकैकापह्रासेन एकैकापरिहारेणैकस्मिन् निकायसभागे वक्तव्यं. अन्येषु समानजातीयेषु निकायसभागेषु यदा मनुष्यजन्मनो मनुष्यजन्मैवोत्पद्यते. तदा दशाप्य् अवस्था दशानाम् अप्य् अवस्थानां. वृद्धावस्थापि यावद् अवस्थान्तराणां. सा हि वृद्धावस्था [तिब्. 185ब्] क्षणान्तरे तज्जन्मवृद्धावस्थायाः. सभागहेतुः. अंत्या तु जन्मान्तरकललादीनां दशानाम् अप्य् अवस्थानां सभागहेतुर् इत्य् अवगन्तव्यं. बाह्येष्व् अपि यवो यवस्येति विस्तरः. यवो यवस्य सभागहेतुर् न शालेः. शालिः शालेर् एव न यवस्येत्य् अनेन तुल्ये ऽप्य् अव्याकृतत्वे स्वसंतान एव सभागहेतुत्वं. नान्यसंताने जननशक्त्यभावाद् इति दर्शयति.
अतीतानि महाभूतानि अनागतानां महाभूतानां हेतुर् अधिपतिर् इति. हेतुप्रत्ययो ऽधिपतिप्रत्ययश् चेत्य् अर्थः. अयुगपद्भावान् न सहभूहेतुः. अत एवाचित्तचैत्तत्वाच् च न संप्रयुक्तकहेतुः. असर्वत्रगत्वान् न सर्वत्रगहेतुः. अव्याकृतत्वान् न विपाकहेतुः. पारिशेष्यात् सभागहेतुर् एवेत्य् अवगम्यते. यदि सदृशाः सदृशानां सभागहेतुः. एवं पश्चादुत्पन्नो ऽपि पूर्वोत्पन्नस्य सभागहेतुः प्राप्नोति. सहोत्पन्नो ऽपि सहोत्पन्नस्य. अनुत्पन्नो ऽप्य् अनुत्पन्नस्येत्य् अत आह. ते ऽपि न सर्वे. किं तर्हि.
अग्रजाः.
अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः. अनागता न सभागहेतुर् इत्य् अर्थाद् उक्तं भवति. एवम् अतीतान्य् अतीतप्रत्युत्पन्नानाम् इति. पूर्वोत्पन्नान्य् [तिब्. 186अ] अतीतानि पश्चादुत्पन्नातीतानाम् इति विभज्यव्याख्यं. अतीतप्रत्युत्पन्नान्य् अनागतानां सभागहेतुः. न तु अनागतान्य् अनागतानाम् इत्य् उक्तम्. अतो गम्यते नास्त्य् अनागतः सभागहेतुर् इति. न कदाचिद् इति. न कदाचिन् न हेतुर् इत्य् अधिकृतं. हेतुर् एवेत्य् अर्थः. तस्माद् अस्त्य् अनागतः सभागहेतुर् इत्य् अभिप्रायः. सहभ्व् इति विस्तरः. सहभूसंप्रयुक्तकविपाकहेतुष्व् अभिसंधिर् अभिप्रायः. तेन वचनं. तस्मात् सहभूसंप्रयुक्तकविपाक हेत्वभिसंधिवचनाद् अदोषो न कदाचिन् न हेतुर् इति वचने. बाहुलिको ह्य् एष निर्देश इष्यते. चरमाम् अवस्थाम् अभिसंधायेति. अन्त्याम् अनागतावस्थाम् अभिप्रेत्येत्य् अर्थः. अध्वत्रये ऽपि हेतुर् भवतीति तस्याभिप्रायः. तस्यायम् अपरिहार इति विस्तरः. तस्य वादिनो ऽयम् अपरिहारः. कस्मात्. यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुर् अभूत्वा पश्चाद् भवति. न नित्यं सभागहेतुर् इत्य् अर्थः. भवीनाम् अनागतावस्थानाम् एका चरमावस्था सभागहेतुत्वे नियतीभूता. तदन्या बह्व्यस् तत्रानियतीभूताः सन्ति. तत्र च सामान्येनोक्तं न हेतुर् इति. एवं कृत्वायम् अपरिहारः. एकास्याम् ( अभिध्-क्-व्य् 200 ) अपि ह्य् अवस्थायां [तिब्. 186ब्] स न सभागहेतुर् इति शक्यम् एवं वक्तुं स्यात्. यो धर्मो यस्य धर्मस्य समनन्तर इति. समनन्तरप्रत्यय इत्य् अर्थः. शक्यम् अनया कल्पनयेति. स धर्म उत्पद्यमानावस्थायां समनन्तरप्रत्ययत्वे नियतीभूतो भवति. अतः शक्यं तां चरमावस्थाम् अभिसंधायेत्य् अनया कल्पनया वक्तुं स्यान् न कदाचिन् न समनन्तर इति. कस्माद् एवम् आह. यदि स धर्मो नोत्पन्नो भवतीति. यदि स धर्मो ऽनागतो भवति नासौ समनन्तरप्रत्ययो भवतीत्य् अर्थः. चरमावस्थावाद्य् आह. द्विमुखसंदर्शनार्थम् इति विस्तरः. यथा तत्र यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. न कदाचिद् इति. तथेहापि कर्तव्यं. यो धर्मो यस्य धर्मस्य समनन्तरः. कदाचित् स धर्मस् तस्य धर्मस्य न समनन्तर इति. आह. न कदाचिद् इति कर्तव्यं. (यदि स धर्मो नोत्पन्नो भवतीति) यथा चेह तथा तत्रेति. कथं. यो धर्मो यस्य धर्मस्य समनन्तरः. कदाचित् स धर्मस् तस्य धर्मस्य न समनन्तरः. आह. यदि स धर्मो नोत्पन्नो भवतीति. एवं तत्र कर्तव्यं. कथं. यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. यदि स धर्मो नोत्पन्नो भवतीति. यदि स धर्मो ऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्य् अर्थः.
अत्राचार्य आह. एवं सति को गुण इति विस्तरः. इति द्विमुखसंदर्शनेन कश्चिद् गुणो लभ्यते. [तिब्. 187अ] नैव ह्य् उत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा मुख्यवृत्त्या भवतीत्य् अकौशलम् एवात्र शास्त्रकारस्यैवं संभाव्यते. क्वचित् सावकाशं ब्रुवतः. क्वचिन् निरवकाशं. सावकाशं तावद् यद् इदम् उक्तं. यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. न कदाचिद् इति. कथं न कदाचिन् न हेतुर् इत्य् एवम् उक्त्वा पुनर् वर्णयति. चरमावस्थायां सभागहेतुर् इति. निरवकाशं यदि स धर्मो नोत्पन्नो भवति न समनन्तरः. उत्पन्नस् तु समनन्तर इति. अयम् अत्राभिप्रायार्थ ऐकान्तिकम् अर्थं व्यवस्थाप्य पुनर् अन्यथाकरोतीति. तस्मात् पूर्वक एवैष परिहारः साधुर् इति. सहभूसंप्रयुक्तकविपाकहेत्वभिसंधिवचनाद् अदोष इति.
यत् तर्हीदम् उक्तम् इति विस्तरः. कुत एतद् आयातं. अनागतो नैव सभागहेतुर् इत्य् उक्तं. तद् यदि अनागतो नैव सभागहेतुः कस्माद् अनागता सत्कायदृष्टिः स्थापिता. यद् धि स्थापितं. तत् सत्कायदृष्टिहेतुं सत्कायदृष्टेश् च हेतुर् इति व्याख्यातं. तत्र कथम् अनागता सत्कायदृष्टिः सत्कायदृष्टेर् हेतुः. न तावत् सहभूहेतुः संप्रयुक्तकहेतुर् वा संभवत्य् असहभूत्वात्. न विपाकहेतुर् अव्याकृतत्वात्. न कारणहेतुः साधारणत्वेनागण्यमानत्वात्. [तिब्. 187ब्] ( अभिध्-क्-व्य् 201 ) पारिशेष्यात् सभागहेतुः सर्वत्रगहेतुर् वा भवतीति भवेत्. इह च सभागहेतुर् एव सर्वत्रगहेतुः. अतो यद्य् अनागता सत्कायदृष्टिः सत्कायदृष्टेर् न सभागहेतुः कस्माद् असौ तृतीयकोट्यर्थं स्थापितेति. वैभाषिक आह. अनागतसत्कायदृष्टिसंप्रयुक्तकं दुःखसत्यं स्थापयित्वेत्य् एवम् एतद् कर्तव्यम् इति. सत्कायदृष्टिसंप्रयुक्तकम् एव स्थापयितव्यं. न तु सत्कायदृष्टिः. तद् धि वेदनादिकं सहभूहेतुना संप्रयुक्तकहेतुउआ वा सत्कायदृष्टिहेतुकम् सत्कायदृष्टेश् च हेतुः. न सभागहेतुना. विनष्टको ह्य् अयम् अनागतां सत्कायदृष्टिम् इति पाठः. पश्चात्पदस्थेन तच्छब्देन सह न पत्ःइतव्यः. संप्रयुक्तदुःखसत्यविशेषणार्थं तु समस्यैतत् पदद्वयं पठितव्यं. अनागतसत्कायदृष्टिसंप्रयुक्तकम् इति. अर्थतो वैवं बोद्धव्यं यद्य् एवं न क्रियते पाठः. भाष्याक्षेपनिर्वृत्तः पाठो न तन्त्रम् इत्य् अभिप्रायः. प्रज्ञप्तिभाष्यं कथं नीयते सर्वधर्माश् चतुष्के नियता इति. हेतौ नियता यस्य धर्मस्य यो धर्मो हेतुः. स धर्मस् तस्य धर्मस्य न कदाचिन् न हेतुः. त्रिष्व् अपि कालेषु हेतुर् इत्य् अर्थः. एवं फले नियता यस्य धर्मस्य यो धर्मः फलं पुरुषकारादि योज्यं. एवम् आश्रये नियता यस्य धर्मस्य [तिब्. 188अ] चक्षुर्विज्ञानादेर् यो धर्म आश्रयश् चक्षुरादिर् इति योज्यं. एवम् आलम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर् यो धर्म आलम्बनं रूपादिर् इति योज्यं. तेन धर्माणां हेतौ नियतत्वात् त्रिष्व् अपि कालेषु सभागहेतुर् भवतीति चोदकाभिप्रायः. सर्वहेत्वनभिसंधेर् अदोष इति दर्शयन् वैभाषिक आह. हेतुर् अत्र संप्रयुक्तकहेतुः सहभूहेतुश् च न सभागहेतुः सर्वत्रगहेतुर् वा. अनागतावस्थायाम् अव्यवस्थापितत्वात्. न विपाकहेतुः. अनानिंज्यस्य कर्मणह् कस्यचिद् गत्यन्तरे ऽपि विपाकादानात्. फलं पुरुशकारफलं अधिपतिफलं च. तयोः सहभूसंप्रयुक्तकहेत्वोः फलत्वात्. वैभासिकाणाम् एतन् मतम्. अनागतं विद्यमानम् उत्पद्यत इति. तस्माद् अयं प्रसंजयति. ननु चैवं सति सभागहेतुर् अभूत्वा अनागतावस्थायां हेतुर् भवति वर्तमानावस्थायाम् इति प्राप्तं प्रसक्तम् इत्य् अर्थः. इष्यत एवावस्थां प्रति न द्रव्यम् इति. इष्यत एव सभागहेतोः सभागहेतुत्वावस्था पूर्वं नासीद् इदानीं भवतीति. न तु द्रव्यस्वलक्षणं पूर्वं नासीद् इदानीं भवतीति. अवस्थाफलं हि सामग्र्यं न द्रव्यफलम् इति. हेतुप्रत्ययसामग्र्या वर्तमानावस्थाफलं न द्रव्यं. यस्माद् अनागतो ऽपि स धर्मो [तिब्. 188ब्] द्रव्यतो ऽस्ति. न पुनः प्रत्युत्पन्न एवेति. चोदक आह. किं पुनः स्याद् इति विस्तरः. वैभाषिक आह. शास्त्रे तस्य ग्रहणं स्याद् इति. तस्यानागतस्य सभागहेतोः. न चास्ति ग्रहणं. न हि तत्र शास्त्रे उक्तं. अनागतानि कुशलमूलानि अनागतानां कुशलमूलानां ( अभिध्-क्-व्य् 202 ) सभागहेतुर् इति. चोदक आह. य एव हीति विस्तरः. चोदकस्यायम् अभिप्रायः. यद्य् अप्य् अनागतो ऽस्ति सभागहेतुर् न त्व् असौ फलदानग्रहणक्रियायां समर्थः. य एव हि फलदानग्रहणक्रियासमर्थः फलाक्षेपक्रियासमर्थश् च. तस्यैव सभागहेतोः अतीतस्य वर्तमानस्य च ग्रहणात्. अदोषो ऽनागतस्य सभागहेतोर् अग्रहणं. तस्य फलदानग्रहणक्रियायाम् असामर्थ्यात्. तस्माद् अस्त्य् अनागतः सभागहेतुः. अथ च शास्त्रे नोक्त इति. वैभाषिक आह. नैतद् अस्तीति विस्तरः. नैतद् युज्यते. निष्यन्दफलेन हि सफलः सभागहेतुः.
सभागसर्वत्रगयोर् निष्यन्दः.
निष्यन्दो हेतुसदृश
इति वचनात्. तच् चानागतस्यायुक्तं. तन् निष्यन्दफलम् अयुक्तं. कस्मात्. पूर्वपश्चिमताभावात्. अनागतावस्थायाम् इदं पूर्वम् इदं पश्चिमम् इति न परिच्छिद्यते विप्रकीर्णत्वात्. न चासति पूर्वापरभावे सदृशः सदृशस्य निष्यन्दो युज्यते. अथ मतम्. उत्पन्नम् अतीतं वर्तमानं वा अनागतस्य निष्यन्द इति. अत आह. न चोत्पन्नम् अनागतस्य निष्यन्दो युज्यत इति. यथातीतं [तिब्. 189अ] वर्तमानस्य निष्यन्दो न भवति. तथानागतस्याप्य् उत्पन्नो न निष्यन्दो भवितुम् अर्हति. कस्माद् इत्य् आह. मा भूद् धेतोः पूर्वं फलम् इति दोषाट्. विपाकफलस्य पूर्वं सह चायोगाद् इति. मा भूद् धेतोः पूर्वं फलम् इति पूर्वम् अयोगः. सह चायोगो ऽनागतावस्थायां. न हि प्रत्युत्पन्नावस्थायां सहभूहेतोर् इव विपाकहेतोः सहोत्पन्नं फलम् उपलभ्यते. तस्मात्. अनागते चाध्वनि पूर्वपश्चिमताभावात्. विप्रकीर्णत्वाद् अनागतस्याध्वनो न पूर्वं विपाकहेतुः पश्चाद् विपाकफलं युज्यते. तस्माच् च सभागहेतुवद् विपाकहेतुर् अप्य् अनागतो न प्राप्नोति. वैभाषिक आह. नैतद् अस्ति यद् उक्तं विपाकहेतुर् अप्य् एवम् इति. न चान्योन्यनिष्यन्दता युक्तिमतीति. यस्य यः सभागहेतुः सदृशो धर्मः. तस्य स एव धर्मस् तदानीं एव कथं निष्यन्दो योक्ष्यते. न हि पुत्रः स्वस्यैव पितुस् तदानीम् एव पिता भवतीति. न त्व् एवं विपाकहेतुः. किम्. अन्योन्यहेतुफलता न पौर्वापर्येण विना संप्रसज्यते प्राप्नोति. कस्मात् भिन्नलक्षणत्वाद् धेतुफलयोः. हेतोर् अन्यल् लक्षणं स्वभाव इत्य् अर्थः. अकुशलता कुशलसास्रवता वा तस्य लक्षणं. फलस्य [तिब्. 189ब्] चान्यल् लक्षणम् अनिवृतव्याकृतत्वं.
विपाकहेतुर् अशुभाः कुशलाश् चैव सास्रवाः
विपाको ऽव्याकृतो धर्म
इति वचनात्. तस्माद् इति विस्तरः. अवस्थाव्यवस्थित एव सभागहेतुः. अवस्थायां व्यवस्थितः. अतीतावस्थः प्रत्युत्पन्नावस्थश् च सभागहेतुर् नानागतावस्थः. लक्षणव्यवस्थितस् तु विपाकहेतुः. लक्षणेन व्यवस्थितस् त्रिष्व् अपि कालेषु यथोक्तलक्षण इत्य् अनागतो ऽपि विपाकहेतुर् न वार्यते न प्रतिषिध्यते. इदम् इह विचार्यते. किम् अनागते ऽध्वनि सदृशा धर्मा विप्रकीर्णा इति न शक्यते परिच्छेतुं अयं हेतुर् इदम् इदम् अस्य निष्यन्दफलम् इति. अतो नानागतः सभागहेतुर् व्यवस्थाप्यते. आहोस्वित् यो धर्मो यस्य धर्मस्य सभागहेतुर् भवेत्. स धर्मस् तस्य हेतुप्रत्ययवशान् निष्यन्दफलं भवेद् इति. अतो ऽनागतस् सभागहेतुर् न व्यवस्थाप्यते. नैतद् व्याख्यानकारैर् विचारितं. मम तु पूर्वक एवायं पक्षः प्रतिभातीति.
किम् एष नियम इति. किं स्वभूमिक एवेत्य् अवधार्यते. नान्यथाप्य् अस्तीत्य् अभिप्रायः.
अन्योन्यं नवभूमिस् तु मार्ग
इति. तुशब्दो विशेषणे. मार्ग इति मार्गसत्यं विवक्षितं. सास्रवान् मार्गसत्यं विशिष्यते. सास्रवो हि धर्मः स्वभूमिक एव सभागहेतुः. नान्यभूमिकः मार्गस् त्व् अन्यभूमिको ऽपि सभागहेतुः. इह भूमिग्रहणे सारवानास्रवग्रहणं. धातुग्रहणे तु सास्रवस्यैवेत्य् [तिब्. 190अ] अत आह. यत् सास्रवाणां मार्गस्य च तुल्ये भूमिभेदे मार्ग एव नवभूमिको ऽन्योन्यं सभागहेतुर् न सास्रव इति. कुत इत्य् आह. आगन्तुको ह्य् असौ तासु भूमिषु न तद्धातुपतितः. तद्भूमिकाभिस् तृष्णाभिर् अस्वीकृतत्वाद् इति. न हि कामरूपारूप्य(नवभूमिसंनिश्रयाधिगम्यत्वात् नवभूमिको न तद्भूमिसंगृहीतत्वात्) चर्यस् तृष्णाः सास्रवान् इवानास्रवान् धर्मान् स्वीकुर्वन्ति. यदा तर्हि निर्वाणं मार्गं वाभिलषति कुशलो ऽसौ धर्मच्छन्दः. न रागः. तस्य वर्ज्यत्वाद् इति वचनात्. समानजातीयस्येत्य् अनास्रवजातीयस्य. एवं तर्हि सर्वः सर्वस्य सभागहेतुः प्राप्नोति. अत आह.
समविशिष्टयोर्
इति.
अन्योन्य-
ग्रहणं तर्हि किम् अर्थं. ऊर्ध्वभूमिकाधरभूमिकयोर् अन्योन्यम् इत्य् एवम् अर्थं. ऊर्ध्वभूमिको ऽप्य् अधरभूमिकयोः समविशिष्टयोः सभागहेतुर् भवति. अधरभूमिको ऽप्य् ऊर्ध्वभूमिकयोर् इति. तद्यथेति विस्तरः. दुःखे धर्मज्ञानक्शान्तिस् तस्या एवानागतायाः समेति कृत्वा सभागहेतुः. विशिष्टस्य च दुःखे धर्मज्ञानस्य दुःखे ऽन्ब्वयज्ञानक्षान्तेर् यावद् अनुत्पादज्ञानस्य ( अभिध्-क्-व्य् 204 ). न तु न्यूनस्य. न हि दुःखे धर्मज्ञानम् अनागतायाः दुःखे धर्मज्ञानक्षान्तेः सभागहेतुर् भवति. दर्शनभावनाशैक्षमार्गास् त्रिद्व्येकेषाम् इति. दर्शनमार्गो दर्शनमार्गान्तरस्य भावनामार्गस्याशैक्षमार्गस्य च सभागहेतुर् इति त्रयाणां. भावनामार्ग भावनामार्गान्तरस्याशैक्षमार्गस्य च सभागहेतुः. न दर्शनमार्गस्येति [तिब्. 190ब्] द्वयोः. अशैक्षमार्गो ऽशैक्षमार्गान्तरस्य न दर्शनमार्गभावनामार्गयोर् इत्य् एकस्य सभागहेतुः. तत्रापीति. तत्र दर्शनमार्गादिषु मृद्विन्द्रियमार्गो दर्शनमार्गस्वभावो मृदुतीक्ष्णेन्द्रियमार्गस्य तत्स्वभावस्यैव. तिक्ष्णेन्द्रियमार्गस् तीक्ष्ण्द्रियमार्गस्यैव. न मृद्विन्द्रियमार्गस्य न्यूनत्वात्. एवं भावनामार्गो ऽशैक्षमार्गश् च वक्तव्यः. तद् दर्शयन्न् आह. तद्यथेति विस्तरः. एकस्यापि मृद्विन्द्रियस्य पुद्गलस्य षण्मार्गाः सन्ति. प्रकृतितीक्ष्णेन्द्रियस्य त्रयः. तत्र श्रद्धानुसारिमार्गः श्रद्धानुसारिमार्गान्तरस्यात्मीयस्य सभागहेतुः. धर्मानुसारिमार्गस्य चात्मीयस्यानागतावस्थस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चात्मीयाणां यथायोगम् उत्पत्त्यनुत्पत्तिधर्माणां चेति षण्णां सभागहेतुः. श्रद्धाधिमुक्तमार्गः श्रद्धाधिमुक्तमार्गान्तरस्य दृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चापरेषाम् अपि त्रयाणाम् इति चतुर्णां सभागहेतुः. समयविमुक्तमार्गः समयविमुक्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः सभागहेतुः. न तु श्रद्धाधिमुक्तमार्गः श्रद्धानुसारिधर्मानुसारिमार्गयोर् हेतुः पूर्वकालीनत्वात् दर्शनमार्गस्य. भावनामार्गस्य च विशिष्टत्वात्. एवम् अन्यत्रापि योज्यं. [तिब्. 191अ] धर्मानुसारिमार्गः धर्मानुसारिमार्गान्तरस्य दृष्टिप्राप्तासमयविमुक्तमार्गयोश् चेति त्रयाणां सभागहेतुः. दृष्टिप्राप्तमार्गो दृष्टिप्राप्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः. असमयविमुक्तमार्गो ऽसमयविमुक्तमार्गान्तरस्यैवेत्य् एकस्य सभागहेतुः. न तु धमानुसारिमार्गः श्रद्धानुसारिमार्गस्य सभागहेतुः. धर्मानुसारिमार्गस्येन्द्रियतो विशिष्तत्वात्. नापि श्रद्धाधिमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात्. नापि समयविमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात्. समयविमुक्तमार्गस् तर्हीन्द्रियतो विशिष्टस्य दृष्टिप्राप्तमार्गस्य सभागहेतुः प्राप्नोति. न प्राप्नोति. अशैक्षमार्गसंगृहीतत्वात्. न हि पूर्वकालीनं फलं पश्चात्कालीनो हेतुर् इति. दृष्टिप्राप्तमार्गः पुनः समयविमुक्तमार्गस्य न सभागहेतुर् इन्द्रियतो न्यूनत्वात्. कथं पुनर् इति विस्तरः. कथं पुनर् ऊर्ध्वब्कूमिकस्य द्वितीयध्यानात् प्रभृति यावद् आकिंचन्यायतनभूमिकस्य दर्शनमार्गस्य भावनामार्गस्य वा अशैक्षमार्गस्य वा यथायोगम् अधोभूमिको मार्गो विज्ञानानम्त्यायतनात् ( अभिध्-क्-व्य् 205 ) प्रभृति यावद् अनागम्यभूमिको यथायोगं दर्शनमार्गो भावनामार्गो वा अशैक्षमार्गो वा समो वा विशिष्टो वा भवति. कथंचन भवितव्यं. हीनत्वाद् अधराया भूमेः. [तिब्. 191ब्] इन्द्रियतो हेतूपचयतश् च. इन्द्रियतस् तावत् समो भवति विशिष्टो वा. दर्शनमार्गे श्रद्धानुसारिमार्गश् चतुर्थध्यानभूमिको ऽधरभूमिकस्य तस्यैव श्रद्धानुसारिमार्गस्य समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवाधरभूमिको धर्मानुसारिमार्गो विशिष्टः. तीक्ष्णेन्द्रियत्वात्. तथा धर्मानुसारिमार्गश् चतुर्थध्यानभूमिको ऽधरभूमिकस्य धर्मानुसारिमार्गस्य समः. एवम् एताव् एव श्रद्धानुसारिधर्मानुसारिमार्गौ चतुर्थध्यानभूमिकाव् अधरभूमिकयोर् भावनाशैक्षमार्गयोः प्रत्येकं भूमीन्द्रियभेदभिन्नयोः समौ वा विशिष्टौ वेति संभवतो योज्यौ. तथा भावनामार्गे आकिंचन्यायतनभूमिकस्य श्रद्धाधिमुक्तमार्गस्याधरभूमिकः श्रद्धाधिमुक्तमार्गः समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवाधरभूमिको दृष्टिप्राप्तमार्गो विशिष्टः. तीक्ष्णेन्द्रियत्वात्. तथा तस्यैव समयविमुक्तमार्गो ऽधरभूमिकः समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवासमयविमुक्तमार्गो ऽधरभूमिको विशिष्टः. तीक्ष्णेन्द्रियत्वात्. एवम् अशैक्षमार्गे आकिंचन्यायतनभूमिकस्याशैक्षमार्गस्याधरभूमिकः समो विशिष्टो वेति यथायोगं योज्यम्. अनया दिशा सर्वभूमयो योज्याः कथं हेतूपचयतः. ऊर्ध्वभूमिकस्याधरभूमिको मार्गः समो विशिष्टो वा भवतीत्य् अत इदम् उच्यते. तत्र [तिब्. 192अ] दर्शनादिमार्गाणाम् इति विस्तरः. आदिग्रहणेन भावनाशैक्षमार्गोपसंग्रहः. ऊर्ध्वभूमिकाया दुःखे धर्मज्ञानक्षान्तेः अधोभूमिकं दुःखे धर्मज्ञानं हेतूपचयतो विशिष्टं भवति. दुःखे धर्मज्ञानाद् अप्य् ऊर्ध्वभूमिकाद् अधरभूमिका दुःखे ऽन्वयज्ञानक्षान्तिर् यावद् ऊर्ध्वभूमिकान् मार्गे धर्मज्ञानाद् अधरभूमिका मार्गे ऽन्वयज्ञानक्षान्तिर् हेतूपचयतो विशिष्टा भवति. एकैकाधिकसभागहेतूपचितत्वात्. दर्शनमार्गाद् ऊर्ध्वभूमिकाद् अधोभूमिको भावनामार्गो हेतूपचयतो विशिष्टो भवति. दर्शनमार्गो हि दर्शनमार्गहेतूपचितो भावनामार्गस् तु दर्शनभावनामार्गहेतूपचितः. ऊर्ध्वभूमिकाभ्यां दर्शनभावनामार्गाभ्याम् अधरभूमिको ऽशैक्षमार्गो हेतूपचयतो विशिष्टो भवति.
दर्शनभावनामार्गहेतूपचितत्वात्. ऊर्ध्वभूमिकस्य दर्शनमार्गस्याधोभूमिको दर्शनमार्गो हेतूपचयतः समानक्षणापेक्षया समो भवति. एवं भावनामार्गस्य भावनामार्गो ऽशैक्षमार्गस्याशैक्षमार्ग इति. तद् एवं कश्चिद् इन्द्रियतः समो भवति हेतूपचयतो विशिष्टः सत्य् अप्य् अधरभूमिकत्वे. तद्यथा प्रथमध्यानभूमिकाच् छ्रद्धानुसारिमार्गाद् अधरभूमिकौ श्रद्धाधिमुक्तसमयविमुक्तमार्गौ. कश्चिद् धेतूपचयतः समो भवति इन्द्रियतो विशिष्टः. तद्यथा ( अभिध्-क्-व्य् 206 ) चतुर्थध्यानभूमिकाच् छ्रद्धानुसार्यादिमार्गाद् अधोभूमिकधर्मानुसार्यादिमार्गः समानक्षणापेक्षया. [तिब्. 192ब्] कश्चिद् इन्द्रियतो हेतूपचयतश् च विशिष्टः. तद्यथा चतुर्थध्यानभूमिकाच् छ्रद्धानुसारिमार्गाद् अधरभूमिकौ दृष्टिप्राप्तसमयविमुक्तमार्गौ. मृदुमृद्वादीनां चोत्तरोत्तरे हेतूपचिततरा इति. दर्शनमार्गवर्ज्याः. तस्मिन् मृदुमृद्वाद्यसंभवात्. तत्र मृदुमृदोः प्रकाराद् ऊर्ध्वभूमिकाद् अधरभूमिको ऽपि मृदुमध्यो यावद् अधिमात्रमध्याद् अधिमात्राधिमात्रः समानासमानक्षणापेक्षया हेतूपचयतः समो विशिष्टो वा भवति. एकैकाधिकप्रकारहेतूपचितत्वात्. यद् उक्तं श्रद्धानुसारिमार्गः षण्णां सभागहेतुर् इति कथं श्रद्धानुसारिमार्गो धर्मानुसारिमार्गस्य सभागहेतुर् भवति. न हि तयोर् एकसंताने संमुखीभावो ऽस्ति. तेनाह. यद्य् अप्य् एकसंताने श्रद्धाधर्मानुसारिमार्गयोर् असंभवः. उत्पन्नस् त्व् अनागतस्य हेतुर् इति. असंभवो ह्य् अत्रासंमुखीभावः. न त्व् अभावः. सन्ति हि मृद्विन्द्रियाणां मृद्विन्द्रियमार्गवद् आत्मीयास् तीक्ष्णेन्द्रियमार्गा अपि. दृष्टिप्राप्तसमयविमुक्तमार्गास् तु तत्संताने संमुखीभवेयुर् अपि यदीन्द्रियसंचारः क्रियेत. तस्माद् उत्पन्नः श्रद्धानुसारिमार्गो ऽनुत्पत्तिधर्मिणो धर्मानुसारिमार्गस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां च यथायोगम् अनागतानाम् उत्पत्तिधर्माणाम् अनुत्पत्तिधर्माणां वा समविशिष्टानां सभागहेतुर् इति. आचार्यवसुमित्रस् त्व् आह. [तिब्. 193अ] उत्पन्नः श्रद्धानुसारिमार्गो ऽनुत्पन्नस्य धर्मानुसारिमार्गस्य दृष्टिप्राप्तमार्गस्य वा हेतुर् यदा श्रद्धानुसार्यादय इन्द्रियाणि संचरन्तो धर्मानुसारिमार्गादीन् संमुखीकुर्वन्ति. तद् अयुक्तं. न हि श्रद्धानुसारीन्द्रियाणि संचरति. श्रद्धाधिमुक्तादयस् तु संचरेयुः.
प्रायोगिका इति. प्रयोगेन निर्वृत्ताः प्रायोगिकाः. प्रायोगिकग्रहणम् उपपत्तिप्रतिलंभिकनिरासार्थं. कामावचराः श्रुतमया इति. ये बुद्धवचनश्रुतेन निर्याताः. ते श्रुतमयाः. चिन्तामयाश् चिन्तामयानाम् इति. चिन्तामयानाम् एव न श्रुतमयानां.
तयोर् एव समविशिष्टयोर्
इति वचनात्. भावनामयभावाद् इति. कामधातोर् असमाहितत्वात् भावनामया न सन्ति. चिन्तामयाभावाद् इति. यदा हि चिन्तयितुम् आरभन्ते. तदैषां समाधिर् एवोपतिष्ठत इति चिन्तामयाभावकारणं. तेषाम् अपीति. श्रुतमयादीनां. मृदुमृदवः सर्वेषाम् इति. मृदुमृदवो मृदुमृद्वन्तराणां समानां मृदुमध्यादीनां चान्येषाम् अष्टानां विशिष्टानाम् इति सर्वेषां सभागहेतुः. मृदुमध्या अष्टानां मृदुमृदुप्रकारम् अपास्यते ऽस्य न्यूनत्वात्. [तिब्. 173ब्] ( अभिध्-क्-व्य् 207 ) एषा नीतिर् इति. तद्यथा मृद्वधिमात्राः सप्तानां मध्यमृदवः सण्णां यावद् अधिमात्राधिमात्रा अधिमात्राधिमात्रान्तराणां एकरूपाणां सभागहेतुर् इति. पूर्वान् पूर्वान् अपास्य तेषां तेषां न्यूनत्वात्. उपपत्तिप्रतिलंभिकास् तु कुशला इति. उपपत्त्या प्रतिलंभ उपपत्तिप्रतिलंभः. स एशाम् अस्तीत्य् उपपत्तिप्रतिलंभिकाः. अत इनिठनाव् इति ठन्. सर्वे ते नव प्रकाराः परस्परं सभागहेतुः. मृदुमृदूनां यावद् अधिमात्राधिमात्राणाम् एव. अधिमात्राधिमात्रा मृदुमृदूनां यावद् अधिमात्राधिमात्राणां सभागहेतुः. न समविशिष्टानाम् एव. अनाभिसंस्कारिकत्वात्. आभिसंस्कारिकस्य हि सभागहेतोर् न्यूनं फलं नेष्यते. नानाभिसंस्कारिकस्य. क्लिष्टा अप्य् एवम् इति. सर्वे नवप्रकाराः परस्परं सभागहेतुर् अप्रायत्निकत्वात्. पूर्वोत्पन्नाः सर्वे समानभूमिकानां पश्चाद्वर्तिनां सर्वेषां सभागहेतुः. नात्र समविशिष्टते अपेक्ष्येते. ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुर् इति. विपाकजा विपाकाजादीनां चतुर्णां सभागहेतुः. ऐर्यापथिका ऐर्यापथिकादीनां एव त्रयाणां. व विपाकजानां. तेषाम् अनाभिसंस्कारिकत्वेन न्यूनत्वात्. शैल्पस्थानिका द्वयोः शैल्पस्थानिकनैर्माणिकयोः. नैर्माणिका नैर्माणिकानाम् एव. [तिब्. 194अ] न पूर्वेषाम्. उत्तरेषाम् उत्तरेषाम् आभिसंस्कारिकत्वात्. निर्माणचित्तम् अपि कामावचरं चतुर्ध्यानफलम् इति. चतुर्णां ध्यानानां फलं प्रथमद्वितीयतृतीयचतुर्थध्यानफलम् इति चतुष्प्रकारं कामावचरं निर्माणचित्तं. तद् यथाक्रमं चतुस्त्रिद्व्येकेषां च सभागहेतुर् इति वर्तते. प्रथमध्यानफलं चतुर्णां प्रथमद्वितीयतृतीयचतुर्थध्यानफलानां सभागहेतुः. द्वितीयध्यानफलं त्रयाणां द्वितीयतृतीयचतुर्थध्यानफलानां. तृतीयध्यानफलं द्वयोस् तृतीयचतुर्थध्यानफलयोः. चतुर्थध्यानफलं एकस्य चतुर्थध्यानफलान्तरस्यैव सभागहेतुः. का पुनर् अत्र युक्तिर् ययैवं नियम इति तां युक्तिं निर्दिक्षुर् आह. नोत्तरध्यानफलं अधरध्यानफलस्येति विस्तरः. न चतुर्थध्यानफलं कामावचरं निर्माणचित्तं प्रथमध्यानफलस्य कामावचरस्य निर्माणचित्तस्य यावत् तृतीयध्यानध्यानफलस्य कामावचरस्य निर्माणचित्तस्य सभागहेतुः. कस्माद् इत्य् आह. न ह्य् आभिसंस्कारिकस्य महायत्नसाध्यस्य सभागहेतोर् हीयमानम् अमहायत्नसाध्यं फलं भवति. यादृशेन हि यत्नविशेषेण प्रथमं ध्यानं यावत् तृतीयं ध्यानं निष्पाद्यते. न तादृशेनैव चतुर्थं ध्यानं निष्पाद्यते. [तिब्. 194ब्] किं तर्हि. उत्कृष्टतरेण यत्नविशेषेण निष्पाद्यते. तस्मात् फलम् अस्योत्कृष्टतरेणैव यत्नविशेषेण निष्पाद्यते इत्य् अवगम्यते. तेन अधरध्यानफलं उत्तरध्यानफलस्य सभागहेतुः. न तूत्तरध्यानफलं अधरध्यानफलस्य ( अभिध्-क्-व्य् 208 ). यथा च चतुर्थध्यानफलं योजितं. एवं तृतीयद्वितीयध्यानफलम् अपि योज्यं. अत एवाहुर् इति. यस्माद् आभिसंस्कारिकस्य सभागहेतोर् हीयमानं फलं न भवति. तस्माद् आहुर् इत्य् अर्थः. किम् आहुर् इत्य् आहुः. स्याद् उत्पन्न इति विस्तरः. दुःखे धर्मज्ञानम् अनास्रवम् उत्पन्नम् अनुत्पत्तिधर्माणाम् अनास्रवाणां दुःखे धर्मज्ञानक्षान्तिनां न हेतुः. दुःखे धर्मज्ञानक्षान्तिभ्यो दुःखे धर्मज्ञानस्याभिसंस्कारिकत्वेन विशिष्टत्वात्. एवं हि तद् विशिष्टं. यत् क्लेशविसंयोगप्राप्त्या सह उत्पद्यते. विशिष्टं च न्यूनस्य न हेतुः. तद्यथार्हत्त्वात् परिहीणस्य अशैक्षो मार्गः पूर्वोत्पन्नः सकृदागाम्यनागामिमार्गयोः पश्चादुत्पद्यमानयोर् न सभागहेतुः. स्याद् एकसंताननियतः पूर्वप्रतिलब्ध इति विस्तरः. अनागता दुःखे धर्मज्ञानक्षान्तयः प्रथम एव क्षणे प्रतिलब्धा एकसंतानगताः. दुःखे धर्मज्ञानं द्वीतियक्षणोत्पन्नं. तस्य ता न हेतुः. [तिब्. 195अ] यस्मान् न पूर्वतरं फलं. पूर्वतरं हि दुःखे धर्मज्ञानं दुःखे धर्मज्ञानक्षान्तिभ्यः. तस्योत्पन्नत्वात्. तासां चानुत्पन्नत्वात्. अनागतो वा धर्मः यस्मान् न सभागहेतुः. अनागता दुःखे धर्मज्ञानक्षान्तयः अपरिमिताः प्रतिलब्धा एव न तूत्पन्नाः. स्यात् पूर्वोत्पन्न इति विस्तरः. पूर्वं प्रतिलब्धमात्रो धर्मः पृष्टो न तूत्पन्नः अनुत्पन्नश् च न सभागहेतुर् भवतीति. इदानीं पूर्वोत्पन्नो ऽपि किम् अस्ति न सभागहेतुर् इति अतिशयरूपेण पृच्छ्यते. अधिमात्रो न्यूनस्येति. विशिष्टो न्यूनस्येत्य् अर्थः. तद्यथोत्तरफलपरिहीणस्य अर्हत्त्वफलपरिहीणस्यानागामिफलपरिहीणस्य
वा अधरफलसंमुखीभावे ऽनागामिफलसंमुखीभावे सकृदागामिफलसंमुखीभावे वा. यो ऽर्हत्त्वमार्गो ऽधिमात्रः पूर्वोत्पन्नः. स पश्चादुत्पन्नस्यानागामिफलस्य सकृदागामिफलस्य वा न सभागहेतुः. न्यूनत्वात्. एवम् अनागामिफलपरिहीणस्य यो ऽनागामिफलमार्गः. स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफलस्य न सभागहेतुः. न्यूनत्वात्. दुःखे धर्मज्ञानप्राप्तिश् चेति विस्तरः. दुःखे धर्मज्ञानप्राप्तिर् या पूर्वोत्पन्ना. सा उत्तरक्षणसहोत्पन्नानां उत्तरैः क्षणैर् दुःखे ऽन्वयज्ञानक्षान्तिक्षणादिभिर् आ मार्गे ऽन्वयज्ञानक्षान्तेः सहोत्पन्नानां दुःखे [तिब्. 195ब्] धर्मज्ञानक्षान्तिप्राप्तीनां न सभागहेतुः. किं कारणं. तासां न्यूनत्वात्. तस्याश् च विशिष्टत्वात्. कथं पुनस् तासां न्यूनत्वं तस्याश् च विशिष्टत्वं. दुःखे धर्मज्ञानक्षान्तेर् दुःखे धर्मज्ञानं विशिष्टं तद्वध्यक्लेशप्राप्तेर् विमुक्तत्वात्. हेतूपचिततरत्वाच् च. तस्माद् धेतूपचिततराभ्यो ऽपि दुःखे धर्मज्ञानक्षानिप्राप्तिभ्यो दुःखे धर्मज्ञानप्राप्तिर् विशिष्टा ताश् च न्यूनास् तत्प्राप्तित्वात्. किं च प्रथमक्षणोत्पन्नाया दुःखे धर्मज्ञानक्षान्तिप्राप्तेर् दुःखे धर्मज्ञानप्राप्तिस् तस्माद् एव हेतुद्वयाद् ( अभिध्-क्-व्य् 209 ) विशिष्टा. न्यूना च सा दुःखे धर्मज्ञानक्षान्तिप्राप्तिः. अतस् तत्पूर्विका अप्य् अन्या उत्तरक्षणसहोत्पन्ना दुःखे धर्मज्ञानक्षान्तिप्राप्तयो हेतूपचिततरत्वे ऽपि न्यूना एवेति. तस्मान् न सा तासां सभागहेतुर् इति.
(इइ.54च्द्) संप्रयुक्तकहेतुस् तु चित्तचैत्ता
इति. तुशब्दो ऽवधारणे भिन्नक्रमश् च. चित्तचैत्ता एव संप्रयुक्तकहेतुर् इति. एवं सतीति विस्तरः. यदि चित्तचैत्ता एव संप्रयुक्तसहेतुर् इत्य् एतावद् उच्यते भिन्नकालजा अपि भिन्नकालजैः सह भिन्नसंतानजा अपि च भिन्नसंतानजैः सह संप्रयुक्तकहेतुः [तिब्. 196अ] संप्रसज्यते. न हि ते कालसंतानभिन्ना न चित्तचैत्ता भवन्ति. एकाकारालम्बनास् तर्हीति. यदि चित्तचैत्ता एकाकारा एकनीलाद्याकारा एकालम्बनाश् च एकनीलाद्यालम्बना एवं ते संप्रयुक्तकहेतुर् नान्यथेति. एवं भिन्नकालजत्वं भिन्नसंतानजत्वं च व्यावर्तितं भवतीत्य् अभिप्रायः. एवम् अपि स एव प्रसंगः. भिन्नकालसंतानजानां अन्योन्यं संप्रयुक्तकहेतुत्वप्रसंग इति अर्थः. संभवति हि भिन्नकालसंतानजानाम् अपि चित्तचैत्तानाम् एकाकारालम्बनत्वं. भिन्नसंतानजानाम् अपि प्रसंग इति. भिन्नकालजत्वम् एकं परिकृतं. नवचन्द्रादीनि हि पश्यतां बहूनां एकाकारालम्बनाश् चित्तचैत्ता वर्तन्ते.
