स्फुटार्था अभिधर्मकोशव्याख्या · भाग 120
स्फुटार्था
अभिधर्मकोशव्याख्या
इ
(धातुनिर्देशो नाम प्रथमं कोशस्थानम्)
[तिब्. 1ब्] नमो मारबलप्रमथनाय.
महाबलो ज्ञानसमाधिदन्तो
यः पञ्जरं जन्ममयं विदार्य ।
विवेश निर्वृत्यटवीं प्रशान्तां
तं शास्तृनागं शिरसा नमामि. ॥
परमार्थशास्त्रकृत्या कुर्वाणं शास्तृकृत्यम् इव लोके ।
यं बुद्धिमताम् अग्र्यं द्वितीयम् इव बुद्धम् इत्य् आहुः. ॥
तेन वसुबंधुनाम्ना भविष्यपरमार्थबन्धुना जगतः ।
अभिधर्मप्रत्यासः कृतो ऽयम् अभिधर्मकोशाख्यः. ॥
अभिधर्मभाष्यसागरसमुद्धृतस्यास्य शास्त्ररत्नस्य ।
व्याख्या मया कृतेयं यथार्थनामा स्फुटार्थेति. ॥
गुणमतिवसुमित्राद्यैर् व्याख्याकारैः पदार्थविवृतिर् या ।
सुकृता [तिब्. 2अ] साभिमता मे लिखिता च तथायम् अर्थ इति. ॥
सिद्धान्तार्थापसृता क्वचित्क्वचिद् या तु तैः कृता व्याख्या ।
ताम् उद्भाव्य यथावद् विहितेह मयान्यथा व्याख्या. ॥
अभिधर्मविभाषायां कृतश्रमा ये ऽभिधर्मकोशे च ।
प्रविचार्यताम् इयं तैर् व्याख्या युक्ता न वा युक्ता. ॥
युक्ता चेद् ग्राह्येयं न एएद् अपोह्यान्यथा विधातव्या ।
न हि विषमे ऽर्थे स्खलितुं न संभवेन् मादृशां बुद्धिः. ॥
यः सर्वथा सर्वहतान्धकारः
संसारपंकाज् जगद् उज्जहार
तस्मै नमस्कृत्य यथार्थशास्त्रे
शास्त्रं प्रवक्ष्याम्य् अभिधर्मकोशम्.
इत्य् अस्य श्लोकस्यार्थं विवृण्वान आचार्य आह. शात्रं प्रणेतुकामः स्वस्य ( अभिध्-क्-व्य् 2 ) शास्तुर् माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारम् आरभत इति. शास्त्रम् अभिधर्मकोशं प्रणेतुकामः कर्तुकामः स्वस्य षास्तुर् आत्मीयस्य शास्तुः. स हि भगवान् आचार्यस्यात्मीयः शास्ता. तच्छासनप्रतिपन्नत्वात्. [तिब्. 2ब्] तेन वा शास्त्रा महाकरुणापरतन्त्रेण सकलो लोकः स्वत्वेन परिगृहीतः. तस्माद् आचार्यस्यापि स्वत्वेन गृहीतस्य स भगवान् स्वः शास्ता भवति. माहात्म्यज्ञापनार्थम् इति. महात्मत्वं माहात्म्यं स्वपरार्थप्रतिपत्तिसम्पत् तज्ज्ञापनार्थं तदवबोधार्थम्. गुणाख्यानपूर्वकं गुणकथनपूर्वकं तस्मै नमस्कारम् आरभते तस्मै प्रणामं
करोतीत्य् अर्थः. अतीतकालत्वाद् आरब्धवान् इति वक्तव्ये वर्तमानकाले पदप्रयोगो ऽद्यापि नमस्कारारम्भाभिप्रायात्. शिष्यपरंपरया वा नमस्कारारंभाविरामात्. शब्दशास्त्रे ऽपीदृश एव शब्दप्रयोगो दृश्यते. अथ शब्दानुशासनम्. अथेत्य् अयं शब्दो ऽधिकारार्थः प्रयुज्यत इति. गुणाख्यानमात्रेण माहात्म्यावबोधो न नमस्कारेणेति चेत्. न. तस्य तत्सूचकत्वात्. नमस्कारेण हि माहात्म्यं सूच्यते. अथ वा गुणाख्यानेनैव माहात्म्यं ज्ञाप्यते न नमस्कारेण. नमस्कारारम्भस् तु स्वपुण्यप्रसवार्थम्. सदाचारनुवृत्तिप्रदर्शनार्थं वा. कृताभिमतदेवतापूजास्तुतिनमस्कारा हि सन्तः क्रियाम् आरभन्त इति सताम् आचारात्. तत्र माहात्म्यज्ञापनं किमर्थम् इत्य् आचक्ष्महे. तद्गौरवोत्पादनार्थम्. गौरवोत्पादनं पुनस् तत्प्रवचनसत्कृत्यश्रवणार्थम्. सत्कृत्यश्रवणं क्रमेण श्रुतचिन्ताभावनामयप्रज्ञोत्पादनार्थम्. तदुत्पाद्
अनं क्लेशप्रहाणार्थम्. तत् पुनः सर्वदुःखोपशमलक्षणनिर्वाणप्रापणार्थम् [तिब्. 3अ] इति प्रयोजननिष्ठा. माहात्म्यज्ञापनं त्व् एकम् आचार्येण प्रयोजनम् उक्तं साक्षात्प्रयोजनत्वात्. तदितराणि त्व् अभ्यूहितुं शक्यानीति नोक्तानि. य इति बुद्धं भगवंतम् अधिकृत्याहेति. सामान्यशब्दो ऽपि यच्छब्दो विहितविशेषणत्वात् विशेषवृत्तिर् भवति. तद्यथा य एषां ब्राह्मणानां गौरः शुक्रवासाः स एवशर्मेति. तद्वद् इहापि.
यः सर्वथा सर्वहतान्धकारः
संसारपङ्काज् जगद् उज्जहार
तस्मै नमस्कृत्येति
बुद्ध एव भगवति यच्छब्दो वर्तते. न हि बुद्धाद् अन्य एवं गुणविशिष्टः संभवतीति अतो व्याचष्टे. य इति बुद्धं भगवन्तम् अधिकृत्याहेति. बुद्ध इति कर्तरि क्तविधानं. बुद्धेर् विकसनाद् बुद्धः. विबुद्ध इत्य् अर्थः. विबुद्धं पद्मम् इति यथा. अथ याविद्यानिद्राद्वयापगमाद् बुद्धः प्रबुद्ध इत्य् अर्थः. प्रबुद्धपुरुष इति यथा. कर्मकर्तरि क्तविधानम् ( अभिध्-क्-व्य् 3 ) इत्य् अपरे. स्वयं बुध्यत इति बुद्ध इत्य् अर्थः. कर्मण्य् अपि क्तविधानम् अप्य् अदोषं पश्यामः. सर्वगुणसंपत्संपन्नतया सर्वदोषविनिर्मुक्ततया च बुद्धैर् अन्यैर् वा बुद्धो ज्ञात इत्य् अर्थः. भगवन्तम् इति द्वितीयपदोपादानम् अनादरसंभावनानिवृत्त्यर्थं. निरुपपदानाम् अभिधानानां हि लोके अनादरो दृश्यते. एवदत्त इति. विनयविभाषाकारास् तु चतुष्कोटिकां कुर्वन्ति. अस्ति बुद्धो न भगवान्. प्रत्येकबुद्धः स्वयंभुत्वाद् बुद्ध इति शक्यते वक्तुम्. न तु भगवान्. अपरिपूर्णदानादिसंभारत्वात्. यो हि माहात्म्यवान् स भगवान् उच्यते. अस्ति भगवान् न बुद्धः. चरमभविको बोधिसत्त्वः परिपूर्णदानादिपारमितत्वात् [तिब्. 3ब्] अनभिसंबुद्धत्वाच् च. अस्त्य् उभयथा बुद्धो भगवान्. अस्ति नोभयथा एतान् आकारान् स्थापयित्वेति. अतो बुद्धं भगवन्तम् इत्य् उभयविशेषणम्. हतम् अस्यान्धकारम् अनेन वेति हतान्धकारः. षष्ठीबहुव्रीहौ मार्गेण हतम् इति कर्तृभूतो मार्गो अध्याहार्यः. तृतीयाबहुव्रीहौ तु मार्गेणेति करणम् अध्याहार्यम्. अपर आह. विग्रहद्वयप्रदर्शनं हन हिंसागत्योर् इति हन्त्यर्थद्वयपरिग्रहार्थम्. यदा हतम् अस्यान्धकारम् इति विग्रहम्. तदा गत्यर्थो हन्तिर् गृह्यते. गतम् अस्यान्धकारम् इत्य् अर्थः. यदा पुनस् तृतीयाबहुव्रीहिः. तदा हिंसार्थो हन्तिर् गृह्यते. हिंसितम् अनेनान्धकारम् इत्य् अर्थः. एवम् उत्तरयोः पदयोर् ऐकपद्यं कृत्वा पश्चात् सप्तमीतत्पुरुषं करोति. सर्वस्मिन् हतान्धकारः सर्वहतान्धकार इति. तथा च सति हतशब्दो ऽत्र न पूर्वं निपतति. सप्तमीसमासस् त्व् इह केन लक्षणेन भवतीति चिन्त्यम्. सप्तमी शौण्डैर् इति समासः. हतान्धकारशब्दः शौण्दादिषु पठ्यते. शौण्डादीनाम् आकृतीकृतत्वात् तत्रास्यानुप्रवेशो ऽवगन्तव्यः. सप्तमीति योगविभागाद् वा. उत्सर्गेण वा समासः. सह सुपेति सुब् इति वर्तमाने सुबन्तं सुबन्तेन सह समस्यते. यत्रेष्टम् इति अकृतलक्षणो वा तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य इत्य् अनेन वा कथम् उपसर्जनीभूतम् अन्धकारं सर्वस्मिन्न् इत्य् अनेनभिसंबध्यते. सत्यं नान्धकारम् अनेनभिसंबध्यते. अन्धकारघातस् त्व् अनेनाभिसंबध्यते. येन ह्य् अन्धकारघातेन योगाद् भगवान् हतान्धकारः. स तस्यान्धकारघातः सर्वाधारो ऽवगन्तव्यः. यथा अक्षेषु धूर्त इति. येन धौर्त्यलक्षणेन गुणेन योगात्. असौ धूर्तः सो ऽक्षाधारः. एवम् इहाप्य् अवगन्तव्यम्. अन्यथापि चेह संभवन्तं समासं पश्यामः. सर्वस्मिन् हतं सर्वहतम्. सर्वेण प्रकारेण सर्वहतं सर्वथा सर्वहतम्. सर्वथा सर्वहतम् अस्यान्धकारम् अनेन वेति सर्वथा सर्वहतान्धकारः. एवं हतशब्दस्यान्धकारेण सामानाधिकरण्यम् ( अभिध्-क्-व्य् 4 ). न च पूर्वनिपात इति. सर्वेण प्रकारेणेति क्लिष्टाक्लिष्टान्धकारविगमतः. सर्वस्मिन् ज्ञेये द्वादशायतनलक्षणे. सर्वं सर्वम् इति ब्राह्मण यावद् एव द्वादशायतनानीति सूत्रे वचनात्. किम् अत्र शार्वरं तमो ऽन्धकारशब्देनोच्यते. नेत्य् आह. अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाद् अन्धकारम् इत्य् अवगन्तव्यम्. अन्धकारशब्दो हि नैशे तमसि प्रसिद्धः. अन्धम् इव जनं करोतीति अन्धकारः. सद्भूतघटपटादिरूपदर्शनप्रतिबन्धात्. तत्साधर्म्यात् अज्ञानम् [तिब्. 