समाश्रया
इति. समः अभिन्न आश्रय एषाम् इति
समाश्रयाः.
तुल्यार्थे समशब्दग्रहणे हि जातितुल्यत्वात् स एव प्रसंगः स्यात्.
अन्योन्यफलार्थेनेति विस्तरः. यथा सहसार्थिकानां परस्परबलेन मार्गप्रयाणं. एवं चित्तं चैत्तस्य फलं. चैत्तो ऽपि चित्तस्येत्य् अन्योन्यफलम् इति तेनार्थेन सहभूहेतुः. पंचभिर् इति विस्तरः. पंचभिस् समताभिः. आश्रयालम्बनाकारकालद्रव्यसमताभिर् इत्य् अर्थः. [तिब्. 196ब्] समप्रयोगार्थेन समप्रवृत्त्यर्थेन संप्रयुक्तकहेतुः. यथा तेषाम् एव सार्थिकानाम् अन्योन्यबलेन मार्गं गच्छतां समो ऽन्नपानस्नानशयनादिपरिभोगक्रियायां प्रयोगः. तद्वत् समप्रयोगत्वम् एषाम् अन्योन्यं भवति. अत एवाह. एकेनापि हि विना न सर्वे संप्रयुज्यन्त इति.
(इइ.55अब्) पूर्वसर्वगा
इति. पूर्वे च ते सर्वगाश् च सर्वपूर्वगाः. पूर्वोत्पन्नाः सर्वगा इत्य् अर्थः. स्वभूमिकाः पूर्वोत्पन्ना अतीताः प्रत्युत्पन्ना वा सर्वत्रगा अनुशयाः क्लिष्टानां क्लेशस्वभावसंप्रयुक्तसमुत्थानां पश्चिमानां पश्चादतीतप्रत्युत्पन्नानां अनागतानां च सर्वत्रगहेतुः. व्याख्यास्याम इति.
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस् तथा
विमतिः सह ताभिश् च याविद्यावेणिकी च येत्य्
अत्र पंचमे कोशस्थाने निर्देक्ष्यामः. क्लिष्टधर्मसामान्यकारणत्वेनेति विस्तरः. यस्माद् अयं सर्वत्रगहेतुः क्लिष्टानाम् एव सामान्येन पंचनिकायानाम् अपि भवति. सभागहेतुस् तु क्लिष्टानां चाक्लिष्टानां च. तस्मात् पृथग् व्यवस्थाप्यते. कथं क्लिष्टधर्मसामान्यकारणत्वम् अस्येति प्रतिपादयन्न् आह. निकायान्तरीयाणाम् अपि हेतुत्वाद् इति. एषां हि प्रभावेनेति. एषां हि सर्वत्रगाणां प्रभावेन अन्यनैकायिका अन्यनिकायभवाः क्लेशा रागादय उपजायन्ते. के पुनस् ते. दुःखदर्शनप्रहातव्यस्य सर्वत्रगहेतोः [तिब्. 197अ] समुदयनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति. समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोर् दुःखनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति. सर्वान् क्लेशनिकायान् गच्छन्ति भजन्ते आलम्बने. सर्वेषां वा क्लेशनिकायानां हेतुभावं गच्छन्तीति सर्वत्रगाः. अत एवोक्तं. सत्कायदृष्टिमूलकाः सर्वक्लेशाः सत्कायदृष्टिप्रभवाः सत्कायदृष्टिसमुदया इति. आत्मग्राहद्वारेण रागमानप्रतिघादिसमुदाचारात्. किम् आर्यपुद्गलस्यापीति. सर्वत्रगा आर्यपुद्गलस्य सर्व एव प्रहीणा दर्शनप्रहातव्यत्वात्. रागादयश् च शैक्षानां समुदाचरन्ति. ते रागादयस् तेषां न सर्वत्रगहेतुका इति मन्यमान एवं पृच्छति. क्लिष्टा धर्मा इति. अविशेषितत्वात् पृथग्जनार्यसंतानजा इति गम्यते. यश् च दर्शनप्रहातव्यानां धर्माणां विपाक इति. अर्थपरिसमाप्त्यर्थम् एतद् उक्तं. नैतद् उदाहरणं. अव्याकृताः संस्कृता धर्मा इति. निवृताव्याकृता अनिवृताव्याकृताश् च गृह्यन्ते. निवृताव्याकृताः कामधातौ सत्कायान्तग्राहदृष्टितत्संप्रयुक्तसमुत्था धर्मा रूपारूप्यावचरास् [तिब्. 197ब्] च क्लिष्टा धर्माः. संस्कृतग्रहणं आकाशाप्रतिसंख्यानिरोधनिरासार्थं.
परमव्याकृते ध्रुवे
इति तयोर् अव्याकृतत्वात्. तत्र कामावचराः क्लिष्टा धर्मा यथायोगं सभागसर्वत्रगसहभूसंप्रयुक्तकहेतुभूतैस् तैर् एव सत्कायदृष्ट्यादिभिर् अव्याकृतहेतुकाः. नान्यै रागादिभिः. ऊर्ध्वभूमिकास् त्व् अन्यैर् अपीति सुगमम् एतत्. अनिवृताव्याकृताः सभागहेतुनानिवृताव्याकृतहेतुकाः. अकुशलाः कामावचरा रागादयः. ते च सर्वत्रगहेतुना सत्कायदृष्ट्यादिहेतुकाः. इदम् अत्रोदाहरणं. अकुशलाश् चेति ह्य् अविशेषितत्वात् दर्शनप्रहातव्या भावनाप्रहातव्याश् च गृह्यन्ते. इदम् अत्र द्वितीयज्ञापकं. यत् तद् अन्यत् क्लिष्टं दुःखं सत्यम् इति तृतीयं ज्ञापकं. तदन्यद् धि क्लिष्टं दुःखसत्यं दर्शनप्रहातव्यं भावनाप्रहातव्यं च अविशेषितत्वात् गृह्यते. सर्वत्रगहेतुना ( अभिध्-क्-व्य् 211 ) हि भावनाप्रहातव्यं पृथग्जनानाम् इवार्याणाम् अपि सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुर् इति व्याख्यातम् एतत्. इदं तर्हि प्रज्ञप्तिभाष्यम् इति. यद्य् अकुशला अव्याकृतहेतुका अपि भवन्ति न केवलम् अकुशलहेतुकाः प्रज्ञप्तिभाष्यं कथं नीयते. स्यात्. आर्यपुद्गलः कामवैराग्यात् [तिब्. 198अ] परिहीयमाणो यस् तत्प्रथमतः क्लिष्टां चेतनां संमुखीकरोतीति.कामवैराग्यपरिहाणिकाले हि सा आर्यपुद्गलस्य चेतना सहभूहेतुना च संप्रयुक्तकहेतुना च अकुशलहेतुकैव. नाव्याकृतहेतुका सत्कायान्तग्राहदृष्ट्योः प्रहीणत्वात्. इति प्रज्ञप्तिभाष्यार्थो लक्ष्यत इति. अनेनाभिप्रायेण चोदयति. वैभाषिक आह. अप्रहीणं हेतुम् एतत् संधायोक्तम् इति. अप्रहीणं सहभूहेतुं संप्रयुक्तकहेतुं च संधाय अभिप्रेत्य एतत् प्रज्ञप्तिभाष्यम् उक्तं. दर्शनप्रहातव्यो हि सत्कायदृष्ट्यादिकः तस्याश् चेतनाया हेतुः. प्रहीणत्वात् दर्शनमार्गेण नोक्तः प्रज्ञप्तिभाष्य इति.
(इइ.55च्द्) अकुशलाः कुशलसास्रवाश् चेति.
अकुशला अवश्यं सास्रवा एवेति न विशेष्यन्ते. कुशलास् तु द्विप्रकाराः सास्रवा अनास्रवाश् चेति. अतो विशेष्यन्ते. ये सास्रवाः कुशलाः. ते विपाकहेतुर् नानास्रवा इति. विपाकधर्मत्वाद् इति. विपक्तिप्रकृतित्वाद् इत्य् अर्थः.
दुर्बलत्वात् पूतिबीजवद् इति विस्तरः. यथा पूतीनि बीजानि अभिष्यन्दितान्य् अपि दुर्बलत्वान् नांकुरोत्पत्तिहेतुर् भवति. एवम् अव्याकृता धर्मास् तृष्णाभिष्यन्दिता अपि न विपाकोत्पत्तिहेतुर् भवन्ति दुर्बलत्वात्. अनास्रवा बलवन्तो ऽपि तृष्णानभिष्यन्दितत्वाद् विपाकं [तिब्. 198ब्] न निर्वर्तयंति. यथाद्भिर् अनभिष्यन्दितवाच् छुष्काणि बलवंत्य् अपि सारबीजानि नांकुरं निर्वर्तयंति. तद्वत्. पूर्वेषां स्वशक्तिवैकल्यम् अपरेषां सहकारिकारणान्तरवैकल्यं. किंप्रतिसंयुक्तम् इति. कस्मिं प्रतिसंयुक्तम्. किंप्रतिसंयुक्तं विपाकम् अप्रतिसंयुक्ताः कामादिष्व् अप्रतिसंयुक्ता अनास्रवा अभिनिर्वर्तयेषु. प्रतिसंयुक्तेन विपाकेन भवितव्यं. नाप्रतिसंयुक्तेन. कामधात्वादिप्रतिसंयुक्तधर्मस्वभावत्वात्. शेषास् त्व् इति विस्तरह्. अकुशलाः कुशलसास्रवाश् च शेषा उभयविधत्वात् उभयप्रकारत्वात् बलवदभिष्यंदितप्रकारत्वाद् इत्य् अर्थः. निर्वर्तयंति विपाकं यथा साराण्य् अभिष्यंदितानि बीजान्य् अंकुरं. तद्वत्.
विपाकस्य हेतुर् इति विस्तरः. यदि विपाक इति भावसाधनो घञ्. विपक्तिर् विपाक इति तत्र षष्ठीसमासः. विपाकस्य हेतुर् इति. अथ विपच्यते स्वयम् इति कर्मसाधनो घञ्. तत्र कर्मसाधनो विपाक एव हेतुर् विपाकहेतुर् इति. किं चातः कश् चातो दोषः. यदि विपाकस्य हेतुर् इति भावसाधनपरिग्रहः. विपाकजं चक्षुर् इत्य् एतन् न प्राप्नोति. न हि चक्षुर् विपक्तेर् जातं. किं तर्हि. विपक्तिहेतोः कर्मण इत्य् अर्घः. न हि विपाको हेतुह्. अथ विपाक एव ( अभिध्-क्-व्य् 212 ) हेतुर् इति कर्मसाधनपरिग्रहः. सिध्यते तद् विपाकजं चक्षुर् इति. कर्मैव हि [तिब्. 199] विपाको विपच्यत इति कृत्वा. किं तु कर्मणो विपाक इत्य् एतन् न प्राप्नोति. विपाको हि कर्मैवोच्यते न विपक्तिः. कर्मणो विपाक इति चात्र भावसाधनार्थ इष्टे न कर्मसाधनार्थ इति. तस्मात् कर्मणो विपाक इत्य् एतन् न प्राप्नोति. उभयथापि योग इत्य् उक्तं प्राग् इति
विपाकजौपचयिकाः. पंचाध्यात्मम्
इति अत्रोक्तं विपाकहेतोर् जाता विपाकजाः. मध्यपदलोपाद् गोरथवद् इति भावसाधनपरिग्रहः. फलकालप्राप्तं वा कर्म विपाक इत्य् उच्यते. विपच्यत इति कृत्वा. तस्माज् जाता विपाकजा इति कर्मसाधनपरिग्रहः. फलं तु विपक्तिर् एवेति विपाकः. फलविवक्ष्यायां भावसाधन एवं परिगृह्यत इत्य् अर्थः. तस्माद् विपाकजं चक्षुर् इति मध्यपदलोपात् कर्मसाधनपरिग्रहाद् वा सिध्यति. कर्मणो विपाक इति च सिध्यति. भावसाधनपरिग्रहात्. विवक्षितपूर्विका हि शब्दप्रतिपत्तिर् इति. विसदृशः पाको विपाक इति. हेतोर् विसदृशं फलम् इत्य् अर्थः. हेतुर् हि व्याकृत एव. फलं तु अव्याकृतम् एवेति. सहभूहेत्वादीनां तु सदृश एव पाक इति विशेषणं. [तिब्. 199ब्] अभिधर्मशास्त्र एवं व्युत्पाद्यते तेनेदं प्रत्य् आदिश्यते.
एकस्कंधको विपाकहेतुर् एकफल इति विस्तरः. इह प्राप्तयो वृक्षप्रपाटिकावच् चित्तादिभ्यः पृथग् अवस्थिताः. तासां परिपूरकन्यायेन पृथक् फलं वर्ण्यते. एकः स्कंधो ऽस्येत्य् एकस्कंधको विपाकहेतुः. (कायवाक्कर्म तज्जात्यादयश् च. वाक्कर्मणो रूपस्कंधसंगृहीतत्वात्.) यत्र स्कंधे प्राप्तयः. तत्रैव च तज्जात्यादय इत्य् एकस्कंधकः. यद् एव च प्राप्तीनां फलं तद् एव तज्जात्यादीनाम् इति. साधारणफलत्वात् एकफलः. द्विस्कंधक एकफलो विपाकहेतुः. कायवाक्कर्म तज्जात्यादयश् च. कायवाक्कर्मणो रूपस्कंधसंगृहीतत्वात् तज्जात्यादीनां च चंस्कारस्कंधसंगृहीतत्वात् द्विस्कंधकः. एकफलश् च. तेषाम् अपृथक्फलत्वात्. चतुःस्कंधक एकफलः कुशलाकुशलाश् चित्तचैत्ता इति. ते सह जात्यादिभिर् इति. तेषां चित्तचैत्तानां यथायोगं वेदनासंज्ञासंस्कारविज्ञानस्कंधसंगृहीतत्वात्. जात्यादीनं च संस्कारस्कंधसंगृहीतत्वाच् चतुःस्कंधको विपाकहेतुर् एकफलः साधारणफलत्वात्. न हि चित्तस्यान्यत् फलम् अन्यच् चैत्तादीनाम् इति असमाहितत्वात्. कामधातौ पंचस्कंधको विपाकहेतुर् नास्ति. न ह्य् अत्र रूपस्कंधसंगृहीतं कायवाक्कर्म चित्तचैत्तैर् एकफलं [तिब्. 200अ] भवति. पृथक्कलापत्वात्. त्रिस्कंधकस् तु त्रिष्व् अपि धातुषु नास्ति चित्तचैत्तानाम् अवश्यम् एकफलत्वात्. यथायोगं चतुःस्कंधस्वभावत्वात्. ( अभिध्-क्-व्य् 213 ) रूपधाताव् एकस्कंधक इति विस्तरः. प्राप्तिः सह जात्यादिभिः संस्कारस्कंधसंगृहीतेत्य् एकस्कंधकः. तथैव साधारणफलत्वात् एकफलः. असंज्ञिसमापत्तिर् अपि सह जात्यादिभिः तथैव वक्तव्या. विज्ञप्ते रूपस्कंधसंगृहीतत्वात्. जात्यादीनां च संस्कारस्कंधस्वभावत्वात्. द्विस्कंधक एकफलः पूर्ववत्. कुशले चेतस्य् असमाहिते ऽनुपरिवर्तिरूपं नास्तीति रूपस्कंधवर्जितवेदनादिस्कंधसंगृहीतत्वात् चतुःस्कंधकः. पंचस्कंधकः समाहिते चेतसि. अनुपरिवर्तिरूपस्य चित्तादिभिर् एकवर्तित्वात्. आरूप्यधाताव् इति विस्तरः. तत्र सर्वम् एव रूपं नास्तीत्य् एकस्कंधकश् चतुःस्कंधकश् च विपाकहेतुः. प्राप्तिर् इति. तत्र सह स्वजात्यादिभिर् एकस्कंधकः पूर्ववत्. निरोधसमापत्तिर् अपि सह स्वजात्यादिभिर् एकस्कंधको विपाकहेतुर् एकफल इति सुगमं.
अस्ति कर्मेति विस्तरः. यस्य जीवितेन्द्रियं विपाकः. तस्य कर्मणो ऽवश्यं तज्जीवितेन्द्रियं तज्जात्यादयश् च विप्रयुक्ता विपाकः. [तिब्. 200ब्] तच् चैतत् सर्वं धर्मायतनसंगृहीतम् इत्य् एकम् आयतनं विपाको विपच्यते. यस्य मनआयतनं. तस्य द्वे मनोधर्मायतने. तस्य हि मनआयतनस्य कलापे अवश्यं वेदनादयः सहभुवो जात्यादयश् च विपाकरूपा भवंति. वेदनादिजात्यादयो धर्मायतनसंगृहीता इति ते द्वे मनोधर्मायतने विपाको विपच्यते. एवं यस्य स्प्रष्टव्यायतनम् इति. तस्य स्प्रष्टव्यस्यावश्यं जात्यादयस् संतीति धर्मायतनम् अपि विपच्यते. न केवलं स्प्रष्टव्यायतनम् इति द्वे आयतने तस्य विपच्येते. यस्य कायायतनं तस्य तृईणि. तद् एव कायायतनं स्प्रष्टव्यायतनं च तदाश्रयभूतचतुष्कं. तस्यावश्यं भूतचतुष्काश्रितत्वात्. तस्य च जात्यादिभिर् भवितव्यम् इति धर्मायतनम् अपि तत्र तृतीयं विपच्यते. एवम् इति विस्तरः. एवं यस्य रूपगंधरसायतनानाम् अन्यतमद् विपाकः. तस्य त्रीण्य् आयतनानि विपाकः. तद् एवायतनं रूपादीनाम् अन्यतमत् स्प्रष्टव्यायतनं च तदाश्रयभूतस्वभावं धर्मायतनं च तज्जात्यादिस्वभावम् इति. यस्य चक्षुरायतनं. तस्य चत्वारि. तद् एव चक्षुः कायायतनं चावश्यं चक्षुःकायप्रतिबद्धवृत्तिवात्. स्प्रष्टव्यधर्मायतने च पूर्ववत्. एवं यस्येति विस्तरः. एवं यस्य श्रोत्रादीनाम् [तिब्. 201अ] अन्यतमद् विपाकः. तस्यापि चत्वार्य् आयतनानि विपाकः. तद् एव श्रोत्रादीनाम् अन्यतमद् आयतनं कायस्प्रष्टव्यधर्मायतनानि च पूर्ववत्. अस्ति तत् कर्मेति विस्तरः. पंच यावद् एकादशायतनानीति संभवतः. न तु द्वादशायतनानि विपाकः. शब्दायतनस्याविपाकस्वभावत्वात्.
अत्राचार्यवसुमित्रो व्याख्यापयति. अस्ति कर्म यस्यैकम् एव धर्मायतनं विपाको विपच्यत इति नोपपद्यते. किं कारणं. आक्षेपककर्मफलत्वाज् ( अभिध्-क्-व्य् 214 ) जीवितेंद्रियस्य. यदि तावत् कामधातौ जीवितं विपाको विपच्यते. कर्मणस् तत्रावश्यं कायजीवितेंद्रिये भवतः कललाद्यवस्थासु अनुत्पन्ने षडायतने. उत्पन्ने तु षडायतने सप्तभिर् आयतनैर् भवितव्यं. चक्षुरादिभिः षड्भिर् मनआयतनेन चेति. रूपधाताव् अपि सप्तभिर् आरूप्यधाताव् अपि मनोधर्मआयतनाभ्याम् अवश्यं भवितव्यं. सकलजन्माक्षेपकफलत्वाज् जीवितेंद्रियस्य. को वात्र धातुर् अभिप्रेत इति ब्रूमः. आरूप्यधातुः. ननु च तत्राक्षेपककर्मफलत्वाज् जीवितेंद्रियस्य अवश्यं मनआयतनेनापि भवितव्यं. न च जीवितेंद्रियम् एव विपाको विपच्यते. वेदनाप्रभावितत्वाद् विपाकस्येति. वेदनया ऽपि तत्र भवितव्यम् इति. अत्रोच्यते. क्षणोत्पत्तिम् एतत् संधायोक्तं. यस्मिं क्षणे आरूप्योपपन्नस्य [तिब्. 201ब्] विपाकजं चित्तं न समुदाचरति. तस्मिन् क्षणे जीवितेंद्रियम् एव विपाको विपच्यते. विपाकस्य जीवितेंद्रियस्यैवोत्पादान् मनआयतनस्य चासमुदाचाराद् इति किम् अर्थं तत्समुदाचारे मनआयतनम् अपरं न भवतीति तस्य द्वे मनोधर्मायतने इति. तद् इदं विचार्यते. भवत्य् एवं चाक्सेपकस्य कर्मणो जीवितेंद्रियं विपाक इति. जीवितेंद्रिये च विपच्यमाने मनआयतनादीन्य् अपि विपच्यंते. नायतनांतरविपाकः प्रतिषिध्यते. विपाकहेतुर् इह चिंत्यते. अस्ति तत् कर्म यस्यैकम् एव धर्मायतनं विपच्यते. नान्यद् आयतनम् इत्य् एतावद् विवक्षितं. अथ मतं जीवितेंद्रियाक्षेपकस्यैव कर्मणो मनआयतनादीन्य् अपि विपच्यंते. नैकम् आयतनम् इति. अत्र ब्रूमः. तस्यैव कर्मणो ऽन्ये ऽपि मनआयतनादयस् तत्र वर्तमाना विपाको न पुनर् अन्यस्य कर्मण इति. किं कृतो ऽयं नियमः. अस्ति हि संभवो यद् एकस्य कर्मणो निकायसभागो विपाकः. ऽन्यस्य जीवितेंद्रियं. अन्यस्यैव च मनआयतनादीनि इति. ब्रूयास् त्वं यथा यस्य चक्षुरायतनं. तस्य चक्षुःकायस्प्रष्टव्यधर्मायतनानीति वचने यस्य चक्षुरायतनं विपाकः. तस्य कायायतनम् आवश्यकत्वात्. एवं मनआयतनादीन्य् अपि तस्यैव कर्मणो विपाक इति. [तिब्. 202अ] तन् न. क्वचिद् एव कस्यचित् प्रतिबद्धवृत्तित्वात्. न हि विना कायेंद्रियेण चक्षुरिंद्रियप्रादुर्भावो ऽस्ति. असत्य् अपि तु विपाके मनसि जीवितेंद्रियप्रादुर्भावो ऽस्तीति असमम् एतत्. आचार्यसंघभद्रस् त्व् आह. अस्ति कर्म यस्य धर्मायतनम् एव विपाको विपच्यते. यस्य जीवितेंद्रियं. यस्य चक्षुरायतनं. तस्य पंच. चक्षुःकायरूपस्प्रष्टव्यधर्मायतनानि. एवं यावज् जिह्वायतनं. यस्य कायायतनं. तस्य चत्वारः. कायरूपस्प्रष्टव्यधर्मायनानीति. रूपाविनाभावित्वात् रूपायतनम् अपि तस्यैव चक्षुर्निर्वर्तकस्य ( अभिध्-क्-व्य् 215 ) कर्मणो विपाक इति समयान्तरम् इच्छति. अयं त्व् आचार्यो न रूपायतनम् अवश्यं तस्यैव कर्मणो विपाक इत्य् अपरं पक्षम् अवलंबते. यस्य कायायतनं. तस्य त्रीणि. यस्य चक्षुरायतनं. तस्य चत्वारीति. न ह्य् अन्योन्यमविनाभाविनो जीवितनिकायसभागादीन्य् आवश्यकम् एकस्यैव कर्मणो विपाक इत्य् अभिप्रायः. ताव् एतौ पक्षौ विभाष्यकारैर् लिखितौ. तयोर् यो यस्मै रोचते. स तेन परिगृह्यते. इत्य् अलं प्रसंगेन.
अथ कथं कस्यचित् कर्मण एकम् आयतनं विपाको विपच्यते. कस्यचिद् यावद् एकादशेत्य् अत आह. विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवद् इति विस्तरः. पद्मदाडिमन्यग्रोधादीनां [तिब्. 202ब्] बीजानि विचित्रफलानि. मूलांकुरनालपत्त्रकेशराकिंजल्ककर्णिकारैश् च रूप्यं हि पद्मबीजादीनां. अनेकस्कंधशाखाविटपपत्त्रपल्लवांकुरपुष्पफलसमृद्धाश् च न्यग्रोधादयः पादपा जलधरायमाणा दृश्यंते. कानिचिद् अविचित्रफलानि. तद्यथा यवगोधूमादीनां बीजानि. एकरूपफलत्वात्. बीजधर्मतैषा. एकध्विकस्य कर्मणो ऽतीतस्य त्रैयध्विको विपाको विपच्यते अतीतप्रत्युत्पन्नानागतः. न तु द्वैयध्विकस्याप्य् अतीतस्य प्रत्युत्पन्नस्य चैकाध्विको ऽनागतः. न तु विपर्ययाद् इति. बहुक्षणिकस्य कर्मण एकक्षणिकः. मा भूद् अतिन्यूनं हेतोः फलम् इति वर्तते. न च कर्मणा सह विपाको विपच्यते. सहोत्पन्ने सहभूसंप्रयुक्तकहेत्वोर् व्यापारात्. विपाकहेतोश् च विसदृशपाकापेक्षत्वात्. नाप्य् अनंतरं विपाको विपच्यते. किं कारणं. समनंतरप्रत्ययआकृष्टत्वात् समनंतरक्षणस्य. यस्मात् समनंतरक्षणः समनंतरप्रत्ययबलेनाकृष्टो न विपाकहेतुबलेन. यद्य् अप्य् असौ समनंतरप्रत्ययो विपाकहेतुः इत्थं चैतद् एव. यस्मात् समनंतरक्षणो विपाकहेतोः समनंतरप्रत्ययात् कदाचित् कुषलः कदाचिद् अकुशलः कदाचिद् अव्याकृतः. [तिब्. 203अ] अन्यथा हि अव्याकृत एव स्यात्. अथ वा समनंतरक्षणस्य अविपाकस्वभावस्य समनंतरप्रत्ययाकृष्टत्वाद् इत्य् अभिप्रायः. प्रवाहापेक्षो हि विपाकहेतुः चित्तचैत्तादिप्रवाहे सति अतिक्रांते विपाकहेतुर् विपाकं दद्यात्. धर्मतैषेत्य् अभिप्रायः.
(इइ.56अब्) उक्तम् एषाम् अर्थतो ऽध्वनियम इति. अर्थत उक्तो न शब्दत इत्य् अर्थः. द्विविधं हि वचनं स्वशब्दाभितं अर्थोक्तं च. कथं.
सभागहेतुः सदृशाः स्वनिकायभुवो ऽग्रजाः.
तथा
सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगा
इति वचनात्. सभागसर्वत्रगहेतू अतीतप्रत्युत्पन्नाव् एव स्तो नानागतौ. अविशेषवचनाद् एव सहभूसंप्रयुक्तकविपाकहेतवस् त्रैयध्विका इत्य् अर्थत उक्ताः. सभागसर्वत्रगहेतू एव हि पूर्वोत्पन्नौ. पूर्वोत्पन्नाव् एव च ताव् इत्य् अवधारणात्. परस्परफलत्ववचनात्. चिंताद्यकुशलादिस्वाभाव्याच् चैषाम् अनध्वपतितत्वं व्यावर्तितं. सूत्र्यत इति. सूत्रं सूत्री वा क्रियते सूत्र्यते. उक्तं चात्र कारणम् इति. कथम् उक्तं. [तिब्. 203ब्] निष्यंदफलेन हि सफलः सभागहेतुः. तच् चानागतस्यायुक्तं पूर्वपश्चिमताभावाद् इति एवमादि. यच् चैतत् कारणम् उक्तं सभागहेतोः. सर्वत्रगहेतोर् अप्य् उक्तरूपं वेदितव्यं. सभागहेतुकल्पो हि सर्वत्रगहेतुः. सभागहेतुर् हि क्लिष्टः क्लिष्टानां. सर्वत्रगहेतुर् अपि क्लिष्टः क्लिष्टानाम् एव. क्लिष्टधर्मसामान्यकारणत्वेन त्व् अयं सभागहेतुः पृथग् व्यवस्थाप्यत इत्य् उक्तम् एतत्. सभागहेतुवद् एव चायं नानागतः. निष्यंदफलेन च सफल इति. तद्वद् एवास्य वार्त्ता.
त्र्यध्वकास् त्रय
इति. त्र्यध्वका एव त्रयस् त्रय एव त्र्यध्वका इति अवधारणात्. कारणहेतुर् अन्यथा भवति. कथं चान्यथा. सर्वाध्वगश् चध्वविनिर्मुक्तश् चेति. स्वतो ऽन्ये हि स्वभाववर्ज्याः सर्वधर्माः कारणहेतुर् इति. अत एवम् एव भवति नान्यथा.
(इइ.56च्द्) हेतुः फलम् इति अन्योन्यापेक्षयैतत् द्वयम् इत्य् अतः पृच्छति. किं पुनस् तत् फलं यस्यैतद्धेतवः इति.
संस्कृतसविसंयोगं फलम्
इति. आकाशाप्रतिसंख्यानिरोधवर्ज्याः सर्वधर्माः फलम् इत्य् उक्तं भवति.
एवं तर्हीति विस्तरः. फलत्वाद् असंस्कृतस्य फलम् असंस्कृतम् इति कृत्वा [तिब्. 204अ] हेतुना स्वतो ऽन्येनास्य भवितव्यं. यस्य हेतोस् तद् असंस्कृत फलं. हेतुत्वाच् चासंस्कृतस्य स्वतो ऽन्येनास्य फलेन भवितव्यं. यस्य फलस्य तद् असंस्कृतं हेतुः. न्संस्कृतस्य ते हेतुफले. असंस्कृतं प्रतिसंख्यानिरोधलक्षणं विसंयोगफलं भवति. न च तस्य हेतुर् अजन्यत्वात्. हेतुश् च भवति संस्कृतोत्पादाविघ्नभावावस्थानात्. न च तस्य फलं व्यवस्थाप्यते. फलप्रतिग्रहणदानासमर्थत्वाच् च. अत एव च षड्विधहेत्वसंभवाद् इति विस्तरः. न सहभूहेतुर् अस्य संप्रयुक्तकहेतुर् वा संभवति. तेन कस्यचिद् धर्मस्यासहभवत्वात्. असंप्रयोगाच् च. न सभागहेतुर् अस्य कश्चिद् भवति. असंस्कृतस्यासदृशत्वात्. समानभूमित्वायोगाच् च. अत एव चास्य न सर्वत्रगहेतुः. अस्य चाक्लिष्टत्वात्. ( अभिध्-क्-व्य् 217 ) न चास्य विपाकहेतुः. असंस्कृतस्याविपाकस्वभावत्वात्. विपाको हि सत्त्वसंख्यातो धातुपतितो धर्मः. अनुत्पाद्यत्वाद् एव चास्यैते हेतवो न भवंति. अनुत्पाद्यत्वाद् एव चास्य कारणहेतुर् न भवति. अत एवोच्यते. कस्मान् मार्गो विसंयोगस्य कारणहेतुर् नेष्यते. यस्मात् स उत्पादाविघ्नभावेन व्यवस्थापितः. न चासंस्कृतम् उत्पत्तिमद् इति. अनध्वपतितत्वाच् चास्य हेतवो न भवन्ति. अध्वपतितस्य हि धर्मस्य हेतुर् व्यवस्थाप्यते. [तिब्. 204ब्] एवं षड्विधहेत्वसंभवान् नासंस्कृतस्य हेतुः. पंचविधफलासंभवाच् च नासंस्कृतस्य फलं. कस्मात्. सामान्यतस् तावद् अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात्. तथा ह्य् उक्तं.
वर्तमानाः फलं पंच गृह्णन्ति. द्वौ प्रयच्छतः
इत्य् एवमादि. किं च न तावद् अधिपतिफलं भवति. तद् धि सहोत्पन्नं पश्चादुत्पन्नं चेष्यते.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्
इति. तच् चानुत्पत्तिमद् इति नास्य सहजं पश्चाज्जातं वा फलं भवति. अनुत्पत्तिमत्त्वाद् एव. न च निष्यन्दफलम्. उत्पत्तिमतो हि सदृशो धर्म उत्पत्तिमान् निष्यन्दफलम्. अत एव च न पुरुषकारफलं असंस्कृतस्य पुरुषकाराभावात्. यस्य हि बलेन य उत्पद्यते प्राप्यते वा. स तस्य पुरुषकारफलं. अत एव च न विसंयोगफलं. मार्गस्यैव हि बलेन विसंयोगः प्राप्यः. न चासंस्कृतो मार्ग इति. न चापि विपाकफलं. विपाकहेतुवैधर्म्यात्. सास्रवो हि विपाकहेतुः. न चासंस्कृतं सास्रवम् इति. अथ वा पंचविधहेतुवैधर्म्यात् पंचविधफलासंभव इति नासंस्कृतस्य फलं सम्भवति. यद् मार्गो विसंयोगस्य कारणहेतुर् नेष्यते कस्येदानीं तत् फलं. हेतुमता हि फलेन भवितव्यं कथं वा केन वा प्रकारेण तत् फलं. आह. यत् तावद् उक्तं कस्येदानीं तत् फलम् इति [तिब्. 205अ] मार्गस्य. यद् अप्य् उक्तं कथं वा तत् फलम् इति फलं तद्बलेन मार्गबलेन प्राप्तेर् इत्य् अर्थः. अथ वैवं पदसंबन्धः. कस्य तत् फलम् इति. मार्गस्य तत् फलं. कथम् वा तत् फलम् इति. तद्बलेन प्राप्तेर् इति. प्राप्तिर् एव तर्हि मार्गस्य फलं प्राप्नोति. तस्याम् एव प्राप्तौ तस्य मार्गस्य सामर्थ्यात् न विसंयोगः. किं. मार्गस्य फलम् इत्य् अधिकृतं. तत्रासामर्थ्याद् इति. एवं तत्र विसंयोगे मार्गस्यासामर्थ्याद् इत्य् अर्थः. तस्मान् न च तावद् अस्य मार्गः कथंचिद् अपि हेतुः. षण्णां हेतूनाम् अन्यतमो ऽपि हेतुर् अस्य मार्गो न भवति. फलं चास्य विसंयोगः. प्राप्यं फलं न जन्यम् इत्य् अभिप्रायः. पंचविधो हि हेतुर् इति केचिद् इच्छंति. कारको ज्ञापको व्यंजको ध्वंसकः प्रापकश् चेति. कारको हेतुर् बीजम् अंकुरस्य. ज्ञापको धूमो ( अभिध्-क्-व्य् 218 ) ऽग्नेः. व्यंजको दीपो घटस्य. ध्वंसको मुद्गरो घटस्य. प्रापको रथो देशांतरप्रापणीयस्येति. तद् एवं मार्गः प्रापको ऽस्य. न जनको हेतुः. प्राप्यं च विसंयोगफलं न जन्यम् इति दर्शितं भवति. अथासत्य् अधिपतिफल इति विस्तरः. असंस्कृतस्य यदि फलं स्यात् अधिपतिफलं स्यात्. तस्य कारणहेतुत्वेन व्यवस्थापनात्.
नासंस्कृतस्य ते
इति वचनात् तद् अप्य् अस्य [तिब्. 205ब्] निवारितम् इति परिच्छिन्ने चोदकः पृच्छति. अथासत्य् अधिपतिफले कथम् असंस्कृतं कारणहेतुः. उत्पत्त्यनावरणभावेन कारणहेतुः. उत्पत्त्यनावरणभाववचनात्. संस्कृतम् एव प्रतीदम् असंस्कृतम् कारणहेतुर् व्यवस्थाप्यते. नासंस्कृतं प्रतीति दर्शितं भवति. कस्माद् अस्य संस्कृतवत् फलं न व्यवस्थाप्यत इत्य् अत आह. न चास्य फलम् अस्ति. अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वाद् इति. अध्वसंगृहीतस्यैव हि धर्मस्य फलप्रतिग्रहणदानसामर्थ्यम् अस्ति नान्यस्य. वक्ष्यति हि
वर्तमानाः फलं पंच गृह्णन्ति द्वौ प्रयच्छत
इति. उक्तं तु पर्यायेण हेतुर् इति. पर्यायेणोक्तं न स्वशब्देनेत्य् अर्थः.
ते ऽप्य् अनित्या इति. ते ऽप्य् अनित्या एवेत्य् अवधारणाद् अर्थान् न नित्यो हेतुर् इत्य् उक्तं भवति. आलंबनप्रत्ययो ऽपीति. यथा हेतवो ऽत्रानित्या उक्ताः. एवं प्रत्यया अप्य् अनित्या एवोक्ताः ये हेतवो ये प्रत्यया इति वचनात्. तस्माद् असंस्कृतम् आलंबनप्रत्ययो न प्राप्नोति. उत्पादायेत्य् अवधारणाद् इति. ये हेतवो ये प्रत्यया रूपस्योत्पादाय. ते ऽप्य् अनित्याः. न तु ये ऽनुत्पादाय. द्विविधा हि प्रत्ययाः. जनकाश् चाजनकाश् च. आलम्बनप्रत्ययश् चाजनकः आलम्बनमात्रत्वात्. आलम्बनप्रत्ययो हि निरुध्यमाने धर्मे कारित्रं करोति. वर्तमानैश् चित्तचैत्तैर् ग्रहणात्.
[तिब्. 206अ] निरुध्यमाने कारित्रं द्वौ हेतू कुरुत
इति वचनात्. ननु च हेतवो ऽपीति विस्तरः. हेतुर् अपि जनकश् चाजनकश् च. तस्माद् असंस्कृतस्यानावरणभावमात्रेणाजनकस्यापिकारणहेतुत्वाप्रतिषेधः. उक्त आलम्बनप्रत्ययः सूत्र इति. चतस्रः प्रत्ययता इत्य् अत्र सूत्रे. न तु प्रतिषिद्धः. धर्मताया अविरोधान् न दोष इत्य् अभिप्रायः. सूत्राणि च बहून्य् अन्तर्हितानि. मूलसंगीतिभ्रंशात्. अत्राचार्यो न निर्बंधं करोति. धर्मताविरोधो नास्तीति. किं तु असंस्कृतम् एव विचार्यते ऽस्ति वा न वेति. सर्वम् एवासंस्कृतम् इति. न केवलं प्रतिसंख्यानिरोधः. रूपवेदनादिवद् इति. आदिशब्देन संज्ञादीनां ग्रहणं. यथा रूपाद् वेदनाभावान्तरं वेदनायाश् च संज्ञा यावत् संस्कारेभ्यो विज्ञानं. तथा न रूपादिभ्यः पंचभ्यो ( अभिध्-क्-व्य् 219 ) ऽसंस्कृतं भावान्तरम् अस्ति. अतो नासंस्कृतं द्रव्यम् इति सौत्रान्तिकाः. स्प्रष्टव्याभावमात्रम् इति. सप्रतिघद्रव्याभावमात्रम् इत्य् अर्थः. अविन्दन्त इत्य् अलभमानाः. उत्पन्नानुशयजन्मनिरोधे उत्पन्नानाम् अनुशयानां जन्मनश् च निरोधे प्रतिसंख्याबलेन प्रज्ञाबलेन अन्यस्यानुशयस्य जन्मनश् च अनुत्पादः प्रतिसंख्यानिरोधः [तिब्. 206ब्]. तद् एवं अनुशयनिरोधः समुदयसत्य निरोधो जन्मनिरोधो दुःखसत्यनिरोध इत्य् उक्तं भवति. सोपधिशेषनिरुपधिशेषनिर्वाणव्यवस्थापनार्थं चोभयनिरोधवचनं. सौत्रान्तिकनयेन के ऽ; नुशयाः. कथं च तेषां जन्मनश् च प्रतिसंख्याबलेन निरोधः. अष्टानवतेर् अनुशयानां वासना ऽनुशयः. यस्य चानुशयस्य यः प्रतिपक्षो मार्गः प्रतिसंख्या. तेन सह प्रथमे क्षणे सो ऽनुशय उत्पद्यते. तद्बलाद् द्वितीयादिषु क्षणेषु तस्य निरोधः. तद्बलाद् एव च पौनर्भविकस्य जन्मनः अप्रतिसंधिको निरोधः. तद्यथा निकायसभागशेषस्येति विस्तरः. निकायसभागो मनुष्यत्वादिलक्षणः. आत्मभावो वा पंचस्कन्धलक्षणः. तस्य शेषस् तल्लक्षण एवोत्पद्यमानः. तस्य निकायसभागशेषयान्तरामरणे आयुष्यपरिसमाप्त एव प्रत्ययवैकल्याद् यो ऽनुत्पादः. सो ऽप्रतिसंख्यानिरोधः. प्रत्ययवैकल्यं पुनर् अंत्यानां स्कंधानां मरणभवाख्यानां निकायसभागसंबन्धने यद् असामर्थ्यं उपकरणादिप्रत्ययासामग्र्यात्. अतो ऽसौ प्रतिसंख्यानिरोध इति. सोपधिशेषो निर्वाणधातुः. दुःखस्यानुत्पाद इति निर्वुपधिशेषः. सो ऽपि तु दुःखस्यानुत्पादः. यो ऽप्रतिसंख्यानिरोध इत्य् उक्तः. नान्तरेण प्रतिसंख्यां सिध्यति. उत्पत्तिकारणानुशयवैकल्यस्य [तिब्. 207अ] प्रतिसंख्यानकृतत्वात्. अतः प्रतिसंख्यानिरोध एवासौ. स्वरसं निरोधाद् इति. स्वात्मना निरोधान् न प्रज्ञासामर्थ्येनेत्य् अर्थः. अविनष्टे तदभावाद् इति. अविनष्टे तस्मिं अनुशये तस्याप्रतिसंख्यानिरोधस्याभावात्. अकृतोत्पत्तिप्रतिबन्धानाम् इति. अकृते उत्पत्तौ प्रतिबन्ध एषाम् इति अकृतोत्पत्तिप्रतिबन्धाः. तेषां. य उत्पत्तिप्रतिबन्धभावः. एतद् अत्र प्रतिसंख्यायाः सामर्थ्यं. यदि तर्ह्य् अनुत्पाद एवेति विस्तरः. प्रहाणं हि निर्वाणम् अभिप्रेतं. अनागतस्यैव चानुत्पाद इति यदि निर्वाणम् उच्यते. अतीतप्रत्युत्पन्नस्योत्पन्नत्वात् नास्त्य् अनुत्पाद इति कथम् इदम् उक्तं सूत्रे. अतीतानागतप्रत्युत्पन्नस्य दुःखस्य प्रहाणाय संवर्तन्ते इति तत् सूत्रपदं कथं नीयते. यस्य पुनर् द्रव्यान्तरं निर्वाणं. तस्यातीतप्रत्युत्पन्नयोर् अपि तदासेवनादिभिर् निर्वाणं प्राप्यत इति सुनीतम् इदं सूत्रं भवतीति. तदालम्बनक्लेशप्रहाणाद् इति. अतीतप्रत्युत्पन्नदुःखालम्बनक्लेशप्रहाणाद् इत्य् अर्थः. यो रूपे छन्दराग इति. छन्दो ऽनागते ऽर्थे प्रार्थना. रागस् तु प्राप्ते ऽर्थे ऽध्यवसानं. विस्तरेण यावद् विज्ञानम् इति. यो वेदनायां संज्ञायां संस्कारेषु विज्ञाने ( अभिध्-क्-व्य् 220 )([तिब्. 207ब्] छन्दरागः. तं प्रजहीत. छन्दरागे प्रहीणे एवं वस् तद् विज्ञानं प्रहीणं भविष्यते. एवं त्रियध्विकस्यापि दुःखस्येति. छन्दरागप्रहाणम् एव रूपादिदुःखप्रहाणं. तस्य चानागतस्य छन्दरागस्यानुत्पादो भवति. अतस् त्रियध्विकस्यापि दुःखस्य प्रहाणं युज्यत इति दर्शयति. एष एव नय इति. यद्य् अतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेति पाठः. तत्राप्य् एष एव नय इति. यः क्लेशे रागे द्वेषे वा छन्दरागः. तं प्रजहीतेति विस्तरः. तदालम्बनक्लेशप्रहाणाद् अपि क्लेशस्य प्रहाणं. न स्वभावत एवेति त्रैयध्विकस्यापि क्लेशस्य प्रहाणं युज्यते इत्य् अर्थः. अथ वेति विस्तरः. पूर्वजन्मनि भवः पौर्वजन्मिकः. इहजन्मनि भव ऐहजन्मिकः. तद् एवम् ऐकक्षणिकः क्लेशः पर्युदस्तो भवति. कथम् एतत् प्रत्येतव्यं. पौर्वजन्मिकः सर्वक्लेशः सम्बध्यते ऐहजन्मिकश् च. न पुनर् ऐकक्षणिक इत्य् अत आह. यथा तृष्णा विचरितेष्व् इति विस्तरः.
अन्यत्राप्य् एवं दर्शनात् एवं प्रत्येतव्यं. अष्टादश तृष्णाविचरितानि कथम् अतीते ऽध्वनि एकस्मिं क्षणे योज्यंत इति अतो ऽतीतं जन्माधिकृत्योक्तं. अष्टादश तृष्णाविचरितानि. अस्मीति भिक्षवः सतीत्थम् अस्मीति [तिब्. 208अ] भवति. एवम् अस्मीति अन्यथास्मीति सद् अस्मीति असद् अस्मीति भवति. भविष्यामीत्य् अस्य भवति. न भविष्यामीत्थं भविष्यामि एवं भविष्यामि अन्यथा भविष्यामीत्य् अस्य भवति. स्याम् इत्य् अस्य भवति. इत्थं स्याम् एवं स्यां अन्यथा स्याम् इत्य् अस्य भवति. अपि स्याम् इत्य् अस्य भवति. अपीत्थं स्याम् अप्य् एवं स्याम् अप्य् अन्यथा स्याम् इत्य् अस्य भवति. एवं यावत् प्रत्युत्पन्नं. तथेहापि पौर्वजन्मिकः कृत्स्नः क्लेशप्रवाहः अझजन्मिकश् च संबध्यते नैकक्षणिक इति. तद् एवं प्रसाध्यताभिप्रायं ब्रवीति. तेन च क्लेशद्वयेनेति विस्तरः. पौर्वजन्मिकेनैहजन्मिकेन चेति क्लेशद्वयेनास्यां संततौ प्रत्युत्पन्नायां बीजभावो वासनालक्षणं सामर्थ्यम् आहितो ऽनागते ऽस्योत्पत्तये. तस्य बीजभावस्य प्रहाणात् तद् अपि क्लेशद्वयं प्रहीणं भवति. यथा विपाकक्षयाद् विपाकोपभोगात् कर्म क्षीणं भवतीत्य् उपचर्यते. तद्वत्. [तिब्. 208ब्] अनागतस्य तर्हि कथं प्रहाणं व्यवस्थाप्यते. न हि तेन संततौ बीजभाव आहितो यस्य प्रहाणात् प्रहाणं भवेद् इत्य् अत आह. अनागतस्य पुनर् दुःखस्य क्लेशस्य वा बीजभावाद् अत्यन्तम् अनुत्प्डः प्रहाणम् इति. बीजभावश् च प्रतिसंख्याबलेन भवति. न हि निरुद्धे ऽतीते निरोधाभिमुखे च प्रत्युत्पन्ने यत्नः प्रतिपक्षोत्पादने यत्नः सार्थकः सप्रयोजनम् इत्य् अर्थः. विरागस् तेषाम् अग्र इति. रागक्षयो विरागः प्रतिसंख्यानिरोध इत्य् अर्थः. कथम् असताम् असन्न् अग्रो भवितुम् अर्हतीति. कथम् असताम् आकाशादीनाम् असंस्कृतानाम् असन्न् असंस्कृतो विरागो ऽग्रो भवितुम् अर्हतीति. अस्योत्तरं ब्रवीति. अभावो ऽपि कश्चिद् इति विस्तरः. द्वितीयस्य चेति. द्वितीयस्य समुदयसत्यस्यानंतरं
( अभिध्-क्-व्य् 221 ) दृष्टं स्वयं प्रज्ञया उद्दिष्टं परेभ्यो देशनया त्रयाणां पूरणं तृतीयं भवति. किं स्याद् इति. को दोशः स्याद् इत्य् अर्थः. किं च पुनः स्याद् इति. को गुणः स्याद् इत्य् अर्थः. किं च पुनः स्याद् इति गुणपरिप्रश्न आह. वैभाषिकपक्षः पालितः स्याद् इति. यत् तूक्तं किं स्यात् को दोषः स्याद् इति अत्रोच्यते. अभूतं तु परिकल्पितं स्याद् इति. दोषः स्याद् इत्य् अर्थः. रूपवेदनादिवद् इति. प्रत्यक्षतः. [तिब्. 209अ] चक्षुरादिवद् इति. कर्मतो नुमानत इत्य् अर्थः. असकृद्व्याख्यातम् एतत्. वस्तुन इति. रागादिवस्तुनः. हेतुफलादिभावसंभवाद् इति. आदिशब्देन स्वस्वाम्यवयवावयविसम्बन्धादयो गृह्यन्ते. न हि वस्तुनो निरोधे हेतुः फलम् अवयवावयवीत्येवमादि. तस्यैतर्हि प्राप्तिनियम इति विस्तरः. तस्य निरोधस्य यो ऽयं प्रातेर् नियमः. अस्यैव निरोधस्य प्राप्तिर् नान्यस्येति तस्मिं प्राप्तिनियमे को हेतुः. न हि निरोधस्य प्राप्त्या सर्धं कश्चित् संबन्धो ऽस्ति हेतुफलादिभावासंभवात्. दृष्तधर्मनिर्वाणप्राप्त इति. सोपधिशेषनिर्वाणस्थ इत्य् अर्थः. यद्य् अभावः कथम् अस्य प्राप्तिः स्यात्. प्रतिपक्षलाभेनेति विस्तरः. आर्यमार्गलाभेन क्लेशस्य पुनर्भवस्य चोत्पादे ऽत्यन्तविरुद्धस्याश्रयस्य लाभात् प्राप्तं निर्वाणम् इत्य् उच्यते. अभावमात्रत्वम् इति. मात्रशब्दो द्रव्यान्तरत्वनिवृत्त्यर्थः. यत् खल्व् अस्येति विस्तरः. प्रहाणं यावद् अप्रादुर्भाव इति पर्यायशब्दा एते. अप्रादुर्भाव इत्य् एतत् स्फुटम् इत्य् उदाहरणम् उक्तं. नास्मिं प्रादुर्भाव इत्य् अतो ऽप्रादुर्भावा इत्य् अधिकरणसाधनम् [तिब्. 209ब्] इति दर्शयन्ति. न तु अप्रादुर्भूतिर् अप्रादुर्भाव इति भावसाधनम् इत्य् अर्थः. यत एव तत्प्राप्तिः परिकल्प्यते यतो मार्गात् प्रहाणः प्राप्तः परिकल्प्यते. तस्मिं सति मार्गे प्राप्ते वा दुःखस्येष्यताम् अप्रादुर्भावः. किम् अन्येन निर्वाणेन परिकल्पितेन. विमोक्षस् तस्य चेतस इति. निरुपधिशेषनिर्वाणकाले भगवतः. यथावस्तु यथालम्बनं. संयोगस्य वस्तु यत्र क्लेशेन संयुज्यते. स वस्तुका धर्मा इति सहेतुकाः. परिग्रहवस्तु परिगृह्यत इति परिग्रहः. स एव वस्तु परिग्रहवस्तु.
(इइ.57) अन्ते ऽभिहितत्वाद् इति. कारिकाया अन्ते विपाकहेतुः पठितः. तस्य विपाकफलम् एव.
पूर्वः
कारणहेतुः श्लोकादौ पठितत्वात्. तस्य्-
आधिपजं फलं.
अधिपतिर् अधिपः. तस्माज् जातं अधिपजं अधिपतिफलम् इत्य् अर्थः. पूर्वस्याधिपतम् इति केचित् पठन्ति. अधिपतेर् इदं फलं आधिपतम् इति. आधिपत्यम् इति तु प्राप्नोति. दित्यदित्यादित्यपत्युत्तरपदाण् ण्य इत्य् अपवादात्. ( अभिध्-क्-व्य् 222 ) अथापवादविषये ऽप्य् उत्सर्गसमावेश इति भवेत्. भवेच् च तद्रूपं. एतद् एवाधिपत्यम् इति. यद् अनावरणभावमात्रावस्थानं. अंगीभावो ऽपि वास्तीति. प्रधानभावो ऽपि जनकभावो ऽपीत्य् अर्थः. तद् अनेन द्विविधस्यापि कारणहेतोः कारकस्य वाध्युपेक्षकस्य वाधिपतिफलम् [तिब्. 210अ] अस्तीति दर्शितं भवति अन्यत्रासंस्कृताट्. यस्माद् वक्ष्यति.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्.
इति. दशानाम् आयतनानाम् इति. चक्षूरूपायतनयोर् यावत् कायस्प्रष्टव्याय
तनयोः. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं यावत् कायं प्रतीत्य स्प्रष्टव्यानि चोत्पद्यते कायविज्ञानम् इति वचनात्. कारणहेतुर् एव चायं. न हि चक्षुरादीन्य् आयतनानि चक्षुर्विज्ञानादीनां सहभूहेत्वादयः. पंच हेतवः संभवंति. मनआयतनं तु मनोविज्ञानस्य सभागहेत्वादि संभवति. धर्मायतनम् अपि सहभूसंप्रयुक्तकहेत्वादि संभवतीति न कारणहेतुर् एवेत्य् अवधार्यते. तस्माद् दशानाम् इत्य् उक्तं न द्वादशानाम् इति. भाजनलोके च कर्मणां. किम्. अंगीभावो ऽस्ति कारणहेतोर् इत्य् अधिकृतं. भाजनलोको हि कुशलाकुशलकर्मजनितो ऽप्य् अव्याकृतो ऽपि न विपाकफलम् इष्यते. सत्त्वाख्यो विपाक इति लक्षणात्. तस्मात् कारणहेतोर् एतद् अधिपतिफलं. श्रोत्रादीनाम् अपि न केवलं चक्षुषो ऽस्ति. किं. चक्षुर्विज्ञानस्योत्पत्तौ पारंपर्येणाधिपत्यं. न साक्षात् यथा चक्षुषः. कथं ज्ञायत इति आह. श्रुत्वा द्रष्टुकामतोत्पत्तेः. द्रष्टुकामतायां च चक्षुर्विज्ञानम् उत्पद्यत इत्य् अभिप्रायः. [तिब्. 210ब्] एवमादि योज्यम् इति. घ्रात्वा द्रष्टुकामतोत्पत्तेर् इत्य् आदि योज्यं.
सभागसर्वत्रगयोर् निष्यन्दः
फलम् इति वर्तते. सभागसर्वत्रगहेत्वोर् एव निष्यन्दफलम् इत्य् अवधार्यते. पुरुषकारफलम् अपि हि तयोर् अनन्तरं संभवति.
पौरुषं द्वयोर्
इति. पुरुषकारफलम् एव सहभूसंप्रयुक्तकहेत्वोर् इत्य् अवधारणं. पुरुषकारस्य फलं पौरुसं. पुरुषकारफलम् इत्य् अर्थः. पुरुषभावाव्यतिरेकात् पुरुषकारः पुरुषभावान् न व्यतिरिक्तः. पुरुषकर्मैव हि पुरुषकारो न पुरुषाद् अन्यः. न हि कर्म कर्मवद्भ्यो ऽन्यद् इष्यते बौद्धैः. तस्मात् पुरुषकारस्य यत् फलं. तत् पुरुषस्यैवेति पौरुषम् इत्य् उच्यते. यस्य धर्मस्य यत् कारित्रम् इति. यस्य धर्मस्य यत् कर्म या क्रिया. सा तस्य पुरुषकार इत्य् अर्थः. ननु चान्तर्व्यापारपुरुषाभावे धर्ममात्रं पुरुष इति अतो धर्मकार इति प्राप्नोति. न पुरुषकार इत्य् अत आह. पुरुषकार इव हि पुरुषकारः. यथा लोके कल्पितस्य पुरुषस्य पुरुषकारः. ( अभिध्-क्-व्य् 223 ) एवं धर्मस्यापीति पुरुषकार इव पुरुषकारः. दृष्टान्तं कथयति. काकजंघा ओषधिर् इत्यादि. काकजंघाकारा ओषधिः काकजंघेत्य् उच्यते. मत्तहस्तीव यो दृष्टः शूरो वा. स मनुष्यो मत्तहस्तीति. किम् अन्येषाम् [तिब्. 211अ] इति. हेतूनां. अन्येषाम् अप्य् अस्तीति. सभागसर्वत्रगकारणहेतूनां. अन्यत्र विपाकहेतोः. कस्माद् इत्य् आह. यस्मात् सहोत्पन्नं समनन्तरोत्पन्नम् वा पुरुषकारफलम् इति. सहभूसंप्रयुक्तकहेत्वोर् हि सहोत्पन्नं फलम् उक्तं. तच् च पुरुषकारफलम् एव. न ह्य् अन्यत् फलं सहोत्पन्नम् अस्ति. सभागसर्वत्रगहेत्वोर् अनंतरोत्पन्नम् एव पुरुषकारफलं. कारणहेतोस् तूभयथा. किं पुनर् निष्यन्दफलाद् अधिपतिफलाद् वान्यत् पुरुषकारफलं. नेत्य् उच्यते. तद् एव हि फलं तत्तन् नाम लभते. तथा हि तद्धेतुसदृशोत्पत्तेर् निष्यन्दफलं. तद्बलेनोत्पत्तेः पुरुषकारफलं. अविघ्नभावावस्थानेनोत्पत्तेश् चाधिपतिफलम् इति. न चैव विपाकः. किं. सहोत्पन्नो वा समनन्तरोत्पन्नो वेत्य् अधिकृतं.
(इइ.58, 59) विपाको ऽव्याकृतो धर्म
इति विस्तरः.
अव्याकृत
एव
सत्त्वाख्य
एव
व्याकृतोद्भव
एवेत्य् अवधारणं.
अव्याकृत
इति अनिवृताव्याकृतो विवक्षितः. सत्त्व इति आख्या यस्य. स
सत्त्वाख्यः.
सत्त्वसंतानज इत्य् अर्थः. व्याकृताद् उद्भवतीति
व्याकृतोद्भवः.
औपचयिकनैष्यन्दिकौ तु न व्याकृताद् उद्भवतः. [तिब्. 211ब्] ननु च इन्द्रियमहाभूतोपचयो ध्यानविशेषसमापन्नस्य भवति. असाव् अपि व्याकृताद् उद्भवति. स विपाकः प्राप्नोति. निर्माणचित्तं चापि. तथैव समाधिचित्तसंभूतत्वात्. नैष दोषः.
व्याकृतोद्भव
इत्य् उच्छब्द उत्तरकालार्थः. व्याकृतात् कुशलाद् अकुशलाद् वा य उत्तरकालम् एव भवति न युगपन् नाप्य् अनन्तरं. स विपाक इति. समाधिजस् तूपचयः समाधिना सह चानन्तरं च भवति. निर्माणचित्तं त्व् अनंतरम् एव च भवति. विपाकश् च समानभूमिक एवाभिप्रेत इत्य् एतच् चोभयं भिन्नभूमिकम् ( अभिध्-क्-व्य् 224 ) अपि भवतीति न विपाकस्य प्रसंगः.
निष्यन्दो हेतुसदृश
इति. कुशलक्लिष्टानिवृतव्याकृतसादृश्यम् अधिकृत्य. यद्य् एवं कुशलसास्रवस्य हेतोर् अनास्रवं निष्यन्दफलं प्राप्नोति कुशलसादृष्यात्. न. निकायसादृश्याभावात्. समाननिकायो हि सभागहेतुर् इष्यते. न सर्वः. भूमितः क्लिष्टतया चास्य सादृश्यम् इति. अस्य सर्वत्रगहेतोः सादृश्यं भूमितः क्लिष्टतया च. केन सह. स्वफलेन. कथम् इति. भूमितस् तावत् सर्वत्रगहेतुः कामावचरो यावद् भावाग्रिकः. तत्फलम् अपि कामावचरं यावद् भावाग्रिकम् इति. क्लिष्टतया च सर्वत्रगहेतुर् अपि क्लिष्टः. तत्फलम् अपि क्लिष्टं. न तु प्रकारतः सादृश्यं यथा सभागहेतोः. [तिब्. 212अ] यस्य तु प्रकारतो ऽपि सादृश्यं. यस्य सर्वत्रगहेतोः स्वफलेन सह प्रकारतो ऽपि सादृश्यं. स सर्वत्रगहेतुर् अभ्युपगम्यते एव सभागहेतुर् इति. भूमिक्लिष्टत्वसादृश्याद् धि सर्वत्रगहेतुर् भवति. सभागहेतुश् च स भवति प्रकारतो ऽपि सादृश्यात्. अत एव चतुष्कोटिकः क्रियते. उभयस्वभावतया तृतीयकोटिसंभवात्. प्रथमा कोटिर् असर्वत्रगः सभागहेतुर् इति. रागादिकः सभागहेतुः. स हि सभागहेतुर् एव स्वनैकायिकस्य क्लेशस्य. न तु सर्वत्रगहेतुर् असर्वत्रगस्वभावत्वात्. द्वितीयान्यनैकायिकः सर्वत्रगहेतुर् इति. सत्कायदृष्ट्यादिकः सर्वत्रगः. स हि सर्वत्रगहेतुर् एव सर्वत्रगस्वभावत्वात्. अन्यनैकायिकक्लिष्टहेतुत्वाच् च. न सभागहेतुः. अन्यनैकायिके क्लिष्टे सभागहेतुत्वाभावात्. तृतीया एकनैकायिकः सर्वत्रगहेतुर् इति. सत्कायदृष्ट्यादिकः सर्वत्रगः. स हि एकनैकायिकस्य क्लेशस्य सभागहेतुः. एकनैकायिकक्लिष्टसादृश्यात्. सर्वत्रगहेतुश् च सः. तस्य सर्वत्रगत्वाद् एकनैकायिकक्लिष्टहेतुत्वयोगेन सर्वत्रगहेतुत्वयोगाच् च. चतुर्थी एतान् आकारान् स्थापयित्वेति. त्रिकोट्युक्तां धर्मप्रकारां वर्जयित्वेत्य् अर्थः. तद्यथा क्लिष्टा धर्माः कुशलानां न सभागहेतुर् असादृश्यात्. न सर्वत्रगहेतुः. अत एव कुशलानां चाक्लिष्टत्वात्. [तिब्. 212ब्] एवं कुशलाः क्लिष्टानां योज्यं. क्लिष्टा अपि क्लिष्टानां न सभागहेतुः. नापि सर्वत्रगहेतुर् भवन्ति. तद्यथा रागादयो ऽन्यनैकायिकानां क्लिष्टानां न सभागहेतुर् अन्यनैकायिकत्वात्. न सर्वत्रगहेतुर् असर्वत्रगत्वाद् रागादीनाम् इति. सर्वत्रगा अपि धर्माः क्लिष्टानाम् एकनैकायिकानाम् अपि न सभागहेतुर् न सर्वत्रगहेतुः. यद्य् अनागतास् ते भवन्तीति योज्यं.
विसंयोगः क्षयो धियेति.
धिया प्राप्यमाणो निरोधो विसंयोगफलम् इत्य् अर्थः. तेनेति. तेन कारणेन. यस्मात् क्षयो निरोधो धीः प्रज्ञा. तेन कारणेन प्रतिसंख्यानिरोधो विसंयोगफलम् इत्य् उक्तं भवतीत्य् आचष्टे.
यद्बलाज् जायते
इति विस्तरः. यस्य बलं यद्बलम् इति षष्ठीसमासः. यस्य बलाज् जायते
यत्
संस्कृतं.
तत् फलं
तस्य
पुरुषकारजं
पुरुषकाराज् जातं पुरुषकारजं पुरुषकारफलम् इत्य् अर्थः. उदाहरणं कथयति. तद्यथा अधरभूमिकस्य कामावचरस्य प्रथमध्यानभूमिकस्य वा तत्प्रयोगचित्तस्य उपरिभूमिकः प्रथमध्यानभूमिको द्वितीयध्यानबूमिको वा समाधिः. फलं पुरुषकारजम् इत्य् अधिकृतं. सास्रवस्य धर्मस्य अनास्रवः. ध्यानचित्तस्य निर्माणचित्तं तद् एव फलं भवति. [तिब्. 213अ] आदिशब्देनान्यद् अपि. तद्यथा कामावचरान् मरणचित्ताद् रूपावचरः प्रथमो ऽन्तराभवक्षण इत्य् एवमादि विजातीयोदाहरणं निष्यन्दफलविवेचनार्थं. अधरभूमिकस्य हि प्रयोगचित्तस्य उपरिभूमिकः समाधिर् न निष्यन्दफलं. भिन्नभूमिकं हि न हेतुसदृशं. नापि सास्रवस्य अनास्रवम् इति वक्तव्यं. न तु सर्वं निष्यन्दफलं पुरुषकारफलं भवति यद् धि यस्य बलाज् जायते सदृशं समानभूमिकं अनंतरं च भवति. तत् तस्य पुरुषकारफलं निष्यन्दफलं च भवति. चतुःकोटिकं चात्र भवति. अस्ति पुरुषकारफलम् एव न निष्यन्दफलं. यथोदाहृतं. अस्ति निष्यन्दफलम् एव न पुरुषकारफलं. सभागसर्वत्रगहेत्वोर् व्यवहितं फलं. अस्त्य् उभयं. समनन्तरोत्पन्नं सभागसर्वत्रगहेत्वोः फलम्. अस्ति नोभयं. तद्यथा विपाकहेतोर् विपाकफलं. प्रतिसंख्यानिरोधो ऽपि पुरुषकारफलम् इष्यते. न चासौ हेतुबलाज् जायते नित्यत्वाद् इत्य् अतः कारिकायाम् अनुक्तं तद् उपसंचष्टे. प्रतिसंख्यानिरोधस् तु यद्बलात् प्राप्यत इति वक्तवयम् इति. प्रतिसंख्याबलेन हि प्रतिसंख्यानिरोधः प्राप्यते. तस्मात् स प्रतिसंख्यायाः पुरुषकारफलं [तिब्. 213ब्] भवति.
अपूर्व
इति विस्तरः. अपूर्वः पूर्वोत्पन्नाद् अन्यः. कः पुनर् असौ. सहोत्पन्नः पश्चादुत्पन्नश् च. न हि पूर्वं फलं पश्चाद् धेतुर् भवति. संस्कृत एव धर्मो ऽधिपतिफलं नासंस्कृतः. संस्कृतस्यैव नासंस्कृतस्य. फलप्रतिग्रहणदानासमर्थत्वात्. सर्वस्येति. जनकस्याविघ्नभावावस्थायिनश् च. कर्तुः पुरुषकारफलम् इति.
यद्बलाज् जायते यत् तत् फलं पुरुषकारजम्
इति वचनात्. अकर्तुर् अप्य् अधिपतिफलम् इति.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्
इति वचनात्. अन्येषाम् अधिपतिफलम् एवेति. अशिल्पिनाम् अविघ्नभावावस्थायिनां तच्छिल्पम् अधिपतिफलम् एव न पुरुषकारफलं. तद् एवं चतुःकोटिकं भवति. अस्ति पुरुषकारफलम् एव नाधिपतिफलं. तद्यथा विसंयोगफलं. अस्त्य् अधिपतिफलम् एव न पुरुषकारफलं. उदासीनस्य हेतोर् व्यवहितं च फलं. अस्त्य् उभयं. सहोत्पन्नं अनन्तरोत्पन्नं च कारकस्य हेतोः. अस्ति नोभयं. तद्यथा आकाशम् अप्रतिसंख्यानिरोधश् चेति.
(इइ.60) वर्तमानाः फलं पंचेति.
वर्तमाना एव फलं
गृह्णन्तीत्य्
अवधारणं. प्रतिगृह्णन्तीति. आक्षिपन्ति [तिब्. 214अ] हेतुभावेनावतिष्ठन्त इत्य् अर्थः. कारणहेतुर् अप्य् एवम् इति. वर्तमान एव फलं प्रतिगृह्णाति नतीतो नानागतो वा. स तु नावश्यं सफल इति नोच्यते. ह्य् असंस्कृतं कारणहेतुर् इष्यते. न चास्य फलम् अस्ति. अनागतश् च कारणहेतुः. न च पूर्वम् उत्पद्यमानेन धर्मेण सफलः.
द्वौ प्रयच्छत
इति. वर्तमानाव् अधिकृतं. सहभूसंप्रयुक्तकहेतू वर्तमानाव् एव फलं प्रयच्छतः. युक्तं तावद् यद् अतीताव् इति. निष्यन्दफलेन सफलाव् एताव् उक्तौ.
सभागसर्वत्रगयोर् निष्यन्द
इति वचनात्. अथ कथं वर्तमानौ निष्यन्दफलं प्रयच्छतः. न हि तयोर् वर्तमानावस्थायां निष्यन्दो दृश्यते इत्य् अत आह. समनन्तरनिर्वर्तनात्. किं. फलं प्रयच्छत इत्य् अधिकृतं. तौ चाप्य् अतीतौ भवत इति. हेतुफलयोर् असमवधानात्. न पुनस् तद् एव दत्त इति. न पुनस् तद् एव फलं प्रयच्छत इत्य् अर्थः. दत्त इति ह्य् आख्यातपदं द्विवचनान्तं. वर्तमानावस्थायाम् एव दत्तत्वात्. न हि वर्तमानताम् आनीतं पुनर् आनेतुं शक्यते. यदा च ताव् अतीतौ फलं प्रयच्छतः. तदैव तत् स्वफलं प्रयच्छतः. उत्पद्यमानावस्थायाम् एव हि फलं निर्वर्तते नान्यदा. केवलं तु व्यवहितम् तत् फलम् इत्य् अवगन्तव्यं. कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद् विजहातीति. इह कुशलमूलानि [तिब्. 214ब्] क्रमेण समुच्छिद्यन्ते. कथं. मिथ्यादृष्टिर् नवप्रकारा. मृदुमृद्वी यावद् अधिमात्राधिमात्रा. कुशलमूलान्य् अपि नव प्रकाराणि तद्विपर्ययेण मृदुमृद्व्या मिथ्यादृष्ट्याधिमात्राधिमात्राणि कुशलमूलानि समुच्छिद्यन्ते यावद् अधिमात्राधिमात्रया ( अभिध्-क्-व्य् 227 ) मिथ्यादृष्ट्या मृदुमृदूनि कुशलमूलानि समुच्छिद्यन्ते. भावनाहेयक्लेशवत्. तत्रांत्यावस्थायां मृदुमृदूनि कुशलमूलानि न समुदाचरंति. प्राप्तयस् तु तेषां मृदुमृदूनां समुदाचरन्ति. ताः सर्वपश्चिमकास् तदा विजहाति. तासां प्राप्तीनां प्राप्तीर् निरोधयतीत्य् अर्थः. ताः प्राप्तयो ऽन्त्यवस्थाः कुशलः सभागहेतुः फलं प्रतिगृह्णाति. फलपरिग्रहं करोति. न ददाति स्वनिष्यन्दफलं. कुशलस्य क्षणान्तरस्य जन्यस्याभावात्. द्वितीया कोटिह्. ददाति न प्रतिगृह्णातीति. कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते. याः प्राप्तीः सर्वपूर्वं प्रतिलभते. ताः कुशलः सभागहेतुः फलं ददातीति. प्राप्तिं स्वनिष्यन्दं जनयति. न तु प्रतिगृह्णाति पूर्वम् एव प्रतिगृहीतत्वात्. अयं तु सावद्यो द्वितीयकोटिनिर्देशः. कुशलमूलप्रतिसंधानकाले हि नवप्रकाराणाम् अपि कुशलमूलानां प्राप्तयो ऽतीतानागतप्रत्युत्पन्नाः समं प्रतिलभ्यंते. तासां या अतीताः प्राप्तयः. स कुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति प्रतिगृहीतत्वाद् [तिब्. 215अ] इति युक्तम् एतत्. यास् तु वर्तमानास् तथैव प्रतिलब्धाः प्राप्तयः. स कुशलः सभागहेतुः कथम् अवधार्यते. फलं ददात्य् एव न प्रतिगृह्णातीति. स हि प्रतिगृह्णाति च ददाति चेति. एवम् अविशेषितत्वात् सावद्यो ऽयं द्वितीयकोटिनिर्देशः. तस्माद् आचर्य आह. एवं तु वक्तव्यं स्यात्. ता एव प्रतिसंदधानस्येति. ता एव प्राप्तयः कुशलः सभागहेतुः फलं ददात्य् एव स्वनिष्यन्दफलदानात्. न प्रतिगृह्णाति पूर्वप्रतिगृहीतत्वात्. तृतीया कोटिः. फलं प्रतिगृह्णाति ददाति चेति. असमुच्छिन्नकुशलमूलस्य शेषास्व् अवस्थास्व् इति. द्वे अवस्थे हित्वा. यस्याम् अवस्थायां कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद् विजहाति. यस्यां चावस्थायां कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते. यथास्मदादीनां कुशलाः प्राप्तयः फलं प्रतिगृह्णन्ति ददति चेति. विसभागक्षणान्तराव्यवहित इति वक्तव्यं. न वक्तव्यं. विसभागक्षणान्तरव्यवधाने ऽपि प्राप्तिलक्षणस्य सभागहेतोः फलप्रतिग्रहणदानसंभवात्. चतुर्थ्य् एतान् आकारान् स्थापयित्वा. तद्यथा ऊर्ध्वभूमेः परिहीणस्य [तिब्. 215ब्] ऊर्ध्वभूमिकानां कुशलानां याः प्राप्तयः. ताः कुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. न ददाति. तद्भूमिपरिहीणस्य तद्भूमिकानां कुशलमूलानां धर्माणां प्राप्त्यभावात्. एवं समुच्छिन्नकुशलमूलवस्थायाम् अपि वक्तव्यं.
अत्राचार्यसंघभद्र आह. नैतद् युज्यते यद् उक्तम्. एवं तु वक्तव्यं स्यात्. ता एव प्रतिसंदधानस्येति. कस्मात्. न हि यास् ताः सर्वपश्चाद्विहीनाः. तासाम् एव तन् निष्यन्दफलं. याः प्रतिसंदधानः सर्वप्रथमं ( अभिध्-क्-व्य् 228 ) प्रतिलभत इति. पूर्वनिरुद्धस्यापि हि तत्प्राप्तिसंतानस्य स निष्यन्द इति. अतः कथं फलग्रहणात् कृत्स्न एव तत्सभागहेतुर् गृहीतः स्याद् इति तदर्थम् एवेदम् उच्यते. तस्माद् यथान्यास एव साध्व् इति. तद् एव उभयत्रापि पाठदोष उद्ग्राहिते कतरः पाठः श्रेयान् इति. अत्राभिधर्मपाठ एव श्रेयान् इति पश्यामः. ननु चोक्तम्. अविशेषितत्वात् कुशलप्रतिसंधानकाले प्रतिलब्धा वर्तमानाः प्राप्तयः फलं ददति प्रतिगृह्णन्त्य् अपि. ननु ददत्य् एव न प्रतिगृह्णन्तीति दोष इति. नैष दोषः. कुशलमूलानि प्रतिसंदधान इति कुशलमूलप्राप्त्युत्पद्यमानावस्थायाम् एतद् उच्यते न वर्तमानावस्थायां तत्र च न काश्चिद् अपि कुशलमूलप्राप्तयो वर्तमाना भवंति. ताः कथं फलं प्रतिगृह्णन्ति ददति चेति [तिब्. 216अ] शक्यते वक्तुं. अतीतास् तु स्वसंताने कुशलमूलप्राप्तयः सर्वा अपि सभागहेतुभूताः स्वनिष्यन्दफलं तदानीं ददत्य् एव. समनन्तरनिर्वर्तनन्यायेन. न प्रतिगृह्णन्ति. पूर्वं प्रतिगृहीतत्वात्. इत्य् अनया युक्त्याभिधर्मपाठम् एव समर्थयामः. ननु चैवम् अविशेषिते पाठे अनागतानां कुशलमूलप्राप्तीनां द्वितीयकोटित्ववचनप्रसंगः. ता अपि हि तदानीम् अतीतप्राप्तिवत् प्राप्यन्ते. नैष दोषः. अनागतानां सभागहेतुत्वाभावात् सभागहेतोश् चेहाधिकृतत्वात्. एवम् अपि न प्राप्तय एव वक्तव्याः. या एव सर्वप्रथमं प्रतिलभत इति. एवं तु वक्तव्यं स्यात्. यान् सर्वप्रथमं प्रतिलभत इति. यान् कुशलान् धर्मान् इत्य् अर्थः. चित्तचैत्ता अपि हि कुशलप्रतिसंधाने प्रथमतः प्रतिलभ्यन्ते. न केवलं तत्प्राप्तयः. अस्त्य् एतत्. किं तु प्राप्तीनाम् एव कुशलप्रतिसंधाने आवश्यकत्वाद् एवं वचनं. कुशलप्राप्तयो हि सम्यग्दृष्ट्या विचिकित्सयापि वा कुशलप्रतिसंधाने ऽवश्यम् उत्पद्यन्ते. चित्तचैत्तास् तु विचिकित्सया कुशलप्रतिसंधाने न तावद् उत्पद्यन्त इति प्राप्तय एवोत्पद्यन्त इति वर्णयम्ति.
अकुशलस्येति विस्तरः. अकुशलो ऽपि सभागहेतुश् चतुष्कोटिकः. अस्त्य् अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरेण. [तिब्. 216ब्] प्रथमा कोटिः. कामवैराग्यम् अनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद् विजहाति. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. कथं कृत्वा. इह क्लेशो नवप्रकारः. मार्गो ऽपि नवप्रकारः. तत्र मृदुमृदुना मार्गेणाधिमात्राधिमात्रः क्लेशप्रकारः प्रहीयते. यावद् अधिमात्राधिमात्रेण मृदुमृदुः प्रहीयते. तत्प्राप्तयो ऽपि तथैव प्रहीयन्ते. कामवैराग्यम् अनुप्राप्नुवन् या मृदुमृदूनाम् अकुशलानां प्राप्तीः सर्वपश्चाद् विजहाति. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. अकुशलप्राप्तिक्षणान्तराभावात्. द्वितीया. कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते अकुशलानां प्राप्तीः. ता अकुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति पूर्ववद् वक्तव्यं.
अत्राचार्यो ब्रवीति. एवं तु वक्तव्यं स्यात्. त एव परिहीयमाणस्येति. ता एव याः कामवैराग्यम् अनुप्राप्नुवन् प्राप्तीः सर्वपश्चाद् विजहातीति. ता हि प्रतिगृहीतत्वात् न प्रतिगृह्णन्ति. ददत्य् एव तु केवलं फलं. पूर्वपाठे तु द्वितीया कोटिर् न संभवति यथोक्तं प्राक्.
अत्राचार्यसंघभद्रस् तथैव प्रत्याचष्टे. नैतद् युज्यत इति. पूर्वेण समानम् एतत्. सर्वं प्रपंचयितव्यं.
[तिब्. 217अ] तृतीया. कामवीतरागस्य शेषास्व् अवस्थास्व् इति. द्वे अवस्थे हित्वा. एते एव यथोक्ते प्रथमद्वितीयावस्थे शेषास्व् अवस्थासु. यथास्माकं. या अकुशलानां प्राप्तयः. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति ददाति च. चतुर्थी. एतान् आकारान् यथोक्तान् स्थापयित्वा. तद्यथा कामवीतरागस्यपरिहाणधर्मणो या अकुशलानां प्राप्तयः. सो ऽकुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. न ददाति. तस्य प्राप्त्यभावात्. एवं निवृताव्याकृतस्यापीति विस्तरः. एवं निवृताव्याकृतस्यापि चतुःकोटिकविधानम्. अर्हत्त्वप्राप्तितो ऽर्हत्त्वपरिहाणितश् च यथायोगं योज्यं. अस्ति निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरः. प्रथमा कोटिः. अर्हत्त्वं प्राप्नुवन् याः प्राप्तीह् सर्वपश्चाद् विजहाति. स निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. क्लिष्टक्षणान्तराभावात्. द्वितीया. अर्हत्त्वात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते. एवं तु वक्तव्यं स्यात्. ता एव परिहीयमाणस्येति. एवं हि फलदानम् एवैकम् [तिब्. 217ब्] उपपादितं भवति. पूर्वपाठसमर्थनम् अपि तेनैवानुक्रमेण वक्तव्यं. तृतीया. भवाग्रवीतरागस्य शेषास्व् अवस्थासु. चतुर्थी. एतान् आकारान् स्थापयित्वा. तद्यथा अर्हत्त्वं प्राप्तस्य यास् त्रिधातुक्यो निवृताव्याकृतानां प्राप्तयः यथासंभवं. स निवृताव्याकृतः सभागहेतुर् न फलं प्रतिगृह्णाति. प्रतिगृहीतत्वात्. न ददाति. प्रहीणत्वात्. अनिवृताव्याकृतस्य पश्चात्पादक इति. पश्चात्पादकलक्षणं व्याख्यातम् इति न पुनर् उच्यते. यो ऽनिवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति ददात्य् अपि सः. आह. यस् तावद् ददाति प्रतिगृह्णात्य् अपि सः. अनिवृताव्याकृतस्य आ परिनिर्वाणात् संनिहितत्वात्. स्यात् प्रतिगृह्णाति न ददाति. अर्हतश् चरमाः स्कन्धाः सर्वोपधिनिःसर्गेणानिवृताव्याकृतनिष्यन्दाभावात्. सालम्बननियमेन तु क्षणश इति. पूर्वम् अनालम्बनानां सम्भवतो नियम उक्तः सालम्बननियमेन तु चित्तचैत्तानाम् एव सभागहेतुत्वम् उच्यते क्षणशः क्षणान्तरापेक्षया. न तु पर्यादाय विच्छेदत इत्य् अर्थः. कुशलचित्तानन्तरम् इति विस्तरः. यदा कुशल्चित्तानन्तरं क्लिष्टम् अव्याकृतं वा [तिब्. 218अ] चित्तं संमुखीकरोति. तदा तत् कुशलं चित्तं फलं प्रतिगृह्णाति यतस् तत्संतानपतितं व्यवहितम् अनागतं कुशलं फलं भविष्यति. अनुत्पत्तिधर्मि वा. न ददाति. यस्माद् ( अभिध्-क्-व्य् 230 ) अस्यानन्तरं कुशलम् एव नास्ति. सदृशेन हि फलेन सफलः सभागहेतुर् इष्यते. द्वितीया. विपर्ययाद् इति. यदा क्लिष्टानिवृताव्याकृतचित्तानन्तरं कुशलं चित्तं संमुखीकरोति. तदा येन कुशलेन चित्तेन तत् कुशलं चित्तं फलत्वेन प्रतिगृहीतम् आसीत्. तद् ददाति न तत् प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. तृतीया. कुशलचित्तानन्तरं कुशलम् एवेति. संमुखीकरोतीत्य् अधिकृतं. तत् पूर्वकं कुशलं चित्तं द्वितीयं चित्तं फलत्वेन प्रतिगृह्णाति ददाति च. समनन्तरनिर्वर्तनात्. चतुर्थी. एतान् आकारान् स्थापयित्वेति. यदा क्लिष्टाव्याकृतचित्तानन्तरं क्लिष्टम् अव्याकृतं वा चित्तं संमुखीकरोति. तदासौ सालम्बनः कुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. प्रतिगृहीतत्वात्. न ददाति. क्लिष्टाव्याकृतचित्तसंमुखीभावात्. एवम् अकुशलादयो ऽपि योज्या इति. अस्ति सालंबनो ऽकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति चतुःकोटिकः. प्रथमा कोटिः. अकुशलानंतरं कुशलम् अनिवृताव्याकृतं वा चित्तं संमुखीकरोति. [तिब्. 218ब्] द्वितीया. विपर्ययात्. तृतीया. ऽकुशलानन्तरं अकुशलम् एव. चतुर्थी एतान् आकारान् स्थापयित्वा. आदिशब्देन निवृताव्याकृतः अनिवृताव्याकृतश् च सभागहेतुर् योज्यः. निवृतस्य तावत् प्रथमा कोटिः. निवृताव्याकृतचित्तानन्तरं कुशलं अनिवृताव्याकृतं वा चित्तं सम्मुखीकरोति. द्वितीया. विपर्ययात्. तृतीया. निवृताव्याकृतचित्तानन्तरं निवृताव्याकृतम् एव. चतुर्थी. एतान् आकारान् स्थापयित्वा. अनिवृतस्य प्रथमा कोटिः. अनिवृताव्याकृतानन्तरं कुशलं क्लिष्टं वा चित्तं संमुखीकरोति. द्वितीय. विपर्ययात्. तृतीया. अनिवृताव्याकृतानन्तरं अनिवृताव्याकृतम् एव. चतुर्थी.