4अ] अप्य् अन्धकाराख्यं लभते. भूतार्थदुःखादिसत्यदर्शनप्रतिबन्धात्. तच् चेति तद् अज्ञानम्. प्रतिपक्शलाभेनेति आर्यमार्गलाभेन. विपक्षः क्लेशः विपक्षप्रतिघाताय पक्षः प्रतिपक्ष इति कृत्वा. अथ वा ज्ञानं अनास्रवम् अज्ञानप्रतिपक्षः तस्य लाभेन. अत्यन्तं सर्वथा सर्वत्र ज्ञेये पुणरनुत्पत्तिधमत्वात् हतम् असमुदाचारप्रहाणीकृतम् इत्य् अर्थः. अतो ऽसाव् इति भगवान्. प्रत्येकबुद्धश्रावका अप्य् अभ्यर्हितवात् प्रत्येकबुद्धशब्दः पूर्वनिपातः. कामम् इत्य् अनुज्ञायाम्. न तु सर्वथेति. अक्लिष्टसंमोहानत्यन्तविगमात्. ननु च सर्वं सास्रववस्तु श्रावकप्रत्येकबुद्धानाम् अपि बुद्धवत् प्रहीणम्. किम् इदम् उएयते. क्लिष्टसंमोहस्य तेषाम् अत्यन्तविगम इति. तथा ह्य् उक्तम्. नाहम् एकधर्मम् अप्य् अनभिज्ञाय अपरिज्ञाय दुःखस्यान्तक्रियां वदामीति. तथा नाहम् एकधर्मम् अप्य् अपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति. तस्माच् छ्रावकप्रत्येकबुद्धानाम् अपि तद् अक्लिष्टम् अज्ञानं चक्षुरादिवच् छन्दरागप्रहाणात् प्रहीणम् एव. अन्यथा हि श्रावकप्रत्येकबुद्धानां दुःखान्तक्रिया न भवेत्. सतम् अस्त्य् एतद् एवम्. प्रहीणम् एव तेषां क्लिष्टवद् अक्लिष्टम् अप्य् अज्ञानं. तत् तु तेषां चक्षुरादिवत् प्रहीणम् अपि समुदाचरति. बुद्धस्य तु प्रहीणं सन् न समुदाचरति. अत एव च विशेषितं पुनरनुत्पत्तिधर्मत्वात् हतम् [तिब्. 4ब्] इति. अन्यथा तत् सर्वथा सर्वत्र ज्ञेये प्रहीणम् इत्य् एवावक्ष्यत्. ये तु व्याचक्षते श्रावकप्रत्येकबुद्धानां क्लिष्टसंमोहमात्रविगमात् संक्लेशविनिवृत्तिर् इति. तद् अपव्याख्यानम् एषां यथोक्तम् इति प्रत्याचक्ष्यते. तथा ह्य् एषाम् इति विस्तरः.
तथा हीति यस्माद् इत्य् अर्थः. अथ वा तथेति यथा न सर्वथा तथेति. हिशब्दो हेतौ. एषाम् इति श्रावकप्रत्येकबुद्धानां. बुद्धधर्मेष्व् आवेणिकादिषु. अतिविप्रकृष्टदेशकालेषु चार्थेषु अतिविप्रकृष्टदेशेषु अतिविप्रकृष्टकालेषु च. अनन्तप्रभेदेषु चाबुद्धधर्मस्वभावेष्व् अपि रूपादिष्व् अर्थेषु. भवत्य् एवाक्लिष्टम् अज्ञानं समुदाचरत्य् एव तद् इत्य् अर्थः. तत्र ये बुद्धधर्मा आवेणिकादयः. तेषु स्वभावपरमसूक्ष्मगम्भीरत्वाद् बुद्धाद् अन्येषाम् अज्ञानम्. यथोक्तं. जानीषे ( अभिध्-क्-व्य् 5 ) त्वं शारिपुत्र तथागतस्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धम् इति भगवता पृष्टेन स्थविरशारद्वतीपुत्रेणोक्तम्. नो हीदं भगवन्न् इति. ये त्व् अन्ये ऽर्था रूपिणः परमाणुसंचिताः. ते अतिविप्रकृष्टदेशा यदि भवन्ति. ये ऽप्य् अविज्ञप्त्यरूपिणः. ते ऽपि यद्य् अतिविप्रकृष्टदेशाधारत्वात् अतिविप्रकृष्टदेशा भवन्ति. तेष्व् अपि तेषाम् अज्ञानम् अनेकलोकधात्वन्तरितदेशत्वात्. श्रूयते हि स्थविरमौद्गल्यायनस्य अतिविप्रकृष्टदेशमारीचीलोकधातुजातस्वमातृदेशपरिज्ञानम्. अतिविप्रकृष्तकालेष्व् अप्य् अतीतेषु अनागतेषु वा तेष्व् अर्थेष्व् अतिबहुकल्पान्तरान्तरितविनाशप्रादुर्भावत्वात् [तिब्. 5अ] तेषां भवत्य् एवाज्ञानम्. श्रूयते हि स्थविरशारिपुत्रेण मोक्षभागीयकुशलमूलादर्शनात् प्रव्रज्यापेक्षपुरुषप्रत्याख्यानम्. भगवता तु तस्य मोक्षभागीयं दृष्टम् उक्तं च
मोक्षबीजम् अहं ह्य् अस्य सुसूक्ष्मम् उपलक्षये
धातुपाषाणविवरे निलीनम् इव कांचनम्
इति. स च पुरुषः प्रव्राजित इति. अनन्तप्रभेदेष्व् इति. धातुगतियोन्युपपत्त्यादिप्रभेदे दुर्बोधेष्व् अर्थेषु. तेषाम् अज्ञानं भवत्य् एव. तथा ह्य् आह.
सर्वाकारं कारणम् एकस्य मयूरचन्द्रकस्यापि
नासर्वज्ञैर् ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानम्
इति. तान्य् एतानि चत्वार्य् अज्ञानकारणानि भवन्ति. तेषां क्वचिद् एकं क्वचिद् द्वे क्वचित् त्रीणि क्वचित् चत्वास्रीति संभवतो योज्यानि. इत्य् आत्महितप्रतिपत्तिसम्पद् इति विस्तरः. आत्महिताय प्रतिपत्तिः आत्महितप्रतिपत्तिः. आत्महितप्रतिपत्तेः सम्पत् आत्महितप्रतिपत्तिसम्पत् फलनिष्पत्तिर् इत्य् अर्थः. सा चेयं संपत् ज्ञानप्रहाणसंपत्स्वभावा वेदितव्या. परहितप्रतिपत्तिसंपद् अपि तथैव चर्चनीया. अपरे व्याचक्षते. आत्महितप्रतिपत्तिर् आत्महितप्रतिपादनम्. आत्महितोपग्रह इत्य् अर्थः. तस्याः सम्पत् आत्महितप्रतिपत्तिसम्पत्. एवं परहितप्रतिपत्तिसंपद् अपि व्याख्येया. सा पुनः सर्वदुःखोपशमनिर्वाणपरिप्रापणस्वभावा.
संसारपङ्काज् जगद् उज्जहारेति
वचनात्. संसरणं संसार [तिब्. 5ब्] आजवंजवीभावः जन्ममरणपरंपरेत्य् अर्थः. अथ वा संसरन्त्य् अस्मिन् सत्त्वा इति संसारस् त्रैधातुकम्. संसारः पङ्क इव संसारपङ्कः पंकसाधर्म्यात्. अत आह. संसारो हि जगदासङ्गस्थानत्वाद् दुरुत्तरत्वाच् च पङ्कभूत इति. पङ्को हि लोके अवसादात्मकत्वात् आसङ्गस्य स्थानम्. अत एव च दुरुत्तरः. चंचलत्वाद् वा पराश्रयोत्तरणीयत्वाद् ( अभिध्-क्-व्य् 6 ) वा दुरुत्तरः. संसारो ऽपि हि तृष्णाभिष्यन्दितत्वाद् आसङ्गस्थानम्. दुरुत्तरश् च तस्माद् एव दृष्टिविचिकित्साविस्पन्दितेन. बुद्धापाश्रयोत्तरणीयत्वेन वा दुरुत्तरः. तत्रावमग्नं तादात्म्यनुप्रवेशतः समुदायावयवरूपतो वा. जगत् सत्त्वलोकम् अत्राणम् अनाक्रन्दम् अनुकम्पमानः करुणायमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैः. सद्धर्मदेशना एव हस्ताः. तेषां प्रदानानि. उत्तारणीयबहुत्वाद् बहुवचनं. तैर् यथाभव्यं अभ्युद्धृतवान्. यथाभव्यम् इति अनुच्यमानम् अपि गम्यते लोके तथा दृष्टत्वात्. तद्यथा ब्राह्मणान् आनीय भोजयामासेत्य् उक्ते. ये तत्र भोजयितुं शक्ता ग्रामे नगरे वा संनिहिताह्. तान् एव भोजयामासेति गम्यते. सर्वलोकब्राह्मणानां भोजयितुम् अशक्यत्वात्. एवम् इहापि यो जनो भव्यो ऽभ्युद्धर्तुम्. तम् एवभ्युद्धृतवान् इति. अतो यथाभव्यम् इति व्याचष्टे.
तस्मै नमस्कृत्येति
शिरसा प्रणिपत्य क्रियास्पदीभूतत्वान् नमःशब्दस्य प्रणिपत्यार्थो नमस्कृत्यशब्दो भवति. प्रणिपातश् च लोके शिरसा प्रतीत इति शिरसेत्य् आह. वाङ्मनोनमस्कारो ऽपि अत्रनुक्तसिद्धो गुणाख्यानपूर्वकत्वात् मनस्कर्मपूर्वकत्वाच् च कायकर्मणः. तस्मै इति किंलक्षणेयं चतुर्थी. अत्र बहवो व्याख्यानकारा मुह्यन्ति. आचार्यगुणमतिस् तच्छिष्यश् चाचार्यवसुमित्र आहतुः. नमःशब्दयोगे चतुर्थी. नमःस्वस्तिस्वाहास्वधालंवषड्योगाच् चेति. तद् एतद् अयुक्तम्. स्वतन्त्रस्य नमःशब्दस्य योगे सा चतुर्थी भवति. अस्वतन्त्रश् चायं नमःशब्दः क्रियास्पदीभूतत्वात्. अत एव चानेनैवाचार्येण व्याख्यायुक्तौ
नमस्कृत्य मुनिं मूर्ध्नेति
कर्मलक्षणा द्वितीया प्रयुक्ता. तस्मान् न नमःशब्दयोगे चतुर्थीति. द्वितीयायाः स्थाने चतुर्थी प्रयुक्तेत्य् अपरे. तद् इदम् एषाम् इच्छामात्रम्. न हि लक्षणम् अस्यास्तीति. केन तर्हीयं चतुर्थी. संप्रदानलक्षणेयं चतुर्थीति व्याचक्ष्महे. कथं संप्रदानसंज्ञा. कर्मणा यम् अभिप्रैति. स संप्रदानम् इति. चूर्णिकारेण कर्मशब्द उभयथा वर्ण्यते. पारिभाषिकं कर्म लौकिकं चेति. तत्र यदा कर्तुर् ईप्सिततमं कर्मेति पारिभाषिकं कर्माश्रीयते. तदा कर्तुर् ईप्सिततमेन यम् अभिप्रैति. स संप्रदानसंज्ञो भवति. ब्राह्मणाय गां प्रयच्छतीति. एतत् सिद्धं भवति. यदा तु कर्म क्रियेति लौकिकं कर्माश्रीयते. तदा क्रियया यम् अभिप्रैति. स संप्रदानसंज्ञो भवतीति. तद् एतत् सिद्धं भवति. युद्धाय संनह्यति. पत्ये शेत इति. संनहनक्रियया युद्धम् अभिप्रैति कर्ता. शयनक्रियया पतिम् इति. ( अभिध्-क्-व्य् 7 ) युद्धादीनाम् सम्प्रदानसंज्ञा सिद्धा भवति. तथेहपि नमस्कारक्रियया शास्तारम् अभिप्रैति आचार्यः. तस्माच् छास्तरि संप्रदानसंज्ञा. संप्रदानसंज्ञायां सत्यां संप्रदाने चतुर्थी ऽति चतुर्थी भवति. एवं च कृत्वा
पूर्वं प्रणम्य वदतां प्रवराय शास्त्रे. ।
प्रमाणभूताय जगद्धितैषिणे
प्रणम्य शास्त्रे सुगताय तायिन. ।
इत्येवमादीनि काव्यशास्त्रान्तरोक्तानि शब्दरूपाणि सुनीतानि भवन्ति. यदि तर्हि संप्रदानसंज्ञैवेष्यते.
नमस्कृत्य मुनिं मूर्ध्नेति.
अत्र द्वितीया न प्राप्नोति. नैष दोषः. विवक्षातः कारकाणि भवन्ति. यदा कर्मविवक्षा. तदा द्वितीया. यदा संप्रदानविवक्षा. तदा चतुर्थी ऽति उभयम् अपि सिद्धं भवति.
[तिब्. 5ब्] यथार्थशास्त्र
इति. शास्त्र् इति औणादिकः शब्दः. तृन्तृचौ शंसिक्षादिभ्यः संज्ञायां चानिटाव् इति तृन्प्रत्ययान्तो ऽनिट् शास्तेति भवति. ननु च संज्ञायां शास्तेति भवति. न चेयं संज्ञा. संज्ञैवेयम्. द्विविधा हि संज्ञा विशेषसंज्ञा सामान्यसंज्ञा च. विशेषसन्ज्ञा एवदत्तो यज्ञदत्त इति. सामान्यसंज्ञा मातापितेत्येवमादिका. मात्रादयो ऽपि हि तत्र संज्ञायाम् एव निपात्यन्ते. नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ इति. तेन यथा सर्वासां मातॄणाम् इयं संज्ञा मातेति. सर्वेषां च पितॄणां पितेति. एवं सर्वेषां च शास्तॄणाम् इयं संज्ञा शास्तेति. स तु शास्ता द्विविधो भवति. अयथार्थो यथार्थश् च. [तिब्. 6अ] अयथार्थश् च पूरणादिः. यथार्थश् च तथागत इति. अतो विशिनष्टि यथार्थम् अविपरीतं शास्तीति यथार्थशास्ता. एतच् च विशेषणं परहितप्रतिपत्त्युपायसूचनार्थम्. अत एवाह. परहितप्रतिपत्त्युपायम् अस्याविष्करोतीत्येवमादि. न त्व् ऋद्धिवरप्रदानप्रभावेनेति प्रभावशब्दः प्रत्येकम् अभिसंबध्यते. ऋद्धिप्रभावेन वरप्रदानप्रभावेनेति. ऋद्धिप्रभावस् तद्यथा विष्णोर् विश्वरूपसंदर्शनम्. वरप्रदानप्रभावस् तद्यथा महेश्वरो वरं प्रयच्छतीति प्रवादः. अथ वा त्रिपदो द्वंद्वः. ऋद्धिश् च वरप्रदानं च प्रभावश् चेति. प्रभावः शक्तिविशेषः. ननु च बुद्धा अपि कदाचित् ऋद्धिप्रातिहार्यं विनेयानाम् उपदर्शयन्ति. अस्त्य् एतद् एवम्. अपि त्व् आवर्जनमात्रं तु तेषां. अनुशासनीप्रातिहार्येण तु रागादिप्रतिपक्षभावनाक्रमेण संसारोत्तरणं भवति. किं करिष्यतीति प्रश्नः.
नमस्कृत्येति.
( अभिध्-क्-व्य् 8 ) क्त्वाविधेः क्रियान्तरपेक्षत्वात्. समानकर्तृकयोर् हि पूर्वकाले क्त्वाविधिर् भवति.
शास्त्रं प्रवक्ष्यामीति.
अर्थविशेषाभिद्योतको नामसमूहः शास्त्रं. क्षणिकत्वात् समुहानुपपत्तिर् इति चेत्. न. तद्ग्राहकबुद्धिरूपसमूहकल्पनात्. शिष्यशासनाच् छास्त्रम् इति. [तिब्. 6ब्] किं शास्त्रम् इति किं नामधेयम् इत्य् अभिप्रायः.
(इ.2अब्) अभिधर्मकोशम्
इत्य् अस्य निर्वचनं वक्ष्यते. आस्तां तावद् एतत्.
अवयवार्थावबोधपूर्वकः समुदायार्थावबोधः इत्य् अवयवार्थं तावत्
पृच्छति. को ऽयम् अभिधर्मो नामेति. 1.
प्रज्ञामला सानुचराभिधर्म
इति. धर्मप्रविचयकाले प्रज्ञा प्रधानम् इति मुख्यवृत्त्या प्रज्ञाग्रहणम्.
अमलेत्य्
अनास्रवा. मलानाम् आस्रवपर्यायत्वात्.
सानुचरेति
सपरिवारा. राज्ञा समं चरन्न् अपि भृत्यो राजानुचर इत्य् उच्यते. तदनुवृत्तिकारित्वात्. तथेहापि समकालं चरन्तो ऽपि तत्सहभुवो धर्मा अनुचरा एवोच्यन्ते. के पुनस् ते. चित्तचैत्ताः अनास्रवसंवरो जात्यादयश् च चित्तविप्रयुक्ता इति. ननु च चित्तं चैत्तेभ्यः प्रधानम्. तथा हि चित्तस्य इमे चित्ते वा भवाश् चैत्ता इति. तेन प्रज्ञैव चित्तस्य परिवारो ऽर्हति. न तु चित्तं प्रज्ञायाः चैतसिकत्वात् अस्त्य् एतत्. अपि तु धर्मप्रविचयकाले प्रज्ञा चैत्तस्यापि सर्वस्य कलापस्य राजायते. क्वचित् कश्चिद् धर्मः प्राधान्यम् आस्कन्दति. तद्यथा अभिसंप्रत्ययकाले श्रद्धेत्येवमादि. अनास्रवः पञ्चस्कन्धक इति. अनास्रवसंवरस् तस्मिन् कलापे रूपस्कन्धः. या वेदना. स वेदनास्कन्धः. या संज्ञा. स संज्ञास्कन्धः. चेतनादिजात्यादयः संस्कारस्कन्धः. [तिब्. 7अ] विज्ञानं चात्र विज्ञानस्कन्धः. एष तावद् इति. तावच्छब्दः क्रमार्थः. पारमार्थिक इति. परमार्थ एव पारमार्थिकः. परमार्थे वा भवः पारमार्थिकः. परमार्थेन वा दीव्यति चरतीति वा पारमार्थिकः. सांकेतिकस् तु सांव्यवहारिकः.
तद्प्राप्तये यापि चेति
प्रज्ञा सानुचरा सो ऽभिधर्म इति चात्राधिकृतम्. तस्या अनास्रवायाः प्रज्ञायाः प्राप्त्यर्थं साक्षात् पारंपर्येण वा या श्रुतमयी चिन्तामयी च भावनामयी च प्रज्ञा सास्रवा या चोपपत्तिप्रतिलम्भिका सानुचरा. सापि सांकेतिको ऽभिधर्मः. तत्र श्रुतप्रयोगजा श्रुतमयी. युक्तिनिध्यानप्रयोगजा चिन्तामयी. ( अभिध्-क्-व्य् 9 ) भावनाप्रयोगजा भावनामयी. उपपत्तिप्रतिलम्भजा उपपत्तिप्रतिलम्भिका. उपपत्तिप्रतिलम्भो ऽस्यास्तीति. अत इनिठनाव् इति ठन्विधानान् न वृद्धिः. श्रुतचिन्तामय्य् उपपत्तिप्रतिलम्भिका भावनामयी चारूप्यावचरी चतुःस्कन्धको ऽभिधर्मः अनुपरिवर्तकरूपभावात्. रूपावचरी तु ध्यानसंवरसद्भावात् पंचस्कन्धको ऽभिधर्मः.