एतान् आकारान् स्थापयित्वा. तस्य बीजभावोपगमनाद् इति. तस्य फलस्य हेतुभावोपगमनाद् इत्य् उपमा सौत्रान्तिकप्रक्रियैषा. क्वचित् पुस्तके नास्त्य् एवंपाठः. यथा जलमण्डलम् इति विस्तरः. यथेति दृष्टान्तप्रदर्शनं. जलमण्डलं वायमण्डलस्य प्रतिष्थाफलं. यावच्छब्देन जलमण्डलस्य कांचनमयी पृथिवी. कांचनमय्याः पृथिव्यास् तथा सस्यौषधिप्रभृतयः प्रतिष्ठाफलम् इत्य् अधिकारः. अशुभायाः स्मृत्युपस्थानान्य् आरभ्य यावाद् अनुत्पादज्ञानं. [तिब्. 219अ] एवम् अन्यस्याप्य् आनापानस्मृत्यादेः. प्रयोगस्य फलं योज्यं. सामग्र्याः फलं सामग्रीफलं. चक्षुरादीनाम् इति. आदिशब्देन चक्षूरूपालोकमनस्काराणां ग्रहणं. एवं भावनायाः फलं भावनाफलम् इति समासः. एतत् तु सर्वम् इति विस्तरः. एतच् चतुर्विधं फलं पुरुषकाराधिपतिफलयोर् अन्तर्भूतं. प्रतिष्ठाफलं. अधिपतिफलान्तर्भूतं. प्रयोगफलादिपुरुषकाराधिपतिफलयोः.
(इइ.61, 62अब्) क्लिष्टा इति विस्तरः. क्लेशतत्संप्रयुक्ततत्समुत्थाः क्लिष्टाः. विपाकहेतुजाता विपाकजाः. दुःखे धर्मज्ञानक्षान्तितत्सहभुवः प्रथमानास्रवाः.( अभिध्-क्-व्य् 231 ) तेभ्यश् च शेषाः क्लिष्टादिभ्यस् त्रिभ्यः. विपाकवर्ज्या अव्याकृता ऐर्यापथिकशैल्पस्थानिकनैर्माणिकाः. प्रथमानास्रवक्षणवर्ज्याश् च कुशला इति. कुशलग्रहणेन सास्रवानास्रवा गृह्यन्ते. तत्र दुःखे धर्मज्ञानकलापादयः सर्व एव शैक्षाशैक्षमार्गा लौकिकाश् च कुशलाः शेषा इत्य् अवगन्तव्यं शेषाश् चात्र तृतीयो राशिः क्रियते. तेनाह. त एते चतुर्विधा धर्माः
क्लिष्टा विपाकजाः [तिब्. 219ब्] शेषाः प्रथमार्या यथाक्रमं
विपाकं सर्वगं हित्वा तौ सभागं च शेषजा
इति. विपाकम् इति विपाकहेतुं. क्लिष्ता धर्मा विपाकहेतुं हित्वा शेषेभ्यः पंचभ्यः कारणसहभूसभागसंप्रयुक्तकसर्वत्रगेभ्यो यथासंभवं जायन्ते. स्वभाववर्ज्यात् सर्वधर्मलक्षणात् कारणहेतोः. स्वकलापचित्तादिलक्षणात् सहभूहेतोः. पूर्वोत्पन्नस्वसंतानक्लिष्टलक्षणात् सभागहेतोः. स्वकलापचित्तलक्षणात् संप्रयुक्तकहेतोः. यस्मात् ते चित्तचैत्तस्वभावाः पूर्वोत्पन्नसत्कायदृष्ट्यादिलक्षणात् सर्वत्रगहेतोर् जायन्ते. न तु विपाकहेतोः. विपाकफलेन हि सफलो विपाकहेतुः. न च क्लिष्टा धर्मा विपाकस्वभावा इति ते न ततो जायन्ते. विपाकजाः सर्वत्रगहेतुं हित्वा शेषेभ्यः पंचभ्य एव हेतुभ्यो जायन्ते. न तु सर्वत्रगहेतोः. विपाकजानाम् अक्लिष्टत्वात्. सर्वत्रगाख्यः क्लिष्टानाम् इति हि सर्वत्रगहेतुलक्षणं. यद्य् अपि मिथ्यादृष्ट्यादिभ्यः सर्वत्रगेभ्यो विपाकजा जायन्ते. न तु सर्वत्रगहेतोर् इति कृत्वा ततो जायन्ते. किं तर्हि. विपाकहेतोर् इति. शेषा इति विस्तरः. शेषाणाम् [तिब्. 220अ] अविपाकस्वभावत्वात्. न विपाकहेतुर् अस्ति. अक्लिष्टस्वभावत्वाच् च न सर्वत्रगहेतुर् अस्ति. अतस् तौ विपाकसर्वत्रगहेतू वर्जयित्वा शेषेभ्यश् चतुर्भ्यो जायन्ते. पूर्ववद् व्याख्यानं. प्रथमानास्रवाः तौ विपाकसर्वत्रगहेतू पूर्वोक्तौ. चशब्देनानुकृष्टौ सभागहेतुं च हित्वा शेषेभ्यः कारणसहभूसंप्रयुक्तकहेतुभ्यो यथासंभवं जायन्ते. अनास्रवाणाम् अविपाकस्वभावत्वात् न विपाकहेतुर् अस्ति. अक्लिष्टत्वात् न सर्वत्रगहेतुः. मार्गस्य पूर्वमनुत्पादितत्वात् न सभागहेतुर् अस्ति. न हि सास्रवा अग्रधर्मा अनास्रवस्य कलापस्य सभागहेतुर् युज्यते. तस्मान् न तेभ्यो जायन्ते.
चित्तचैत्ता
इति. संप्रयुक्तकहेतुसंभवार्थं चित्तचैत्तग्रहणं. प्राप्तिजात्यादयश् च चित्तविप्रयुक्ताः. अनास्रवसंवरश् च रूपिस्वभावो ऽनास्रवेषु वेदितव्यः. ते चित्तविप्रयुक्ता रूपिणश् च चित्तचैत्तेभ्यो ऽन्ये क्लिष्तादयः क्लिष्टविपाकजशेषप्रथमानास्रवसंगृहीताः तथैवोत्पद्यन्ते यथा चित्तचैत्ताः. केवलं तु संप्रयुक्तकहेतुनैकेन वर्जिताः. तेषाम् असंप्रयुक्तकस्वभावत्वात् न संप्रयुक्तकहेतोर् जायन्ते. कथम् इति. क्लिष्टा चित्तविप्रयुक्तरूपिणो [तिब्. 220ब्] ( अभिध्-क्-व्य् 232 ) विपाकसंप्रयुक्तकहेतू हित्वा शेषेभ्यश् चतुर्भ्यो हेतुभ्यो जायन्ते. विपाकजा अपि संप्रयुक्तकसर्वत्रगहेतू हित्वा शेषेभ्यश् चतुर्भ्य एव. शेषा विपाकसर्वत्रगसंप्रयुक्तकहेतून् हित्वा शेषेभ्यस् त्रिभ्यः. प्रथमानास्रवा विपाकसर्वत्रगहेतू सभागहेतुं च संप्रयुक्तकहेतुं च हित्वा शेषाभ्यां हेतुभ्यां जायंत इति. एकहेतुसंभूतो नास्तीति. कारणसहभूहेत्वोर् अवश्यम् अविनाभावात्.
(इइ.62च्द्, 63) जनस्य जनैका जातिर् न हेतुप्रत्ययैर् विनेत्य्
उक्तं. अतो हेतुविस्तरवचनानन्तरं पृच्छति प्रत्ययाः कतम इति. प्रत्ययजातिः प्रत्ययतेति. प्रत्ययप्रकार इत्य् अर्थः. गोतावत्.
चित्तचैत्ता
इति विस्तरः. चित्तचैत्ता एव
समनन्तर
इत्य् अवधारणं
अचरम-
ग्रहणं सोत्तराणां समनन्तरत्वात्.
उत्पन्न-
ग्रहणं अनागतनिरासार्थं. समश् चायम् अनन्तरश् च प्रत्यय इति समनन्तरप्रत्यय इति. समानार्थे संशब्दः. कामावचरस्य रूपस्येति. अविज्ञप्तिरूपस्य कदाचित् कामावचरं अविज्ञप्तिरूपं रूपावचरं चाविज्ञप्तिरूपम् उत्पद्यते सास्रवध्यानसंमुखीभावे गृहीतसम्वरस्य. कदाचित् कामावचरं चानास्रवं चानास्रवध्यानसंमुखीभावे. न तु कामावचरचित्तानन्तरं कदाचित् [तिब्. 221अ] कामावचरं रूपावचरं च युगपच् चित्तम् उत्पद्यते. कामावचरं च अनास्रवं चेत्य् आकुलो रूपसंमुखीभावः.
द्वितीयोत्पत्तेर् इति. द्वितीयौपचयिकोत्पत्तेः. यदा हि भुक्त्वा स्वपिति ध्यानम् वा समापद्यते. तदाहारज औपचयिकः स्वप्नजश् च समाधिजो वा औपचयिक उत्पद्यते.
अल्पबहुतरोत्पत्तेर् इति. किं. रूपं न समनन्तरप्रत्यय इति प्रकृतं. भदन्तः स्थविरः सौत्रान्तिकः.
कुशलाकुशलाव्याकृतेषु चित्तेष्व् इति.
सवितर्कविचारित्वात्. कुशले कामचेतसि
द्वाविंशतिश् चैतशिकाह्. कौकृत्यम् अधिकं क्वचित्.
आवेणिके त्व् अकुशले दृष्तियुक्ते च विंशतिः.
क्लेशैश् चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः.
निवृते ऽष्टादशान्यत्र द्वादशाव्याकृते मता
इत्य् अनेन क्रमेण कदाचिद् बहुभ्यश् चैत्तेभ्यस् त्रयोविंशतेर् एकविंशतिर् अष्टादश द्वादश वाल्पे चैत्ता उत्पद्यन्ते. कदाचिद् अल्पाद् बहवो विपर्ययात्. सवितर्कविचारादौ च समाधित्रये अस्ति सवितर्कः सविचारः समाधिः अस्ति अवितर्को विचारमात्रः. अस्त्य् अवितर्को ऽविचार इति. एतस्मिं समाधित्रये चैत्तानाम् अल्पबहुतरोत्पत्तिः. अतश् च चित्तचैत्ता अपि न समनन्तरप्रत्ययाः स्युर् इति. अस्ति जात्यंतरं प्रति न स्वजातिम् [तिब्. 221ब्] इति. अस्त्य् अल्पबहुतरोत्पत्तिर् जात्यन्तरं प्रति न स्वजातिं. वितर्कविचारादीनां हि क्वचिच् चित्ते जात्यन्तरभूतानां सतां वृत्तिर् अवृत्तिश् च भवति. न कदाचिद् बहुतरा वेदनेति. न हि कदाचिद् वेदनैकस्मिंश् चित्ते एका क्वचिद् अपरस्मिं द्वे तिस्रो वेति. रूपस्य तु स्वजातिं प्रत्य् अल्पबहुतरोत्पत्तिः.
किं पुनः स्वजातेर् एवेति. किं वेदना वेदनाया एव समनन्तरप्रुत्ययः. अनेकवेदनोत्पत्ताव् असामर्थ्यात्. एवं संज्ञादयः. न परजातेः. न वेदना संज्ञादीनां. यतश् चैत्तानाम् अल्पबहुतरोत्पत्तिर् न परिगृहीता भवेत्.
सांतानसबागिकास् त्व् इति विस्तरः. चित्तं चित्तान्तरस्य समनन्तरप्रत्ययः. न वेदनायाः. वेदना वेदनान्तरस्य. न चित्तस्येति. संतानसभागः सभागहेतुर् इत्य् अर्थः. संतानसभागेन दीव्यन्ति व्यवहरन्ति वा सांतानसभागिकाः केचिद् आभिधर्मिकाः. यदि संतानः संतानान्तरस्य सभागहेतुः. अक्लिष्टानन्तरं यदा क्लिष्टम् उत्पद्यते. कथं तत्र समनन्तरप्रत्ययव्यवस्थेति. अत आह. यदा तु अक्लिष्टानन्तरम् इति विस्तरः. तस्य क्लेशस्य पश्चादुत्पन्नस्य पूर्वनिरुद्धक्लेशः क्षणान्तरव्यवहितः समनन्तरप्रत्यय इति व्यवस्थापयंति. तुल्यजातीयेन चित्तान्तरेणायवधानात्. अक्लिष्टेन व्यवधानं त्व् अव्यवधानम् एव. अतुल्यजातीयत्वात्. [तिब्. 222अ] तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्य. चित्तान्तरेणाव्यवधानात्. समापत्तिद्रव्येण व्यवहितम् अपि समनन्तरप्रत्ययो व्यवस्थाप्यते. तद्वत्.
त्रैधातुकप्रतिसंयुक्तानां युगपत्संमुखीभावाद् इति. कामधात्ववीतरागस्यार्यस्य कामावचर्याः प्राप्तेर् अनन्तरं त्रैधातुकाप्रतिसंयुक्तानां प्राप्तय उत्पद्यन्ते. त्रैधातुकैः क्लेशैः समन्वागतत्वात्. एवं तज्जात्यादयो ऽप्य् उत्पद्यन्ते. इत्य् एवं व्याकुलसम्मुखीभावात् विप्रयुक्ता अपि संस्काराः प्राप्तिजात्यादयो न समनन्तरप्रत्ययः.
कस्माद् अनागत इति विस्तरः.
उत्पन्नाः समनंतर
इति अतीतप्रत्युत्पन्ना एव समनन्तरप्रत्यय इति पूर्वम् उक्तं. अत एवं पृच्छति. व्याकुलत्वाद् इति. व्याकुलत्वाद् अनागतो नेष्यते समनन्तरप्रत्ययः. व्याकुलत्वं पुनर् अनागतस्याध्वनः पूर्वोत्तराभावात्. पूर्वोत्तरताया अभावात्. ( अभिध्-क्-व्य् 234 ) वर्तमानो हि अनागतात् पूर्वो वर्तमानाद् अतीत इति शक्यते वक्तुं. पूर्वोत्तरकालयोगात्. न त्व् अनागतस्य पूर्वपश्चिमतास्ति. अत एव च वर्तमानो वर्तमानस्य न समनन्तरप्रत्यय इष्यते. पूर्वपश्चिमताया अभावात् तुल्यवर्तमानस्य न समनन्तरप्रत्यय इष्यते. पूर्वपश्चिमताया अभावात् तुल्यकालत्वात्. अतीतसांप्रतानुमानाद् इति. अतीतेन च सांप्रतेन चानुमानात्. अतीतेनानुमानम् इति दर्शयन्न् आह. अतीतं किलाध्वानं [तिब्. 222ब्] पश्यतीति विस्तरः. सांप्रतेनानुमानम् इति दर्शयन्न् आह. इदं चापि संप्रत्य् एवंजातीयकम् इति विस्तरः. अपरान्तं न जानीयाद् इति. सर्ववित्त्वम् अस्य हीयेतेति अभिप्रायः. फलचिह्नभूतः फललिंगभूतः. न साक्षात्कारी न साक्षाद्दर्शी.
अनागतो नेष्यते समनंतरप्रत्ययो व्याकुलत्वात् पूर्वपश्चिमताया ऽभावाद् इत्य् उक्ते ऽयम् आह. कस्माद् अग्रधर्मानन्तरम् इति विस्तरः. तस्य वैभाषिकः परिहारम् आह. यस्य यत्प्रतिबद्ध उत्पाद इति विस्तरः. यस्य धर्मस्य दुःखे धर्मज्ञानक्षान्त्यादेर् यस्मिं धर्मे लौकिकाग्रधर्मादौ प्रतिबद्ध उत्पादः. स तस्यानन्तरम् उत्पद्यते. तद्यथा बीजादीनाम् अंकुरादयः. अंकुरस्य हि बीजे प्रतिबद्ध उत्पादः. तस्मात् तदनन्तरम् उत्पद्यते. एवं काण्डादीनां अंकुरादिषु. विनापि समनन्तरप्रत्ययेनासत्य् अपि समनन्तरप्रत्यये. अपिशब्दात् सति समनन्तरप्रत्यये सुतराम् उत्पद्यत इत्य् अभिप्रायः. तस्मान् नास्ति च क्रमनियमावस्थानं तद्वत् समनन्तरोत्पत्तिनियमश् च भवतीति वाक्यार्थः.
कस्माद् अर्हतश् चरमा इति.
अचरमा
इति वचनाद् अयं प्रश्न आगतः. अन्यचित्तसम्बन्धाद् इति. यस्मात् तदनन्तरं अन्यचित्तं न सम्बध्नन्ति. आश्रयभावप्रभावितं [तिब्. 223अ] मन इति. यथा चक्षुर् उत्पन्नं चक्षुर्विज्ञानाश्रयभावेनावस्थितं यदि कारणान्तरवैकल्याच् चक्षुर्विज्ञानं नोत्पद्यते न तत्र चक्षुर् अपराध्यते. एवम् अर्हतो ऽपि चरमं चित्तं आश्रयभावेनावस्थितं. कारणान्तरवैकल्यात् तु विज्ञानान्तरं नोत्पद्यते इति न तद् अपराध्यते. तद् धि न कारित्रप्रभावितं न जननपुरुषकारप्रभावितम् इत्य् अर्थः. यदि हि तज् जननप्रभावितं स्यात् जायमान एव सति कार्ये तन् मनः स्यात्. न चैवम्. अतो ऽसत्य् अपि जन्ये तन् मनो भवत्य् एव. कारित्रप्रभावितस् तु समनन्तरप्रत्ययः सत्य् एव जन्ये समनन्तरप्रत्ययो भवति. नासति. तेन यो धर्मः फलं प्रतिगृहीतः तेन समनंतरप्रत्ययेन यो धर्मः फलं प्रतिगृहीतो जायताम् एतद् इति. स सर्वैर् अपि धर्मैर् अबुद्धिमद्भिः सर्वप्राणिभिर् वा संचिन्त्यकारिभिर् न शक्यः प्रतिबन्द्धुं यथा नोत्पद्येत मोत्पादीति.
ये धर्माश् चित्तसमनन्तरा इति विस्तरः. समनंतरप्रत्ययचित्तजनिताश् ( अभिध्-क्-व्य् 235 ) चित्तसमनन्तराः. चित्तस्य समाश् च ते ऽनन्तराश् च ते इति चित्तसमनन्तराः. अथ वा चित्तं समनंतरं. समनंतरप्रत्यय एषाम् इति चित्तसमनन्तराः. क्षणान्तराव्यवहितात् तु चित्तनिरंतराः. ते पुनश् चित्तसमनन्तराः चित्तचैत्ता [तिब्. 223ब्] द्वे च समापत्ती असंज्ञिनिरोधसमापत्ती. नासंज्ञिकं चित्तसमनन्तरं शास्त्रे पठितं कर्मसामर्थ्योत्पत्तेः. प्रथमा कोटिर् इति विस्तरः. समापत्तिव्युत्थानचित्तं समापत्तिप्रवेशचित्तजनितम्. अतश् चित्तसमनन्तरं न चित्तनिरंतरं. समापत्तिक्षणव्यवहितत्वात्. द्वितीयादयश् च समापत्तिक्षणाः. प्रथमक्षणवर्ज्या इत्य् अर्थः. चित्तसमनंतराः. तत्प्रत्ययजनितत्वात्. न चित्तनिरन्तराः. यथायोगं प्रथमादिक्षणव्यवहितत्वात्. द्वितीया. प्रथमस्य समापत्तिक्षणस्य जात्यादयः चित्तनिरन्तराः. क्षणान्तरव्यवहितत्वात्. न तु चित्तसमनन्तराः. अचित्तसमनन्तरस्वभावत्वात्. चित्तचैत्ता एव हि सह समापत्तिद्वयेन चित्तसमनन्तरा इष्टाः. सचित्तिकावस्थायां च जात्यादयः. तेषाम् अविशेषितत्वात् सर्वेषां चित्तचैत्तादीनां जात्यादयः. आदिग्रहणेन च सर्व एव विप्रयुक्ता गृह्यन्ते समापत्तिद्वयं वर्जयित्वा. ते च तथैव चित्तनिरंतरा न चित्तसमनन्तराः. पूर्ववद् व्याख्यानं. सचित्तिकावस्थेति. यदा चित्ताच् चित्तांतरम् उत्पद्यते. तदा पश्चिमाश् चित्तचैत्ताः [तिब्. 224अ] पूर्वकेण चित्तेन चित्तसमनंतराश् चित्तनिरंतराश् च भवंति. चतुर्थी. द्वितीयादीनां समापत्तिक्षणानां व्युत्थानचित्तस्य च जात्यादयः न चित्तसमनन्तराः. अचित्तसमनन्तरस्वभावत्वात्. न चित्तनिरंतराः. प्रथमादिसमापत्तिक्षणव्यवहितत्वात्. ये तृतीयचतुर्थ्यौ ते प्रथमद्वितीये इति विस्तरः. प्रथमा कोटिः. प्रथमसमापत्तिक्षणः सचित्तिका चावस्था. ते हि चित्तसमनंतराः समनंतरप्रत्ययजनितत्वात्. न समापत्तिनिरंतराः. प्रथमसमापत्तिक्षणस्य सर्वसमापत्तिक्षणभावेन न तन्निरंतरत्वाभावात्. सचित्तिकावस्थायां च समापत्त्यभावात्. द्वितीया. द्वितीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च. इमे धर्माः समापत्तिनिरंतर न चित्तसमनन्तराः. तृतीया. अच्चित्तिकायाः समापत्तेर् व्युत्थानचित्तं द्वितीयादयश् च समापत्तिक्षणाः. एते चित्तसमनन्तराः समापत्तिनिरन्तराश् च. चतुर्थी. प्रथमस्य समापत्तिक्षणस्य सचित्तिकायां चावस्थायां जात्यादयः. इमे धर्मा न चित्तसमनन्तरा न समापत्तिनिरन्तराः. अचित्तसमनन्तरस्वभावत्वात्. [तिब्. 224ब्] पूर्वसमापत्तिक्षणभावाच् च.
ससंप्रयोगस्य सचैतसिकस्य. तथालक्षणत्वाद् इति. आलम्ब्यलक्षणत्वात्. आयतनद्रव्यक्षणनियमेनेति. आयतनं च द्रव्यं च क्षणश् च तेषां नियमः. तेनैव. ते चित्तचैत्ताः स्वस्मिन्स्वस्मिन् आलम्बने नियताः. यथा तावच् चक्षुर्विज्ञानं ससंप्रयोगं रूपायतने आलम्बने नियतं न शब्दायतनादौ. ( अभिध्-क्-व्य् 236 ) एवम् आयतननियमेन. तत्राप्य् आयतने द्रव्यनियमेन नीलरूपे नीलरूपग्राहकम् एव चक्षुर्विज्ञानं ससंप्रयोगं नियतं. नान्यत्र पीतादौ. एवं द्रव्यनियमेन. तत्रापि नीलरूपे आलम्बने यो नीलरूपक्षणो यस्यालम्बनं. स तस्यैव. नान्यस्य. इत्य् एवं क्षणनियमेन. एवं शब्दायतनादिष्व् अपि श्रोत्रादिविज्ञानं ससंप्रयोगं योज्यं. किम् आश्र्यनियमेनापीति. किं चक्षुराद्याश्रयनियमेनाप्य् एते चित्तचैत्ता नियताः. ओम् इत्य् आह. एवम् इत्य् अर्थः.
आलम्बनप्रत्ययो ऽपि सर्वधर्मा इति मनोविज्ञानापेक्षया. अधिको ऽयं प्रत्यय इत्य् अधिपतिप्रत्यय इति. हेतुप्रत्ययादिभ्यः. हेतुप्रत्ययो हि परं पंच हेतवः. आलम्बनप्रत्ययो हि सहभुवां न संभवतीति नाधिकः. अधिकस्य वा प्रत्यय इति. पूर्वम् अधिकः पतिर् अधिपतिः. स प्रत्यय इति [तिब्. 225अ] समासः. इदानीम् अधिकस्य भूयसः पतिर् अधिपतिः. स प्रत्यय इत्य् अधिपतिप्रत्यय इति समासः. कथम् इत्य् आह. सर्व इति विस्तरः. सर्वः संस्कृतासंस्कृतः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य सालम्बनस्यानालम्बनस्य च प्रत्ययो ऽधिपतिप्रत्ययः. आलम्बनप्रत्ययस् तु सालम्बनस्यैव नानालम्बनस्य. प्रथमे विग्रहे प्रत्ययस्याधिक्यं दर्शितं. द्वितीये प्रत्ययवतः.
(इइ.64) निरुध्यमाने कारित्रम्
इति. निरुध्यमान एवेत्य् अवधारणं. मिथःफलत्वात् समाश्रयत्वाच् च सहभूसंप्रयुतकहेत्वोर् यथाक्रमं.
त्रयो जायमान
इति. जायमान एवेत्य् अवधारणं.
ततो ऽन्यौ तु प्रत्ययौ तद्विपर्ययाद्
इति. समनन्तरप्रत्ययः पूर्वोक्तस् तं पश्चादुक्तं कारित्रकालनियमम् आश्रयते. जायमाने कारित्रं करोतीत्य् अर्थः. पश्चादुक्त आलम्बनप्रत्ययः पूर्वोक्तं कारित्रकालनियमम् आश्रयते. निरुध्यमाने कारित्रं करोतीत्य् अर्थः. एवं तौ
विपर्ययात्
कारित्रं कुरुतः. तेनाह. समनन्तरप्रत्ययो जायमाने कारित्रं करोत्य् अवकाशदानात्. आलम्बनप्रत्ययो निरुध्यमाने. वर्तमानैश् चित्तचैत्तैर् वर्तमानग्रहणाद् इति. ग्रहणार्थेन ह्य् आलम्बनप्रत्ययो व्यवस्थाप्यते. न चातीतनागताश् चित्तचैत्ता ग्राह्यम् अर्थं गृह्णन्तीति.
एतद् एवास्य कारित्रम् इति. यद् अनावरणभावेन सर्वस्याम् अवस्थायाम् अवस्थानं एतद् एवास्याधिपतिप्रत्ययस्य कारित्रम् इति सुगमत्वान् नाधिपतिप्रत्ययस्य [तिब्. 225ब्] कारित्रकालनियमः सूचित इत्य् अभिप्रायः.
(65) द्विविधो हेतुर् इति. संप्रयुक्तकसर्वत्रगविपाकहेतूनाम् असंभवात्. समानभूमिकाः कुशला धर्मा इति. निरोधसमापत्तेर् भावाग्रिकाः कुशला धर्माः सभागहेतुर् हेतुप्रत्ययः. असंज्ञिसमापत्तेर् अपि चतुर्थध्यानभूमिकाः. येषां बलेन ते समापत्ती भवतः. समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् इति. सर्वेषां निरोधसमापत्तिक्षणानाम् असंज्ञिसमापत्तिक्षणानां च चित्तान्तरेणाव्यवधानात्. पूर्ववद् इति. स्वभाववर्ज्याः सर्वधर्माः. चित्ताभिसंस्कारजत्वाद् इति. चित्ताभोगजत्वाद् इत्य् अर्थः. चित्तोत्पत्तिविबन्धनात् न समनंतरप्रत्यय इति. समनन्तरप्रत्ययस्य चित्तोत्पत्तिहेतुत्वात्.
द्वाभ्याम् अन्ये त्व्
इति. तुशब्दो ऽवधारणे भिन्नक्रमश् च. द्वाभ्याम् एव हेत्वधिपतिप्रत्ययाभ्याम् अन्ये वै चित्तचैत्तसमापत्तिद्वयविनिर्मुक्ता धर्मा जायन्ते. ईश्वरपुरुषप्रधानादिकम् इति. आदिशब्देन कालस्वभावपरमाण्वादि गृह्यते. ननु चात एवेति. यदि वेश्वर एकं कारणं पुरुष इति वात्र पक्षे को हेतुर् इति हेतुर् मृग्यते. ईश्वरव्यतिरिक्तं हेतुं कृत्वा तत्सिद्धेर् इति अभ्युपगतं भवति. तदभ्युपगमाच् चैकम् ईश्वरः पुरुष इति वा कारणं सर्वस्य जगत इति अस्य वादस्य व्युदासः परित्यागः प्राप्नोतीति पिण्डेन वाक्यर्थः. [तिब्. 226अ]
नेश्वरादेः क्रमादिभिर्
इति. नेश्वरादेर् भावा जायन्ते. कस्मात्. क्रमादिभिः. आदिग्रहणेन देशकालादीनां ग्रहणं. अथ वानेककारणत्वानवस्थाप्रसंगाद् अन्यपुरुषकालनिह्नवादीनां ग्रहणं. यदि ह्य् एकम् एवेति विस्तरः. यदि ह्य् एकम् एव कारणम् ईश्वरः स्यात् महादेवो वा वासुदेवो वा अन्यद् वा पुरुषादि वेत्य् अर्थः. युगपत् सर्वेण जगता भवितव्यं कारणस्य सद्भावात्. न ह्य् एतद् इष्टं. सति कारणे कार्यं न भवतीति. दृश्यते च भावानां कललादीनाम् अंकुरादीनां च क्रमसंभवः. तस्मात् स्वकारणपरंपरानिर्वृत्त इति नेश्वरादिकारणम् इति गम्यते. ईश्वराद्येककारणं जगद् इति हि प्रतिजानानस्य स्वकारणक्रमोत्पादित्वादिलक्षणेन धर्मविशेषेण तस्य सापक्षालत्वं पक्षस्योपलक्ष्यते. स तर्हि छन्दवशाद् इति. स क्रमभेद इच्छावशाद् ईश्वरस्य स्यात्. कथम् इत्य् आह. अयम् इदानीं भाव उत्पद्यतां यावद् अयं पश्चाद् उत्पद्यताम् इति. एवं क्रमसंभवश् च भावानां ईश्वरश् च कारणम् इति ईश्वरकारणिकाभिप्रायः. छन्दभेदाद् इति विस्तरः. ईश्वरच्छन्दभेदाच् चैककारणत्वाभ्युपगमाच् च प्राक्पक्षविरोधाद् धर्मस्वरूपविपर्ययः पक्षस्योत्पद्यते. स चापीति विस्तरः. [तिब्. 226ब्] स चापि छन्दभेदो युगपत् स्यात्. तद्धेतोश् छन्दभेदहेतोर् ईश्वरस्याभिन्नत्वाद् एकत्वाद् इत्य् अर्थः. ( अभिध्-क्-व्य् 238 ) ततश् च एव स पूर्वोक्तो दोशो युगपत् स्याद् इति. अथ मन्यसे. अन्यद् अपि कारणान्तरं भिन्नं तदुत्पत्तौ ईश्वरो ऽपेक्षत इत्य् अत इदम् उच्यते. कारणान्तरभेदापेक्षणे चे ति विस्तरः. नेश्वर एव कारणम् इत्य् अभ्युपगमे स एव दोषः. तेषाम् अपि चेति विस्तरः. तेषाम् अपि च कार्णान्तराणां क्रमोत्पत्ताव् इष्यमाणायां कारणान्तरभेदानाम् अपि पुनः कारणान्तरभेदापेक्षणाद् अनवस्थाप्रसंगः. तेषाम् अपि कारणान्तरभेदापेक्षणं तेषाम् अपि कारणान्तरभेदापेक्षणम् इत्य् अपर्यवसानप्रसंगः स्यात्. शाक्यपुत्रीयम् एव न्यायम् इति. अनादिः संसार इति शाक्यपुत्रीयं न्यायं नातिक्रान्तः स्यात्. यौगपद्ये ऽपीति विस्तरः. अथापि स्यात्. यौगपद्ये ऽपीश्वरछन्दानां न जगतो यौगपद्यं. कस्मात्. यथाछन्दं उत्पादात्. यश् छन्दः अयम् इदानीम् उत्पद्यताम् इति. तस्य तस्माच् छन्दाद् इदानीम् एवोत्पत्तिः. यः पश्चाद् उत्पद्यताम् इति. तस्य तस्मात् पश्चाद् उत्पत्तिः. इदं च पश्चात् पश्चात्तरम् एवंप्रकारम् इति तस्य तस्मात् पश्चात्तरं तथैवोत्पत्तिर् इति. तच् च न. तेषां पश्चाद् विशेषाभावात्. तेषां छन्दानां पश्चान् न कश्चिद् विशेष इति. यथैव पूर्वं नारभन्ते. तथा पश्चाद् अपि नारभेरन्. यथा वा पश्चाद् आरभन्ते. तथा पूर्वम् अपीति. अथ वा एक एवोत्पादयिता नेतर इति तेसां विशेषाभावः. अतः प्राप्तम् एव भावानाम् ईश्वरच्छन्दानाम् [तिब्. 227अ] इव यौगपद्यं. कारणान्तरापेक्षत्वे वा छन्दविशेषाणां पूर्ववद् दोशः. न तस्याम् ईश्वरः स्याद् इति. न तस्यां प्रीतौ ईश्वरः स्याद् विनोपायेन तत्कारणशक्तेः. एतद् ईश्वरस्येश्वरत्वं. यद् असौ कारणान्तरानपेक्षः कुर्यात्. तथैव चान्यस्मिन्न् इति. यथा प्रीताव् अनीश्वरः. एवम् अन्यस्मिन्न् अपि त्रैलोक्ये नेश्वर इत्य् अनुमीयते. यदि चेश्वर इति विस्तरः. नरकादिषु प्रजां सृष्ट्वा बहुभिश् चेतिभिर् उपसृष्टां. बहुभिर् अनेकैः प्रकारैर् ईतिभिर् उपसर्गै रोगादिभिर् उपसृष्ताम् उपद्रुतां प्रजां सृष्ट्वा यदि प्रीयेत नमो ऽस्तु तस्मै इत्य् उत्प्रासवचनम् एतत्. सुगीतश् चेति विस्तरः. सूक्तश् चायं तम् आरभ्य तम् ईश्वरम् अधिकृत्य श्लोकः शतरुद्रीये व्यासेन
यन् निर्दहती त्यादि.
यस्मान् निर्दहति तस्माद्
रुद्र
इत्य् एवं सर्वत्र. अन्येषाम् इति. बीजादीनां अंकुरादिषु प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्. कारणेभ्यो ऽन्यस्य व्यापारदर्शनाद् इति. चक्षूरूपालोकमनस्कारादिभ्यश् च एअक्षुर्विज्ञानाद्युत्पत्तौ बीजक्षेत्रोदकादिभ्यश् चांकुराद्युत्पत्तौ अन्यस्य व्यापारानुपलब्धेः. यथा हि चक्षुरादीनां चक्षुर्विज्ञानाद्युत्पत्तौ बीजादीनां चांकुराद्युत्पत्तौ व्यापारो दृश्यते. तद्भावे ( अभिध्-क्-व्य् 239 ) भावात् तदभावे चाभावात्. न तथा चक्षुरादिभावे बीजादिभावे च [तिब्. 227ब्] ईश्वरस्याभावे चक्षुर्विज्ञानांकुराद्यभावो दृष्टः. पुनश् च तद्भावे भावः. यतस् तस्यापि तदुत्पत्तौ व्यापारो गम्यते. अतस् तद्व्यापारदर्शनात् सह कारणैर् ईश्वरं कारणं कल्पयतां केवलो भक्तिवादः स्यात्. किं च सहकारिषु चेति विस्तरः. यानि सहकारीण्य् अन्यानि तस्येश्वरस्य. किं तेष्व् ईश्वरो नेश्वरः स्यात्. तानि हि कार्योत्पत्तौ स्वसामर्थ्येन व्याप्रियंते. अन्येषु तु सहकारिष्व् ईश्वरः स्याद् इति अन्यग्रहणं. आदिसर्ग ईश्वरहेतुकः. तथा हि प्रत्यक्षपुरुषकारनिह्नवो न स्यात्. कारणेभ्यो ऽन्यस्य व्यापारादर्शने चादोशो जगतश् चेश्वरः कारणम् इति. तस्याप्य् अन्यकारणानपेक्षत्वात्. तस्याप्य् आदिसर्गस्यान्यकारणानपेक्षत्वात्. ईश्वर एवैकः. कारणं नान्यद् इति. ईश्वववद् अनादित्वप्रसंगः. अनिष्टं चैतत् तस्मान् नेश्वरः कारणं.
एवं प्रधाने ऽपि यथागोगं योज्यम् इति. प्रधानम् अचेतनं. तस्मात् तत्र छन्दविकल्पनां हित्वा शेषप्रतिषेधविधानं योज्यं. यद्य् एकम् एव कारणं प्रधानं स्यात्. युगपत् सर्वेण जगता भवितव्यं स्यात्. दृश्यते च भावानां क्रमसंभवः. कारणान्तरभेदापेक्षणे वा न प्रधानम् एव कारणं स्यात्. तेषाम् अपि क्रमोत्पत्तौ कारणान्तरभेदापेक्षनाद् अनवस्थाप्रसंगः स्याद् इति विस्तरः. एवं खल्व् अपि जगतः कारणं परिगृह्णता अन्येषाम् अर्थानां प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्. सहापि च कारणैः कारणं प्रधानं कल्पयताम् [तिब्. 228अ] केवलो भक्तिवादः स्यात्. कारणेभ्यो ऽन्यस्य व्यापारदर्शनात्. सहकारिषु चान्येषु कारणेषु तत्प्रधानम् अप्रधानं स्यात्. अथादिसर्गः प्रधानहेतुकः. तस्यापि महदाद्युत्पादस्वभावस्यादिसर्गस्याद्यलक्षणत्वात् प्रधानवत् अनादित्वप्रसंगः. नित्यं हि प्रधानं प्रधानं च महतः कारणम् इति पूर्वप्रधानं पस्चान् महान् इति न सिध्यति. प्रसवधर्मि च प्रधानम् इति तेन नित्यं प्रवर्तितव्यं कारणान्तरनिरपेक्षत्वात्. न हि प्रकाशः प्रकाश्यम् अर्थं प्रकाश्य पुनर् न प्रकाशयतीति. स्वभावो हि कृतार्थतां नोपेक्षते. अकृतबुद्धयः परमार्थशास्त्रैर् असंस्कृतबुद्धय इत्य् अर्थः.
(इइ.66) द्विधा भूतानि तद्धेतुर्
इति. पूर्वोत्पन्नानि भूतानि पश्चादुत्पन्नानां स्वासंतानिकानां सभागहेतुर् अविनिर्भागवर्तीनि सहभूहेतुः. भूतानुविधायित्वाद् इति. भौतिकं भूतान्य् अनुविधत्ते. तद्विकारे विकारात्. आचार्यादिनिश्रयवद् इति. यथाभिक्षुर् आचार्यम् आश्रयते. आदिशब्देन उपाध्यायं च निश्रयते. तद्वत्. भूतानि भौतिकं निश्रयते. एवम् एषाम् इति विस्तरः. जन्महेतुत्वम् एषां भूतानाम् आख्यातं तु भौतिकस्य तेभ्य उत्पत्तेः. विकारहेतुत्वं तदनुविधायित्वात्. आधारहेतुत्वं ( अभिध्-क्-व्य् 240 ) आधारभावात्. स्थितिहेतुत्वम् अनुच्छेदहेतुत्वात्. वृद्धिहेतुत्वम् उपबृम्हणहेतुत्वाद् इति. अविशेषवर्तित्वाद् इति [तिब्. 228ब्] अविघ्नभाववस्थानेनान्येषाम् अपि हेतुत्वाद् इत्य् अर्थः. अन्योन्यं चित्तानुपरिवर्तिकायवाक्कर्नेति. कायकर्म चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतं त्रिविधं प्राणातिपातादत्तादानकाममिथ्याचारविरतिभेदेन. वाक्कर्मापि चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतम् एव चतुर्विधं. मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापविरतिभेदेन. तद् एवं सप्तविधं कायवाक्कर्मान्योन्यं सहभूहेतुः. प्राणतिपातविरतिर् उपादायरूपं इतरेषां षण्णां सहभूहेतुः. तान्य् अपि षट् तस्य सहभूहेतुर् इति सर्वं योज्यं. नान्यद् इति. चक्षुरादिकं सर्वम् उपादायरूपं प्रातिमोक्षसंवरादिसंगृहीतम् अपि यावन् नान्योन्यं सहभूहेतुः पृथक्कलापत्वात्. सभागस्येति. कुशलं कुशलस्य स्वासंतानिकस्य क्लिष्टं क्लिष्टस्येत्यादि. यस्य कायवाक्कर्मण इति. विज्ञप्त्यविज्ञप्तिस्वभावस्य समाहितस्यासमाहितस्य वा यथायोगं. एकधैव तद् इति. विपाकहेतुर् एवैक इत्य् अवधारणं. कारणहेतोस् तथैवागण्यमानत्वात्. पृथक्कलापत्वाद् इति सहभूहेत्वाद्ययोगात्.
(इइ.67) रूपधाताव् अकुशलं नास्तीति. स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् [तिब्. 229अ] उपसंपद्य विहरतीति वचनात्. तत्र रूपधाताव् अकुशलं नास्ति. अकुशलविवेकाद् धि यज् जातं शुभं. तद् विवेकम् इत्य् उच्यते. यथा च हेतुः. तथा फलम् इति. तत्रोपपत्ताव् अपि नास्त्य् अकुशलम् इति गम्यते. रूपारूप्यधातौ सर्व एव क्लेशोपक्लेशाव् अविपाकत्वान् निवृता एव नाकुशलाः.
(इइ.68-71) अनन्तरम् इति पश्चाद् वक्ष्यत इति कारिकान्ते. तद् इह संबन्धनीयं. समापत्तिकाले कुशलम् इति. कामावचरप्रायोगिककुशलचित्तानन्तरं प्रथमध्यानभूमिकं सामन्तकीयं मौलीयं वा चित्तम् उत्पद्यते. प्रतिसंधिकाले निवृतम् इति. कामावचरोपपत्तिप्रतिलम्भिकमरणचित्तानन्तरं रूपावचरं निवृताव्याकृतं चित्तम् उत्पद्यते प्रतिसंधिकाले.
उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर्
इति वचनात्. उपपत्तिर् अत्रान्तराभवोपपत्तिर् अभिप्रेता. एवम् अन्तराभवप्रतिसंधिर् अपि क्लिष्टो वेदितव्यः. चतसृभिर् दूरताभिर् दूर इति. तत्रेयम् आश्रयदूरता. यद् आरूप्यावचरेण आश्रयेण कामावचरः कश्चिद् अपि धर्मो न संमुखीक्रियते. यथा रूपावचरेणाश्रयेण कामावचरं निर्माणचित्तं संमुखीक्रियत इति. अनयाश्रयदूरतया कामधातोर् आरूप्या दूरे भवंति. आकारदूरता. यद् आरूप्यावचरेण चित्तेन कामधातुर् नाकार्यते. यथा रूपावचरेण औदारिक इत्यादिभिर् आकारैः. आलम्बनदूरता. यद् आरूप्यावचरेण ( अभिध्-क्-व्य् 241 ) चित्तेन न कामधातुर् आलम्ब्यते. यथा रूपावचरेण. ननु च रूपधातुर् अपि नारूप्यावचरेण चित्तेनालंब्यते.