यच् च शास्त्रम्
इति अभिधर्मशास्त्रम् अभिप्रेतं. तत् तु सानुचरं न सानुचरम् इति व्याख्याभेदः. केचित् तावत् अचित्तचैतसिककलापरूपत्वात्.
सानुचरम्.
इति नानुवर्तयन्ति. जात्यादिसंभवात् केचिद् अनुवर्तयन्ति. एकस्कन्धको ह्य् असाव् अभिधर्मः. द्विस्कन्धको वा. तस्य च जात्यादयः सन्तीति. अन्ये तु व्याचक्षते शास्त्रम् इति [तिब्. 7ब्] ज्ञानप्रस्थानं. तस्य शरीरभूतस्य षट् पादाः. प्रकरणपादः विज्ञानकायः हर्मस्कन्धः प्रज्ञप्तिशास्त्रं हातुकायः संगीतिपर्याय इत्य् अतस् तद् अपि शास्त्रं सानुचरम् एव पारंपर्येण पारमार्थिकाभिधर्मप्राप्तये सांकेतिको ऽभिधर्म इत्य् उच्यते. उपपत्तिप्रतिलम्भिका हि प्रज्ञा शास्त्रश्रवणात् तदर्थम् अनुसरति. तस्याः श्रुतमयी श्रुतमय्याश् चिन्तामयी चिन्तामय्याः सास्रवा भावनामयी तस्या अनास्रवा प्रज्ञा जायत इति अनुक्रमः. तद् अयम् इति. तद् इति वाक्योपन्यासे. अयम् इति स्वलक्षणधारणत्वेन निरुक्तः पारमार्थिकः सांकेतिको ऽभिधर्मः. प्ररमार्थधर्मम् इति. परमस्य ज्ञानस्यार्थः परमार्थः. परमो वार्थः परमार्थः सर्वधर्माग्रत्वात् परमार्थः. परमार्थश् चासौ धर्मश् च परमार्थधर्मः. धर्मलक्षणं वेति. स्वसामान्यलक्षणं खक्खटलक्षणः पृथिवीधातुर् अनित्यं दुःखम् इत्येवमादि. तत् प्रत्यभिमुखः प्रतिलम्भाय प्रतिवेधाय अवबोधाय वा अभिमुखो धर्मः अभिधर्मः. कुगतिप्रादय इति तत्पुरुषसमासः. ननु च लक्षणेनाभिप्रती आभिमुख्य इति अव्ययीभावः प्राप्नोति. यदा ह्य् अभिर् लक्षणेन सह समस्यते. तदाव्ययीभावः. तद्यथा अभ्यग्नि शलभाः पतन्ति. शलभपतनं अग्निना लक्ष्यते. सो ऽग्निर् अस्य लक्षणं. न त्व् अयं धर्मो ऽन्यस्य लक्षणम्. किं तर्हि. लक्ष्यः. स्वयम् एवाभिमुख्यात्. शास्त्राख्यो ऽपि सांकेतिको ऽभिधर्मः प्रापणायाभिद्योतनाय वा निर्वाणं धर्मलक्षणं वा प्रत्य् उपनिषद्भावेनाभिमुखः. किमंग पारमार्थिक इत्य् अतस् तत्पुरुषसमासेनाभिधर्म इति सिद्धं भवति.
(इ.2च्द्) उक्तो ऽभिधर्म इति. स्वभावप्रभेदनिर्वचनतो अवयवार्थो ऽवबुद्धः. ( अभिध्-क्-व्य् 10 ) समुदायार्थस् तु न तावद् इत्य् अतः समुदायार्थं पृच्छति. इदं तु शास्त्रं कथम् अभिधर्मकोशम् इति.
तस्यार्थतो ऽस्मिन्न्.
इति. तस्याभिधर्मसंज्ञकस्य शास्त्रस्यानन्तरोक्तत्वात् ग्रहणं.
अर्थत
इति न व्यञ्जनत इति. अर्थतो ऽयम्
अनुप्रवेशो
[तिब्. 8अ] न साकल्येन. तस्माद् यथाप्रधानम् इत्य् अव्ययीभावः. अन्तर्भूतः प्रविष्ट इति. एतच् छास्त्रं मदीयं तस्यार्थस्य कोशस्थानीयं भवति. कोशसदृशं. एतस्मिन्न् अर्थे षष्ठीतत्पुरुषसमासः. अभिधर्मस्य कोशो ऽभिधर्मकोश इति. यत्र ह्य् असिः प्रविशति. स तस्य कोशः. अथ वा सो ऽभिधर्मो ज्ञानप्रस्थानादिर् एतस्य मदीयस्य शास्त्रस्याश्रयभूतः. ततो ह्य् आर्षाद् अभिधर्माद् एतन् मदीयं शास्त्रं निराकृष्टम्. अर्थत इत्य् अधिकृतम्. अतः स एवास्याभिधर्मः कोश इति. एतस्मिन्न् अर्थे बहुव्रीहिसमासः. अभिधर्मः कोशो ऽस्येति अभिदर्मकोशः. यतो ह्य् असिर् निराकृष्यते. स तस्य कोश इति. एतच् छास्त्रम् अभिधर्मकोशम् इति. समुदायार्थो ऽप्य् अस्यावगमित इति सूचयति.
(इ.3) किमर्थं पुनर् अभिधर्मोपदेशः किं प्रयोजनम् इत्य् अर्थः. सप्रयोजनस्य हि शास्त्रस्य प्रत्यासः साधुर् भवेत्. न निःप्रयोजनस्य. केन चायं प्रथमत उपदिष्टः. केन चायम् अभिधर्म आदितो देशितः. आप्तोपदिष्टस्य हि शास्त्रस्य प्रत्यासो ऽर्हरूपः स्याद् इत्य् अभिप्रायः. प्रथमत इति विशेषणम्. भदन्तकात्यायनीपुत्रादीनां पिण्डीकरणेन पश्चाद् उपदेशस्य सिद्धत्वात्. प्रथमत उपदेशे हि विवादः. यत इति विस्तरः. यतः कारणात्. आचार्यः शास्त्रकारः. अभिधर्मकोशं प्रत्यासशास्त्रं वक्तुं प्रणेतुम् आद्रियते. आदरम् करोतीत्य् अर्थः. एवं कृते प्रश्नद्वये अभिधर्मशास्त्रस्य सप्रयोजनताम् आप्तोपदेशतां च प्रदर्शयन्न् आह. 2.
धर्माणां प्रविचय
इति विस्तरः.
[तिब्. 8ब्] यतो
विना धर्मप्रविचयेन रूपं वेदना अनित्यं दुःखम् इत्येवमाकारेण.
नास्ति क्लेशोपशमाभ्युपायः.
अन्य इति वाक्यशेषः. स एव तु क्लेशोपशमाभ्युपाय इति अर्थाद् आपन्नं भवति. तद्यथा नाहारेण विना प्राणसंधारणोपाय इत्य् उक्ते स एवाहारः प्राणसंधारणोपाय इत्य् अर्थाद् आपन्नं भवति. तद्वद् एतत्. यदि क्लेशोपशमो ( अभिध्-क्-व्य् 11 ) न स्यात् किं स्याद् इति. अत आह.
क्लेशैश् च भ्रमति भवर्णवे ऽत्र लोक
इति. अनेन क्लेशोपशमस्यावश्यकर्तव्यतां दर्शयति. भवः संसार इत्य् एकार्थः. भव एवार्णवो भवार्णवः. मज्जनस्थानसाधर्म्यात् समुद्रकल्पो भवः. एतस्मिन् भवार्णवे अत्र. प्रत्यक्षीकृतपञ्चोपादानस्कन्धलक्षणव्यतिरिक्तभवप्रतिषेधार्थम् अत्रग्रहणम्. अत्र लोको भ्रमति तादात्म्यावस्थानात्. तादात्म्यवस्थानतो ऽपि हि अधिकरणनिर्देशो दृश्यते. तद्यथा अन्यपादपानुपयोगेन पलाशेष्व् आरामः स्थित इति. वृत्तौ तु हेत्वर्थतां तृतीयायाः सूचयता हेतुमण्णिचा हेत्वर्थ उक्तः. क्लेशाश् च लोकं भ्रमयन्तीति. अत इत्य् उद्दिष्टहेतुप्रत्याम्नायः. यत एवम्. अत उद्दिष्टो ऽभिधर्म इत्य् अर्थः. धर्मप्रविचयः क्लेशोपशमोपायो नान्यो धर्म इत्य् अभिधर्मोपदेशकः संबन्ध इत्य् अत उक्तं
तद्धेतोर्
इति. स एव हेतुस् तद्धेतुः. तस्य तस्माद् वा
तद्धेतोर्
इति. तस्य धर्मप्रविचयस्यार्थे ऽभिधर्मोपदेशहेतुको धर्मप्रविचयः.
कथं नामे धर्मप्रविचयः स्याद् इत्य् अभिधर्म उपदिष्टः शास्त्रा बुद्धेन. [तिब्. 9अ] अत एव. न हि विनाभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचयितुम् इति.
उदित
इति वदेर् निष्ठायां कृतसंप्रसारणस्यैतद् रूपम्. न तु इण उत्पूर्वस् यार्थायोगात्. उदित इत्य् उक्तः उपदिष्ट इत्य् एकार्थः.
किलेति.