न मौलाः कुषलारूप्याः सास्रवाधरगोचरा
[तिब्. 229ब्] इति वचनात्. तत् कथम् इदम् उच्यते कामधातोर् एवारूप्या दूरत इति. सत्यं न मौलारूप्यावचरेण चित्तेन रूपधातुर् अध्यालंब्यते. किं तु आकाशानंत्यायतनसामन्तकचित्तेन औदारिकाद्याकारैश् चतुर्थध्यानम् आलंब्यत इति. अतो न कामधातोर् इव रूपधातोर् आरूप्या दूरे व्यवस्थाप्यंते. प्रतिपक्षदूरता. यद् आरूप्या न कामधातोः प्रतिपक्षः. यथा रूपधातुः. इत्य् एवम् आश्रयालम्बनाकारप्रतिपक्षदूरताभिर् अपि कामधातोर् आरूप्या दूरे भवंति. तस्मान् न कामावचरकुशलानन्तरं आरूप्यावचरं कुशलम् उत्पद्यते. शैक्षम् अशैक्षं चेति. कामावचरप्रायोगिककुशलचित्तानन्तरं समापत्तिकाले लब्धपूर्वं शैक्षम् उत्पद्यते. तथैव चाशैक्षं. क्लिष्टसमापत्त्युत्पीडितस्येति. क्लिष्टया समापत्त्या उत्पीडितस्य योगिनो ऽधरायाः कुशलाया भूमेः संश्रयणान् निवृताव्याकृताद् अपि कुशलं चित्तम् उत्पद्यते. वरम् अधरापि कुशला भूमिर् नोर्ध्वा क्लिष्टेति. सर्वेभ्यो रूपारूप्यचित्तेभ्य इति. कुशलाव्याकृतचित्तस्य मरणसंभवात्.
तस्माच् चत्वारीति.
तस्माद् अकुशलाच् चत्वारि स्वभूमिकान्य् एव. अकुशलस्योर्ध्वभूमिकुशलप्रयोगत्वासंभवाद् अप्रहाणाच् चोर्ध्वभूम्युपपत्तिचित्तानुत्पादात्. [तिब्. 230अ] कुशलं निर्माणचित्ताद् अनन्तरम् इति. निर्माणाद् व्युत्थानकाले. तस्माद् अनन्तरम् एकादशेति. प्रतिसंधिसमापत्तितद्व्युत्थाननिर्माणप्रवेशकालेष्व् एकादशचित्तोत्पत्तिसंभवः. कथं. स्वभूमिकानि त्रीणि कामावचराणि च. व्युत्थानकाले कुशलं. प्रतिसंधिकाले क्लिष्टद्वयं. अनिवृताव्याकृतं च निर्माणचित्तं. आरूप्यावचरं. च निवृताव्याकृतं प्रतिसंधिकाले. कुशलं च समापत्तिकाले. शैक्षम् अशैक्षं चेति. न त्व् आरूप्यावचरम् अनिवृताव्याकृतम्. अवश्याक्लिष्टत्वात्. समापत्त्याद्ययोगाच् च. न हि तत् प्रयोगलभ्यं यथा रूपावचरं कामावचरं च निर्माणचित्तं. कामावचरं च क्लिष्टद्वयं आरूप्यावचरं चानिवृताव्याकृतं हित्वेति. न कामावचरात् क्लिष्टद्वयात् रूपावचरं कुशलम् उत्पद्यते. तस्य क्लिष्टद्वयस्य तत्प्रयोगानर्हत्वात्. अत एव च नारूप्यावचराद् अनिवृताव्याकृतात् तद् उत्पद्यते. कुशलेन च प्रतिसंधिबन्धाभावात्. कामावचरं क्लिष्तद्वयं शैक्षाशैक्षे च स्थापयित्वेति. न कामावचरात् क्लिष्टद्वयाद् रूपावचरं निवृताव्याकृतम् उत्पद्यते. तदप्रहाणे रूपधातौ प्रतिसंधिबन्धाभावेन निवृताव्याकृतचित्तसंभवात्. न शैक्षाशैक्षाभ्यां. ततस्त्येन [तिब्. 230ब्] क्लिष्टेन व्युत्थानासंभवात्. कामावचराणि ( अभिध्-क्-व्य् 242 ) चेति. त्रीणीत्य् अधिकृतं. प्रतिसंधिकाले क्लिष्टद्वयं क्लिष्टसमाध्युत्पीडितस्य च कुशलं. कामावचरे च क्लिष्टे आरूप्यावचरं चेति. प्रतिसंधिकाले. अधरधातुकानि च क्लिष्टानि प्रतिसंधिकाले. आरूप्यावचरात् कुशलान् नवेति. स्वभूमिकानि त्रीणि. रूपावचरं कुशलं तत्समापत्तिव्युत्थानकाले प्रतिलोमसमापत्तौ च. अधरभूमिकानि च क्लिष्टानि प्रतिसंधिकाले. शैक्षम् अशैक्षं च. कामावचरं कुशलं कामरूपावचरानिवृताव्याकृते हित्वेति. न कामावचरेण कुशलेन तत्समापत्तेर् व्युत्थानं संभवति अतिविप्रकृष्टत्वात्. अत एव च नानिवृताव्याकृतेनापि अपटुत्वात्. अत एव च न रूपावचरेणानिवृताव्याकृतेन व्युत्थानं. न चैभिः प्रतिसंधिबन्धो ऽस्तीति नैषाम् अत उत्पत्तिः. तत्षण्णाम् अनंतरम् इति वर्तते. रूपावचरात् कुशलाद् इति. समापत्तिकाले. शैक्षाशैक्षाभ्यां चेति. व्युत्थानकाले. रूपावचरं कुशलम् इति. क्लिष्टसमाध्युत्पीडितस्य. निवृतं चेत्यादि. प्रतिसंधिकाले. कामरूपावचराणि क्लिष्तानि शैक्षाशैक्षे च हित्वेति. अधोभूम्यवीतरागस्य तेन [तिब्. 231अ] प्रतिसंधेर् अभावात्. शैक्षाशैक्षाभ्यां च तेन व्युत्थानासंभवान् न तेभ्यस् तदुत्पत्तिः. तान्य् एव चत्वार्य् अशैक्षं चेति. त्रीणि त्रैधातुकानि कुशलानि व्युत्थानकाले. शैक्षं च प्रवाहे. वज्रोपमानन्तरं क्षयज्ञानम् इति अशैक्षं चेति. पंच पंचकाद् अत एवानन्तरोक्ताद् इति. त्रैधातुकेभ्यः कुशलेभ्यः समापत्तिकाले. वज्रोपमानन्तरोत्पत्तौ प्रवाहे चेति. तस्माच् चत्वारीति. शैक्षं हित्वा. न ह्य् अशैक्षात् शैक्षम् उत्पद्यते. परिहाणिकाले कथं नोत्पद्यते. क्लेशोत्पादव्यवहितत्वात्. व्युत्थितस्यैव परिहाणेश् च.
(इइ.72, 73) प्रायोगिकं चोपपत्तिलाभिकं चेति. प्रायोगिकं यत् प्रयोगाल् लभ्यते. श्रुतचिन्ताभावनामयं त्रिषु धातुषु यथासंभवं. उपपत्तिलाभिकं कामरूपधात्वोर् अन्तराभवप्रतिसंधिक्षणे प्रथमतो यस्य प्राप्तिर् उत्पद्यते. आरूप्यधातौ चोपपत्तिभवे यस्य प्राप्तिर् उत्पद्यते. विपाकजम् ऐर्यापथिकं शैल्पस्थानिकं निर्माणचित्तं चेति. हेतुकर्मभेदाद् अयं भेदः. विपाकहेतोर् जातं विपाकजं. ईर्यापथेषु शयनासनस्थितिचंक्रमणेषु भवं ऐर्यापथिकं. शिल्पस्थानेषु भवं शैल्पस्थानिकं. निर्माणे चित्तं निर्माणचित्तं. निर्मिते निर्माणे वा भवं नैर्मितं नैर्माणिकम् इति वा. तद् एवोच्यते. पुनर् विंशतिर् भवन्तीति. कथम् इत्य् आह. षोढा कुशलम् अनिवृताव्याकृतं च सप्तधा भित्त्वेति. त्रिषु धातुषु प्रायोगिकोपपत्तिप्रतिलंभिकभेदेन [तिब्. 231ब्] कुशलं षोढा भित्त्वा. कामरूपधात्वोश् चानिवृताव्याकृते सप्तधा भित्त्वा. कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकभेदेन. रूपधातौ च विपाकजैर्यापथिकनैर्माणिकभेदेनेति. तान्य् एतानि त्रयोदश शेषाणि च सप्ताभिन्नान्य् एव. तद्यथा ( अभिध्-क्-व्य् 243 ) कामावचरम् अकुशलं निवृताव्याकृतं च. रूपावचरं निवृताव्याकृतम् एव आरूप्यावचरं निवृताव्य्कृतम् अनिवृताव्याकृतं च. शैक्षम् अशैक्षं चेति विंशति चित्तानि भवंति. ईर्यापथाद्यधावाद् इति. ईर्यापथशिल्पस्थाननिर्माणाभावात्. एतानि त्रीण्य् आरूप्यधातौ न संति. आलम्बनभूतस्य रूपस्याभावात्. रूपगन्धरसस्प्रष्टव्यान्य् एषाम् आलम्बनम् इति. तत्र शय्यासनरूपादयः स्वशरीरावयवरूपादयश् चैर्यापथिकस्यालम्बनं. शैल्पस्थानिकस्य शिल्पस्थानरूपादयः नैर्माणिकस्य निर्माणरूपादयः. शैल्पस्थानिकस्य तु शब्दो ऽपीति. तुशब्दो विशेषणे अपिशब्देन रूपादयः. शब्दो ऽप्य् अस्यालम्बनं. शिल्पोपदेशशब्दम् आलम्ब्य मनोविज्ञानेन शिल्पं शिक्षते इति. विपाकजस्यावचनात् सर्वे ऽपि रूपादय आलम्बनम् इत्य् अवगन्तव्यं. मनोविज्ञानान्य् एवेति. मनोविज्ञानस्वभावान्य् ऐर्यापथिकादीनि त्रीणि. विकल्पाभिसंस्करणे [तिब्. 232अ] प्रवृत्तत्वात्. विपाकजम् अवचनात् षड्विज्ञानस्वभावम् इति ज्ञापितं भवति. पंच तु विज्ञानकायम् ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिका इति. तत्प्रयोगावस्थायां भवत्वात् प्रायोगिकाः. यस्मात् ते दृष्ट्वा यावत् स्पृस्ट्वोत्पद्यंत इति. विपाकस्य प्रयोगो नास्ति. कर्मसामर्थ्येन स्वरसवाहित्वात्.
ऐर्यापथिकाभिनिर्हृतम् इति विस्तरः. ऐर्यापथिकेन मनोविज्ञानेनाभिनिर्हृतम् उत्पादितं मनोविज्ञानम् अस्ति द्वादशायतनालम्बनं. चक्षुरायतनालम्बनं यावद् धर्मायतनालंबनम् अनिवृताव्याकृतस्वभावम् इत्य् अपरे. तद् एवं प्रदर्शयंति. अन्यद् अप्य् अनिवृताव्याकृतम् अस्ति यद् ऐर्यापथिकादिषु नान्तर्भवतीति. इत्थम् एव च प्रतिपत्तव्यं. अन्यथा हि यद् वक्ष्यति
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत्
द्वितीयादौ तद् आद्याप्तम् अक्लिष्टाव्याकृतं च तत्.
स्वभूमिकेन निर्माणं भाषणं त्व् अधरेण चेत्य् आदि.
तानि विज्ञानानि एषां चतुर्णां कतमेन संगृहीतानि. न तावद् विपाकजानि. ऊर्ध्वोपपन्नानाम् अधरभूमिकविपाकासंभवात्. नैर्यापथिकादीनि. ईर्यापथाद्यभावात्. अज्ञानादिवासनाचित्तं च क्व प्रवेशयितव्यं भदन्तानन्तवर्मणा ऽपि विभाषाव्याख्यान उक्तम्. एतच् चतुष्टयव्यतिरिक्तान्य् अव्याकृतानि विज्ञानानि [तिब्. 232ब्] सन्तीति. सावशेषम् एतद् भाष्यम् इत्य् अवगन्तव्यं.
अन्यत्राभिज्ञाफलाद् इति. कामावचरं निर्माणचित्तं रूपावचरप्रायोगिकानन्तरम् एवोत्पद्यते. न कामावचरप्रायोगिकानन्तरं. रूपावचरं प्रायोगिकं शैक्षम् अशैक्षं चेति. समापत्तिकाले. स्वेभ्यः कुशलक्लिष्टेभ्य इति. स्वाभ्यां कुशलाभ्यां क्लिष्टाभ्यां च. प्रयोगकाले क्लिष्टासद्भावात्. क्लेशपरिखिन्नस्य च प्रायोगिकोत्पत्तेः. नानिवृताव्याकृतेभ्यः दुर्बलानभिसंस्कारित्वात्. रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्याम् इति. प्रायोगिकात् क्लिष्टात्. शैक्षाशैक्षाभ्यां ( अभिध्-क्-व्य् 244 ) च व्युत्थानकाले. क्लिष्टात् क्लिष्टसमाध्युत्पीडितस्य. रूपारूप्यावचरे च क्लिष्टे इति. प्रतिसंधिकाले. संभवति ह्य् उपपत्तिप्रतिलंभिकचित्तस्य मरणं. पूर्ववद् इति. अन्यत्राभिज्ञाफलाद् इत्य् अर्थः. तद् धि रूपावचरप्रायोगिकानन्तरम् एवेत्य् उक्तं. रूपावचराभ्यां चेति विस्तरेण पूर्ववद् व्याख्यानं. अकुशलनिवृताव्याकृतानन्तरम् इति. अकुशलानन्तरं निवृताव्याकृतानन्तरं चेति विभक्तव्यं. तुल्यत्वाद् धि तद् युगपद्वचनं. रूपावचरेभ्यश् चतुर्भ्यः. अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् इति. प्रतिसंधिकाले. प्रायोगिके ऽभिज्ञाफले च स्थितस्य नास्ति मरणम्. अतस् ताभ्यां तत् क्लिष्टद्वयं नोत्पद्यते. शेषेषु तु स्थितस्यास्ति मरणं. [तिब्. 233अ] अतस् तेभ्यस् तत् क्लिष्टद्वयम् उत्पद्यते. प्रतिसंधिकाले. एवम् अन्यत्राप्य् अन्यत्र प्रायोगिकाद् इति व्याख्येयं. षड् अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् इति. दुर्बलानभिसंस्कारकत्वात्. अनयोर् अनन्तरं प्रायोगिकं नोत्पद्यते. रूपावचरप्रायोगिकानन्तरोत्पत्तेश् च न ताभ्याम् अभिज्ञाफलोत्पत्तिः. रूपारूप्यावचरे च क्लिष्टे इति. प्रतिसंधिकाले. शैल्पस्थानिकानन्तरं षड् इति. तत्रस्थस्य मरणासंभवात् ऐर्यापथिकविपाकजवद् इह रूपारूप्यावचरक्लिष्टयोर् असंभवः. स्वं चाभिज्ञाफलम् एवेति. प्रवाहकाले. रूपावचरं च प्रायोगिकम् इति. तद्व्युत्थाने. न ह्य् अप्रविश्य ध्यानं अभिज्ञाफलाद् व्युत्थानम् अस्तीति. तदप्य् अस्माद् एव द्वयाद् इति. तद् अभिज्ञाफलं प्रवाहे तत्प्रवेशकाले च. कामावचरकुशले इति. व्युत्थानकाले. अस्ति हि संभव उपपत्तिप्रतिलंभिकेनापि समापत्तिव्युत्थानं पटुत्वात्. अतो द्वयोर् अपि कुशलयोर् ग्रहणं. अभिज्ञाफलं चेति. कामावचरं निर्माणचित्तं. आरूप्यावचरं प्रायोगिकं शैक्षाशैक्षं च समापत्तिकाले. अन्यत्रैर्यापथिकविपाकजाभ्याम् इति. तयोर् दुर्बलानभिसंस्कारिकत्वात्. प्रायोगिकक्लिष्टाभ्याम् [तिब्. 233ब्] इति. व्युत्थानक्लिष्टसमापत्त्युत्पीडितकालयोः. कामावचरे क्लिष्टे इति प्रतिसंधिकाले. अन्यत्राभिज्ञाफलाद् इति. निर्माणचित्तस्य प्रायोगिकानन्तरोत्पत्तेः. आरूप्यावचरं क्लिष्तम् इति. प्रतिसंधिकाले. कुशलक्लिष्टानीति. कुशले च क्लिष्टे च कुशलक्लिष्टानीति समासः. कुशलाधरभूमिकाश्रयणात् कुशले. क्लिष्टे तु प्रतिसंधिकाले.कामावचरेभ्य इति विस्तरः. प्रतिसंधिकाले. प्रायोगिकशैल्पस्थानिकाभिज्ञाफलेषु मृत्युर् नास्तीति न तेभ्यः. कामावचरे क्लिष्टे इति. प्रतिसंधिकाले. आरूप्यावचरम् अपि क्लिष्टम् अस्मिन्न् एव स्वं प्रायोगिकं अतो नोत्पद्यते. ऐर्यापथिकस्य दुर्बलानभिसंस्कारित्वेन प्रयोगानर्हत्वात्. एवं विपाकजम् इति. यथैर्यापथिकम् उक्तं. तथेदं विपाकजानन्तरं सप्त यावद् अन्यत्राभिज्ञाफलाद् इति.
ताव् एव ग्रन्थार्थौ. अभिज्ञाफलानन्तरं द्वे स्वे इति. व्युत्थाने प्रवाहे च. तद् अप्य् आभ्याम् एवेति. प्रवेशे प्रवाहे च. ( अभिध्-क्-व्य् 245 ) रूपावचरं प्रायोगिकम् इति. व्युत्थानकाले. एवं शैक्षम् अशैक्षं [तिब्. 234अ] स्वानि चत्वारीति. कुशलं भवतीति स्फुटं. क्लिष्टं आस्वादनाकाले. ऽनिवृताव्याकृतं तु व्युत्थानकाले. रूपावचरात् प्रायोगिकाद् इति. समापत्तिकाले. अन्यत्र विपाकजाद् इति. दुर्बलानभिसंस्कारवाहित्वाद् इति कारणं वक्ष्यते. शैक्षाशैक्षाभ्यां चेति. समापत्तिकाले. अधरधातुकानि च क्लिष्टानीति. रूपावचरकामावचराणि प्रतिसंधिकाले. प्रायोगिकक्लिष्टे इति. प्रायोगिकं क्लिष्टसमाध्युत्पीडनात्. क्लिष्तं प्रतिसंधिकाले. कामावचरे ऽपि क्लिष्टे प्रतिसंधिकाल एव. कामावचररूपावचरेभ्य इति विस्तरः. तच्चित्तस्थमरणसंभवात्. अन्यत्र प्रायोगिकाद् इति. विपाकजानन्तरं प्रायोगिकानुत्पत्तेः. अधराणि त्रीणि क्लिष्टानीति. द्विधातुकानि प्रतिसंधिकाले. कामावचरम् उत्पत्तिलाभिकम् इति. पटुत्वाद् एतच् छैक्षाद् व्युत्थानचित्तं संभवति. पटुत्वाद् इति कारणं वक्ष्यति. न तु तथा रूपारूप्यावचरे उपपत्तिलाभिके पटुनी इति न ते संभवतः. शैक्षं प्रवाहे अशैक्षं च वज्रोपमानन्तरं. शैक्षम् एकं हित्वेति. अशैक्षाच् छैक्षं नोत्पद्यते. तस्माद् अशैक्षानंतरं पंच. न तु षट् यथा शैक्षात्. तानि च पंच शैक्षवद् वक्तव्यानि [तिब्. 234ब्].
अत्र विंशतिचित्तानां समनन्तरप्रत्ययस्य असूत्रितस्य सूत्ररूपाः संग्रहश्लोकाः.
प्रायोगिकाच् छुभात् कामे दशाष्टभ्यस् तद् अन्यथः
शुभान् नवैकादशतस् तत् सप्त क्लिष्टतः पृथक्
चतुर्दशभ्यश् ते ऽष्टाव् ऐर्यापथिकविपाकजात्
ते तु सप्ततः षट् शैल्पस्थानिकात् तत् तु सप्ततः
नैर्मिताद् द्वे द्वयोश् चैतद् रूपे प्रायोगिकाच् छुबात्
द्वादशैतत् तु दशतः शुभाद् अष्टाव् अयत्नजात्
तत् पंचभ्यो नव क्लिष्टात् तद् एकादशतः पुनः
विपाकजैर्यापथिकात् सप्त तत् पंचतो द्वयं
द्वे अभिज्ञाफलाच् चित्ताद् द्वाभ्याम् एव तथैव तत्
आरूप्ये यात्निकात् सप्त कुशलात् षड्भ्य एव तत्
अयात्निकाच् छुभात् सप्त चतुर्भ्यस् तत् पुनः स्मृतं
क्लिष्टाद् अष्टौ दशभ्यस् तत् षट् चित्तानि विपाकजात्
चतुर्भ्यस् तत् तु षट् शैक्षाच् चतुर्भ्यः पुनर् एव तत्.
अशैक्षात् पंच तद् अपि पंचभ्यः समनंतरं.
ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. न पुनर् एभ्यः प्रायोगिकम् उत्पद्यत इत्य् अधिकृतं. अतो ऽसंभवाद् ऐर्यापथिकशैल्पस्थानिकानन्तरं ( अभिध्-क्-व्य् 246 ) प्रायोगिकं नोत्पद्यते. तद् अन्याभिसंस्करणप्रवृत्तत्वाद् इत्य् अभिप्रायः. यस्माद् ऐर्यापथिकम् ईर्यापथाभिसंस्करणे प्रवृत्तं. गमनाद्याकारत्वात्. शैल्पस्थानिकं च श्लिपाभिसंस्करणे प्रवृत्तम्. इदं एवं करोमीदम् एवं करोमीतीत्य् एवमाकारप्रवृत्तत्वात्. दुर्बलानभिसंस्कारवाहित्वाच् च विपाकजानन्तरं प्रायोगिकं नोत्पद्यते. [तिब्. 235अ] तद् धि विपाकजम् अव्याकृतत्वाद् दुर्बलं. पूर्वकर्माक्षेपात्. अयत्नेन च प्रवृत्तेर् अनभिसंकारवाहीति. अथ वा ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. ऐर्यापथिकशैल्पस्थानिकानन्तरं न प्रायोगिकम् उत्पद्यते. दुर्बलानभिसंस्कारवाहित्वाच् च ऐर्यापथिकशैल्पस्थानिकविपाकजानन्तरं प्रायोगिकं नोत्पद्यते. सर्वेषाम् अव्याकृतत्वेन दुर्बलत्वात्. अनभिसंस्कारवाहित्वाच् च विपाकजस्यैवैकस्य ऐर्यापथिकशैल्पस्थानिकयोर् अपि वा प्रायोगिकाभिसंस्काराभावात्. अन्यव्यापारपरत्वमात्राद् धि तयोर् अभिसंस्करणप्रवृत्तत्वम् उक्तं. अथ वायम् एवास्य वाक्यस्याभिसंबन्धः. ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. दुर्बलानभिसंस्कारवाहित्वाच् चैतानि विपाकजैर्यापथिकशैल्पस्थानिकानि न प्रयोगिकानुकूलानि. अतो न तदनन्तरं प्रायोगिकम् उत्पद्यत इति संबन्धनीयं. निष्क्रमणचित्तं तु अनभिसंस्कारवाहीति. प्रायोगिकचित्तप्रवाहाद् यद् अन्यच् चित्तं. तन् निष्क्रमणचित्तं. तेन ह्य् असौ योगी ततः प्रवाहान् निष्क्रामति तदवतारत्वात्. निष्क्रमणचित्तम् अन्भिसंस्कारवाहि अनाभोगवाहीति युक्तो ऽस्य निष्क्रमणचित्तस्य विपाकजादीनाम् अन्यतमस्वभावस्य [तिब्. 235ब्] प्रायोगिकचित्तानन्तरम् उत्पादः. एवं तर्हीति. यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्यो ऽनन्तरं प्रायोगिकं नोत्पद्यते. एवं तर्हि क्लिष्टेभ्यो ऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात्. विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्य् अर्थः तद्विरोधित्वात्. तथापीति विस्तरः. यद्य् अपि तद् विगुणं तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनः तत्परिज्ञानात् क्लेशसमुदाचारपरिज्ञानाद् युक्तः प्रायोगिकसंमुखीभावः. तत्परिज्ञानम् एव हि प्रायोगिकं चित्तम् इति. पटुत्वाद् इति. कामावचरम् उत्पत्तिप्रतिलंभिकं पटु तच् छैक्षादिभ्यो व्युत्थानचित्तं संभवति. अत एव च क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं भवति. अनभिसंस्कारवाहित्वात् तु तस्य तस्माच् छैक्षादीनि नोत्पद्यन्ते. रूपावचरं तूपपत्तिप्रतिलंभिकं न कामावचरवत् पटु. तस्मात् क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं न भवति. प्रायोगिकम् एवाश्रीयते. अन्योन्यानन्तरं चित्तानाम् उत्पादः.
तानि च मनस्कारवशाद् उत्पद्यंत इति अतो मनस्कारोपक्षेपः. त्रयो मनस्कारा इति विस्तरः. स्वलक्षणस्य मनसिकरणं स्वलक्षणमनस्कारः. तद्यथा रूपणालक्षणं रूपम् इत्य् एवमादि. आदिशब्देनानुभवनलक्सणा वेदनेति एवमादि.[तिब्. 236अ] अनित्यत्वादिमनसिकरणं सामान्यलक्षणमनस्कारः ( अभिध्-क्-व्य् 247 ) षोडशाकारसंप्रयुक्तः. अनित्यतो यावन् नैर्याणिकत इति. अधिमुक्त्या न भूतार्थे मनसिकरणं अधिमुक्तिमनस्कारः. अशुभायां यावत् कृत्स्नायतनादिषु. आदिशब्देन ऋद्ध्यादीनाम् अभिनिर्हारे लगुत्वाद्यधिमोक्षो गृह्यते. तद्यथा महर्द्धिको महानुभावः परीत्तां पृथिवीसंज्ञाम् अप्य् अधितिष्ठति. अप्रमाणाम् अपि संज्ञां. स आकांक्षन् पृथिवीं चलयतीति विस्तरः. अशुभया सहगतं सम्बद्धं अशुभासहगतं. एतद् उक्तं भवति. अशुभामनस्कारानन्तरं स्मृतिसंबोध्यंगं भावयति जनयति उत्पादयतीति. समृतिसंबोध्यंगं ह्य् आर्यमार्ग इति अस्त्य् अधिमुक्तिमनस्कारानन्तरं आर्यमार्गोत्पाद इति दर्शयति. आह. यदि सामान्यमनस्कारानान्तरम् एव नाधिमुक्तिमनस्कारानंतरम् आर्यमार्गं संमुखीकरोति. इदं कथं नीयते. अशुभासहगतं स्मृतिसंबोध्यंगं भावयतीति. अत इदम् उच्यते. अशुभया तु चित्तं दमयित्वेति विस्तरः. प्रायोगावस्थायाम् अशुभया चित्तं दमयित्वा यावद् अवसाने सामान्यमनस्कारानन्तरम् आर्यमार्गं संमुखीकर्तोइ. अतो न सूत्रविरोध इति. आर्यमार्गानन्तरम् अपीति विस्तरः. न केवलं सामान्यमनस्कारानन्तरं आर्यमार्गं संमुखीकरोति. [तिब्. 236ब्] आर्यमार्गानन्तरम् अपि सामान्यमनस्कारम् एव संमुखीकरोतीत्य् अपरे. स्यात् तावद् इति विस्तरः. अनायम्यादीति. आदिशब्देनानागम्यप्रथमध्यानध्यानान्तरत्रिभूमिसंनिश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामावचरं सामान्यमनस्कारं श्रुतमयं चिन्तामयं वा संमुखीकुर्यात् संनिकृष्टत्वात्. अथ द्वितीयादिध्यानसंनिश्रयेण द्वितीयतृतीयचतुर्थध्यानसंनिश्रयेण नियामावक्रान्तौ कथम् आर्यमार्गानन्तरं कथं सामान्यमनस्कारं संमुखीकरोति. न हि कामावचरः शक्यः संमुखीकर्तुम् इति वाक्यशेषः. कस्मात्. प्रथमध्यानव्यवहितत्वेनातिविप्रकृष्टत्वात्. ब्रूयास् त्वं द्वितीयादिध्यानभूमिकम् एव संमुखीकरोतीति. अत आह. न च तद्भूमिकः प्रतिलब्धो ऽन्यत्र निर्वेधभागीयाद् इति. द्वितीयध्यानादिभूमिको ऽनागम्यादिभूमिको वानास्रवो मार्गो ऽन्यत्र निर्वेधभागीयान् न प्रतिलब्ध आसीत्. अनाकारपतितस् तु लौकिको मार्गः प्रतिलब्ध आसीत्. न तु सः. तस्माद् आर्यस्य व्युत्थानार्थं रोचते. निर्वेधभागीयं तर्हि सामान्यमनस्कारं संमुखीकरिष्यतीति. अत आह. न चार्यो निर्वेधभागीयम् इति विस्तरः. किम् अर्थम् इति चेत्. अत आह. न हि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति. प्रयोगस्य कृतार्थत्वान् [तिब्. 237अ] निहीनत्वाच् च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति. अन्यो ऽप्य् अस्य तज्जातीय इति. यः सत्यालम्बनत्वान् निर्वेधभागीयजातीयः सामान्यमनस्कारो भावनां गच्छति. अनास्रवमार्गोत्पत्तिकाले प्राप्यते इत्य् अर्थः. कथं. शान्तं निर्वाणम् इति सामान्यमनस्कारः सर्वनिर्वाणालम्बनत्वात्. ( अभिध्-क्-व्य् 248 ) तत् संमुखीकरिष्यतीति. सर्वसंस्कारा अनित्या इति वा सर्वधर्मा अनात्मान इति वा शान्तं निर्वाणम् इति वार्यमार्गानन्तरं संमुखीकरिष्यतीति. तद् एतन् न वर्णयन्ति. कस्मात् एषां तज्जातीयानां सामान्यमनस्काराणां निर्वेधभागीयप्रतिबद्धभावनत्वात्. न किलैषाम् अनास्रवमार्गप्रतिबद्धाभावेनेति. अनागम्यं निश्रित्येति विस्तरः. तद्भूमिकम् इति. अनागम्यभूमिकं. तद्भूमिकं भावाग्रिकं वेति. आकिंचन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो भवति. शेषासु भूमिषु स्वभूमिकम् एव व्युत्थानचित्तं. नान्यभूमिकं. अन्यभूमिकस्य प्रयोगसाध्यत्वात्. स्वभूमिकम् अनभिसंस्कारेण भवतीति. प्रयोगप्रतिबद्धत्वाद् इति. कस्य. आर्यमार्गस्य. मार्गानन्तरं तूपपत्तिप्रतिलंभिकस्यापि कामावचरस्य संमुखीभाव इत्य् अधिकृतं.
(इइ.74) क्लिष्टे त्रिधातुके लाभः षण्णां षण्णां द्वयोर्
इति. यथासंख्येन [तिब्. 237ब्] निर्देशः. कामावचरे क्लिष्ते षण्णां चित्तानां लाभः. प्रतिलंभ इत्य् अर्थः. रूपावचरे षण्णां. आरूप्यावचरे द्वयोर् इति. तेनाह. कामावचरे हि क्लिष्ट इति विस्तरः. तैर् असमन्वागतस्येति. तैः षड्भिश् चित्तैर् असमन्वागतस्य पुद्गलस्य. कथं. इह कुशलप्रतिसंधानं सम्यग्दृष्ट्या वा विचिकित्सया वा. तद् यदि विचिकित्सया प्रतिसंधत्ते. तत्र विचिकित्सासंप्रयुक्ते क्लिष्टे चित्ते संमुखीभूते यदा रूपधातोर् आरूप्यधातोर् वा कामधातुं प्रत्यागच्छति. तदास्यान्तराभवप्रतिसंधिचित्ते ऽवश्यक्लिष्टे तस्य कुशलस्य लाभस् तेनासमन्वागतस्येति. अकुशलनिवृताव्याकृतयोर् इति विस्तरः. अकुशलं च निवृताव्याकृतं च कामावचरम् एव अधिकाराद् रूपावचरस्य च निवृतस्य पृथक्पाठात्. तयोर् अकुशलनिवृताव्याकृतयो रूपावचरस्य क्लिष्तस्य. किं. लाभ इति प्रकृतं. कथं लाभ इत्य् आह. धातुप्रत्यागमनात् परिहाणितश् चेति. यदा रूपधातोर् आरूप्यधातोर् वा कामधातुं प्रत्यागच्छति. तदास्यांतराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे ऽकुशलनिवृताव्याकृतयोर् अन्यतरस्मिं संमुखीभूते तयोर् अकुशलनिवृताव्याकृतयोर् लाभो भवति पूर्वविहीनत्वात् तेनासमन्वागतस्य. परिहाणितश् च. [तिब्. 238अ] यदा च कामवैराग्यात् परिहीयते. तदास्य क्लिष्टे परिहाणिचित्ते संमुखीभूते तयोः क्लिष्टयोर् लाभस् तेनासमन्वागतस्य. रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात्. यदारूप्यधातोः कामधातुं प्रत्यागच्छति. तदास्यान्तराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे रूपावचरस्य क्लिष्टस्य पूर्वविहीनस्य लाभो भवति तेनासमन्वागतस्य. परिहाणितश् च. यदा रूपवैराग्यात् परिहीयते कामावचरेण चित्तेन. तदास्य वैराग्यत्यक्तस्य रूपावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य. ( अभिध्-क्-व्य् 249 ) आरूप्यावचरस्य क्लिष्टस्य परिहाणितः. यदा कामावचरेण चित्तेनारूप्यवैराग्यात् परिहीयते. तदास्यारूप्यावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य. शैक्षस्य च परिहाणित इत्य् अधिकृतं. यदा कामावचरेण चित्तेनार्हत्त्वात् परिहीयते. तदास्य शैक्षचित्तस्य लाभो भवति तेनास्मन्वागतस्य. एवं तावत् कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभ उक्तस् तैर् असमन्वागतस्य. रूपावचरे क्लिष्ते चित्ते संमुखीभूते षण्णां लाभः तैर् असमन्वागतस्य. रूपावचराणाम् इति विस्तरः. यदारूप्यधातो रूपधातुं प्रत्यागच्छति. तदास्य रूपावचरान्तराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे रूपावचराणां त्रयाणां कुशलस्योपपत्तिप्रतिलंभिकस्य [तिब्. 238ब्] क्लिष्टस्यानिवृताव्याकृतस्य च. निर्माणचित्तस्याग्रजप्राप्तिसद्भावात्. कामावचरस्य चानिवृताव्याकृतस्य निर्माणचित्तस्यैव. आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च लाभः. परिहाणितो रूपावचरेण चित्तेनार्हत्त्वात् परिहीयमाणस्य तदसमन्वागतस्य. एवं रूपावचरे ऽपि क्लिष्टे षण्णां लाभ उक्तः. आरूप्यावचरे तु क्लिष्टे द्वयोर् लाभस् ताभ्याम् असमन्वागतस्य. परिहाणित आरूप्यावचरेण चित्तेनार्हत्त्वात् परिहीयमाणस्यैव क्लिष्टस्य यस्यैकदेशः संमुखीभूतः शैक्षस्य चेति.
रूपावचरे कुशले त्रयाणाम्
इति. कुशल इति जातिनिर्देशः. कुशले कस्मिंश्चिद् रूपावचरे त्रयाणां लाभः संभवः. कथम्. आद्ये तावद् रूपावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य रूपावचरस्य लाभस् तेनासमन्वागतस्य. मौलध्यानसंगृहीते तु कुशले चित्ते संमुखीभूते कामावचररूपावचरयोर् अनिवृताव्याकृतयोर् निर्माणचित्तयोर् लाभः ताभ्याम् असमन्वागतस्य. इत्य् एवं कुशले रूपावचरे चित्ते संमुखीभूते त्रयाणां लाभ इत्य् उच्यते. न तु युगपल्लाभ इति.
शैक्षे चतुर्णाम्
इति. शैक्षे चित्ते संमुखीभूते दुःखे धर्मज्ञानक्षांतिचित्ते तस्यैव शैक्षस्य दुःखे धर्मज्ञानक्षांतिकलापस्वभावस्य लाभस् तेनासमन्वागतस्य. कामरूपावचरयोश् चानिवृतव्याकृतयोर् [तिब्. 239अ] आरूप्यावचरस्य च कुशलस्य. कस्मिं कलाप इत्य् आह. आर्यमार्गेण कामरूपधातुवैराग्ये. कथम् इति. यदायम् अनागम्यभूमिकेनार्यमार्गेण कामवैराग्यं करोति. तदा नवमविमुक्तिमार्गसंगृहीते शैक्षे चित्ते संमुखीभूते कामरूपावचरयोर् अनिवृताव्याकृतयोर् निर्माणचित्तयोर् लाभस् ताभ्याम् असमन्वागतस्य. यदा तु षड्भूमिकानाम् आर्यमार्गाणाम् अन्यतमेन रूपवैराग्यं करोति. तदाद्यप्रकारचित्ते शैक्षे संमुखीभूते ऽतीतानागतप्राप्तिन्यायेनारूप्यावचरस्य कुशलस्य लाभस् तेनासमन्वागतस्य. आर्यमार्गग्रहणं सास्रवचित्तनिरासार्थं. शैक्षे चित्ते संभूते ऽयं लाभो वर्ण्यते.
अत्राचार्यगुणमतिर् व्याचष्टे.
शैक्षे चतुर्णां
तस्यैव शैक्षस्य कामरूपावचरयोश् चानिवृताव्याकृतयोर् अरूप्यावचरस्य च कुशलस्येति. कथम् इत्य् अतो ब्रवीति. आर्यमार्गेण कामरूपवैराग्ये यदायम् अनागम्यभूमिकेनार्यमार्गेण कामधातुवैराग्यं करोति. तदा यो नवमो विमुक्तिमार्गः. तस्मिं मौलध्यानभूमिकम् अपूर्वकं शैक्षं लभत इति शैक्षस्य लाभ उच्यते. कामरूपावचरयोश् चानिवृताव्याकृतयोर् निर्माणचित्तयोर् एव तस्मिं लाभः. षड्भूमिकेन त्व् आर्यमार्गेण [तिब्. 239ब्] कामरूपवैराग्ये यो नवमो विमुक्तिमार्गः. तस्मिन्न् आरूप्यावचरं कुषलं प्रतिलभत इति. तच्छिष्यो ऽप्य् आचार्यवसुमित्रस् तम् एवार्थं तेन वाक्येन तैर् एव पदव्यंजनैर् लिखति. तद् एतद् अयुक्तं व्याख्यानं. न ह्य् एवं एकवाक्येन व्याख्यातार्थो घटते. वाक्यभेदेन घटते. तस्यैव शैक्षस्य लाभ इत्य् एतद् एकं वाक्यं. कामरूपावचरयोश् च यावत् कामरूपधातुवैराग्य इत्य् अपरं वाक्यम्. आर्यमार्गेण कामरूपधातुवैराग्य इत्य् एतेन विशेषेण तस्यैव शैक्षस्येत्य् एतत् पूर्वोक्तं न विशेष्यं वाक्यान्तरत्वात्. अतद्वतो ह्य् अयं चित्तलाभो वर्ण्यते.
चित्तलाभो ह्य् अतद्वत
इति वचनात्. कथं. नवमे विमुक्तिमार्गे शैक्षचित्तवतः पुद्गलस्य शैक्षचित्तलाभो व्यवस्थाप्यते. ननु चोक्तं मौलध्यानभूमिकम् अपूर्वं शैक्षं लभ्यत इति. न अतिप्रसंगात्. रूपावचरम् अपि कुशलं चित्तं मौलध्यानभूमिकम् अपूर्वं प्रतिलभ्यत इति तस्यापि लाभ इति प्रसज्येत. आचार्यवसुमित्र आह. शैक्षचित्तस्थितस्य कामधातुवैराग्ये कुशलम् उष्मगतावस्थायाम् एव रूपावचरं नियामवाक्रान्तौ लब्धम् इति कृत्वा न गण्यत इति. तद् अयुक्तं शैक्षस्याप्य् अगणनाप्राप्तेः. शैक्षम् अपि हि दर्शनमार्गावस्थायां लब्धम् इति न भवता तथा स्थापयितव्यम् इति प्राप्नोति. अतश् चेदम् अपव्याख्यानम् इति निश्चीयते. यस्माद् आचार्येणैव [तिब्. 240अ] मिश्रश्लोकव्याख्यान एवं लिखितं. शैक्षस्याशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोर् इति.
शेषं कृतशेषितम्
इति. प्रातिपदिकधातुरूपम् एतद् इति दर्शयति. यत्र चित्ते लाभो न व्याख्यातः. तत्र तस्यैव लाभ इति. कथं कृत्वा. कामावचरे तावत् कुशलचित्त इयतां चित्तानां लाभ इति न व्याख्यातः. तत्र तस्यैव लाभो नान्येषां. तद्यथा सम्यग्दृष्ट्या कुशलमूलप्रतिसंधाने कामावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य चित्तस्य लाभः तेनासमन्वागतस्य. नान्येषां क्लिष्टानां. ( अभिध्-क्-व्य् 251 ) त्रैधातुकानाम् अपि पूर्वप्रतिलब्धत्वात्. न कामावचरस्यानिवृताव्याकृतस्य. विपाकजादीनां सहजप्राप्तित्वात्. निर्माणचित्तस्य प्राप्त्यभावात्. न रूपारूप्यावचराणां कुशलादीनां शैक्षशैक्षयोश् च प्राप्त्यभावात्. अनिवृताव्याकृते ऽपि कामावचरे चित्ते लाभो न व्याख्यातः. तत्र तस्यैव लाभः तेनासमन्वागतस्य.
अव्याकृताप्तिः सहजेति
कृत्वा. नन्येषां कुशलादीनां पूर्वप्रतिलब्धत्वात्. तथैव केषांचित् प्राप्त्यभावाच् च. निर्माणचित्ते तु संमुखीभूते न कस्यचिल् लाभ इति न वक्तव्यं. यत्र हि क्लिष्टे ऽन्यत्र वा कस्यचिल् लाभो नास्ति. न तद् उच्यते. क्लिष्ट एव हि त्रैधातुके षण्णां यावद् द्वयोर् लाभो न त्व् अवश्यम् इत्य् अवधारणं. रूपावचरे ऽप्य् [तिब्. 240ब्] अनिवृताव्याकृते संमुखीभूते तस्यैव लाभः. नान्येषां पूर्ववद् वक्तव्यं. तथारूप्यावचरे आकाशानन्त्यायतनसामन्तकाद्यप्रकारसंगृहीते कुशलचित्ते संमुखीभूते तस्यैव लाभस् तेनासमन्वागतस्य. नान्येषां केषांचित्. पूर्वप्रतिलब्धत्वात् केषांचित् प्राप्त्यभावात्. एवं अनिवृताव्याकृते शैक्षे च.
अन्ये पुनर् अभेदेनाहुर् इति. के. मिश्रककारा. अभेदेनेति त्रैधातुकानां क्लिष्टादीनाम् अपृथक्करणात्.
षण्णां तु कुशले चित्ते
इति. यद् उक्तं. तन् न्यूनं लक्षणं. कुशलं हि त्रैधातुकं सास्रवम् अनास्रवं च. तत्र सप्तानां कशले चित्ते इति वक्तव्य्ं न षण्णाम् इति तद् दर्शयन्न् आह. कामावचरस्येति विस्तरः. कुशलमूलेप्रतिसंधानाद् इति व्याख्यातम् एतत्. अनिवृताव्याकृतयोर् वैराग्यत इति. लौकिकेन लोकोत्तरेण वा मार्गेण कामधातोर् वैराग्ये नवमे विमुक्तिमार्गे कामरूपावचरयोर् निर्माणचित्तयोर् लाभस् ताभ्याम् असमन्वागतस्य. रूपाराप्यावचरयोः कुशलयोस् ततस्त्यसमाधिलाभत इति. यदा रूपावचरम् अनागम्यं प्रथमतो लभते. तदा रूपावचरस्य कुशलस्य लाभः. यदाकाशानंत्यायतनसामन्तकं प्रथमतो लभते. तदारूप्यावचरस्य कुशलस्य लाभः. [तिब्. 241अ] शैक्षस्य चाशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोर् इति. यदा नियमम् अवक्रामति. तदा शैक्षस्य दुःखे धर्मज्ञानक्षान्तिकलापस्य लाघः. यदार्हत्त्वं प्राप्नोति. तदाशैक्षस्य क्षयज्ञानकलापस्य लाभः. इत्य् आस्व् अवस्थास्व् अमीभिश् चित्तैर् यथोक्तैः सप्तभिर् असमन्वागतः समन्वागमनं प्रतिलभते. शेषम् अत एव व्याख्यानाद् उपधार्यम् इति. अत एव मदीयाद् व्याख्यानाच् छेषम् अवगन्तव्यं.
क्लिष्टे चित्ते नवानां हि लाभ
इत्य् एकं.
तस्यैवव्याकृते खल्व्
इति द्वितीयम्. इत्य् एतच् छेषं. कथं. क्लिष्टे त्रिधातुके चित्ते नवानां लाभः. कामावचराणां चतुर्णां रूपावचराणां त्रयाणाम् आरूयावचरस्य निवृतस्य शैक्षस्य चेति नवानां यथायोगं लाभः तैर् असमन्वागतस्य. को ऽयं यथायोगार्थः. कामावचरो च क्लिष्टे कुशलमूलप्रतिसंधानेन वा धातुप्रत्यागमनेन वा कामावचरस्य कुशलस्य लाभः. अकुशलनिवृताव्याकृतयोश् च धातुप्रत्यागमनेन परिहाण्या वा लाभः. रूपावचर एव क्ल्ष्टे रूपावचरस्य कुशलस्य कामावचररूपावचरयोश् चानिवृताव्याकृतयोर् निर्माणचित्तयोर् धातुप्रत्यागमनाल् लाभः. कामावचरे रूपावचरे वा क्लिष्टे रूपावचरस्य वा क्लिष्टस्य वा धातुप्रत्यागमनात् परिहाणितो वा लाभः. कामावचरे रूपावचरे आरूप्यावचरे वा क्लिष्टे [तिब्. 241ब्] आरूप्यावचरक्लिष्टशैक्षयोः परिहाणितो लाभः. इति यथायोगार्थः.
तस्यैवाव्याकृते खल्व्
इति. यच् छेषं. तत् तुल्यम् इति पूर्ववत्. अव्याकृतानां हि त्रैधातुकानाम् अन्यतमस्मिं संमुखीभूते तस्यैवाव्याकृतस्य लाभः. तेनतेनासमन्वागतस्य.
अव्याकृताप्तिः सहजेति
सिद्धान्तात्. संग्रहश्लोक इति. सर्वम्
उपपत्तौ
धातुप्रत्यागमनाद् इति वचनात्.
समापत्तौ
तस्यैव कुशलस्यैवमादिवचनात्. ततस्त्यसमाधिलाभत इति वचनात्.
वैराग्ये
कामरूपधातुवैराग्ये इति वचनात्.
परिहाणौ
परिहाणित इति वचनात्.
कुशलप्रतिसंधौ चेति
विचिकित्सया सम्यग्दृष्ट्या च कुशलमूलप्रतिसंधानाद् इति वचनात्.
चित्तलाभः
चित्तप्रतिलंभः.
अतद्वतः
पुद्गलस्य तैर् असमन्वागतस्येति वचनाद् इति.
आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायाम् इन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानं समाप्तं.
इइइ
(लोकनिर्देशो नाम तृतीयं कोशस्थानम्)
(इइइ.1-3) इदम् इदानीं वक्तव्यम् इति. द्वितीयस्य तृतीयस्य च कोशस्थानस्य सम्बन्धप्रदर्शनार्थम् इदम् उक्तं. कामरूपारूप्यधातुनैयम्येन चित्तादीनां कृतो निर्देश इति. नियमस्य भावो नैयम्यं नियम एव वा नैयम्यं. तेन चित्तादीनां कृतो निर्देशः.
कुशलाकुशलं कामे [तिब्. 242अ] निवृतानिवृतं मनः.
रूपारूप्येष्व् अकुशलाद् अन्यत्रेति
वाचनात्. आदिशब्देन चैत्तादीनां ग्रहणं.
सवितर्कविचारत्वात् कुशले कामचेतसि.
कौकृत्यमिद्धाकुशलान्य् आद्ये न सन्त्य् अतः
ध्यानान्तरे वितर्कश् च विचारश् चाप्य् अतः परम्
इति वचनात्. इन्द्रियाणां कामादिनैयम्येन कृतो निर्देशः.
कामाप्तम् अमलं हित्वा रूपाप्तम् स्त्रीपुम् इन्द्रिये.
दुःखे च हित्वारूयाप्तं सुखे चापोह्ये रूपि चेति
वचनात्. तेन कामरूपारूप्यधातवो ऽनुक्तलक्षणा इत्य् अतः पृच्छति. तत्र कतमे ते कामरूपारूप्यधातव इति. अत इदम् उच्यते.
नरकप्रेततिर्यं च
इति विस्तरः. चतस्रो गतय इति. नरकप्रेततिर्यग्मनुष्यगतयश् चतस्रः साकल्येन कामधाताव् अन्तर्गताः. देवगतिस् तु न साकल्येन. किं तर्हि. षड् देवनिकाया इति दर्शयति. तत्र नीर्यन्त इति नॄ नये. न रंजयन्तीति रंजेः. नरेर् इति रि गतिरेषणयोर् इत्य् अस्य प्रतिषेधपूर्वस्य रूपं. नीर्यन्ते ऽस्मिं सत्त्वा अपुण्येनेति नरकाः. न रंजयन्त इति नरका इत्य् अपरे. नरेर् आसादनार्थस्यैतद् रूपं. न रंजयति प्रावंति नास्पृहयंति त्राणं इति नरका इति आचार्यसंघभभद्रः. भृशमितो ऽपुनरावृत्तेर् इताः प्रेताः. पिपासया ( अभिध्-क्-व्य् 254 ) परीता इत्य् अपरे. तिर्यग्गमनात्
तिर्यंच.
मनस उद्भूतत्वान् मनुष्याः. [तिब्. 242ब्] मनोर् अपत्या इति लौकिकाः. द्यौर् ओको येषाम् इति
दिवौकसः.
कामप्रभावितो धातुः कामधातुर् इति वक्ष्यति. चत्वारो महाराजानो लोकपाला विरूढको विरूपाक्षो धृतराष्ट्रो वैश्रवणश् च. तेषु भवाश् चातुर्महाराजिकास् तन्मध्यगता इत्य् अर्थः. तद्यथा देवेषूपपद्यते देवमध्ये उत्पद्यत इत्य् अर्थः. चतुर्महाराजस्थाने भवाश् चातुर्महाराजिका मध्यपदलोपा गोरथवद् इत्य् अपरे. सहकृतसुकृतैर् अत्रोपपद्यंत इति त्रयस्त्रिंशाः. समानपुण्यैर् इत्य् अर्थः. अष्टौ वसवा द्वाव् अश्विनौ एकादश रुद्रा द्वादशादित्या इति तावत्प्रमुखत्वात् त्रयस्त्रिंशा इति लौकिकाः. तदनुसारेण प्रवचने ऽपि तथा नामव्यवहार इत्य् अपरे. दुःखात् याताः पुण्येनेति यामाः. दुःखानि वा यामयन्तीति यामाः. तुषा तुष्ट्या इताः. तुषो वा विद्यन्ते एषाम् इति तुषिताः. स्वयंकृते निर्माणे रतिर् एषाम् इति निर्माणरतयः. परनिर्मितान् भोगान् वशे वर्तयितुं शीलम् एषाम् इति परनिर्मितवशवर्तिनः. स्थानानीति वाक्यशेष इति. यानि विंशतिस्थानानि. स कामधातुः. यदि तु विंशतिस्थानो विंशतिर् इति उत्तरपदलोपः क्रियेत. तद्यथा पीततोया अश्वाः पीता इति [तिब्. 243अ] सुतरां श्लिष्यति. संजीवो यत्र सत्त्वान् म्रियमाणान् वायवो जीवयंति. कालसूत्रा यत्र कालसूत्राणि पातयित्वा सत्त्वास् तक्ष्यंते. संघातो यत्र मेषाकृतयः पर्वतादय उभयत आपतन्तः सत्त्वान् पीडयन्ति. रौरवो यत्र सत्त्वा यात्यमानाः परमविकृतं रुदंति. यत्र तु विशेषेण स महारौरवः. तपनो यत्राग्न्यादिभिस् तप्यन्ते सत्त्वाः. यत्र तु विशेषेण स प्रतापनः. अवीचिर् यत्रातिमात्राग्निज्वालालिंगितानां सत्त्वानां सुखवीचिर् अन्तरं नास्ति. जम्बूद्वीपो जम्बूचिह्नो द्वीपः. पूर्वविदेहः सुमेरोः पूर्वेण. अवरगोदानीयः पश्चिमेन. उत्तरकुरुर् उत्तरेण. एवं नामान एते द्वीपा लोकप्रतीताः. षट् चानन्तरोक्ता देवनिकायाः. इत्य् एतानि विंशतिः स्थानानीति. अष्तौ नरकाश् चत्वारो द्वीपाः षट् चानन्तरोक्ताश् चातुर्महाराजिकादयः प्रेतास् तिर्यञ्चश् चाभिन्ना इति विंशतिस्थानः कामधातुः. यावद् वायुमण्डलम् इति. अधस्ताद् यत्राप्मण्डलं तिष्ठति.
रूपधातुर्
इति. रूपप्रभावितो धातुः.
पृथक्पृथग्
ध्यानं त्रिभूमिकं तत्र. चतुर्थं तु अष्टभूमिकम्
इति. तत्र रूपधातौ सर्वेषाम् अपि ध्यानानां मृदुमध्याधिमात्रभेदेन प्रत्येकं त्रिभूमिकं. [तिब्. 243ब्] ब्रह्मकायिकाः ब्रह्मपुरोहिताः महाब्रह्माण ( अभिध्-क्-व्य् 255 ) इति प्रथमं. परीत्ताभा आप्रमाणाभा आभास्वरा इति द्वितीयं. परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना इति तृतीयं. अनभ्रकाः पुण्यप्रसवा बृहत्फला इति चतुर्थं. तस्य त्व् अधिमात्रस्यैवानास्रवध्यानव्यवकिरणेन मृदुमध्याधिमात्रधिमात्रतराधिमात्रतमभेदभिन्नेन पुनः पंच स्थानान्तराणि. अबृहा अतपाः सुदृषाः सुदर्शना आकनिष्ठाश् चेति. अतश् चतुर्थं ध्यानम् अष्टभूमिकम् इत्य् उच्यते. तत्र बृहत्कुशलमूलनिर्यातत्वाद् ब्रह्मा. कश् चासौ. यो महाब्रह्मेत्य् उच्यते. ध्यानांतरलाभात् पश्चात् पूर्वं च्युत्युपपत्तिलाभात् प्रमाणादिविशेषादिभिश् चास्य महान्. तस्य कायो निवास एषां विद्यते इति ब्रह्मकायिकाः. ब्रह्मा पुरोधीयते एषाम् इति ब्रह्मपुरोहिताः. आयुर्वर्णादिभिर् विशेषैर् महाब्रह्मा एषाम् इति महाब्रह्माणः. परीत्तैषाम् आभाभास्वरभूमिम् अपेक्ष्येति परीत्ताभाः. नाभाप्रमाणम् एषाम् शक्यं प्रमातुम् इत्य् अप्रमाणाभाः. कृत्स्नस्थानान्तरोद्भासनाद् आभास्वराः. मनोभूमिकं सुखं शुभम् इत्य् उच्यते. तद् एषाम् अन्यभूमिम् अपेक्ष्य परीत्तम् इति परीत्तशुभाः. अप्रमाणं शुभम् एषाम् अप्रमाणशुभाः. शुभं कृत्स्नम् एषाम् इति शुभकृत्स्नाः. [तिब्. 244अ] न तदुत्कृष्टतरम् अन्यत्रास्ति सुखम् इत्य् अभिप्रायः. अभ्रवद् एषां ब्बूमिसंबंधो नास्तीत्य् अनभ्रकाः. सह सत्त्वेन तद्विमानोदयव्ययाद् इति वचनान् नैषाम् उपरि भूम्यन्तरम् अस्तीति अनभ्रकाः. अभ्रम् इव ह्य् उपरि न भूमिसंबन्ध इत्य् अपरे. आनिंज्यकर्मसंभूतत्वात् पुण्येभ्यः प्रसव एषाम् इति पुण्यप्रसवाः. स्थानान्तरप्रतिबद्धं पार्थग्जनिकं सर्वोत्कृष्टं बृहद् एषां फलम् उद्भवतीति बृहत्फलाः. पृथग्जनामिश्रत्वाच् छुद्ध आवास एषाम् इति शुद्धावासाः. शुद्धावासांतरेभ्यो ऽनुत्कृष्टत्वाद् अबृंहिता इत्य् अबृहाः. नाल्पेन वा कालेनात्मनः स्थानं बृंहंति जहतीत्य् अबृहाः. विशिष्टसमाधिलाभान् नात्र क्लेशास् तपंतीत्य् अतपाः. कल्याणाशयत्वाद् वा न परांस् तापयंतीत्य् अतपाः. परिशुद्धदर्शनत्वात् सुष्ठु पश्यन्तीति सुदृशाः. शोभनदर्शनत्वात् सुदर्शनाः. तदुत्कृष्टतरभूम्यन्तराभावान् नैते कनिष्ठा इत्य् अकनिष्ठाः ज्येष्ठत्वात्. स्थानिन एते निर्दिष्टाः. कथम् इदम् उच्यते इत्य् एतानि सप्तदश स्थानानीति. स्थानिशब्देन स्थाननिर्देशाद् अदोष एव. एवं बहिर्देशकनयेन सप्तदश स्थानानि रूपधातुः. षोडशेति काश्मीराः. षोडश स्थानानि रूपधातुर् इति काश्मीराः. [तिब्. 244ब्] परिगण इवेति. परिषण्ड इव. आटविककोट्ट इत्य् अपरे. न तु भूम्यंतरम् इति. न तु भूम्यंतरसंबंधम् इति. अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा अदेशस्था इति. अतीतनागता रूपिणो ऽप्य् अदेशस्थाः. अविज्ञप्तिः रूपिणी वर्तमानाप्य् अदेशस्था. अरूपिणो वेदनादयस् तथैव वर्तमाना अप्य् अदेशस्थाः. किं अंगातीतानागताः.
उपपत्त्या चतुर्विध
इति कर्मनिर्वृत्ता जन्मान्तरे स्कन्धप्रवृत्तिर् उपपत्तिः. तया. आरूप्यधातुश् चतुर्विधश् चतुःप्रकारः. यद् उताकाशानंत्यायतनम् इति विस्तरः. अनन्तम् आकाशम् इति समापत्तिप्रपोगकालाकाराद् आकाशानंत्यं तस्य तद् एव चायतनम्. एवम् अनन्तं विज्ञानं नास्ति किंचिद् इति तदाकाराद् विज्ञानानंत्यायतनम् आकिंचन्यायतनं चोच्यते. संज्ञा गण्डः संज्ञा शल्यः आसंज्ञिकं सम्मोह इति संज्नामान्द्योत्पत्तेर् नैवसंज्ञानासंज्ञायतनम् इत्य् उच्यते. न त्व् एषां देशकृतम् अनुत्तराधर्यम् इत्य् अदेशस्थत्वात्.
यथा रूपिणाम् इति विस्तरः. किंकृतेयम् आशंका. इह नैरात्म्ये सति चित्तचैत्तानां कामरूपधात्वो रूपनिश्रया [तिब्. 245अ] प्रवृत्तिः कल्प्येत. आरूप्येषु तु रूपं नास्तीति. तत्र चित्तचैत्तप्रवृत्त्या न भवितव्यम् इत्य् आशंकानिवृत्त्यर्थम् इदम् उच्यते.
निकायं जीवितं चात्र निश्रिता चित्तसंततिर्
इति. चशब्देन पृथग्जनत्वसमन्वागमप्राप्तिजात्यादयः संगृह्यंते. दुर्बलत्वाद् इति. कस्यचित् संततेः. रूपिणां सत्त्वानां दुर्बला चित्तसंततिर् अविभूतरूपसंज्ञत्वाद् विना रूपेण न वर्तते. ततो रूपं निश्रित्य वर्तते. तस्याः केन बलवत्त्वम् इति. तस्या आरूप्यावचर्याः केन कारणेन बलवत्त्वम्. अत आह. समापत्तिविशेषजत्वाद् इति विस्तरः. विभूतरूपसंज्ञेति. विगतरूपसंज्ञेत्य् अर्थः. अतस् तज्जा आरूप्या चित्तसंततिर् अपि रूपनिरपेक्षा प्रवर्तते. तत एव तर्हि बलवत्त्वात् समापत्तिविशेषजनितत्वात् प्रवर्तिष्यते. किंचिद् अनिश्रित्येत्य् अभिप्रायः. यथा रूपिणाम् इति विस्तरः. यथा रूपिणां रूपनिश्रिते निकायसभागजीवितेन्द्रिये. एवम् अरूपिणां किं निश्रिते इति वाक्यार्थः. तद् एतत् द्वयम् अन्योन्यम् इति. निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते. जीवितेन्द्रियं च निकायसभागम् इति. किम् अर्थं न तद् एव द्वयम् अन्योन्यम् इति. किं रूपनिश्रयेणेति अभिप्रायः. तत्रेदानीम् इति. [तिब्. 245ब्] तत्रारूप्यधातौ केन बलवत्त्वं तयोर् निकायसभागजीवितेन्द्रिययोः. तद् एतच् चित्तसंततौ समानम् इति. असाव् अपि चित्तसंततिः समापत्तिविशेषाज् जाता भवतीति न द्वयं निश्रित्य प्रवर्तिष्यति. अनाश्रितैव प्रवर्तिष्यत इति. चित्तचैत्तेषु वा समानम् इति प्रकृतं. किं पुनः समानं अन्योन्यनिश्रयत्वं. यथा निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते. जीवितेन्द्रियं च निकायसभागं निश्रित्य प्रवर्तते. तथा चित्तं निश्रित्य चैत्ताः प्रत्वर्तिष्यंते. चैत्तांश् च निश्रित्य चित्तं प्रवर्तिष्यत इति. तदन्याश्रयकल्पना निःप्रयोजनेति. यस्याश् चित्तसंततेर् इति विस्तरः. चित्तसंततेर् आक्षेपाय हेतुर् आक्षेपहेतुः कर्मक्लेशलक्षणः. विगता तृष्णास्येति वीततृष्णः. न वीततृष्णो ऽवीततृष्णः. क्व. रूपे. तस्याश् चित्तसंततेः सह रूपेण संभवाद् रूपं निश्रीत्य ( अभिध्-क्-व्य् 257 ) प्रवृत्तिः. हेतोस् तद्विमुखत्वाद् इति. आक्षेपहेतो रूपविमुखत्वाद् इत्य् अर्थः.
वज्रवालकवद् इति. वज्रेण प्रतिसंयुक्तो वालको ऽङ्गुलीयकः कटको वा वज्रवालकः. मरिचपानकवच् च. यथा मरिचैः प्रतिसंयुक्तं पानकं मरिचपानकं. मध्यपदलोपात्. तद्वत्. कामप्रतिसंयुक्तो धातुः कामधातुर् इत्यादिः. [तिब्. 246अ] रूपणीयो वेति. बाधनीय इत्य् अर्थः. रूपयोगाच् च स शक्यते बाधितुं. तद्भाव आरूप्यम् इति. यदा धातूत्तरपदम् एतद् भवति. तदारूप्यधातुर् इति युज्यते. यदा तु निरुत्तरपद आरूप्यशब्दप्रयोगः. तद्यथा अतिक्रम्य रूपाण्य् आरूप्या इति. तदा आरूपा एवारूप्या इति स्वार्थे तद्धितात् परिग्रहः कार्यः. आरूप्ये वा साधव आरूप्या इति पश्यामि. कामानां वा धातुर् इति षष्ठीसमासेनैव साधयति विनापि प्रतिसंयुक्तशब्दलोपेन. कश् चासौ कामानां धातुर् इत्य् आह. कामान् यो दधातीति. एवं रूपारूप्यधातू वेदितव्याव् इति. रूपाणां धातुः रूपधातुर् इति. रूपाणि यो दधातीति. आरूप्यस्य धातुर् आरूप्यधातुर् आरूप्यं यो दधातीति. कवडीकाराहारमैथुनोपसंहित राग इति. कवडीक्रियते इति कवडीकारः. स एवाहारः. कवडीकाराहारः. मिथुने भवो मैथुनं. द्वन्द्वालिंगनादि. कवडीकाराहारमैथुनाभ्याम् उपसंहितः संबद्धो जनित इति वा कवडीकाराहारमैथुनोपसंहितः. रागः कामः. काम्यते ऽनेनेति काम इति कृत्वा. कथम् एवं गम्यत इति स्थविरशारिपुत्रभाषितया गाथया तम् अर्थं दर्शयति.
[तिब्. 246ब्] न ते कामा यानीति
विस्तरः. आजीवकेन यद् उक्तं गाथांतरेण
भिक्षोः कामवितर्कं कल्पयतः कामभोगित्वम्
इति. तद् अभ्युपगतं स्थविरेण. त्रिविधो हि कामोपभोगः. कायेन वाचा मनसा च. तत्रावीतरागो मनसा कामोपभोगित्वे ऽपि सति नाभिक्षुर् भवति. केवलं त्व् अस्य शीलम् अपरिशुद्धं वर्तते. यस् तु कायेन वाचा ताथागतीं शिक्षापदबन्धलेखां लंघयित्वा कामां परिभुंक्ते. स कामोपभोग्य् अभिक्षुर् भवतीति. तस्मात् स दोषान्तरम् आह.
ते चेत् कामा
इति विस्तरः. यदि तव
चित्रा
रूपादयो विषयाः
कामा
इति पक्षः शास्ता ते अवीतराग इत्य् अभ्युपगतः. तेन
शास्तापि ते भविता
भविष्यति
कामभोगी
दृष्ट्वैव रूपाणि मनोरमाणि.
कायेनाप्य् उपभुंजानो ऽपि तान् विषयान् इति प्रसक्तं. न चैवम् इष्यते. तस्मात्
संकल्परागः पुरुषस्य काम
इति सिद्धं.
केचनेति. केचिद् इत्य् अर्थः. नेत्य् आहेति. प्रतिषेधयति. यस्माद् धात्वन्तरधर्मा धात्वन्तरे समुदाचरंत्य् अधातुपतिताश् च. कामधातौ हि त्रैधातुकानास्रवा धर्माः समुदाचरंति. एवं रूपधातौ कामावचरं हि निर्माणचित्तं तत्र समुदाचरति. आरूप्यधाताव् आरूप्यावचरा [तिब्. 247अ] अनास्रवाश् च. तस्मात् प्रतिषेधयति नेति. किं तर्हि. येषु कामरूपारूप्यरागा अनुशेरते. येषु कामरागो ऽनुशेते आलंबनतः संप्रयोगतो वा यथासंभवं. ते कामप्रतिसंयुक्ताः. येषु रूपारूप्यरागाव् अनुशयाते. ते यथाक्रमं रूपारूप्यप्रतिसंयुक्ता इति. इदम् इदानीं तद् अश्वबन्धीयम् इति. अश्वश् चाश्वबन्धश् चाश्वबन्धं. अश्वबन्धम् इवाश्वबन्धीयं. अथ वाश्वबन्धस्येदम् अश्वबन्धीयम् अश्वबन्धीयम् इति. कस्यायम् अश्वबन्ध इति कश्चित् पृच्छति. तस्येतरः कथयति. यस्यायम् अश्व इति. स पुनः पृच्छति. कस्यायम् अश्व इति. इतरः पुनः कथयति. यस्यायम् अश्वबन्ध इति. उभयम् अपि न ज्ञायते. अश्वबन्धो ऽश्व इति च. यथेदम् उभयम् असिद्धेनान्योन्येन न परिच्छिद्यते. तथेहापि न रागैर् धातवः साध्यंते. धातुभिश् च रागा इत्य् उभयम् अप्य् एतन् न सिध्यति. कृतनिर्देशानि हि स्थानानि कामधाताव् इति.
नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः
कामधातुः स नरकद्वीपभेदेन विंशतिर्
इति कामधातौ कृतनिर्देशानि स्थानानि. तेषु स्थानेष्व् अवीतरागस्य यो रागः. स कामराग इति. एवंरूपारूप्यरागाव् इति. कृतनिर्देशानि हि स्थानानि. कामधातोर्
ऊर्ध्वम् सपदश स्थानो [तिब्. 247ब्] रूपधातुर्
इति. तेष्व् अवीतरागस्य यो रागः. स रूपरागः. तथा कृतनिर्देशोपपत्तिर् आरूप्यधातोः.
आरूप्यधातुर् अस्थान उपपत्त्या चतुर्विध
इति. तेष्व् अवीतरागस्य यो रागः. स आरूप्यराग इति. यथायोगम् इति. स्थाननिर्देशापेक्षं. ध्यानारूप्येषु राग इति. समापत्त्युपपत्तिध्यानेषु रागो रूपरागः. एवम् आरूप्यरागः. निर्माणचित्ते कथं कामराग इति. कामावचरे निर्माणचित्ते ध्यानफले कथं कामवीतरागाणां कामरागः यतस् तस्य कामावचरत्वं. यदा ह्य् असाव् अवीतरागः. तदा निर्माणचित्तं न समुदाचरति. यदा निर्माणचित्तं समुदाचरति. तदा न तस्य राग उत्पद्यते. ( अभिध्-क्-व्य् 259 ) कथम् अस्य कामरागेण विना कामावचरत्वं व्यवस्थाप्यते इत्य् अर्थः. श्रुत्वा परिहाय च तदास्वादनाद् इति. श्रुत्वा तत् परतो निर्माणचित्ते ऽस्य राग उत्पद्यते. परिहाय वा आत्मीयान् निर्माणचित्तात्. तस्यास्वादनाद् इति. एवंध्यायिनः कामावचरेण निर्माणचित्तेन कामावचरं निर्माणं निर्मिण्वन्तीति श्रुत्वा तदालम्बनो राग उत्पद्यते. अनुस्मृत्य चात्मीयं तत्र राग उत्पद्यते. निर्माणवशेनेति. मनोहरं निर्माणं दृष्ट्वा [तिब्. 248अ] निर्मापके चित्ते निर्मापकस्य वा चित्ते रागः दर्शयतीत्थं निर्माणचित्तं यस्येदृशं निर्माणम् इति. गन्धरसनिर्माणाद् वेति. यत् कामावचरनिर्माणनिर्मापकं. कामावचरं तच् चित्तं. कामावचरधर्महेतुत्वात्. घटहेतुचित्तवत्. यत् तु न कामावचरं. न तत् कामावचरधर्महेतुः. तद्यथा रूपावचरं चित्तम्. अत एवाह. रूपावचरेण तयोर् अनिर्माणाद् इति. कस्मात् पुनः रूपावचरेण चित्तेन तयोर् गन्धरसयोर् अनिर्माणं. तयोर् गन्धरसयोः कवडीकाराहारस्वभावत्वात्. रूपधातूपपन्नं च तद्वीतरागत्वाद् इति.
ईषाधार इति. ईषाप्रमाणवर्षाधारः. नास्ति वीचिर् वा अन्तरिका वेति. नैरन्तर्यं दर्शयति. न तूक्तम् ऊर्ध्वम् अधश् चेति. अतो लोकधातूनां तिर्यग् एवास्थानम् इति दर्शयति.
(इइइ.4) पंचम्याश् च प्रदेश इति. देवगतेः षट् कामावचरा देवा उक्ताः. शेषा रूपारूप्यावचराः. अन्यथा हि गतिसंभेदः स्याद् इति. गतिमिश्रता. यदि कुशलक्लिष्टा अपि स्युः गतिसंभेदः स्यात्. मनुष्यो नरकसम्वर्तनीयं कर्म करोति. यावद् देवोपपत्तिसम्वर्तनीयम्. इत्य् अतो मनुष्यगतिर् नरकगतिर् अपि स्यात्. यावद् देवगतिर् अपि. तेषां कर्मणां तद्गतिपर्यापन्नत्वात्. कामधातूपपन्नश् चोर्ध्वभूमिकैः क्लेशैः समन्वागतः कामावचरेण च [तिब्. 248ब्] सार्वगतिकेन क्लिष्टेन समन्वागत इति. स एव मनुष्यो नारको यावद् देव इति स्यात्. सत्त्वाख्या एवेति. कर्मानुरूपेणात्मभावतस् तद्गमनात्. अत एवोक्तं.
यथाकर्म गमिष्यंति पुण्यपापफलोपगा
इति. न भाजनस्वभावा इति. न चान्तराभवस्वभावा इति. अस्य प्रतिपादनार्थं ज्ञापकम् आनयंति प्रज्ञप्तिषूक्तम् इति विस्तरः. सहेतुकाः सगमना इति. हेतुः कर्मभवः. गमनम् अन्तराभवः. गम्यते ऽनेनेति कृत्वा. गतिस् तु गम्यत इति गतिः. तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात्. कुशलाकुशलस्य कर्मभवस्य ताभ्यो गतिभ्यो बहिष्करणात्. कश्मीरे भवाः काश्मीरकाश् च सूत्रं पठन्तीति. मुक्तकं तत् सूत्रं ते एव पठन्ति नान्य इत्य् अभिप्रायः. नारकाणाम् इति विस्तरः. नरकानुकूला नारकाः. तेषाम् इति विस्तरः. कायवाङ्मनोवंकानां शाठ्यसमुत्थितानां कर्मणां दोषकषायाणां ( अभिध्-क्-व्य् 260 ) द्वेषरागसमुत्थितानां. अतो ऽप्य् अनिवृताव्याकृता एव गतय इति. यस्माद् उक्तं निर्वृत्ते विपाके नारके इति संख्यां गच्छतीति. गतिषु सर्वे ऽनुशया अनुशेरत इति प्रकरणग्रन्थः परिहार्यः. वक्तव्यः परिहार इत्य् अर्थः. विरोधप्रसंगात्. यदि हि पंच प्रकारा धर्मा गतिस्वभावा भवेयुः. एवं सर्वे ऽनुशया [तिब्. 249अ] अनुशयीरन्. यदि त्व् अनिवृताव्याकृता एव गतयः स्युः. एवं वक्तव्यं स्यात्. भावनाप्रहातव्याः सर्वत्रगाश् चेति. अनिवृताव्याकृता हि संस्कृता धर्मा भावनाप्रहातव्या एव. तेषु च भावनाप्रहातव्याः सर्वत्रगाश् चानुशया अनुशेरते आलम्बनतः प्रयोगतो वा. नान्ये. तेन ज्ञायते नानिवृताव्याकृता एव गतय इति. संधिचित्तानि हि गतीनां पंच प्रकाराणीति. संधिचित्तानि गतीनां प्रवेशाः. तेषां पंचप्रकारत्वात्. दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् इति. तत्र सर्वे ऽनुशया अनुशेरत इति युक्तं. ग्रामोपविचारग्रहणवद् इति. ग्रामपरिसामन्तकग्रहणवद् इत्य् अर्थः. पंचसु कषायेष्व् इति. पंच कषायाः. आयुःकषायः क्लेशकषायो दृष्टिकषायः कल्पकषायः सत्त्वकषायश् च. तेषु. क्लेशदृष्टिकषायौ पृथग् उक्तौ. क्लेशकषायाद् दृष्टिकषायः पृथग् उक्त इत्य् अर्थः. अनयोः पृथग्वचनं गृहस्थप्रव्रजितपक्षाधिकारात्. गतिहेतुज्ञापनार्थम् इति. गतीनां कर्मोद्भवो हेतुर् इति. अन्तराभवे ऽप्य् एष प्रसंग इति. एवम् अन्तराभवो ऽपि गतिश् च स्यात्. पृथक् चास्य वचनं स्यात् गतिगमनज्ञापनार्थम् इति. गच्छंति ताम् इति. कर्मसाधनपरिग्रहः [तिब्. 249ब्]. न चान्तराभव एवं युज्यत इति न गतिः. आरूप्या अपीति विस्तरः. आरूप्या न गतिः स्युः. च्युतिदेश एवोत्पादात्. आरूप्यगा हि यत्र च्यवन्ते विहारे वा वृक्षमूले वा यावच् चतुर्थ्यां ध्यानभूमौ. तत्रैवोत्पद्यन्त इति. अन्तराभववन् न गतिस् स्यात्. एवं तर्हीति. पूर्वपक्षं परित्यज्य पक्षांतरम् आश्रियंते. गत्योर् अन्तरा अंतराले भवतीति अंतराभव इत्य् अन्वार्थसंज्ञाकरणान् नान्तराभवो गतिर् इति. वैभाषिका आहुः. यत् तर्हीति विस्तरः. निर्वृत्ते विपाक इति विपाकशब्दवचनाद् विपाकस्वभावा गतिर् इति तदभिप्रायः. इतर आह. निर्वृत्ते विपाके नारक इति नारको व्यवस्थाप्यते. न तूक्तं विपाक एवेति. न तूक्तं विपाकस्वभावैव गतिर् इति. किं तर्हि. विपाकविपाकस्वभावा गतिः. तस्मात् कुशलक्लिष्टा अपि गतयो भवन्तीत्य् अभिप्रायः. वैभाषिकः पुनर् आह. यत् तर्ह्य् उक्तं तत्रेति विस्तरः. अन्यत्र तेभ्यो धर्मेभ्य इति. विपाकजेभ्य इत्य् अभिप्रायः. न तु स्कन्धान्तरप्रतिषेधं करोतीत्य् अधिकृतं. ताश् चेति विस्तरः. अव्याकृतत्वपक्षे ऽपि द्वैविध्यं. औपचयिकस्वभावा अपीति. अपिशब्दाद् विपाकस्वभावा अपीति. यथोक्तं
विपाको जीवितं [तिब्. 250अ] द्वेधा द्वादशेति.
( अभिध्-क्-व्य् 261 ) नैष्यन्दिकास् तु न गृह्यन्ते. विपाकस्वभावा एवेत्य् आचार्यसंघभद्रः पूर्वम् एव पक्षम् इच्छति.
(इइइ.5, 6अब्) कामावचराः षट् प्रथमध्याणिकाश् च. कतमे ते. बहिर्देशकनयेन ब्रह्मकायिकाः ब्रह्मपुरोहिता महाब्रह्माणश् च प्रथमाभिनिर्वृत्तवर्ज्याः. काश्मीरनयेन पुनः ब्रह्मकायिका ब्रह्मपुरोहिताश् च प्रथमाभिनिर्वृत्तवर्ज्याः. ब्रह्मपुरोहितेष्य् एव हि तेषां नयेन महाब्रह्माणो न स्थानान्तरनयाः. अनेकवर्णलिंगसंस्थानत्वाद् इति. वर्णो नीलत्वादिः. लिंगं वस्त्राभरणादि. संस्थानं दैर्घ्यादि.
आरोह उन्नतता. परिणाहस् तिर्यक्प्रमाणं. आकृतिविग्रहः आकृतिलक्षणो विग्रह आकृतिविग्रहः. एवं विशेषिते वेदानादीनां विग्रहः पर्युदस्तो भवति. नासाव् आकृतिलक्षण इति. विग्रहः पुनः शरीरं. वाग्भाषा वागुच्चारणं. कथम् इदानीम् इति विस्तरः. प्रथमध्यानप्रत्यागमनेन तैर् द्वितीयं त्यक्तम्. तद्भूमिकं द्वितीयध्यानभूमिकं. पूर्वनिवासं कथम् अन्वस्मार्षुः. न तावत् प्रथमध्यानभूमिकेन चित्तेन तदविषयत्वात्. न द्वितीयध्यानभूमिकेन तस्यालब्धत्वात्. पुनर् लब्धम् इति चेत्. अत आह. लब्धायां चेति विस्तरः. शीलव्रतपरामर्शदृष्टिर् महाब्रह्मालम्बना प्रथमध्यानभूमिकैव युज्यते. सा च द्वितीयध्यानलाभात् प्रहीणा न समुदाचरति. द्व्तीयध्यानभूमिकेति [तिब्. 250ब्] चेत्. न. अधरालम्बनत्वायोगात्. न ह्य् अधरभूम्यालम्बनः कश्चिद् अपि क्लेश इष्यते. अन्तराभवस्था अद्राक्षुर् इति. अन्तराभवस्थास् ते तं महाब्रह्माणं दृष्ट्वैवम् ऊचुः. इमं वयं सत्त्वम् अद्राक्ष्मेति. अयम् अपि पक्षो न घटते. तथा हि तत्राप्य् अन्तराभवे दीर्घम् अध्वानम् अवस्थातुं न संभवत्य् उपपत्तिप्रतिबन्धाभावात् शुक्लशोणितानपेक्षत्वात्. तेषां कथं भवतीयं बुद्धिर् इमं वयं सत्त्वम् अद्राक्ष्म दीर्घायुषं दीर्घम् अध्वानं तिष्ठन्तम् इति. दीर्घाध्वावस्थानावबोधो न प्राप्नोतीत्य् अर्थः. तस्मात् तत्रस्था एवेति विस्तरः. प्रथमध्यानभूमिस्था एव तस्य महाब्रह्मणः पूर्ववृत्तान्तं समनुस्मरन्तः उत्पद्यमानावस्थायाम् एव तं महाब्रह्माणं पूर्वोत्पन्नं दीर्घम् अध्वानं तिष्ठन्तं दृष्टवन्तः. दृष्ट्वा च पश्चाद् उत्तरकालम् अद्राक्ष्मेत्य् एषाम् बभूव. बुद्धिर् इति वाक्यशेषः. एवं तु सतीदम् अपरिहृतं भवेत्. अस्य च सत्त्वस्यैवं चेतसः प्रणिधिः. वयं चोपपन्ना इति. उपपत्तिप्रतिलंभिकेन प्रथमध्यानभूमिकेन तस्य महाब्रह्मण एवं चेतसः प्रणिधिम् अन्वस्मार्षुः. समानभूमिकत्वात्. इत्य् अदोष एषः. तत्सकाशं श्रवणाद् वा.
ननु च शुभकृत्स्नेष्व् अप्य् एष प्रसंगः. एकत्वकाया नानात्वसंज्ञिन इति. कथं. यथोक्तं. ते हि मौल्यां भूमौ सुखेन्द्रियपरिखिन्नाः ( अभिध्-क्-व्य् 262 ) सामन्तकोपेक्षेन्द्रियं संमुखीकुर्वंतीति विस्तरेण [तिब्. 251अ] वक्तव्यं स्यात्. ते चैकत्वकाया एकत्वसंज्ञिन इति पश्चाद् वक्ष्यते. तेन सुखेनेति. तृतीयध्यानभूमिकेन. चेतस उत्प्लावकत्वाद् इति. औद्बिल्यकरत्वात्. इन्द्रसुखेनेति द्वितीयध्यान. आगमव्यपगमसंज्ञित्वात्. अचिरोपपन्नानाम् आगमसंज्ञित्वात्. चिरोपपन्नानां व्यपगमसंज्ञित्वात्. अथ वाचिरोपपन्नानाम् आगमसंज्ञित्वाच् चिरोपपन्नानाम् आगमव्यपगमसंज्ञित्वात्. भीतभीतसंज्ञित्वात्. यथाक्रमम् अचिरचिरोपपन्नत्वात् ते नानात्वसंज्ञिनः. न सुखादुःखासुखसंज्ञित्वात् यथोक्तं वैभाषिकैर् इति.
प्रथमे ध्याने क्लिष्टया संज्ञयेति. शीलव्रतपरामर्शसंपरयुक्तया अकारणे कारणाभिनिविष्टत्वात्. द्वितीये कुशलया संज्ञयेति. सामन्तकमौलसंगृहीतत्वात्. तृतीये विपाकजया संज्ञयेति. विपाकजसुखसंप्रयोगात्.
आरूप्यास् त्रयो यथासूत्रम् इति. अरूपिणः सन्ति सत्त्वा ये सर्वशो रूपसंज्ञानां समतिक्रमाद् अनन्तम् आकाशम् इत्य् आकाशानंत्यायतनम् उपसंपद्य विहरंति. तद्यथा देवा आकाशानंत्यायतनोपगाः. इयं पंचमी विज्ञानस्थितिः. अरूपिणः सन्ति सत्त्वा ये सर्वश आकाशानंत्यायतनं समतिक्रम्यानंत्यं विज्ञानम् इति विज्ञानानंत्यायतनम् [तिब्. 251ब्] उपसंपद्य विहरंति. तद्यथा विज्ञानानंत्यायतनोपगा देवाः. इयं षष्ठी विज्ञानस्थितिः. अरूपिणः सन्ति सत्त्वा ये सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरंति. तद्यथाकिंचन्यायतनोपगा देवाः. इयं सप्तमी विज्ञानस्थितिर् इति.
पंच स्कंधाश् चत्वारश् च यथायोगम् इति. आकाशानंत्यायतनादित्रयप्रतिसंयुक्ताश् चतुःस्कन्धाः. अन्यप्रतिसंयुक्ताः पंचस्कंधाः.
शेषं तत्परिभेदवद्
इति. परिभिद्यते ऽनेनेति परिभेदः. तस्य विज्ञानस्य परिभेदस् तत्परिभेदः. सो ऽस्मिन् विद्यत इति तत्परिभेदवत्. शेषं दुर्गत्यादि. अपायेषु चोभयं नास्तीति. नेहसथानां गंतुकामता. न तत्रस्थानां व्युच्चलितुकामता. अपटुप्रचारत्वाद् इति. चित्तचैत्तानाम् अत्र मन्दप्रचारत्वात्. अबलवद् विज्ञानं न तिष्ठतीति युक्तं वक्तुं.
(इइइ.6च्द्, 7अब्) भवाग्रासंज्ञिसत्त्वाश् च सत्त्वावासा नवेति.