किलशब्दः पराभिप्रायं द्योतयति. आभिधार्मिकाणाम् एतन् मतं. न त्व् अस्माकं सौत्रान्तिकानाम् इति भावः. श्रूयन्ते ह्य् अभिधर्मशास्त्राणां कर्तारः. तद्यथा ज्ञानप्रस्थानस्य आर्यकात्यायनीपुत्रः कर्ता. प्रकरणपादस्य स्थविरवसुमित्रः. विज्ञानकायस्य स्थविरदेवशर्मा. हर्मस्कन्धस्य आर्यशारिपुत्रः. प्रज्ञप्तिशास्त्रस्य आर्यमौद्गल्यायनः. हातुकायस्य पूर्णः. संगीतिपर्यायस्य महाकौष्ठिलः. कः सौत्रान्तिकार्थः. ये सूत्रप्रामाणिका न शास्त्रप्रामाणिकाः. ते सौत्रान्तिकाः. यदि न शास्त्रप्रामाणिकाः कथं तेषां पिटकत्रयव्यवस्था. सूत्रपिटको विनयपिटको ऽभिधर्मपिटक इति. सूत्रे ऽपि ह्य् अभिधर्मपिटकः पठ्यते. त्रैपिटको भिक्षुर् इति नैष दोषः. सूत्रविशेषा एव ह्य् अर्थविनिश्चयादयो ऽभिधर्मसंज्ञाः ( अभिध्-क्-व्य् 12 ) येषु धर्मलक्षणं वर्ण्यते. एतदाशङ्कानिवृत्त्यर्थम् आहुः. स तु प्रकीर्ण उक्तो भगवतेति विस्तरः. यथा स्थविरहर्मत्रातेन उदाना
अनित्या बत संस्कारा
इत्येवमादिका विनेयवशात् तत्रतत्र सूत्र उक्ता वर्गीकृता एकस्थीकृताः. एवम् अभिधर्मो ऽपि धर्मलक्षणोपदेशस्वरूपो विनेयवशात् तत्रतत्र भगवतोक्तः [तिब्. 9ब्] स्थविरकात्यायनीपुत्रप्रभृतिभिर् ज्ञानप्रस्थानादिषु पिण्डीकृत्य स्थापित इति आहुर् वैभाषिकाः. विभाषया दीव्यन्ति चरन्ति वा वैभाषिकाः. विभाषां वा विदन्ति वैभाषिकाः. उक्थादिप्रक्षेपाट् ठक्. 3.
(इ.4-6) सास्रवानास्रवा धर्मा
इति. सह आस्रवैः सास्रवाः. न सन्त्य् आस्रवा एष्व् इति अनास्रवाः. सास्रवाश् चानास्रवाश् चेति समासः. स्वसामान्यलक्षणधारणाद् धर्मः. एष सर्वधर्माणां समासनिर्देश इति. एतावन्तो धर्मा यद् उत सास्रवाश् चानास्रवाश् च. नैतद्व्यतिरिक्ता धर्माः सन्ति. तस्माद् आह सर्वधर्माणाम् इति. समासनिर्देश इति संक्षेपनिर्देशः. विस्तरनिर्देशस् तु पश्चाद् आ शास्त्रपरिसमाप्तेर् भविष्यति अन्ये ऽपि समासनिर्देशाः सन्ति. संस्कृता असंस्कृता रूप्यरूपिणः सनिदर्शनानिदर्शना इत्येवमादयः. किमर्थम् अयम् एव समासनिर्देश उक्तः. कस्मिन्न् उक्ते न पर्यनुयोगः. अथ वा सांक्लेशिकव्यावदानिकपक्षप्रदर्शनार्थं तदर्थत्वाच् छास्त्रस्य. तत्पक्षद्वयावबोधो हि संक्लेशपक्षम् अपहाय व्यवदानपक्षासेवनान् निःश्रेयसावाप्तिर् भवेत्.
संस्कृता मार्गवर्जिताः
सास्रवा
इति संस्कृता एव नासंस्कृताः. हेतुप्रत्ययजनिता रूपादयः संस्कृताः. किं सर्वे. नेत्य् आह.
मार्गवर्जिताः
मार्गसत्येन वर्जिताः. मार्गसत्यस्य संस्कृतत्वात् प्रसङ्ग इत्य् अत एवं विशिनष्टि. एतद् उक्तं ब्व्हवति. मार्गसत्यं वर्जयित्वा सर्वे संस्कृताः [तिब्. 10अ] सास्रवा इति. कथं पुनस् ते सास्रवाः. यद्य् आस्रवसंप्रयोगात् क्लिष्टा एव चित्तचैत्ताः सास्रवाः स्युः. नान्ये. अथास्रवसहोत्पादाद् एकस्यां संततौ समुदाचरत्क्लेशस्य सत्त्वस्य यथासंभवं पञ्चोपादानस्कन्धाः सास्रवाः स्युः. नासमुदाचरत्क्लेशस्य. नापि बाह्या धर्माः. अथास्रवाणां ये आश्रयाः. ते सास्रवा इति. षड् एवायतनानि आध्यात्मिकानि सास्रवाणि स्युः. अथास्रवाणाम् आलम्बनानि सास्रवाणि. निरोधमार्गसत्यम् अपि सास्रवं प्राप्नोति. ऊर्ध्वा च भूमिर् ऊर्ध्वभूम्यालम्बनैर् आस्रवैः सास्रवा स्याद् इत्य् अत आह.
आस्रवास् तेषु
यस्मात् समनुशेरत
इति. तस्मात् सास्रवा इति पूर्वम् एवाध्याहार्यस् तस्माच्छब्दः. अनुशेरत इति पुष्टिं लभन्त इत्य् अर्थः. प्रतिष्ठां लभन्त इत्य् अर्थो वा. पुष्टिलाभे प्रतिष्ठालाभे वा ते रागादयः संतायन्ते. अपरे व्याचक्षते. यथानुशेते ममायम् आहार इति पथ्यो ऽनुगुणीभवतीत्य् अर्थः. तथा रागादयो ऽपि तेषु धर्मेषु अनुशेरते. अनुगुणीभवन्तीत्य् अर्थः. रागाद्यभिष्यन्दितकर्मनिर्वर्तिता हि सास्रवा धर्माः.
कर्मजं लोकवैचित्र्यम्
इति वचनात्. प्रत्ययानुगुण्येनानुशेरते पुष्टिं लभन्त इत्य् अनुशयाः. अनुशेरते अनुगुणा वर्तन्ते प्रत्यया एष्व् इति वा [तिब्. 10ब्] अनुशयाः. अनुशयनं चैषाम् आलम्बनतः संप्रयोगतो वा द्रष्टव्यं. गुणमतिस् त्व् आचार्य इह व्याचष्टे. किं कारणं यत् सर्वधर्मेष्व् आस्रवाणाम् आलम्बनीभवत्सु संस्कृता एव मार्गवर्जिताः सास्रवा उच्यन्ते इति. सर्वधर्माः सास्रवाणाम् आलम्बनम् इत्य् अनभिधार्मिकीयम् एतत्. आकाशप्रतिसंख्यानिरोधयोर् आस्रवानालम्बनत्वात्. षड् एव ह्य् अनुशया अनास्रवालम्बनाः पठ्यन्ते. ते च निरोधमार्गालम्बना एवा.
मिथ्यादृग्विमती ताभ्यां युक्ताविद्याथ केवला
निरोधमार्गदृग्घेयाः षड् अनास्रवगोचरा
इति वचनात्. तस्मान् न सुलिखितम् एतद् इति पश्यामः. कामम् इति यद्य् अपीत्य् अर्थः. अथ वा कामम् इति निपातो ऽभ्युपगमार्थः. अभ्युपगम्यत एव निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्त इत्य् अर्थः. तत्र निरोधमार्गसत्ययोः. अनुशयनिर्देश एव ज्ञापयिष्याम इति.
नानास्रवोर्ध्वविषया अस्वीकाराद् विपक्षत
इत्य् अत्र. यद् धि वस्त्व् आत्मदृष्टितृष्णाभ्यां स्वीकृतं भवति. तत्रान्ये ऽप्य् अनुशया अनुशयितुम् उत्सहन्ते. आर्द्र इव पटे रजांसि संस्थातुं. न चैवम् अनास्रवम्. नाप्य् ऊर्ध्वा भूमिः. अतो न तदालम्बनास् तेष्व् अनुशेरते. विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानाम्. ऊर्ध्वा च भूमिर् अधराणाम्. अतो ऽपि न तेषु प्रतिष्ठां लभन्ते. तप्त इवोपले तलानि पादानाम् इति. 4.
[तिब्. 11अ] अनास्रवा मार्गसत्यं त्रिविधं चप्य् असंस्कृतम्
इत्य् अर्थापत्तिसिद्धत्वात् न सूत्रयितव्यम् एतद् इति एवं चोद्ये आचार्यगुणमतिस् तावद् आह. वक्तव्यम् एवेदं. किं कारणं. द्विविधो हि मार्गो लौकिको लोकोत्तरश् च. अतो विशेषार्थं पुनर् अभिधीयते. अत एव चात्र मार्गसत्यग्रहणम्. ( अभिध्-क्-व्य् 14 ) प्रसिद्धं चार्थापत्त्या गम्यते नाप्रसिद्धं. अप्रसिद्धं चासंस्कृतम् इति. अपरे व्याचक्षते. तृतीयराश्याशंकानिवृत्त्यर्थम् अर्थापत्तिसिद्धम् अप्य् एतत् पुनर् उच्यते. यथा हि तिस्रो वेदना भवन्ति. सुखा दुःखा अदुःखासुखा चेति. एवं धर्मा अपि संभाव्येरन्. सास्रवा अनास्रवाः सास्रवानास्रवाश् चेति. अथ वा नैव सास्रवा नानास्रवश् चेति. तेन ये ऽर्थापत्त्या निरस्ताः. किं ते ऽनास्रवा एव उताहो सास्रवानास्रवा एव. आहोस्विन् नोभयथेति संदिह्येत. अस्ति हि सास्रवानास्रवत्वविकल्पावकाशः. कथम् इति. वैभाषिकप्रक्रिया तावद्
द्विधा सानुशयं क्लिष्टम् अक्लिष्टम् अनुशायकैर्
इति वचनात्. ये चक्षुरादयो बाह्या वा रूपादयो ऽक्लिष्टाः. ते ऽनुशयानैर् एवास्रवैः सास्रवा नाननुशयानैः. प्रहीणैस् तैर् अननुशयानैर् आस्रवैर् न सास्रवाः. अप्रहीणैस् त्व् अन्ततः परसंतानगतैर् अपि सास्रवा [तिब्. 11ब्] एवेति. दार्ष्टान्तिकप्रक्रिययापि च चक्षुरादयो अर्हत्संतानगता बाह्याश् च रूपादयो अनास्रवाः. आस्रवाणाम् अनाश्रयत्वात्. सास्रवाश् च ते आस्रवाणाम् अप्रतिपक्षत्वाद् इति. पार्यायिकं सास्रवानास्रवत्वं चक्षुरादीनां कल्प्यत इति संदेहः. तत्संदेहविनिवृत्त्यर्थम् इदम् उच्यते.