सूत्र उक्तं. नव सत्त्वावासाः. कतमे नव. रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः. तद्यथा मनुष्याः तदेकत्याश् च देवाः. अयं प्रथमः सत्त्वावासः द्वितीयतृतीयचतुर्था अपि यथा विज्ञानस्थितिषु. तथा वक्तव्याः. अयं तु विशेषः. [तिब्. 252अ] रूपिणः संति सत्त्वा असंज्ञिनो ऽप्रतिसंज्ञिनः. तद्यथा देवा असंज्ञिसत्त्वाः. अयं पंचमः सत्त्वावासः. ( अभिध्-क्-व्य् 263 ) आरूप्याणां च सत्त्वावासानां त्रयो विज्ञानस्थितिवद् वक्तव्याः. चतुर्थस् त्व् आरूप्यः अरूपिणः संति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरंति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. अयं नवमः सत्त्वावास इति. असंज्ञिसत्त्वेभ्यो ये ऽन्ये चतुर्थध्यानोपगाः किं ते सत्त्वावासा उत नेति. नेत्य् आहुः. कस्माद् एवम् उक्तम् आचार्येण के पुनर् अन्ये. अपाया इति. मुखमात्रम् एतद् उक्तं. असंज्ञिसत्त्वासंगृहीताश् चतुर्थध्यानोपगा इत्य् अपि वक्तव्यम्. इहापि तद् एव कारणं वक्तव्यं यद् विज्ञानष्थितिषूक्तं. इहस्थानां ह्य् अपायगमनप्रार्थना नास्ति. तत्रस्थानां च न वस्तुकामतेति. नापायाः सत्त्वावासाः. असंज्ञिसत्त्वासंगृहीतेषु बृहत्फलेषु यद्य् अपीहस्थानां गमनप्रार्थनास्ति. तत्रस्थानां पृथग्जनानाम् आसंज्ञिकप्रविविक्षा भवति. आर्याणां त्व् अनभ्रकपुण्यप्रसवेष्व् अपि शुद्धावासारूप्यप्रविविक्षा. परिनिर्वातुकामता च शुद्धावासानाम् अपि. इति [तिब्. 252ब्] न तेषां तत्रावस्थाने बुद्धिः. अतो न ते सत्त्वावासा इत्य् आचार्यसंघभद्रः. अन्ये पुनर् व्याचक्षते. के पुनर् अन्ये. अपाया इति अपायानाम् एव वचनाद् अनभ्रकादयः सत्त्वावासा इष्टा आचार्यस्येति. तैर् युक्तिर् अन्वेष्टव्या. बंधनस्थानवद् इति. यथा बंधनस्थानानि न सत्त्वावासाः अनिच्छावसनात्. एवम् अपाया इति.
(इइइ.7च्द्, 8अब्) रूपोपगा विज्ञानस्थितिर् इति. विज्ञानं तिष्ठत्य् अस्याम् इति विज्ञानस्थितिः. उपगच्छतीति उपगा. विज्ञानस्य समीपचारिणीत्य् अर्थः. रूपं च तद् उपगा च सा रूपोपगा. एवं यावत् संस्काराश् च ते उपगा च संस्कारोपगेति. भगवद्विशेषस् तु व्याचष्टे. रूपोपगा विज्ञानस्थितिर् यावत् संस्कारोपगेति सौत्रान्तिकानां नयेनोच्यते. तत्र विज्ञानस्थितिर् भवसंतत्यनुच्छेदः. रूपम् उपगम् अस्या विज्ञानस्थितेः. सेयं रूपोपगा. उपगम् इति उपगम्यते तदात्मीयत इति. एवं यावत् संस्कारा उपगा अस्या विज्ञानस्थितेः. सेयं संस्कारोपगा. अथ वा तृष्णा स्थितिः. तिष्ठत्य् अनया विज्ञानं. पुनर्भवसंतत्यनुच्छेदात्. इति कृत्वा विज्ञानस्य स्थितिर् विज्ञानस्थितिः. सा रूपम् उपगच्छति तदभिष्वङ्गत इति रूपोपगा. एवं यावत् संस्कारोपगा. वैभाषिकाणां पुनर् नयेन कारकार्थो न शक्यते योजयितुम् [तिब्. 253अ] इति दूषयति. अत्र ब्रूमः. द्विविधे ऽप्य् अस्मिन् व्याख्याने रूपादिव्यतिरिक्ता विज्ञानस्थितिर् उक्ता. ता हि
चत्वारः सास्रवाः स्कन्धा
इति
चतुष्कोटिस् तु संग्रह
इत्य् एतत् सर्वं निरस्तं भवतीति दोषांतरं. तस्मात् पूर्वकम् एव व्याख्यानं ( अभिध्-क्-व्य् 264 ) साधु. एतद् वैभाषिकव्याख्यानं वर्णयामो न तैर् एवं व्याख्यातं. रूपम् उपगच्छतीति रूपोपगा विज्ञानस्थितिर् इत्यादि. अपरे पुनर् व्याचक्षते. रूपोपगा विज्ञानस्थितिर् इति. रूपस्वभावेत्य् अर्थः. यथान्यत्रोक्तं. खक्खटखरगतम् इति. स्वभावार्थो गत्यर्थ इत्य् अभिप्रायः. स्थातुः परिवर्जनेन. अन्यो लोके स्थाता देवदत्तादिर् अन्या स्थितिः स्थानं गृहादिकम् इत्य् अर्थः. विज्ञानं वाहयति प्रवर्तयतीत्य् अर्थः. नौनाविकन्यायेन. यथा नाविको नावं वाहयति. तद्वत्. न तु विज्ञानं विज्ञानम् एवाभिरूह्य वाहयतीत्य् अर्थः. एकसंताने विज्ञानद्वयासमवधानं. परसंतानविज्ञानं तु यद्य् अपि युगपद् भवति. न तु तदितरस्य समीपे वर्तत इति न तत् तस्य स्थितिर् भवति.
नन्दी सौमनस्यं. सप्त च विज्ञानस्थितयः पंचस्कंधस्वभावाः तत् कथम् इति. सप्तसु विज्ञानस्थितिषु पंचस्कंधस्वभावत्वेनेष्टासु तत् कथं विज्ञानं न विज्ञानस्थितिर् [तिब्. 253ब्] इष्टम् इति. एवं तर्हीति विस्तरः. अभेदेनैकपिण्डरूपेण रूपादीनां स्कंधानाम् उपपत्त्यायतनसंगृहीतेषु स्कंधेषु मनुष्यादिनिकायसभागसंगृहीतेषु. साभिरामायां सभिरत्यां. विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः सप्तविज्ञनस्थितिदेशनायाम् अभिप्रीयते. प्रत्येकं त्व् एकमेकं स्कंधं प्रति यथा रूपादयो विज्ञानस्य संक्लेशाय भवंति. आश्रयसंप्रयोगसहभूभावेनोपगतत्वात्. नैवं केवलं पृथग् विज्ञानं. किं. संक्लेशाय भवतीत्य् अधिकृतं. कस्मात्. युगपदाश्रयत्वाद्ययोगात्. तस्माच् चतुर्विज्ञनस्थितिदेशनायां केवलं पृथग् विज्ञानं न स्थितिः प्रोक्तम्. तथा विनेयजनापेक्षया ह्य् एकत्र सूत्रे ऽन्यथा विज्ञानस्थितिर् उक्ता. अन्यत्र चान्यथेति. अत आह. अपि च क्षेत्रभावेनेति विस्तरः. विज्ञानस्य क्षेत्रभावेन चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारस्वभावा देशिताः. विज्ञानं बीजभावेन वपनीयरूपेण सोपादानं स्वभूमिकया तृष्णया सतृष्णं. कृत्स्नम् एव संतानगतं देशितम् इति. न पुनर् बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयां बभूव भगवान्. न हि लोके बीजं क्षेत्रभावेन व्यवस्थाप्यते. ये च धर्मा इति विस्तरः. [तिब्. 254अ] ये च धर्मा विज्ञानस्य सहवर्तिनो रूपादयः. त एव क्षेत्रभावेन साधुतरा भवंति. सहवर्ति हि बीजस्य क्षेत्रं लोके दृश्यते. विज्ञानं तु विज्ञानेन सह न वर्तते युगपदभावात्. अतीतानागतास् तर्हि रूपादयो न विज्ञानस्थितयः प्राप्नुवंति. ते ऽप्य् अतीतानागता यथास्वम् अतीतानागतानां विज्ञानानां स्थितयो ब्भवंति. तस्मात् स्वभूमौ सर्व एव सास्रवा रूपादयो विज्ञानस्थितयो भवन्तीत्य् अवगन्तव्यं.
प्रथमा कोटिर् इति विस्तरः. सप्तसु यद् विज्ञानम् इति. पंचस्कंधस्वभावत्वात् सप्तानां विज्ञानस्थितीनां. तत्र विज्ञानं संगृहीतं. न चतसृषु. ( अभिध्-क्-व्य् 265 ) विज्ञानस्य तत्राग्रहणात्. विज्ञानवर्ज्याः स्कंधा इति. अपायादिष्व् अपि विज्ञानं न चतसृषु संगृहीतं. न सप्तसु अपायादिषु विज्ञानपरिभेदेनाग्रहणात्. सप्तसु चत्वारः स्कंधा इति. सप्तसु विज्ञानस्थितिषु ये विज्ञानवर्ज्याश् चत्वारः स्कम्धा उक्ताः. ते चतसृष्व् अपि विज्ञानस्थितिषु संगृहीताः. उभयात्रापि संगृहीताः इत्य् तृतीया कोटिः. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. अपायेषु चतुर्थे ध्याने भवाग्रे च यद् विज्ञानम् अनास्रवाश् च धर्माः.
(इइइ.8च्द्, 9) यच् चैतद् गत्यादिभेदभिन्नम् इति. आदिशब्देन [तिब्. 254ब्] भाजनांतराभवभूम्यादिर् गृह्यते. जरायुर् येन मातुः कुक्षौ गर्भो वेष्टितस् तिष्ठति. तस्माज् जाता जरायुजाः. भूतसंस्वेदजा इति. भूतानां पृथिव्यादीनां संस्वेदाद् द्रवत्वलक्षणाज् जाता भूतसंस्वेदजाः. अविकलाश् चक्षुरिन्द्रियाद्यवैकल्यात्. अहीनेन्द्रियाः काणविभ्रान्तादेर् अभावात्. सर्वाङ्गैर् उपेता हस्तपादादिभिः. सर्वैश् च प्रत्यंगैर् अंगुल्यादिभिर् उपेताः. सकृद् उपजायंते. न कललाद्यनुपूर्व्या अण्डाजादिवत्. उपपादने उपपत्तौ साधुकारित्वात्. शुक्लशोणिताद्यनुपादानेन सकृद् उपजातत्वात्. उपपादुका इत्य् उच्यंते. क्रौंचीनिर्जाताव् इति विस्तरः. भिन्नयानपात्रौ किल वणिजौ समुद्रतीरे क्रौंचीं समभिगतौ. ततो निर्जातौ शैलोपशैलौ स्थविराव् इति. पंचालराजस्येति. तस्य महादेव्याः पंचाण्डशतानि जातानि. तेन राज्ञा मंजूषायां प्रक्षिप्य गंगायाम् अववाहितानि. लिच्छविराजेन सांतःपुरेण स्नायता सा मंजूषोह्यमाना दृष्टा उद्घाटिता च. तस्यां पंचशतानि दारकाणां दृष्टानि गृहीतानि चेति. मांधातृप्रभृतयः संस्वेदजाः. कथं. उपोषधस्य किल राज्ञो मूर्ध्नि पिटको जातः. तस्य वृद्धेर् अन्वयात् परिपाकान्वयात् परिभेदान्वयाद् दारको जातह्. सो ऽयं मान्धातेति संस्वेदजो भवति. राज्ञः खल्व् अपि मांधातुर् जानूपरि पिटकौ जातौ [तिब्. 255अ] तयोर् वृद्धेर् अन्वयात् पूर्ववद् यावद् दारकौ जातौ. ताव् इमौ चारूपचारौ. ब्रह्मदत्तस्य किल राज्ञ उरसि पिटको जातः. तस्य वृद्धेर् अन्वयात् पूर्ववद् यावद् दारिका जाता. सेयं. कपोतमालिनीति. आम्रपाल्य् अपि कदलीस्तंभाज् जातेति श्रूयते. प्राथमकल्पिका इति.
प्राग् आसन् रूपिवत् सत्त्वा
इति वचनात्. सुपर्णी गरुडः. प्रेतानां जरायुजत्वसिद्ध्यर्थम् उच्यते. आयुष्मत इति विस्तरः. कथं गम्यते जरायुजत्वसिद्ध्यर्थम् इति.
रात्रौ पंचतां जनित्वेति
वचनात्. ननु च सुतराम् उपपादुकत्वसिद्ध्यर्थम् इति गम्यते. पंच रात्रौ
दिवा पंच तथापरान्. नास्ति तृप्तिस् तथापि मे
इति वचनात्. जरायुजैर् हि भक्षितैस् तृप्तिर् भवेत्. जरायुजसिद्ध्यर्थम् एव. नोपपादुकसिद्ध्यर्थं. रात्रौ पंचानां सकृज्जन्म दिवा चपरेषां ( अभिध्-क्-व्य् 266 ) पंचानां न विरुध्यते. तावत्कालेन तदात्मभावपरिपूरितः. क्रमेणापि च रात्रौ पंचानां दिवापरेषां पंचानां जन्म न विरुध्यते. सत्त्वजातिः सा तादृशी कर्मणां चाचिंत्यो विपाक इति. अभिप्रवृद्धजिघांसादोषत्वात् तु नापि तृप्तिर् अस्तीति.
प्राप्तोपपत्तिवशित्वो ऽपीत्य् अनेन जरायुजोपपत्तौ कर्मबलात्कारयोगं दर्शयति. यथान्यतीर्थ्या अपभाषन्त इति. अन्यतीर्थ्या मस्करिप्रभृतयः. यथोक्तं निर्ग्रन्थशास्त्रे ऋद्धिं भदन्त को [तिब्. 255ब्] दर्शय्ति. मायावी गौतम इति. तथा भगवन्तम् एवोद्दिश्यान्यत्रोक्तं. कल्पशतस्यात्ययाद् एवंविधो लोके मायावी प्रादुर्भूय मायया लोकं भक्षयतीति. उपजीवतीत्य् अर्थः. बाह्यबीजाभावाद् इति. बाह्यस्य शुकशोणितकर्दमादेर् अभावाद् इत्य् अर्थः आधिष्ठानिकीम् इति. यद् अधितिष्ठति इदम् एवं भवत्व् इति तद् अधिष्ठानं. तत् प्रयोजनम् अस्यास् तत्र वा भवा ऋद्धिर् आधिष्ठानिकी. ताम् इच्छतां बौद्धानां न युक्त एष परिहार इति. कतमः. य उक्तः. शरीरधातूनाम् अवस्थापनार्थम् इति.
प्रश्नात् प्रश्नान्तरम् उत्पद्यत इति. अथ किमर्थं चरमभविको बोधिसत्त्व इति प्रश्न उक्तो विस्तरेण. तत्र चोक्तं. शरीरधातूनाम् अवस्थापनार्थम् इति विस्तरः. तस्मात् प्रश्नाद् इदं प्रश्नान्तरम् उपजायते. यद्य् उपपादुकानाम् इति विस्तरः. कायनिधनं कायनाशः. उपपादुकः सुपर्णी उपपादुकं नागम् इति विशेषणद्वयं किमर्थं. किम् अनुपपादुका अपि सुपर्णिनो नागाश् च सन्ति. सन्तीत्य् आहुः. चतुर्विधा हि गरुडा नागाश् चांडजादिभेदात्. तेषाम् उपपादुका उत्तमाः. संस्वेदजा उपोत्तमाः. जरायुजा मध्याः अण्डजा जघन्याः. तत्रोपपादुकः सुपर्णी सर्वान् उपपादुकादीन् उद्धरति भक्षार्थं. संस्वेदजस् त्रीन् संस्वेदजादीन्. जरायुजो द्वौ जरायुजाण्डजौ. [तिब्. 256अ] अण्डजो ऽण्डजम् एवेति वर्णयन्ति. यावन् न मृत इति. यदा जीवति. तदा तन् मांसादि नान्तर्धीयत इति निदर्शितं भवति. न पुनर् मृतस्यास्य तृप्यतीति. न पुनर् मृतेनानेन तृप्यतीत्य् अर्थः. तृपिपूरौ विभाषेति विभाषाषष्ठीष्यते. तस्य मृतस्याकाशस्येव भक्षितस्य मान्सपिण्डान्तर्धानान् न तृप्यतीत्य् अवगन्तव्यं.
सा हि द्वे गती इति नरकगतिर् देवगतिश् च. तिसृणां च प्रदेश इति. तिर्यक्प्रेतमनुष्यगतीनां.
(इइइ.10) गत्यन्तरालत्वात्. गत्योर् अन्तरालत्वात्. ननु चाव्याकृतैव गतिर् इष्यते. उपपत्तिभवश् चैकांतेन क्लिष्टः. मरणभवो ऽपि कदाचित् कुशलः क्लिष्टो वा भवति. न गतिः. कथं तयोर् गतिशब्दम् अध्यारोप्य गत्यन्तरालत्वाद् इत्य् उच्यते. नैष दोषः. मरणोपपत्तिभवयोर् अनिवृताव्याकृतानां निकायसभागजीवितेन्द्रियजात्यादीनां ( अभिध्-क्-व्य् 267 ) गतिस्वभावानां तत्काले विद्यमानत्वात्. कामरूपधात्वोश् च कायेन्द्रियस्याप्य् अवश्यं भावात्. न चोपपत्तिवन् मरणभवो ऽवश्यं क्लिष्टो नाप्य् अवश्यं कुशलः. तस्मात् तेषु गतिशब्दम् आरोप्य गत्यंतरालत्वाद् इत्य् उक्तं. पदे गत्यर्थत्वाद् इति. पद गताव् इति पठ्यते. तेनोपपन्नशब्दस्योपगतार्थं दर्शयति.
नोपपन्नो ऽन्तराभवः.
किं तर्हि. उपपद्यमान इति. अभिव्यक्तिः समाप्तिश् चेति. आक्षेपकेण कर्मणा निकायसभागस्याभिव्यक्तिः परिपूरकैः परिसमाप्तिः. [तिब्. 256ब्] सर्वस्मिं जन्मनि कर्मद्वयस्य व्यापारात्.
एकं जन्माक्षिपत्य् एकम् अनेकं परिपूरकम्
इति वचनात्. अथ वा यत्र देशे आक्षिप्तस्य कर्मणा नामरूपस्य विपाकस्य प्रादुर्भावो ऽभिव्यक्तिः. षडायतनपूर्तिश् च समाप्तिः. स देशो ऽवगन्तव्यः.
(इइइ.11, 12) व्रीहिसंतानसाधर्म्याद्
इति विस्तरः. संबध्नंस् तानः संतानो व्रीहेः संतानो व्रीहिसंतानः. तेन साधर्म्याद् न विच्छिन्नस्य भवस्योद्भवो भवति. यतो ऽपैति. यत्र चोत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपं. स्वोपादानरूपसंतानरूपस्वभावत्वात्. व्रीहिसंतानपश्चात्तररूपवत्. संतानवर्तिनां हि धर्माणाम् अविच्छेदेन देशान्तरोत्पत्त्या देशान्तरेषु प्रादुर्भावो दृष्टः. तद्यथा व्रीहिसंतानस्य. व्रीहिसंतानपश्चात्तररूपं हि यतो देशान्तराद् अपैति. यत्र च देशांतर उत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उत्पद्यते. क्षणिकवादिनां ह्य् अयम् अस्माकं सिद्धान्तः. यदा ग्रामाद् ग्रामांतरं नीयते व्रीहिः. न स विऋहिः पूर्वत्र ग्रामे निरुध्य तद्ग्रामान्तराले ऽनुत्पद्यमानो ऽनेकयोजनान्तरिते ऽपि ग्रामान्तर उत्पद्यते. किं तर्हि. निरन्तराकाशदेशोत्पादनिरोधक्रमेणोत्पद्यते ग्रामान्तरे. तच् च स्वोपादानरूपसंतानरूपस्वभावं. तथोपपत्तिभवरूपम् अप्य् उत्पद्यत इति. अत्राचार्यगुणमतिः सह शिष्येणाचार्यवसुमित्रेण स्वनिकायानुरागभावितमतिर् व्याख्यानव्यापारम् अपास्य प्रत्यवस्थानपर एव वर्तते. वयम् इह शास्त्रार्थविवरणं प्रत्य् [तिब्. 257अ] आद्रियामहे. न तद् दूषणं. निःसारत्वात् बहुवक्तव्यभयाच् च. भविष्णुर् भवनशीलः. विच्छिन्नो ऽपीति विस्तरः. आदर्शादिषु बिम्बात् प्रतिबिम्बम् इति. आदर्शोदकादिषु बिम्बान् मुखात् प्रतिबिम्बं मुखच्छायारूपं विच्छिन्नम् उत्पद्यमानं दृष्टम् इत्य् अनेनानैकान्तिकताम् उद्ग्राहयति. प्रतिसाधनं वा करोति. यतो ऽपैति. यत्र चोत्पद्यते. न तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपं. स्वोपादानरूपसंतानरूपस्वभावत्वात्. ( अभिध्-क्-व्य् 268 ) प्रतिबिम्बरूपवद् इति. प्रतिबिम्बं नामान्यद् एवोत्पद्यते धर्मान्तरम् इत्य् असिद्धम् एतद् इति. बिम्बसामर्थ्याद् एव तत्रार्शादिषु प्रतिबिम्बाकारं भ्रान्तं विज्ञानम् उत्पद्यत इत्य् आचार्यस्याभिप्रायः. न तत्र प्रतिभिंबं नाम किंचिद् अस्तीत्य् अनेन धर्म्यसिद्धिं नाम दृष्टान्तदोषं दर्शयति. तस्मान् नानैकान्ततास्ति. न चैतत् प्रतिसाधनं साध्व् इति. सिद्धाव् अपि च सत्याम्
असाम्याद् अनिदर्शनम्
इति. प्रतिबिम्बस्य द्रव्यसत्त्वेन सिद्धाव् अपि सत्याम् असाम्याद् दार्ष्टान्तिकेनानिदर्शनम् अनुदाहरणं प्रतिबिम्बकम् इति. कथं तावद् असिद्धम् इति. तावच्छब्दः क्रमे. असिद्धतायुक्तिं तावद् दर्शयन्न् आह.
सहैकत्र द्वयाभावाद्
इति विस्तरः. तत्रैव हि आदर्शदेशे आदर्शरूपं दृश्यते पार्श्वस्थितेन न प्रतिबिम्बकं. प्रतिबिंबकं च तत्रैव दृश्यते ऽभिमुखावस्थितेन नादर्शरूपं. न चैकत्रदेशे उपादायरूपद्वयस्यास्ति [तिब्. 257ब्] सहभावः. किं कारणं. आश्रयभूतभेदात्. आश्रयभूतानि हि तर्योर् भिन्नानीति. नास्त्य् आदर्शरूपाश्रयभूतैर् अवष्टब्धे देशे प्रतिबिम्बकरूपाश्रयभूतानां तत्रावकाशः. अतो नोपादायरूपद्वयस्यास्ति संभवः. तद् एवं युगपद् विज्ञानद्वयस्याभावात्. उपादायरूपद्वयस्य चैकत्र सहभावाभावात्. न तत् किंचिद् अस्तीति दर्शयति. यत्रैव हि देशे आदर्शरूपं दृश्यते. इति भिम्बकं च तत्रैव. न त्व् अन्यत्र. को दोष इत्य् आह. न चैकत्र रूपद्वयस्यास्ति सहभाव इति. पूर्ववद् वाद्च्यं. अथ वा
सहैकत्र द्वयाभावाद्
इत्य् अस्य सूत्रस्यायम् अर्थः. एकत्र रूपे पुरुषद्वयस्य पश्यत एवाभावात् सहदर्शनस्य प्रतिबिम्बम् असिद्धम् इति वाक्यध्याहारः. कथम् इत्य् आह. दिग्भेदव्यवस्थितैः पुरुषैर् एकैर् उत्तरदिग्व्यवस्थितैर् इतरैर् दक्षिणदिग्व्यवस्थितैः. एकस्मिं वाप्यम्बुदेशे एकस्मिंस् तटाकजलदेशे. स्वाभिमुखदेशस्थितानां रूपाणां दक्षिणतटोर्ध्वस्थितानि रूपाण्य् उत्तरदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि उत्तरतटोर्ध्वस्थितान्य् अपि रूपाणि दक्षिणदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि. तेषाम् उभयेषां. किं प्रतिबिम्बकं अन्योन्यम् उपलभ्यते. उत्तरदिग्व्यवस्थितैर् दक्षिणतटाधः प्रतिबिम्बकम् उपलभ्यते. दक्षिणदिग्व्यवस्थितैर् अप्य् उत्तरतटाधः प्रतिबिंबकम् उपलभ्यते. एवम् अन्योन्यम् उपलभ्यते. न तूभयं [तिब्. 258अ] युगपद् उपलभ्यते इति वाक्यार्थः. न हि स्वतटाधः प्रतिबिंबकं एकतटस्थैः समन्ततो ऽपि वापीजलं पश्यद्भिर् उपलभ्यते. ततः किम् इति चेद् अत आह. न त्व् एकत्र रूपे घटे पटे वा द्वयोः पश्यतोः पुरुषयोः सहदर्शनं ( अभिध्-क्-व्य् 269 ) न भवति. भवत्य् एवेत्य् अर्थः. इह तु न भवति सहदर्शनम् इत्य् अतो न तत्र रूपान्तरोत्पत्तिर् युक्तेति. अथ वास्यायम् अर्थः. छायातपयोश् च द्वयोस् सहैकत्रभावो न दृष्टो लोके. यत्र छाया भवति मण्डपे ऽन्यत्र वा. न तत्रातपः. यत्र वातपो भवत्य् अभ्यवकाशे. न तत्र छाया. उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिबिम्बकम् इति. कथं. तटाके सूर्यप्रतिबिंबकम् उत्पद्यते. तत्तटाकतटस्थे च छायावति मण्डपे आदर्शः स्थाप्यते. तत्रादर्शके तटाकस्थस्य सूर्यप्रतिबिंबकस्यापरं प्रतिबिंबकम् उत्पद्यते. तटाके च यत् सूर्यप्रतिभिम्बकं. तत् सूर्यसमुत्थम् इत्य् अवश्यम्. आतपस्वभावम् इत्य् अभ्युपगंतव्यं. यच् चापरम् आदर्शे प्रतिबिम्बकं. तद् आतपस्वभावप्रतिबिंबकसमुत्थम् इत्य् एतद् अप्य् अवश्यम् आतपस्वभावम् अभ्युपगंतव्यम्. एवं सति छायातपयोः सहस्वभावः स्यात्. न चान्यत्र लोके छायातपयोः सहभाव इति. न युक्तो ऽस्य प्रतिबिंबकस्य तत्र प्रादुर्भावः. कूप इवोदकम् इति. यथा कूपे दूरान्तर्गतम् उदकम् [तिब्. 258ब्] दृश्यते. तथा चन्द्रप्रतिबिम्बकम् अप्य् अत्रैवान्तर्गतं दृश्यते. न चादर्शस् तावद् वस्तुफलो ऽस्ति. तच् च तत्रोत्पद्यमानं. तच् च प्रतिबिंबकम् आदश एवोत्पद्यमानं. नान्यत्राधस्ताद् उपलभ्येत. उपलभ्यते च. अतो नास्त्य् एव तत् किंचित्. सामग्र्यास् तु बिम्बादर्शादिलक्षणायाः. स तस्याः प्रभावो यत् तथा दर्शनं भवति. अचिन्त्यो हि धर्माणां शक्तिभेदः. अयसो ऽयस्कान्ताभिगमनदर्शनात्. न काष्ठादीनां यथा. चन्द्रकान्ताच् चन्द्रोदये ऽप्संभवप्रक्षरणदर्शनं. नांगारादीनाम्. इत्य् एवमादि वक्तव्यं. आदर्शसंतानसम्बद्धत्वाद् इति. न बिंबसंतानभूतं प्रतिबिम्बम्. आदर्शसंबद्धत्वात्. आदर्शरूपवत्. सहभावाच् च. बिम्बसमानकालरूपान्तरवत्. तद् एवं यथा मरणभवस्योपपत्तिभवः संतानभूतः. नैवं बिम्बस्य प्रतिबिम्बकम् इति. साधनानन्वितः प्रतिबिम्बकदृष्टान्तः. व्रीहिसंतानपश्चात्तररूपदृष्टान्तस् तु स्वसंतानपूर्वरूपसंतानभूत इति. तस्माद् असाम्यं दृष्टान्तस्य प्रतिबिंबस्य चेति.
द्वयोदयाद्
इति विस्तरः. द्वयेनोदयो द्वयोदयः. तस्माद् बिम्बाच् चादर्शाच् चेत्य् अर्थः. यत् प्रधानं कारणम् आदर्शादि. तद् आश्रित्योत्पद्यते प्रतिबिम्बं. आदर्शादि हि प्रतिभिम्बस्य प्रधानं कारणं तदनुविधानात्. तद्यथा यद्य् असिस् तिर्यगवस्थितो भवति. प्रतिबिम्बम् अपि तिर्यग् आयतं च दृश्यते. यद्य् [तिब्. 259अ] ऊर्ध्वम् अवस्थितो भवति. प्रतिबिम्बम् अपि तथैव दृश्यते. न चैवम् उपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवः मरणभवाच् चान्यतश् ( अभिध्-क्-व्य् 270 ) च प्रधानभूताद् आदर्शस्थानीयात्. बाह्यं शुक्लशोणितं प्रधानकारणम् इति चेत्. न. अचेतनत्वात्. उपपादुकानां च तदभावात्. अतो ऽप्य् अयम् असमानो दृष्टान्तः. किम् अनेन दर्शितं भवति. उक्तालितविशेषणे हेताव् अयम् अतुल्यो दृष्टान्तः इति. कथम् इति. यतो ऽपैति. यत्र चोत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपम्. अद्वयोत्पन्नस्वोपादानरूपसंतानरूपस्वभावत्वात्. व्रीहिसंतानपश्चात्तररूपवद् इति. तद् एवं सति नास्य साधनस्यानैकान्तिकता शक्यम् उद्ग्राहयितुं. नापि प्रतिसाधनं कर्तुम् इत्य् उक्तं भवति. आगमेनान्तराभवस्यास्तित्वं साधयन्न् आह.
कण्ठोक्तेश् चास्तीति
स्वशब्दाभिधानाद् इत्य् अर्थः. नैतत् सूत्रं तैर् आम्नायत इति. तैर् निकायान्तरीयैः. कस्मान् नाम्नायते. तदागमेष्व् अभावात्. निकायन्तरागमप्रसिद्धं किम् इति न प्रमाणं क्रियते. मूलसंगीतिभ्रंशेन समारोपितसूत्राशंकितत्वात्. त्रयाणां स्थानानाम् इति. त्रयाणां हेतूनां. माता कल्या माता नीरोगा. ऋतुमती रजस्वला. तद् एतद् उभयं प्रथमं स्थानं भवति. रक्तौ संनिपतिताव् इति. मैथुनधर्मं कुर्वन्तौ. इदं द्वितीयं स्थानं. गन्धर्वश् च प्रत्युपस्थित इति तृतीयं. स्कंधभेदश् च प्रत्युपस्थित [तिब्. 259ब्] इति मरणभवः. पंचानागामिनः सप्त सत्पुरुषगतयः पुद्गलनिर्देशकोशस्थाने वक्ष्यंते. उपपद्यादयो ऽपीति. उपपद्या नाम ते देवा इत्य् एवमादयः संप्रसज्यन्ते. सप्त सत्पुरुषगतय इति. एत एव पंचान्तरापरिनिर्वायिणं त्रिधा भित्त्वा सप्त भवंति. तेनाहान्तरापरिनिर्वायिणस् त्रय उक्ताः कालदेशप्रकर्षभेदेनेति. कालप्रकर्षभेदेन देशप्रकर्षभेदेन च यथायोगं. सूत्रं चात्र पठ्यते. श्रावस्त्यां निदानं. तत्र भगवान् भिक्षून् आमन्त्रयते स्म. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्याम्य् अनुपादाय च परिनिर्वाणं. तच् छ्रुणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये. सप्त सत्पुरुषगतयः कतमाः. इह भिक्षुर् एवं प्रतिपन्नो भवति. नो च स्यां नो च मे स्यात् न भविष्यामि न मे भविष्यति यद् अस्ति यद् भूतं तत् प्रजहामीत्य् उपेक्षां प्रतिलभते. स भवे ऽस्मिन् न रज्यते. स भवे ऽस्मिन् न सज्यते. अथोत्तरं पदं शान्तं प्रज्ञया प्रतिविध्यति. तच् चानेन पदं कायेन साक्षात्कृतं भवति. एवं प्रतिपन्नस्य भिक्षोः का गतिः स्यात्. कोपपत्तिः. को ऽभिसंपराय इति स्युः प्रष्टारः. तद्यथा भिक्षवः परीत्तः शकलिकाग्निर् अभिनिवर्तमान एव निर्वायात्. एवम् एव तस्य तावन् मानावशेषम् [तिब्. 260अ] अप्रहीणं भवत्य् अपरिज्ञातं. तस्य तावन् मानावशेषस्याप्रहाणाद् अपरिज्ञानात् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अन्तरापरिनिर्वायी भवति. इयं प्रथमा सत्पुरुषगतिर् आख्याता. ( अभिध्-क्-व्य् 271 ) पुनर् अपरम् भिक्षुर् एवं प्रतिपन्नो भवति. नो च स्याम् इति पूर्ववत् यावत् स्युः प्रष्टार इति. तद्यथायोगुडानां वायस्फालानां वा प्रदीप्ताग्निसंप्रतप्तानाम् अयोघनेन हन्यमानानाम् अयस्प्रपाटिका उत्पतंत्य् एव निर्वायात्. एवम् एव तस्य पूर्ववत् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अन्तरापरिनिर्वायी भवति. इयं द्वितीया सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्नो भवति. पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्यापतित्वैव पृथिव्यां निर्वायात्. एवम् एव तस्य पूर्ववत् यावद् अन्तरापरिनिर्वायी भवति. इयं तृतीया सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्नो भवतीति पूर्ववत् यावद् अयस्प्रपाटिका उत्प्लुत्य पतितमात्रैव पृथिव्यां निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् उपपद्यपरिनिर्वायी भवति. इयं चतुर्थी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य परीत्ते तृणकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात्. अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि [तिब्. 260ब्] कृत्वार्चिर् अपि संजनय्य तद् एव परीत्तं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनभिसंस्कारपरिनिर्वायी भवति. इयं पंचमी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात्. अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि कृत्वार्चिर् अपि संजनय्य तद् एव महद् विपुलं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणात् साभिसंस्कारपरिनिर्वायी भवति. इयं षष्ठी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणाकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात् अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि कृत्वार्चिर् अपि संजनय्य तद् एव महद् विपुलं तृणकाष्ठं दग्ध्वा ग्रामम् अपि दहेद् ग्रामप्रदेशम् अपि नगरम् अपि नगरप्रदेशम् अपि जनपदम् अपि जनपदप्रदेशम् अपि कक्षम् अपि दावम् अपि द्वीपम् अपि षण्डम् अपि दहेत्. ग्रामम् अपि दग्ध्वा यावद् षण्डम् अपि दग्ध्वा मार्गान्तम् आगम्य उदकान्तं वाल्पहरितकं या पृथिवीप्रदेशम् आगम्य पर्यादाय [तिब्. 261ब्] निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभ्गीयानां संयोजनानां प्रहाणात् ऊर्ध्वंस्रोता भवति. इयं सप्तमी सत्पुरुषपतिर् आख्याता. अनुपादाय परिनिर्वाणं कतमत्. इह भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावत् स्युः प्रष्टार इति. तस्यैवं प्रतिपन्नस्य भिक्षोर् न पूर्वस्यां दिशि गतिं वदामि न दक्षिणस्यां न पश्चिमायां नोत्तरस्यां नोर्ध्वं नाधो नानुविदिक्षु ( अभिध्-क्-व्य् 272 ) नान्यत्र. दृष्ट एव धर्मे निश्छायं
परिनिर्वृतं शीतीभूतं ब्रह्मीभूतम् इति. इदम् उच्यते ऽनुपादाय परिनिर्वाणं. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्याम्य् अनुपादाय च परिनिर्वाणम् इति यद् उक्तम्. इदम् एतत्प्रयुक्तं. अन्ये पुनर् आहुर् इति विस्तरः. आयुषः प्रमाणं. तस्यान्तरं तस्मिन्न् आयुःप्रमाणान्तरे ऽपरिसमाप्त आयुषीत्य् अर्थः. देवसमीपान्तरे वा. देवानाम् अन्तिकं देवानां समीपम्. देवसमीपं गतस्यान्तरे यः क्लेशान् प्रजहाति. सो ऽन्तरापरिनिर्वायी. स पुनर् धातुगतो वा परिनिर्वाति. यः क्लेशबीजावस्थायाम् उपपन्नमात्रः. असमुदाचारक्लेश इत्य् अर्थः. संज्ञागतो विषयसंज्ञासमुदाचारावस्थायां यः परिनिर्वाति. धातुगताच् चिरतरेणायं [तिब्. 261ब्] परिनिर्वाति. वितर्कगतो वा वितर्कसमुदाचारावस्थायां यः परिनिर्वाति. अयम् अपि संज्ञागताच् चिरतरेण परिनिर्वाति. तेन त्रिविधो भवत्य् अन्तरापरिनिर्वायी यथोक्तेन दृष्टान्तत्रयेण. प्रथमो वा निकायसभागपरिग्रहं कृत्वा जातमात्र इत्य् अर्थः. यं प्रत्य् एष परीत्तः शकलिकाग्निर् इति दृष्टान्तः. द्वितीयो देवसमृद्धिं चानुभूय परिनिर्वातीति. यं प्रत्य् एष दृष्टान्तः. तद्यथायस्प्रपातिकेति. तृतीयो धर्मसंगीतिम् अनुप्रविश्य धर्मसांकथ्यम् अनुप्रविश्य परिनिर्वाति. यं प्रत्य् एष दृष्टान्तः. तद्यथायस्प्रपाटिका उत्प्लुत्य पृथिव्याम् अपतित्वैव निर्वायात्. तद् एवं विनाप्य् अन्तराभवेन यथान्तरापरिनिर्वायी भवति. यथा च तस्य दृष्टान्तत्रयेण त्रिविधो भेदः. तथा साधितं निकायान्तरीयैः. तस्मिं साधिते इदं चोद्येत यदि धर्मसंगीतिम् अनुप्रविश्य यः परिनिर्वाति. सो ऽन्तरापरिनिर्वायीष्यते कीदृश उपपद्यपरिनिर्वायी भविष्यतीत्य् अत आह. उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिम् अनुप्रविश्य परिनिर्वातीति. प्रकर्षयोगाद् उत्पत्त्यर्थो भवतीत्य् अभिप्रायः. संगीतिअनुप्रवेशसामान्यान् [तिब्. 262अ] नैष भेदो युज्यत इति वचनावकाशं मत्वा पुनर् आह. भूयसा वायुर् उपहत्येति. आयुषो बहु क्षयित्वा परिनिर्वातीत्य् अर्थः.
त एत इति विस्तरः. त एते सर्वे ऽपि धातुगतादयस् त्रयः शकालिकादिभिर् दृष्टान्तैर् न संबध्यंते. कस्मात्. देशगतिविशेषाभावात्. देशगतेर् विशेषस्याभावात्. न ह्य् एषां देशगतिविशेषो ऽस्ति. तत्रैव देशे परिनिर्वाणात्. सूत्रोक्तानां त्रयाणां दृष्टान्तानां दशगतिविशेषो ऽस्तीति. नैभिर् एते सम्बध्यंते. आरूप्येष्व् अपि चेति विस्तरः. यदि चैवम् उपपद्यपरिनिर्वायिण एवान्तरापरिनिर्वायित्वेन व्यवस्थाप्येरन्. आरूप्येष्व् अपि ते तथैव पठ्येरन्. तत्रायुःप्रमाणान्तरे परिनिर्वाणात्. न चैवम्. अतो नैवं सूत्रार्थः. आयुःप्रमाणान्तरे वेत्यादिः. कथं पुनर् गम्यते. नारूप्येष्व् अन्तरापरिनिर्वायी पठ्यत इत्य् आह
ध्यानैश् चतस्रो दशिका
इति विस्तरः. ध्यानैश् चतुर्भिश् चतस्रो दशिका सूत्रार्थानां. प्रथमस्य ध्यानस्यैका दशिका यावच् चतुर्थस्यैका दशिका. ताः कृत्वा.
आरूप्यैस् सप्तिकात्रयं
इति. आकाशविज्ञानाकिंचन्यायतनैस् तिस्रः सप्तिकाः. तासां त्रयम्. अन्तराभवाभावाद् उपपत्तिस्थानत्रयाभावेन च द्वयाभावात्. तत् कृत्वा. नैवसंज्ञानासंज्ञायतनेन [तिब्. 262ब्]
षट्किका.
तेषाम् एव त्रयाणां ऊर्ध्वं स्रोतसश् चाभावात्. तां च कृत्वा वर्गो भवति
समुदितो
बद्ध इत्य् अर्थः. कथम्. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैर् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति. अपि तु यत् तत्रोपलभते रूपगतं वा वेदनागतं वा संज्ञागतं वा संस्कारगतं वा विज्ञानगतं वा. स तां धर्मान् रोगतो मनसिकरोति. गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतो मनसिकरोति. स तान् धर्मान् रोगतो मनसिकृत्य यावद् अनात्मतो मनसिकृत्य तेभ्यो धर्मेभ्यश् चित्तम् उद्वेजयति उत्तासयति प्रतिवारयति. स तेभ्यो धर्मेभ्यश् चित्तम् उद्वेज्योत्त्रास्य प्रतिवार्य अमृते धाताव् उपसंहरति. एतच् छांतम् एतत् प्रणीतं. यद् उत सर्वोपधिप्रतिनिसर्गस् तृष्णाक्षयो विरागो निरोधो निर्वाणम् इति. 1. एतद् एव च सूत्रम् उक्त्वायं विशेषः. तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते भवास्रवाद् अविद्यास्रवाच् चित्तं विमुच्यते. विमुक्तस्य विमुक्तो ऽस्मीति ज्ञानदर्शनं भवति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एव च सूत्रम् उक्त्वा नो तु विमुच्यते. अपि तु तेनैव धर्मच्छन्देन [तिब्. 263अ] तेनैव धर्मस्नेहेन तेनैव धर्मप्रेम्ना तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति. 3. न हैवान्तरापरिनिर्वायी भवति. अपि तूपपद्यपरिनिर्वायी भवति. 4. न हैवोपपद्यपरिनिर्वायी भवति. अपि त्व् अनभिसंस्कारपरिनिर्वायी भवति. 5. न हैवानभिसंस्कारपरिनिर्वायी भवति. अपि तु साभिसंस्कारपरिनिर्वायी भवति. 6. न हैव साभिसंस्कारपरिनिर्वायी भवति. अपि तूर्ध्वंस्रोता भवति. 7. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्मभिरत्या महाब्रह्मणां देवानां सभागतायाम् उपपद्यते. 8. न हैव महाब्रह्मणां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या ब्रह्मपुरोहितानां ( अभिध्-क्-व्य् 274 ) देवानां सभागतायाम् उपपद्यते. 9. न हैव ब्रह्मपुरोहितानां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमितैर् वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् [तिब्. 263ब्] अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति. अपि तु तत्रोपलभते पूर्ववद् ग्रन्थः. यावद् विरागो निरोधो निर्वाणं. 1. एतद् एव सूत्रम् उक्त्वा तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते. भवास्रवाद् अविद्यास्रवात् पूर्ववत् यावत् कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एव सूत्रम् उक्त्वा नो तु विमुच्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत्. यावत् तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति. 3. न हैवान्तरापरिनिर्वायी भवति. अपि तूपपद्यपरिनिर्वायी भवति. 4. न हैवोपपद्यपरिनिर्वायी भवति अपि त्व् अनभिसंस्कारपरिनिर्वायी भवति. 5. न हैवानभिसंस्कारपरिनिर्वायी भवति. अपि तु साभिसंकारपरिनिर्वायी भवति. 6. न हैव साभिसंस्कारपरिनिर्वायी भवति. अपि तूर्ध्वंस्रोता भवति. 7. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या आभास्वराणां देवानां सभागतायाम् उपपद्यते. 8. न हैवाभास्वराणां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन यावत् तयैव धर्माभिरत्या अप्रमाणाभानां देवानां सभागतायाम् उपपद्यते. 9. न हैवाप्रमाणाभानां देवानां सभागतायां उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावत् तयैव धर्माभिरत्या परीत्ताभानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः प्रीतिविरागाद् उपेक्षको विहरति. स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते. यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारांस् तानि लिंगानि
तानि निमित्तानि मनसिकरोति पूर्ववत् [तिब्. 264अ] सर्वाणि सूत्राणि. केवलं तु निकायसभागतायां विशेषः. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावद् छुभकृत्स्नानां देवानां सभागतायाम् उपपद्यते. 8. न हैव शुभकृत्स्नानां देवानां सभागतायाम् उपपद्यते. अपि तेनैव पूर्ववत् अप्रमाणशुभानां देवानां सभागतायाम् उपपद्यते. 9. न हैवाप्रमाणशुभानां देवानां सभागतायाम् उपयद्यते. अपि तु तेनैव पूर्ववत् परीत्तशुभानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् ( अभिध्-क्-व्य् 275 ) अस्तंगमात्. अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारांस् तानि लिंगानि विस्तरेण सर्वाणि सूत्राणि पूर्ववद् वक्तव्यानि. देवनिकायोपपत्तयस् तु विशेष्यन्ते. यावत् तयैव धर्माभिरत्या बृहत्फलानां देवानां सभागतायाम् उपपद्यते. न हैव पूर्ववत् पुण्यप्रसवानां देवानां सभागतायाम् उपपद्यते. न हैव पूर्ववद् अनभ्रकाणां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानां अस्तंगमात् [तिब्. 264ब्] नानात्वसंज्ञानाम् अमनसिकारात् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इति पूर्ववत्. केवलं तु रूपगतम् इति न पठितव्यं. तत्र रूपाभावात्. यावन् निरोधो निर्वाणम् इति. 1. एतद् एव सूत्रम् उक्त्वायं विशेषः. तस्यैवं जानत इति पूर्ववत् यावन् नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एवोक्त्वा नो विमुच्यते. अपि तु तेनैव धर्मच्छन्देन यावत् तयैव धर्माभिरत्या उपपद्यपरिनिर्वायी भवति. 3. न हैवोपपद्यपरिनिर्वायी भवति. अपि तु तेनैव यावद् अनभिसंस्कारपरिनिर्वायी भवति. 4. न हैवानभिसंस्कारपरिनिर्वायी भवतीति सर्वम् उक्त्वा यावद् ऊर्ध्वंस्रोता न भवति. अपि तु तेनैव पूर्ववत्. यावत् तयैव धर्माभिरत्या आकाशानंत्यायतनोपगानां देवानां सभागतायाम् उपपद्यते. 7. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सर्वश आकाशानंत्यायतनं समतिक्रम्यानंतं विज्ञानम् इति विज्ञानानंत्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इत्य् आकाशानंत्यायतनवत् सप्त सूत्राणि वक्तव्यानि. केवलं तु विज्ञानानंत्यायतनोपगानां देवानां सभागतायाम् उपपद्यत इति विशेषः. 7. पुनर् अपरम् इह भिक्षुर् यैर् आकारैर् [तिब्. 265अ] यैर् लिंगैर् यैर् निमित्तैः सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इति पूर्ववत् सप्त सूत्राणि. 7. पुनर् अपरम् इह भिक्षुर् यैर् इति यावत् सर्वशः आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. पूर्ववत् सर्वाणि सूत्राणि वक्तव्यान्य् ऊर्ध्वंस्रोतसं त्व् एकम् अपनीय. 6. तद् एवं चतुर्भिर् ध्यानैर् अमृतधातुचित्तोपसंहारचित्तविमुक्त्यन्तरोपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनत्र्युपपत्तिस्थानोपपत्तिस्वभावाश् चतस्रः सूत्रार्थदशिका उक्ताः. त्रिभिस् त्व् आद्यैर् आरूप्यैर् अमृतधातुचित्तोपसंहारचित्तविमुक्त्युपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनोपपत्तिस्थानोपपत्तिस्वभावास् तिस्रः सूत्रार्थसप्तिकाः. नैवसंज्ञानासंज्ञायतनेनोर्ध्वगमनं परिहाय षट्किका चोक्ता. अतो यो ऽसाव् ( अभिध्-क्-व्य् 276 ) अन्तरापरिनिर्वायी. नासाव् आयुष्प्रमाणान्तरापरिनिर्वायीति युज्यते वक्तुम्. आरूप्येष्व् अपि ह्य् अन्तरामरणसंभवः.
कुरुवर्ज्यो ऽन्तरामृत्युर्
इति वचनात्. तस्मात् आगमतो ऽपि सिद्धो ऽन्तराभवो न केवलं युक्तित इत्य् अपिशब्दः [तिब्. 265ब्]. दूषीमार इति. क्रकुच्छन्दस्य तथागतस्य विदुरं नाम श्रावकं दूषी नाम मारस् तदानीं शिरसि मुष्टिनाभिघ्नन् तेनांगीकृतः. तत्क्षण एव च स्वशरीरेणैवावीचौ महानरके प्रपतित इति. स्वशरीरेणैवेति वचनान् नास्त्य् अन्तराभव इत्य् अभिप्रायः. स हि जीवन्न् एव नारकीभिर् ज्वालाभिर् इति. जीवन्न् एवासौ मारो नरकोत्थिताभिर् अग्निज्वालाभिर् आलिंगितत्वात् स्वशरीरावस्थादुःखोत्पत्तेः. स्वशरीरेणैव प्रपतित इत्य् उक्तः. न तु कालम् अकृत्वान्तराभवावस्थानं. नरकोपपत्तिभवॄआवस्थां च न गतवान् इत्य् अभिप्रायः. अत्युदीर्णपरिपूर्णानीति. क्षेत्राशयविशेषयोगाद् अत्युदीर्णानि. उपचितत्वात् परिपूर्णानि. समनंतरं नरकेषूपपद्यत इति. समनन्तरवचनान् नास्त्य् अन्तराभव इत्य् अभिप्रायः. अन्यां गतिम् अगत्वेति. उपपत्त्यन्तरप्रतिषेधपरम् एतद् वाक्यं. नान्तराभवप्रतिषेधपरम् इत्य् अभिप्रायः. पंचैवेति. यदि यथारुतं कल्प्यते. पंचभिर् एवानन्तर्र्यैः कृतैः न त्व् एकेन द्वाभ्यां वा नरकगमनं भवतीत्य् एतत् प्राप्नोति. पंचेति रुतात् क्रियानन्तरं चानन्तर्यक्रियानन्तरं च नरकेषूपपन्न इति प्राप्नोति. यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत इति रुतान् न कालान्तरं [तिब्. 266ब्] जीवित्वा. को वान्तराभवस्योपपद्यमानत्वं नेच्छतीति. विप्रकृतावस्थावचनात्. उपपत्त्यभिमुखो ह्य् उपपद्यमान इत्य् अभिप्रायः. न तु ब्रूम उपपन्नो भवतीति. न तूपपद्यत इत्य् एतत् पदम् उपपन्नार्थम् इति ब्रूमः. तस्माद् अदोष एष्स्ः.
उपनीतवया
इति विस्तरः. मृत्युसमीपम् उपनीतं वयो येन. सो ऽयम् उपनीतवयाः.
द्विजेत्य्
आमन्त्रणं. कश्चिज् जीर्णो ब्राह्मण आमन्त्रितः.
वासो ऽपि हि नास्ति ते ऽन्तरेति.
इदम् अत्र ज्ञापकम्. अन्तराभवाभाव इत्य् अभिप्रायः.
पाथेयं
पथ्यौदनं
च न विद्यते तव
( अभिध्-क्-व्य् 277 ) पारलौकिकः कुशलसंभारस् तव नास्तीत्य् अभिप्रायः. मनुष्येष्व् अन्तरावासो नास्तीति. मरणगतस्य ते सतो मनुष्येष्व् अन्तरावासो नास्ति. यथेह कस्यचित् प्रतिष्ठमानस्येत्य् अभिप्रायः. गमनविष्ठानाद् इति. गमनविरामात्. अयम् अत्राभिप्रायो यथा त्वया वर्ण्यते. अस्त्य् अन्तराभव इति. नायम् अभिप्रायो यथा मया वर्ण्यते. नास्त्य् अन्तराभव इति. कुत एतत्. कुतो हेतोर् एतद् भवति. तुल्य एष भवतो ऽप्य् अनुयोगः. समान एष भवतो ऽपि प्रश्न इत्य् अर्थः. यथोक्तसूत्रविरोधाद् इति. दूषीमारसूत्राद्यविरोधात्. न भवत्य् एतत् सूत्रम् अन्तराभवस्याभावे ज्ञापकं. ज्ञपकं हि नामागतिका गतिर् [तिब्. 266ब्] इति. यस्या गतेर् अन्या गतिर् नास्ति. असाव् अगतिका गतिः. एतद् उक्तं भवति. यदि यज् ज्ञापकं सूत्रं. गाथा वा. येस्यार्थस्य द्योतनार्थम् उच्यते. यदि तम् एवार्थं द्योतयति. नान्यद् अप्य् अर्थान्तरं तद्विरुद्धं. तज् ज्ञापकम् अनन्यगतिकम् इति.
(इइइ.13) ऐष्यत्पूर्वकालभवाकृतिर्
इति. आ एष्यद् ऐष्यत्. ऐष्यतः पूर्वकालभवस्येवाकृतिर् अस्येति. ऐष्यत्पूर्वकालभवाकृतिः. कस्मात्.
एकाक्षेपात्.
यस्माद् ऐष्यन्ती गतिस् तत्प्रापकश् चान्तराभवस् तेनैवैकेन कर्मणाक्षिप्यते. शुनीप्रभृतीनाम् इति. शुनीसूकरीप्रभृतीनां. पंचगतिक इति. पंचगतिगामीत्य् अर्थः. यदि गर्भस्थो ऽपि म्रियेत तस्य नारको ऽन्तराभवो मातुः कुक्षिं निर्दहेत्. नारको हि प्रदीपो भवति. तद्रूपश् चान्तराभव इति. पूर्वकालभवे ऽपीति विस्तरः. नारकपूर्वकालभवावस्था अपि नारका न नित्यं प्रज्वलिता भवन्त्य् उत्सदेषु कुकूलादिषु भ्रमंतः. किम् अंगान्तराभविकाः. अस्तु वा प्रज्वलित इति. नारको ऽन्तराभवः. कुक्षाव् असंश्लेषाद् इति. अन्तराभवानाम् अच्छत्वाद् आत्मभावस्यान्योन्यं असंश्लेषान् न दाहः. कर्मप्रतिबन्धाच् च. तत्कर्मप्रतिबन्धान् न दाह इति कृत्वा. अत एव शुनीप्रभृतीनां कुक्षेर् अदाहः. कोटीशतं चातुर्द्वीपकानाम् अवभासितम् इति. यतः पूर्णयून इव बोधिसत्त्वस्यान्तराभवः [तिब्. 267अ] सलक्षणानुव्यंजनश् चातो ऽंतराभवस्थेन तेन मातुः कुक्षिं प्रवेष्तुम् इच्छता त्रिसाहस्रमहासाहस्रो लोकधातुः स्वक्षेत्रम् इति कृत्वावभासितः.
पांण्डरं गजपोटम् इति. यद्य्
ऐष्यत्पूर्वकालभवाकृतिर्
अन्तराभवः. कस्माद् बोधिसत्त्वस्य माता गजपोतम् एवंरूपम् अद्राक्षीत्. निमित्तमात्रं तत्. तस्य बोधिसत्त्वस्य तिर्यग्योनेश् चिरव्यावर्तितत्वात्. यतः प्रभृति लक्षणविपाकानि कर्माण्य् आरभते कर्तुं कल्पशते शेषे ततः प्रभृति तस्य सर्वा दुर्गतयो व्यावृत्ताः. तद्यथा कृकी राजा दश स्वप्नान् अद्राक्षीत्. ( अभिध्-क्-व्य् 278 ) भविष्यतो ऽर्थस्य निमित्तमात्रम् इति. दश स्वप्ना विनये पठ्यन्ते. कृकिणा किल राज्ञा दश स्वप्ना दृष्ताः. हस्ती वातायनेन निर्गत्य पुच्छे सक्तह्. कूपस् तृषितस्य पृष्टतो ऽ; नुधावति. सक्तुप्रस्थेन मुक्ताप्रस्थो लभ्यते. चन्दनं काष्ठार्घेण विक्रीयते. आरामाः पुष्पफलसंपन्नाः सर्वं च पुष्पफलम् अदत्तादायिभिर् ह्रियते. कलभैर् गन्धहस्तिनस् त्रास्यन्ते. अशुचिम्रक्षितो मर्कटः परान् उपलिंपति. मर्कटाभिषेको वर्तते. पटको ऽष्टादशभिर् जनैर् आकृष्यते. महाजनकाय एकत्र कलहभण्डनविग्रहविवादेनान्योन्यविघातम् आपन्न इति. तेन च ते भगवते काश्यपाय तथागताय निवेदिताः. [तिब्. 267ब्] भगवता च व्याकृताः. भविष्यत्य् अनागते ऽध्वनि साक्यमुनिर् नाम तथागतः. तस्य श्रावका विस्तीर्णस्वजनबंधुवर्गं प्रहाय प्रव्रजिताः विहारेषु गृहसंज्ञाम् उत्पाद्य संगं करिष्यन्ति हस्तिनो वातायननिर्गमनपुच्छलग्नवत्. कूपस्वप्नेन तच्छ्रावका एव ब्राह्मणगृहपतीनाम् अभ्युपेत्य धर्मं देशयिष्यंति. तेषाम् श्रोतुकामता न संस्थास्यत इत्य् एतद् दर्शयति. सक्तुमुक्ताप्रस्थस्वप्नेन तच्छ्रावका एव सक्तुभिक्षाया अप्य् अर्थायेन्द्रियबलबोध्यंगादीनि प्रकाशयिष्यंति. चेन्दनस्वप्नेन तच्छ्रावका एवाभावितकायशीलप्रज्ञाः तीर्थ्यमतानि गृहीत्वा बुद्धवचनेन समानीकरिष्यन्तीत्य् एतद् दर्शयति. आरामस्वप्नेन तच्छ्रावका एवावासम् आश्रयं कृत्वा यत् तद् भविष्यति संघस्य पुष्पं वा फलं वाधिकं वा तद् विक्रीय विक्रीय जीविकां कल्पयिष्यन्ति. तेन च गृहिणः प्रतिसंस्तरिष्यन्तीत्य् एतद् दर्शयति. कलभस्वप्नेन तच्छ्रावका एव दुःशीलः पापधर्माणो भविष्यन्ति. ये ते भिक्षवः स्थविराः शीलवंतः कल्याणधर्माणः. तान् आवासेभ्यः प्रवासयिष्यंतीत्य् एतद् दर्शयति. अशुचिम्रक्सितमर्कटस्वप्नेन तच्छ्रावका एव दुःशीलाः पापधर्माणः सन्तो ये ते भिक्षवः कल्याणाः. तान् असद्भिर् दोषैश् चोदयिष्यन्तीत्य् एतद् दर्शयति. मर्कटाभिषेकस्वप्नेन तच्छ्रावका एव सामन्तिकाभिषेकं वीहारेषु [तिब्. 268अ] करिष्यन्ति. लोके ऽपि च पण्डका अधिराज्यं कारयिष्यन्तीत्य् एतद् दर्शयति. पटस्वप्नेन तच्छासनम् एवाष्टादशधाभेदं गमिष्यति. न च विमुक्तिपटः खण्डयिष्यत इत्य् एतद् दर्शयति. कलहस्वप्नेन तच्छ्रावका एव निकायपरिग्रहात् परस्परं विवादम् आपत्स्यन्त इत्य् एतद् दर्शयतीति. संग्रहश्लोकः.
करिकूपसक्तुचन्दनकलभारामास् तथा कपेर् अभिषेकः
अशुचिकपिः पटकलहाव् इति दश दृष्टा नृपेण कृकिणा स्वप्नाः.
अपत्राप्योत्सदवात् अपत्राप्योत्कटत्वात्.
उपपत्तिभवः प्रतिसन्धिक्षण एव. तस्मात् परेण प्रतिसंधिक्षणाद् ( अभिध्-क्-व्य् 279 ) अन्यो भवः पूर्वकालभवः.
रूपिषु चेत् सत्त्वेषूपपद्यत इति. आरूप्यधाताव् अन्तराभवाभावाद् इदं विशेषवचनं.
(इइइ.14, 15) समानजातीयैर्
इति. नारको ऽन्तराभवो नारकैर् एवान्तराभवैर् दृश्यते. एवं यावद् देवान्तराभवो देवान्तराभवैर् एवेति. सुविशुद्धम् इति. एकादशदिव्यचक्षुरपक्षालवर्जितं. ते पुनर् अपक्षाला विचिकित्सा अमनसिकारः कायदौष्ठुल्यं स्त्यानमिद्धं औद्धत्यं अभ्यारभ्यवीर्यम् औद्बिल्यं छंभितत्वं नानात्वसंज्ञा अभिजल्पः. अभिध्यायितत्वं ज्ञेयेषु यथासूत्रं. अभिज्ञामयम् [तिब्. 268ब्] इति. अभिज्ञास्वभावभावनामयम् इत्य् अर्थः. उपपत्तिप्रतिलंभिकम् अपि देवादीनां दिव्यम् इष्यते. न तु सुविशुद्धं.
देवान्तराभविक इति विस्तरः. अपर आहुः. न समानजातीयैर् एवान्तराभवो दृश्यते. किं तर्हि. देवान्तराभविकः सर्वान् देवान्तराभविकादीन् पश्यति. मनुष्यप्रेततिर्यङ्नारकान्तराभविकाः पूर्वंपूर्वम् अपास्य. कथं. मनुष्यान्तराभविको देवान्तराभविकं पूर्वम् अपास्य मनुष्यप्रेततिर्यङ्नारकान्तराभविकान् पश्यति. प्रेतान्तराभविको देवमनुष्यान्तराभविकौ पूर्वाव् अपास्य प्रेततिर्यङ्नारकान्तराभविकान् पश्यति. एवं यावन् नारकान्तराभविको देवान्तराभविकादीन् पूर्वान् अपास्य नारकान्तराभविकान् एव पश्यति. गतीनाम् उत्तरोत्तरनिकृष्टत्वाद् इति.
अत एव गन्धर्व इति. यतो गन्धगतो गन्धर्वः. गन्धम् अर्वति भक्षयति गन्धर्व इत्य् अर्थः. धातूनाम् अनेकार्थत्वात्. अयम् अर्वति न केवलं गत्यर्थे वर्तते. किं तर्हि. भोजनर्थे ऽपीति गत्यर्थपरिगरहे ऽप्य् अदोषः. गन्धम् अर्वति गच्छति भोक्तुम् इति गन्धर्व इति. ह्रस्वत्वं शकन्धुकर्कन्धुवद् इति. कृदन्त इति. पररूपनिपातनात्. शकन्धुकर्कन्धुर् इति पररूपसिद्धिर् यथा. तथेहपि गन्धर्व इति. अल्पेशाख्यो ऽनुदारो हीनजातीय इत्य् अर्थः. ईष्ट इतीशः. अल्प ईशो ऽल्पेशः. अल्पेश इत्य् आख्या यस्य सो ऽल्पेशाख्यः. विपर्ययान् महेशाख्यः.
एकनिकायसभागत्वाद् इति. यश् च पूर्वकालभवो यश् चान्तराभवस् तत्प्रापकः. तयोर् एक एव निकायसभागः अत एकनिकायसभागत्वात्. [तिब्. 269अ] येनैव कर्मणायुष्येण पूर्वकालभवस्यायुर् आक्षिप्यते. तेनैवान्तराभवस्य. इतरथा हि. यदि तस्यान्तराभवायुषः पृथगाक्षेपः स्यात्. तस्याप्य् आयुषह् आन्तराभविकस्य क्षयान् मरणभवः प्रसज्येत् पूर्वकालभववत्. तस्मान् नास्ति नियम इति भदन्तः. ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धा इति विस्तरः. ते क्षुद्रजन्तवस् तं गन्धं घ्रात्वा तत्सहचरं ( अभिध्-क्-व्य् 280 ) चानुभूतं रसम् अनुस्मृत्य गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिनिकायसभागोत्पादकं कर्म विबोध्य. तया गंधरसतृष्णया विपाकाभिमुखं कृत्वान्तराभवसंतत्या क्रिमिषूपजायन्त इति. तत्पत्ययप्रचुर एव काल इति. क्रिमिप्रत्ययप्रचुरे काले तत्सम्वर्तनीयानि कर्माणि क्रिमिसम्वर्तनीयानि विपाकाभिनिर्वृत्तौ वृत्तिं लभंते. विपाकदानायाभिमुखीभवन्तीत्य् अर्थः.
सामग्रीं प्राप्य कालं च फलंति खलु देहिनाम्
इति वचनात्. नान्यत्र. नातत्प्रचुरे काले. नान्यस्याम् इति. नाल्पायुषि.
चक्रवर्तिसमुत्पत्तिर् नाधो ऽशीतिसहस्रकाद्
इति वचनात्. अत एवेति. यस्माद् विद्यमानान्य् अपि चक्रवर्तिसम्वर्तनीयानि कर्माणि विपाकाभिनिर्वृत्तौ कदाचिद् एव वृत्तिं लभन्ते. बहुप्रत्ययापेक्षित्वात्. संभवैषित्वाद् उपपत्त्यभिलाषित्वात्. कर्माण्य् एव प्रत्ययानां सामग्रीम् आवहन्तीति. कर्माधिपत्येनाश्वादीनां प्रसिद्धं कालम् अतिक्रम्य [तिब्. 269ब्] कालान्तरे ऽपि मैथुनं भवतीति. एककर्माक्षेपाद् इति. येनैव कर्मणा गवादिनिकायसभाग आक्षिप्यते. तेनैव कर्मणा तदन्तराभव आक्षिप्यते. इत्य् अतो वक्तव्यम् एतत्. यद् उक्तं येनान्यत्र काले गोषूपपत्तव्यः. स गवयेषूपपद्यत इति विस्तरेण. न निकायभेदाद् एकाक्षेपकत्वं हीयते. तत्कर्मण एकजातीयत्वात्. गव्याकृतिसंस्थानान्तरपरित्यागाच् च. गतिनियतानां हि कर्मणाम् उपपत्तिवैचित्र्यं द्र्ष्टं. कल्माषपादादिवद् इति नास्त्य् एष दोष इत्य् आचार्यसंघभद्रः.
विपर्यस्तमतिर्
इति. अनुनयसहगतेन वा प्रतिघसहगतेन वा चित्तेन यथा विपर्यस्तमतिर् भवति. तद् दर्शयन्न् आह. तत्रास्य पित्रोर् इत्य् विस्तरः. मातापित्रोस् तां विप्रतिपत्तिं द्वीन्द्रियसमापत्तिलक्षणां. पुंसः सतः पुरुषस्यान्तराभवस्य पुंसायं पौंस्नो राग उत्पद्यते मातरि भार्यायाम् इव. स्त्रिया अयं स्त्रैणो राग उत्पद्यते पितरि भर्तरीव. विपर्ययात् प्रतिघ इति. पुंसः सतः पौंस्नः प्रतिघ ईर्ष्योत्थानभूत उत्पद्यते पितरि प्रतिसपत्नपुरुष इव. स्त्रियास् सत्याः स्त्रैणः प्रतिघ उत्पद्यते मातरि प्रतिसपत्न्याम् इव. स ताभ्याम् एव विपर्यस्ताभ्यां चित्ताभ्यां विपर्यस्तो रंतुकामनतया मैथुनकर्मकामनतया तं देशं इन्द्रियद्वयस्थानम् आश्लिष्य ताम् अवस्थां विप्रतिपत्त्यवस्थाम् आत्मन्य् अधिमुच्यते. मयैतत् कर्म क्रियत इति. तस्मिंश् चाशुचौ शुक्लशोणिते गर्भस्थानसंप्राप्ते आमाशयपक्वाशयान्तरास्थानसंप्राप्ते [तिब्. 270अ] अभिनिविशते प्रतितिष्ठतीत्य् अर्थः. पृष्ठाभिमुख उत्कुटुक इति. मैथुनक्रियात्माभिमानक्रियायोगात्. आप्यायमानो वर्धमानः. एतान्य् ( अभिध्-क्-व्य् 281 ) एवेति. शुक्लशोणितमहाभूतानि. भूतान्तराण्य् एवेति. शुक्लशोणितव्यतिरिक्तानि. बीजांकुरनिरोधोत्पादन्यायेनैकस्मिन्न् एव क्षणे बीजं निरुध्यते ऽंकुरश् चोत्पद्यते. तुलादण्डनामोन्नामवन् नाशोत्पादयोः समकालत्वात्. यत् तत् कललम् इत्य् आख्यायत इति.
कललं प्रथमं भवति. कललाज् जायते ऽर्बुदम्
इत्यादिवचनात्. एवं च कृत्वा सूत्रपदम् इति. वल्मीक इति भिक्षो अस्य कायस्यैतद् अधिवचनं रूपिणः औदारिकस्य चातुर्महाभूतस्य ओदनकुल्माषोपचितस्य मातापित्रशुचिकललसंभूतस्येति विस्तरः. मातापित्रशुच्य् एव कललं. ततः संभूतस्येत्य् अर्थः. कटसिर् इति. श्मशानं. रुधिरबिन्दुर् उपात्त इति. इदम् उदाहरणं. अस्य कायेन्द्रियभावापत्तितः. भूतान्तराण्य् व शुक्लशोणितव्यतिरिक्तानि. तद्यथा पर्णक्रिमेर् इति. यथा पर्णक्रिमेः पर्णमहाभूतान्य् उपनिश्रित्य भूतान्तराणि कर्मभिर् जायन्ते. यानीन्द्रियस्वभावम् आपद्यंते. न पर्णमहाभूतानि. बहुत्वात् तत्क्रिमीणां. खण्डशः पत्त्रस्यादर्शनाच् च. सूत्रपदं कथं तर्हि नीयते मातापित्रशुचिकललसंभूतस्येत्य् अत आह. अशुचिसंनिश्रयोत्पत्त्यभिसंधिवचनात् ते कललस्य सूत्राविरोध [तिब्. 270ब्] इति. अशुचिसंनिश्रयेणोत्पत्तिर् भूतान्तराणां. तत्राभिसंधिर् अभिप्रायः. तेन वचनं कललस्य. तस्मान् मातापित्रशुचिकललसंभूतस्येत्य् अस्य सूत्रस्याविरोधः. एतद् उक्तं भवति. शुक्लशोणितसंनिश्रयेण कललाख्यानि भूतांतराणि शुक्लशोणितसमकालान्य् उत्पद्यन्तो सेन्द्रियाणि. यथा पर्णसंनिश्रयेण पर्णसमानकालानि सेन्द्रियाणि क्रिमिमहाभूतान्य् उत्पद्यन्त इति.
अन्यत्र तु यथायोगं वक्तव्यम् इत्य् आहुर् इति. अन्यत्र संस्वेदजौपपादुकयोर् योन्योर् यथायोगं व्याख्येयम् इत्य् आहुर् अभिधर्माचार्याः. तत्र चायं योगो दृश्येत इति. आचार्यो भवीति.
शैत्यं च नरकेष्व् इति शीतनरकोपपत्तिकाले. यदवस्थ इति. औरभ्रिकाद्यवस्थः. यथा भूतेन तद्वेद्यं कृतं प्राक् कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति पार्वाचार्याः योगाचारा आर्यासंगप्रभृतयः.
आसनाद् इवोत्तिष्ठन्न् इति. ऊर्ध्वोपपत्तिस्थानगमनात्. मनुष्यादिवद् इति. यथा मनुष्यस् तिर्यक् प्रेतश् च गच्छति. तद्वत्.
ऋषीणाम् अतिवक्तार
इति. अधिक्षेप्तारो ऽपवदितार इत्य् अर्थः.
(इइइ.16, 17) नित्यम् अण्डज
इति नित्यग्रहणात्
सर्वाणि मूढ
इत्य् अत्र नास्ति नियमः. भवति तु संप्रजानन्न् अपि. प्रतिलोमं निर्दिष्टा इति. सूत्रे हि यः सर्वाण्य् असंप्रजानन् करोति. एषा प्रथमा गर्भावक्रान्तिर् उक्ता. तिस्रस् तु यथा निर्दिष्टानुपूर्विका एवेति. यो ऽपि जनिष्यते. सो ऽप्य् अण्डज [तिब्. 271अ] इति. अण्डाज् जनिष्यते ऽण्डज इत्य् अभिप्रायः. आवश्यको ह्य् अभूतार्थो भूतवद् उच्यते. तद्यथा वर्तमानसामीप्ये वर्तमानवद् वा. आशंसायां भूतवच् चेति. {यथाभूतेन तद्वेद्यं कृतं प्राक् कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति.} कश्चित् कस्मैचिद् वक्ता भवेत्. आगच्छंतम् एवागतम् मां विद्धीति. तस्माद् अदोश एषः. अण्डाज् जातो जनिष्यते जायते चेत्य् अण्डजः. अन्येभ्यो ऽपि ड्र्श्यत इति वचनात्. तस्माद् अदुष्टम् एतद् इत्य् आचार्यसंघभद्रः. अथ वा भाविन्यापि संज्ञयेति. भविष्यंत्यापि संज्ञया निर्देशः क्रियते. तद्यथा संस्कृतम् अभिसंस्करोतीति. जनितावस्थायां संस्कृतं भवति. न जन्यमानावस्थायां. न हि संस्कृतस्य पुनः संस्कारो युज्यते. भविष्यन्त्या तु संज्ञया तथा निर्देशः क्रियते. एवम् ओदनं पचतीत्यादियोज्यं. कथं पुनर् असंप्रजानन् मातुः कुक्षिं प्रविशतीति विस्तरः संनिकृष्टावस्था उपपत्तिदेशस्य
विपर्यस्तमतिर् यातीति.
विप्रकृष्टावस्था अधिमोक्षो ऽधिमुक्तिः तथा तिष्ठामि निर्यामीति. कथं. तथा तिष्ठतो ऽप्य् एषु तिष्ठामीति. निष्क्रामतो ऽप्य् एभ्यो निर्यामीति. अयम् अनयोर् विपर्यासयोर् विशेष इति. अपरे पुनर् आहुः. न केवलं रागद्वेषाभ्याम् [तिब्. 271ब्] एव विपर्यस्तमतिर् उत्पत्तिदेशं गच्छति. किं तर्हि. अन्यथापि. कथम् इति. वातो वाति देवो वर्षतीत्यदि. तथारामं प्रविशाम्य् उद्यानं चेत्यादि.संप्रजानंस् तु सम्यक् प्रजानाति. मातुः कुक्षिं प्रविशामीत्य् एवमादि. यदि सम्यक् प्रजानाति कथं क्लिष्टेनैव चित्तेन प्रतिसंधिबन्धो व्यवस्थाप्यते. मातृस्नेहादियोगात् क्लिष्टं चित्तं भवति. अपर आह. मातुः कुक्षिं प्रविशल एवं विपरीतौ संज्ञाधिमोक्षाव् इति. उपपन्नमात्रावस्थायाम् एतद् भवति वातो वाति यावद् वृक्षमूलं चोपसर्पामि कुड्यमूलं चेति. तिष्ठतो ऽप्य् एषु तिष्ठामीति. निष्क्रामतो ऽप्य् एभ्यो निर्यामीत्य् एवमादि. तत्र प्रथमेति विस्तरः. प्रथमा चक्रवर्तिनः. येयं.
संप्रजानन् विशत्य् एक
इति. द्वितीया प्रत्येकबुद्धस्य. येयं
तिष्ठत्य् अप्य् अपर
इति. तृतीया बुद्धस्य. येयम्
अपरः निष्क्रामत्य् अपीति.
अत्रापि भाविन्येति. ते न चक्रवर्त्यादयस् तदानीम् इति कृत्वा. त एवं त्व् एते चक्रवर्त्यादय इति पर्यायमात्रम् एतद् उक्तम्. अर्थस् तु स एवेत्य् अभिप्रायः.
(इइइ.18, 19) संकेता हेतुफलसम्बन्धव्यवस्थाः.
[तिब्. 272अ] क्लेशकर्माभिसंस्कृतम्
इति. क्लेशकर्मपरिभावितम् इत्य् अर्थः.
प्रदीपवद्
इति. संततिन्यायसंचारि स्कंधपंचकं. क्षणिकत्वात्. प्रदीपवद् इति दर्शयति.
यथाक्षेपम्
इति. आक्षेपस् तावत्कालप्रबन्धः. एतच् च विशेषणम् आयुष्यस्यायुःसम्वर्तनीयस्य कर्मणो भेदात्.
व्यंजनान्य् अनुपूर्वश
इति. व्यंजनानि चक्षुराद्यधिष्ठानानि. तैर् हि चक्षुरादीन्य् अभिव्यज्यन्ते. तस्मिन् वर्चःकूप इवेति. महाकायनाडीव्रण इति. निन्दावचनम् एतत्. नाडी व्रण इव नाडीव्रण इति. उग्रो दुर्गन्ध उग्रदुर्गन्धिः. अन्धकारश् चासाव् आलोकरहितत्वात्. समलानां च पल्वलो ऽसौ पल्वल इवेति कृत्वा. तस्मिन् सततप्रतिक्रिये नित्यकर्तव्यशौचे. शुक्रेण पौंस्नेन. शोणितेन स्त्रैणेन. लसीकया द्रवविशेषलक्षणया. मलेन च संक्लिन्ने समन्तात् क्लिन्ने. विक्लिन्ने विशेषेण क्लिन्ने. क्वथिते पूतौ पिच्छिले च. तस्मिं हस्तौ संप्रवेश्यांगम् अन्गं हस्तपादादिकं निकृत्य च्छित्त्वा प्रत्याहरन्ति प्रत्याकर्षयंति. तरुणं व्रणं सरुजं. तरुणव्रणम् इवात्मानम् आचरंस् तरुणव्रणायमानं. तरुणव्रणायमान आत्मास्येति तरुणव्रणायमानात्मानम् बालकं. शस्त्रं च क्षारं च शस्त्रक्षारं. तद् इवात्मानम् आचरं शस्त्रक्षारायमाणः. शस्त्रक्षारायमाणः [तिब्. 272ब्] संस्पर्शो ऽनयोर् इति शस्त्रक्षारायमाणसंस्पर्शौ पाणी. ताभ्यां परिगृह्य स्नापयंति. तस्य वृद्धेर् अन्वयाद् अनुगमात्.
तस्याहेतुकत्वम् इति. आदेर् अहेतुकत्वं. सति चास्याहेतुकत्वे. तद्वद् एव सर्वम् अहेतुकं प्रादुः स्यात्. दृष्टं चांकुरआदिषु बीजादीनां सामर्थ्यं. ( अभिध्-क्-व्य् 284 ) अंकुरनालकाण्डपत्त्रादिषु बीजांकुरनालकाण्डादीनां सामर्थ्यम् उत्पादनाय. कस्मात्. देशकालप्रतिनियमात्. देशकालयोस् तु प्रतिनियमात्. तत्र देशप्रतिनियमो बीजादिसंबद्ध एव देश उत्पत्तेः. कालप्रतिनियमो बीजानन्तरम् उत्पत्तेः. अग्न्यादीनां वाग्निशीतोष्णाभिघातचक्षुरादीनां पाकजादिष पाकजसुखदुःखशब्दचक्षुर्विज्ञानादिषु डृष्टम् सामर्थ्यं देशकालप्रतिनियमात्. यदि हि निर्हेतुकः प्रादुर्भावः स्यात्. बीजादीनाम् अंकुरादिषु अग्न्यादीनां च पाकजादिषु देशकालप्रतिनियमेनोत्पत्तिं प्रति सामर्थ्यं न स्यात्. सर्वं सर्वत्र सर्वदोत्पद्येत. न चैवं दृष्टम् इत्य् अतो नास्ति निर्हेतुकः प्रादुर्भावः. नित्यकारणास्तित्ववादः प्राग् एव पर्युदस्तः.
नेश्वरादेः क्रमादिभिर्
इति वचनात्.
(इइइ.20) शेषाण्य् अष्तौ मध्य इति. विज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवांगानि. [तिब्. 273अ] नापि रूपारूप्यावचर इति. रूपावचरस्य विज्ञानांगकाल एव नामरूपषडायतनांगयोः सद्भावात्. न मध्ये ऽष्टाव् अंगानि. आरूप्यावचरस्य च नामरूपषडायतनांगयोर् अभावात्. महानिदानपर्यायसूत्रे. विज्ञानं चेद् आनन्द मातुः कुक्षिं नावक्रामेद् अपि तु तन् नामरूपं कललत्वायाभिसंमूर्छेत्. नो भदन्तेत्यादि तत् सूत्रं पठ्यते. मातुः कुक्ष्यवक्रमणं हि कामधाताव् एवेति. सफलहेतुकयोः पूर्वापरान्तयोर् ग्रहणाद् इति. यथाक्रमम् एतत्. पूर्वान्तस्य सफलस्य ग्रहणाद् अपरान्तस्य च सहेतुकस्य ग्रहणाद् इति. तत्र पूर्वान्ते हेतुर् अविद्या संस्काराश् च. तस्य फलं पंचांगानि. विज्ञानं यावद् वेदनेति. अपरान्ते जातिर् जरामरणं चेति फलं. तस्य त्रीण्य् अंगानि हेतवस् तृष्णोपादानभवाः. तद् एवं सप्तांगानि पौर्वान्तिकः पंचांगान्य् अपरांतिक इति व्याख्यातं भवति.
(इइइ.21-24) अथ क इमे ऽविद्यादय इति. किम् अविद्यैव केवला उताहो सर्वक्लेशाः आहोस्वित् क्लेशावस्थेति संदेहे पृच्छति. साहचर्याद् इति. यस्माद् अविद्यासहचारिणः क्लेशाः. तद्वशेन तेषां समुदाचाराच् च. यस्माच् चाविद्यावशेन तेषां क्लेशानां समुदाचारः. स पुनस् [तिब्. 273ब्] तदनुवृत्तिः. मूढस्य हि क्लेशसमुदाचारो नामूढस्य. राजागमनवचन इति विस्तरः. यथा राजागच्छतीत्य् उक्ते. तदनुयातृकाणां भृत्यानाम् आगमनसिद्धिः. साहचर्यात् तद्वशेन तेषां समुदाचारात्. तद्वद् एतत्. तद् एवम् अविद्यावशाद्. अविद्यांगः क्लेशदशेत्य् अर्थः. तस्माद् उक्तं
पूर्वक्लेशदशाविद्येति.
न तूक्तं पूर्वाविद्यादशाविद्येति. पुण्यादिकर्मावस्थेति. पुण्यापुण्या कर्मावस्थेत्य् अर्थः. प्राक् चतुरायतनोत्पादाद् इति वक्तव्य इति. मनःकायायतनयोर् उपपत्तिभव एवोत्पादात्. तदा तद्व्यवस्थापनाद् इति. चक्षुराद्यायतनोत्पत्तिकाले कायमनआयतनयोर् व्यवस्थापनाद् इत्य् अर्थः.
तत् पूर्वं त्रिकसंगमाद्
इति. तत् षडायतनांगं प्राक् त्रिकसंगमात्. प्राग् इन्द्रियविषयविज्ञानत्रिकसंनिपाताद् इत्य् अर्थः.
स्पर्शः प्राग्
इति. षडिन्द्रियविषयविज्ञानसंनिपातः स्पर्शो जातावस्थायां व्यवस्थाप्यते. परिपूर्णषडायतनसम्निपातसद्भावात्. आ कुतः. प्राक् सुखदुःखादुःखासुखवेदनाकारणेषु ज्ञानशक्तितः. स बालो यावत् सुखाया वेदनाया एतत् कारणं दुःखाया एतत् कारणं अदुःखासुखायाश् [तिब्. 274ब्] चैतत् कारणम् इति परिच्छेदे न शक्तो भवति. सावस्था स्पर्श इत्य् उच्यते. तथा हि बालको ऽग्निम् अपि स्पृशेद् दुःखस्यैतत् कारणम् इत्य् अपरिच्छिन्दन्. परिच्छेदे सामर्थ्ये सति
वित्तिर्
वेदनेत्य् अर्थः. आ कुतः.
प्राङ् मैथुनाद्
यावन् मैथुनरागो न समुदाचरति. सावस्था वेदनेत्य् उच्यते. वेदनाप्रकर्षिणी हि सावस्था. वेदनाकारणवेदनात्.
तृष्णा भोगमैथुनरागिण
इति. भोगेषु रूपादिकामगुणलक्षणेषु. मैथुने च लोकप्रतीते रागिणः पुद्गलस्य. तद्रागसमुदाचारावस्था तृष्णेत्य् उच्यते. पर्येष्टिम् आपन्न इति. एष इत्य् एतस्य धातोर् एतद् रूपं. उपादीयते विषय आत्मभावो ऽनेनेत्य् उपादानं चतुर्विधः क्लेशः. सावस्थोपादानम् इत्य् उच्यते.
स भविष्यद्भवफलम्
इति. स इति परिधावतो निर्देशः. भविष्यद्भवः फलम् अस्येति भविष्यद्भवफलं.
कर्म
पौनर्भविकम् इत्य् अर्थः.
मूल पाठ: Sphuṭārthā abhidharmakośavyākhyā · Edition: Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936. · Data entry Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0