अनास्रवा मार्गसत्यं त्रिविधं चाप्य् असंस्कृतम्
इति. निष्पर्यायम् अनास्रवा एवामी न सास्रवा यथोक्तम् इति पुनर्वचनम्. ते तर्ह्य् अर्हच्चक्षुरादयो वैभाषिकैः क्व पक्षे निक्षेप्तव्याः. किं सास्रवपक्षे अथानास्रवपक्षे इति. सास्रवपक्ष इति त आहुः कथं प्रहीणैर् आस्रवैस् ते सास्रवा व्यवस्थाप्यन्ते. येष्व् आस्रवा अनुशेरते अनुशयितवन्तो अनुशयिष्यन्ते वा. ते सास्रवाः. त्रैकालिकार्थविवक्षयापि हि लोके वर्तमानाकाले प्रयोगो दृश्यते. यः प्रजा रक्षति. स राजेति. यो ऽपि रक्षितवान् यो ऽपि रक्षिष्यति. स चापि राजेति गम्यत एवेति. अत एवं व्याख्यायते. अथ वा यद्य् अपि ते प्रहीणैर् आस्रवैर् न सास्रवाः. अप्रहीणैस् तु अपरिमितैर् आस्रवैर् अन्ततः परसंतानगतैर् अपि सास्रवा एव भवन्ति. ननु च समासनिर्देशाद् एव
सास्रवानास्रवा धर्मा
इति तृतीयराश्यप्रसंगः. [तिब्. 12अ] न. तत्रैकशेषनिर्देशसंभवात्. सास्रवाश् चानास्रवाश् च सास्रवानास्रवाश् चेति. सास्रवानास्रवा इति एकशेषः. असरूपाणाम् अप्य् एकशेष इष्यते. गुणो यङ्लुकोर् इति यथा. अपरे पुनर् आहुः. अर्थापत्त्या सिद्धम् एवैतत्. स्पष्टीकरणार्थं तु प्रपंच उच्यते. तद्यथा विशेषणं विशेष्येण बहुलम् इत्य् अनेनैव सर्वसिद्धम्. पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेनेत्येवमादिप्रपंच उच्यते. तद्वद् ( अभिध्-क्-व्य् 15 ) एतत्. कतमं त्रिविधम् असंस्कृतम् इत्य् अप्रतीतत्वात् पृच्छति. त्रिविधग्रहणं इयत्तावधारणार्थम्. सन्ति हि केचिद् एकम् एवासंस्कृतं निर्वाणम् इत्य् आहुर् यथा वात्सीपुत्रीयाः. परमाण्वादयो बहवो असंस्कृता इति वैशेसिकाः. तन्मतप्रतिषेधार्थम् इयत्तावधारणम्. कतमौ द्वाव् इति. प्रतिसंख्याप्रतिसंख्यानिरोधाव् एव पृच्छति. नाकाशम्. आकाशस्य लोके प्रसिद्धत्वात्.
तत्राकाशम् अनावृतिर्
इति तत्रेति निर्धारणे. वाक्योपन्यासे वा. अवकाशं ददातीति आकाशम् इति निर्वचनम्. भृशम् अस्यान्तः काशन्ते भावा इत्य् आकाशम् इत्य् अपरे.
अनावृतिर्
अनावरणम्. कर्तृसाधनं कर्मसाधनं वा. यो धर्मो ऽन्यान् धर्मान् नावृणोति अन्यैर् वा नाव्रियते. तद् अनावरणस्वभावं आकाशम्. तद् अप्रत्यक्षविषयत्वात् अन्यधर्मानावृत्या अनुमीयते. न त्व् आवरणाभावमात्रम्. अत एव च व्याख्यायते. यत्र रूपस्य गतिर् इति. यदि यन् नावृणोति नाव्रियते वा. तद् आकाशम्. अप्रतिघा अपि चित्तादयः संस्कारास् तथैवेति [तिब्. 12ब्] आकाशं प्राप्नुवन्ति. न प्राप्नुवन्ति. परेषाम् आवरणभावात्. ऋद्धिमन्तो हि चित्तचैत्तबलेन परेषां गतिं चित्तादीनां विबध्नन्ति. प्रतिसंख्या-अप्रतिसंख्यानिरोधौ तर्हि अविबन्धकत्वाद् आकाशं प्राप्नुतः. न. तयोः संयोगद्रव्यानुत्पत्तिधर्माणां संयोगप्राप्तिनियतरोधभूतत्वेन उत्पत्तिविघ्नरोधभूतत्वेन चावरणभूतत्वात्. अथ वा यस्यानावरणम् एव लक्षणं नान्यल् लक्षणं. तद् आकाशं. तयोश् चान्यलक्षणम् अस्तीति न तौ निरोधाव् आकाशं प्राप्नुतः. असर्वगतं तर्ह्य् आकाशं अनित्यं वा प्राप्नोति. आवरणाभावे भावात्. तद्भावे चाभावात्. कुड्यादिषु ह्य् अन्यस्य रूपस्यावरणं भवतीति. अत्राकाशलक्षणाभावात् आकाशभावप्रसंगः. कुड्याद्यपगमे च पुनस् तद् भवतीति अनित्यं प्राप्नोति. नानित्यं प्राप्नोति. तत्रापि कुड्याद्यवकाशदानाद् आकाशम् अस्त्य् एव. यदि हि तत्राकाशं न स्यात् तस्यैव कुड्यादेर् अनवकाशत्वाद् अवस्थानं न स्यात्. यत् तु तत्र रूपान्तरस्यानवस्थानम्. तत् कुड्याद्यावरणान् नाकाशाभावात्. उक्तं हि भगवता. पृथिवी भो गौतम कुत्र प्रतिष्ठिता. पृथिवी ब्राह्मण अप्मण्डले प्रतिष्ठिता. अप्मण्डलं भो गौतम क्व प्रतिष्ठितं. वायौ प्रतिष्ठितम्. वायुर् भो गौतम क्व प्रतिष्ठितः. आकाशे प्रतिष्ठितः. आकाशं भो गौतम कुत्र प्रतिष्ठितम्. अतिसरसि महाब्राह्मणातिसरसि महाब्राह्मण. आकाशं ब्राह्मणाप्रतिष्ठितं अनालम्बनम् इति विस्तरः. तस्माद् अस्त्य् आकाशम् इति वैभाषिकाः. 5.
[तिब्. 13अ] यो विसंयोग इति विशेषेणानित्यतानिरोधो ऽप्रतिसंख्यानिरोधश् च व्युदस्तौ भवतः. न हि विसंयोगलक्षणौ तौ निरोधौ. विसंयुक्तिर् विसंयोगः क्लेशविसंयुक्तिलक्षणः. संयोगप्राप्तिनियतरोधभूतो वा यो धर्मः. स प्रतिसंख्यानिरोधः. दुःक्ःआदीनाम् आर्यसत्यानाम् इति विशेषणपरिसत्याद्याकारा. किं तर्हि. उत्तराधरभूमिशान्ताद्युदाराद्याकारा. प्रज्ञाविशेष इति. विशेषग्रहणं क्लेशप्रहाणानन्तर्यमार्गप्रज्ञाग्रहणार्थम्. तेन प्रज्ञाविशेषेण प्राप्यो निरोध इति प्रतिसंख्यानिरोधः. मध्यपदलोपं कृत्वेति. शाकपार्थिवादीनाम् उपसंख्यानम्. शाकप्रियाः पार्थिवाः शाकपार्थिवा इतीष्ट्या मध्यपदलोपः. यदि प्रतिसंख्या अनास्रवैव प्रज्ञा गृह्येत लौकिकमार्गप्राप्यो निरोधो न गृहीत इत्य् अव्यापिलक्षणं प्राप्नोति. नाव्यापि. सर्वो हि त्रैधातुकसास्रववस्तुनिरोधो ऽनास्रवया प्राप्यते. न स निरोधो ऽस्ति. यो लौकिक्यैव प्रज्ञया प्राप्यते नानास्रवयेति. किं लौकिक्या प्रज्ञया प्रयोजनम्. यो हि लौकिकेन मार्गेण कश्चिन् निरोधः प्राप्यते. स एव पुनर् लोकोत्तरेण प्राप्यत एवेति. लोकोत्तरैव प्रज्ञा तत्र न लौकिकी. द्रव्यसन् प्रतिसंख्यानिरोधः सत्यचतुष्टयनिर्देशनिर्दिष्टत्वान् [तिब्. 13ब्] मार्गसत्यवद् इति वैभाषिकाः.
पृथक्पृथग्
इति नानेत्य् अर्थः. यावन्ति हि संयोगद्रव्याणीति. संयुक्तिः संयोगः. संयोगाय द्रव्याणि संयोगद्रव्याणि. संप्रयुज्यन्ते तेष्व् इति वा संयोगाः. संयोगाश् च ते द्रव्याणि चेति संयोगद्रव्याणि. सास्रवद्रव्याणीति यावद् उक्तं भवति. सास्रवं हि द्रव्यं स्तम्भस्थानीयं संप्रयोजनं रज्जुस्थानीयं पुद्गलस् तु बलीवर्दस्थानीय इति भगवतोक्तम्. अन्यथेति यद्य् एक इत्य् अर्थः. सर्वक्लेशनिरोधसाक्षात्क्रियेति. समुदयादिदर्शनभावनाहेयक्लेशनिरोधप्राप्तिर् इत्य् अर्थः. शेषप्रतिपक्षभावना वैयर्थ्यम् इति. शेषक्लेशसमुदयादिदर्शनभावनाप्रहातव्यात्मकप्रतिपक्षमार्गोत्पादनं निष्प्रयोजनम् इत्य् अर्थः. यत् तर्ह्य् उक्तं असभागो निरोध इति. क्वोक्तं. सूत्रे. पूर्वभर्त्रा विशाखेन गृहपतिना पृष्टया हर्मदिन्नया भिक्षुण्योक्तं. किं सभाग आर्ये निरोधः. असभाग आयुष्मन् विशाखेति. अप्रतिसदृशो निरोध इत्य् अर्थम् अभिसमीक्ष्य पृच्छति. अस्य को ऽर्थ इति. बहुत्वे हि सति प्रतिसदृशो ऽन्यो भवेद् इति परस्यभिप्रायः. नास्य कश्चित् सभागहेतुर् इति. सभागहेतुः सभाग इत्य् एको ऽर्थो हेतुशब्दलोपात्. दृश्यन्ते हि पदेषु पदैकदेशान् प्रयुंजाना वाक्येषु च वाक्यैकदेशान्. तद्यथा सत्यभामा ( अभिध्-क्-व्य् 17 ) भामा एवदत्तो अत्तः प्रविश पिण्डीं प्रविश तर्पणम् [तिब्. 14अ] इति. नित्यः खलु प्रतिसंख्यानिरोधः. तस्य किं सभागहेतुना प्रयोजनम् इति. असभागहेतुर् असभागः. नास्ति सभागो ऽस्येति असभागो बहुव्रीहिसमासः. नासौ कस्यचिद् इति. नासौ प्रतिसंख्यानिरोधः कस्यचिद् अन्यस्य धर्मस्य सभागहेतुर् इति अधिकृतम्. किं कारणम्. संस्कृत एवेति सभागहेतुर् इष्यते. तत्र न सभागो असभाग इति तत्पुरुषः. न तु नास्य कश्चिद् सभागो ऽस्तीति. न त्व् अस्य निरोधस्य कश्चिद् अन्यो निरोधः सदृशो न भवतीत्य् अर्थः.
उत्पादात्यन्तविघ्नो ऽन्यो निरोधो ऽप्रतिसंख्यया.
अनागतानां धर्माणां उत्पादस्यात्यन्तं विघ्नः अत्यन्तविघ्नः अत्यन्तनियतरोधः.
अन्य
इति अप्रतिसंख्यानिरोधः. स हि प्रतिसंख्यानिरोधात् अनन्तरोक्तात् अन्यः.
ऽप्रतिसंख्ययेति
प्रसज्यप्रतिषेधे अयम् अकारः. न प्रतिसंख्यया प्राप्य इत्य् अर्थः. अथ वा पर्युदासे. प्रतिसंख्याया यद् अन्यत् प्रत्ययवैकल्यम्. साप्रतिसंख्या. तया प्राप्यो निरोधो ऽप्रतिसंख्यानिरोधः. मध्यपदलोपात्. अयुक्तम् एतत्. प्रत्ययवैकल्यं ह्य् अभावः. कथम् अभावेन स निरोधः प्राप्यत इति. औपचारिकत्वाद् अदोषः. अथ वाप्रतिसंख्यानिरोध इति न प्रतिसंख्यानिरोधः. अप्रतिसंख्यानिरोधः प्रतिसंख्यानिरोधाद् अन्यत्वमात्रम् एवोच्यते. न तु प्रत्ययवैकल्यस्य व्यापार इति. उत्पादग्रहणम् अनित्यतानिरोधव्युदासार्थं. [तिब्. 14ब्] अनित्यतानिरोधो धर्मस्थितेर् अत्यन्तविघ्नो न धर्मोत्पादस्य. अत्यन्तग्रहणं असंज्ञिनिरोधसमापत्त्यासंज्ञिकव्युदासार्थं. तानि ह्य् अनागतानां चित्तचैत्तानाम् उत्पादविघ्नः. न त्व् अत्यन्तं तावत्कालिकत्वात् तद्विघ्नभावस्य. यथैकरूपव्यासक्तचक्षुर्मनस इति विस्तरः यथेत्य् उदाहरणकथनं. यथैकस्मिन् नीलरूपे व्यासक्तं चक्षुर् मनश् च यस्य. स एकरूपव्यासक्तचक्षुर्मनाः. तस्य. यानि रूपान्तराणि गृह्यमाणात् नीलाद् अन्यानि नीलान्तरपीतलोहितावदातादीनि वर्णरूपाणि संस्थानरूपाणि च शब्दगन्धरसस्प्रष्टव्यानि च सर्वाणि अत्ययन्ते प्रत्युत्पन्नम् अध्वानं अतिक्रामन्ति. अतीतम् अध्वानं प्रतिपद्यन्त इत्य् अर्थः. तदालम्बनैर् इति. तानि नीलन्तरादीनि अनन्तरोक्तानि आलम्बनानि एषां. ते तदालम्बनाह्. के. पंच विज्ञानकायाः. तैः. न षक्यम् उत्पत्तुम् इति भावसाधनम् एतत्. न हि ते समर्था इति विस्तरः. न हि ते पंच विज्ञानकाया अतीतं विषयं स्वालम्बनम् अपि शक्ता ग्रहीतुं. वर्तमानालम्बनत्वात् पंचानां विज्ञानकायानां. अथान्यद् इदानीं नीलन्तरादिकं वर्तमानम् ( अभिध्-क्-व्य् 18 ) आलम्ब्य कस्मान् नोत्पद्यन्ते. न शक्यम् एवं भवितुं. सर्वधर्माणां चतुष्के नियतत्वात्. हेतौ फल आश्रय आलम्बने चेति. यस्य विज्ञानस्य यद् आलम्बनं. तद् एव [तिब्. 15अ] तस्यालम्बनं भवेत्. भवेन् नान्यद् इति. आल्म्बनप्रत्ययवैकल्यात् ते पंच विज्ञानकाया न पुनर् उत्पद्यन्ते. अत आह. स तेषां अप्रतिसंख्यानिरोध इति विस्तरः. तेषां पंचानां विज्ञानकायानां प्रत्ययवैकल्यात् प्राप्यते आलम्बनप्रत्ययवैकल्यात्. चतुर्भिर् एव हि प्रत्ययैर् हेतुसमनन्तरालम्बनाधिपतिप्रत्ययैश् चित्तचैत्ता उत्पद्यमाना उत्पद्यन्ते. तेषाम् अन्यतरवैकल्ये ऽपि अनुत्पत्तिः. समनन्तरप्रत्ययवैकल्याद् इत्य् अपरे. समनन्तरप्रत्ययो हि तदानीं चित्तचैत्तलक्षण एकस्यैव तस्य नीलविज्ञानस्य उत्पत्ताव् अवकाशं ददाति. नेतरेषां नीलन्तरादिविज्ञानानां. युगपद्विज्ञानोत्पत्त्यसम्भवात्. उदाहरणमात्रं चैतत्. एवं क्षान्तिलाभ्यादीनां पंचानाम् अपि आपायिकानां अनागतानां स्कन्धानां तदुत्पत्तिविरुद्धप्रत्ययसंमुखीभावेन प्रत्ययवैकल्यात् अप्रतिसंख्यानिरोधः प्राप्यते इत्य् उदाहार्यं. अप्रतिसंख्यानिरोधम् एव चाभिसंधाय स्रोतआपन्नं पुद्गलम् अधिकृत्योक्तं भगवता निरुद्धा अस्य नरकास् तिर्यंचः प्रेता इति. तद् एवंजातीयकानां अनागतानां धर्माणां प्रत्ययवैकल्यात्. प्रतिसंख्याम् अन्तरेण उत्पादस्य नियतरोधभूतो यो धर्मः. सो ऽप्रतिसंख्यानिरोध इत्य् उच्यते. न हि प्रत्ययवैकल्यमात्राद् अत्यन्तं तदनुत्पत्तिर् उपपद्यते. पुनस् तज्जातीयप्रत्ययसांनिध्ये तदुत्पत्तिप्रसंगात्. को हि तदा तदुत्पत्तौ विबन्धः स्याद् इति वैभाषिकाः. [तिब्. 15ब्] चतुष्कोटिकं चात्रेति विस्तरः. अत्र प्रतिसंख्याप्रतिसंख्यानिरोधलक्षणनिर्देशे चतुष्कोटिकं चतुष्प्रकारं प्रश्नविसर्जनं. किम् अर्थं. व्युत्पादनार्थं. तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणां इति. सास्रवत्वात् प्रतिसंख्यानिरोध एव लभ्यते. अतीतप्रत्युत्पन्नानाम् उत्पादस्य कृतत्वात्. उत्पत्तिधर्माणां चावश्यंभावात्. नाप्रतिसंख्यानिरोधो लभ्यते. उत्पादात्यन्तविघ्नलक्षणो ह्य् अप्रतिसंख्यानिरोधः. तद्यथानुत्पत्तिधर्माणां अनास्रवसंस्कृतानाम् इति. अत्यन्तविघ्नितोत्पादत्वाद् एषाम् अनुत्पत्तिधर्मत्वं. अतश् च तेषाम् अप्रतिसंख्यानिरोधो लभ्यते. तद्यथा षड्भूमिकानाम् अनागम्यध्यानान्तरध्यानभूमिकानां श्रद्धानुसारिमार्गाणाम् एकस्मिं संमुखीभूते शेषाणां पंचानाम् अप्रतिसंख्यानिरोधो लभ्यते. न तु प्रतिसंख्यानिरोधो ऽनास्रवत्वात्. न हि निर्दोषं प्रहाणार्हं भवति. अनुत्पत्तिधर्मग्रहणं अतीतप्रत्युत्पन्नोत्पत्तिधर्मनिरासार्थं. अनास्रवग्रहणं सास्रवनिरासार्थं. संस्कृतग्रहणम् असंस्कृतनिरासार्थं. असंस्कृतम् अपि हि स्वभावतो [तिब्. 16अ] ऽनुत्पत्तिधर्मकं. अतस् तत्प्रसंगो मा भूद् इति तद् विशेषणं. केषांचिद् ( अभिध्-क्-व्य् 19 ) एवं पाठः. तद्यथा अनुत्पत्तिधर्माणाम् अनास्रवाणाम् इति.
तेषां कथम् असंस्कृतानां ग्रहणप्रसंगो न भवति. येषां धर्माणां प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् च संभवति. तेषाम् अधिकारः. न चासंस्कृतानां तौ निरोधौ संभवतः. उत्पादात्यन्तविघ्नो ह्य् अप्रतिसंख्यानिरोधो न चासंस्कृतानाम् उत्पादो ऽस्ति. किं चनुत्पत्तिधर्माणाम् इति पर्युदासेन नञ्समासः. उत्पत्तिधर्मेभ्यो ये ऽन्ये तत्सदृशा धर्माः. ते ऽनुत्पत्तिधर्माणः. के च तत्सदृशाः. संस्कृता एव नासंस्कृता इति. अप्रसंगो ऽसंस्कृतानाम् इति ब्रुवते. सन्ति येषाम् उभयम् इति प्रतिसंख्यानिरोधश् च अप्रतिसंख्यानिरोधश् च. तद्यथा सास्रवाणाम् इति विस्तरः. सास्रवत्वाद् एषः प्रतिसंख्यानिरोधः प्राप्यते. अनुत्पत्तिधर्मत्वाद् अप्रतिसंख्यानिरोधो ऽपि प्राप्यते. यदा तदानयोः प्राप्तिर् अभिप्रीयते नावश्यम् अनयोर् युगपत्प्राप्तिर् भवति. केषांचिद् धि पूर्वं प्रतिसंख्यानिरोधः प्राप्यते. पश्चाद् अप्रतिसंख्यानिरोधः. तद्यथार्हत एकरूपव्यासक्तचक्षुर्मनसस् तदन्यरूपाद्यालम्बनानां पंचानां विज्ञानकायानां. केषांचित् पूर्वम् अप्रतिसंख्यानिरोधः प्राप्यते. पश्चात् प्रतिसंख्यानिरोधः. तद्यथा क्षान्तिलाभिनो ऽपायगतीनां. [तिब्. 16ब्] केषांचिद् युगपत्. तद्यथा दृष्टिप्राप्तस्याधिमात्राधिमात्रक्लेषप्रतिपक्षोदये तेषां अधिमात्राणाम् अनागतानां क्लेशानां प्रतिसंख्यानिरोधश् चाप्रतिसंख्यानिरोधश् च युगपत् प्राप्यते. एवम् अन्येषाम् अपि संभवतो योज्यं. तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्मणां अनास्रवाणाम् इति. अतीतादीनाम् एषाम् उत्पादस्य विघ्नयितुम् अशक्यत्वात् अप्रतिसंख्यानिरोधो न लभ्यते. अनास्रवत्वाच् चैषां प्रतिसंख्यानिरोधो ऽपि न लभ्यते. असंस्कृतानां तूत्पादाभावात् नाप्रतिसंख्यानिरोधो ऽस्ति. उत्पादात्यन्तविघ्नो हि अप्रतिसंख्यानिरोध इत्य् उक्तं प्राक्. अनास्रवत्वाच् च प्रतिसंख्यानिरोधो ऽपि नास्ति. 6.
(इ.7) एवम् असंस्कृतस्याल्पवक्तव्यत्वात् पुरस्तात् तत्प्रश्नान् परिसमापय्य संस्कृतान् निर्देष्टुकाम उपोद्घातम् उत्थापयति.
यद् उक्तं
संस्कृता मार्गवर्जिताः सास्रवा
इति. कतमे ते संस्कृता इति.
ते पुनः संस्कृता धर्माः.
पुनःशब्दः प्रभेदान्तरप्रदर्शनार्थ उक्तः पूर्वप्रभेदः सास्रवानास्रवा इति. अयं तु पुनःप्रभेद इति.असंस्कृतनिर्देशेन व्यवहितत्वात्. पुनः संस्कृतग्रहणं असंस्कृतनिरासार्थं.
त
इति. तच्छब्दः पूर्वप्रकृतापेक्षः. के च पूर्वप्रकृताः. अवर्जिताश् च ये सास्रवाः. वर्जिताश् च ये मार्गसत्यस्वभावाः. उभये ऽप्य् अपेक्षिताः. कथं गम्यते.
ये सास्रवा उपादानस्कन्धास् त
इति अनास्रवेभ्यः सास्रवनिष्कर्षवचनात्. यद्
[तिब्. 17अ] रूपादिस्कन्धपंचकं
वक्ष्यमाणलक्षणं. ते ऽमी संस्कृता द्रष्टव्याः. अन्योन्यम् एषां संग्रहः. रूपादिग्रहणं शीलादिस्कन्धनिरासार्थं. अन्ये ऽपि हि पंच स्कन्धास् सन्ति. शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धः विमुक्तिज्ञानदर्शनस्कन्धश् चेति. स्कन्धग्रहणं रूपादिविषयनिरासार्थं. समेत्य संभूयेति पर्यायाव् एतौ. अथ वा समेत्य समागम्यान्योन्यम् अपेक्ष्येत्य् अर्थः. संभूय संजन्येत्य् एवं संशब्दस्यार्थं दर्शयति. न ह्य् एकप्रत्ययजनितम् इति. सर्वाल्पप्रत्ययत्वे ऽपि अवश्यं द्वौ प्रत्ययौ स्तः.
चतुर्भिश् चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः
द्वाभ्याम् अन्ये तु जायन्त
इति वचनात्. दुग्धवद् इति. संस्कृतशब्दस्य निष्ट्ःआन्तत्वात् निष्ठान्तशब्देनैव दृष्टान्तं दर्शयति. दुग्धवद् इति दुग्धं नाम क्षीरं. यत् स्तनान् निष्कासितं तद् दुग्धम् इति न्याय्यं. यत् तु निष्कासिष्यते. यच् च नैव निष्कासिष्यते धेनुस्थम् एव वर्तते. तद् दुग्धम् इति न प्राप्तं. उच्यते च लोके दुग्धम् इति. एवम् इहापि ये संस्करिष्यन्ते उत्पत्तिधर्माणो ऽनागता ये ऽपि न संस्करिष्यन्ते अनुत्पत्तिधर्माणः. ते ऽपि संस्कृता इत्य् उच्यन्ते. तज्जातीयत्वात् स्वलक्षणसादृश्यत्वात्.
त एवाध्वेति
विस्तरः. सर्वाभिधर्मः सूत्रार्थः सूत्रनिकषः [तिब्. 17ब्] सूत्रव्याख्यानम् इति सूत्रोक्तानाम् अपि अध्वादीनां स्कन्धपर्यायरूपाणां इह वचनं गतगच्छद्गमिष्यद्भावाद् इति. लोकप्रसिद्धम् अध्वानम् अपेक्ष्यायम् अध्वा व्याख्यातः. तथा हि लोके कथ्यते. अयम् अध्वा ग्रामं गतो ऽयम् अध्वा गच्छति अयम् अध्वा गमिष्यतीति. एवम् इहापि गतो ऽध्वा यो ऽतीतः गच्छति यो वर्तमानः गमिष्यति यो ऽनागत इति. अद्यन्ते ऽनित्यतयेति वाध्वान इत्य् अधिकृतं. नैरुक्तं विधानम् अपेक्ष्यायम् अर्थो दर्शितः. अद्यन्ते ( अभिध्-क्-व्य् 21 )
अनित्यतया भक्ष्यन्त इति अध्वान इति संस्कृता एवाध्वशब्देन भगवता देशिताः.
कथावस्तु
शब्देनापि त एव संस्कृता भगवता देशिताः. त्रीणीमानि भिक्षवः कथावस्तूनि अचतुर्थान्य् अपंचमानि यान्य् आश्रित्यार्याः कथां कथयन्तः कथयन्ति. कतमानि त्रीणि. अतीतं कथावस्तु अनागतं कथावस्तु प्रत्युत्पन्नम् इति. कथा वाक्यम् इति विस्तरः. कथा वाक्यं वर्णात्मकः शब्द इत्य् अर्थः. तस्या वस्तु नामविषय इत्य् अर्थः. नाम्ना पुनर् अर्थो ऽभिधेयः. तथा हि वक्ष्यति. वाण् नाम्नि प्रवर्तते. नामार्थं द्योतयतीति. यदि नामैव कथावस्तु नाम च संस्कारस्कन्धैकदेश एवेति कथं कृत्वा कथावस्तुशब्देन संस्कृता एवोक्ता इत्य् अत आह. सार्थकवस्तुग्रहणात् तु संस्कृतं कथावस्तूच्यते इति. अन्यथा हीति विस्तरः. यदि सार्थकं वस्तु न गृह्येत प्रकरणग्रन्थो विरुध्यते. कथावस्तून्य् [तिब्. 18अ] अष्टादशभिर् धातुभिः संगृहीतानीति. कया पुनर् युक्त्या सार्थकं वस्तु गृह्यते. द्विविधः कथाया विषयः. साक्षात् पारम्पर्येण च. साक्षाद्विषयो नाम. पारम्पर्येणार्थः. स हि स्वविषयभूतस्य नाम्नो विषय इति. अतस् तस्यापि विषयो व्यवस्थाप्यते. असंस्कृतं कस्मान् न कथावस्तुत्वेनोक्तं. अध्वपतितस्य नाम्नो ऽनध्वपतितेन सहार्थायोगात्. विषयो हेतुर् इति वा अर्थद्वयवाचकवस्तुशब्दपरिग्रहाद् वा. यद् धि कथाया विषयो हेतुप्रत्ययश् च भवति. तत् कथावस्तु. असंस्कृतं तु न हेतुप्रत्ययः कथाया इति न कथावस्तु. अथ वा अतीतादीनां संस्कृतानाम् अतिबहुरूपत्वेनाख्यानकरणयोग्यत्वात्. एवं चैवं च ईपंकरस् तथागतो ऽभूत्. एवं चैवं च मैत्रेयस् तथागतो भविष्यति. एवं चैवं च राजा कप्फिणो भवतीत्य् अतः संस्कृता एव कथावस्तुत्वेनोक्ता नासंस्कृताः. सर्वस्य संस्कृतस्य निर्वाणम् इति निरुपधिशेषनिर्वाणं. यद्य् एवं सास्रवस्य तद् अस्तीति भवति सास्रवस्य सनिस्सारत्वयोगः. मार्गसत्यस्य तु कथं. कोलोपमं धर्मपर्यायम् आजानद्भिर् धर्मा अपि प्रहातव्याः प्राग् एवाधर्मा इति मार्गसत्यस्यापि निःसरणं कल्पत एवेति. सर्व एव संस्कृताः सनिःसारा भवन्ति.
सवस्तुका
इति. वसन्त्य् अस्मिन् प्राक् कार्याणि पश्चात् तत उत्पत्तिर् इति. वस्तु हेतुर् इत्य् अर्थः. स एषाम् अस्तीति सवस्तुकाः. प्रवचने हि वस्तुशब्दः पंचस्व् अर्थेषु दृश्यते. स्वभावे [तिब्. 18ब्] आलम्बने संयोजनीये हेतौ परिग्रहे च. स्वभावे तावत्. यद् वस्तु प्रतिलब्धं. समन्वागतः स तेन वस्तुनेति तेन स्वभावेनेति गम्यते ( अभिध्-क्-व्य् 22 ). आलम्बने. ज्ञेया धर्माः कतमे. आह. सर्वधर्मा ज्ञानेन ज्ञेया यथावस्तु यथालम्बनम् इत्य् अर्थः. संयोजनीये. यस्मिं वस्तुनि अनुनयसंयोजनेन संयुक्तः. प्रतिघसंयोजनेनापि तस्मिन्न् इति. हेतौ. सवस्तुका धर्माः कतमे. सर्वसंस्कृता धर्मा इति. परिग्रहे. क्षेत्रवस्तुगृहवस्तु-आपणवस्तुधनवस्तुपरिग्रहं प्रहाय ततः प्रतिविरतो भवतीति. इह हेतौ वस्तुशब्दो वेदितव्यः हेतुवचनः. किलेति. किलशब्दः परमतं दर्शयति. स्वमतं त्व् अस्य लक्ष्यते. सवस्तुकाः सस्वभावाः संस्कृताः. असंस्कृतास् त्व् अवस्तुकाः प्रज्ञप्तिसत्त्वाद् इति.
(इ.8) त एव पुनः संस्कृता इति. ये सास्रवा अनास्रवाः पूर्वम् उक्ता इति दर्शयति.
ये सास्रवा उपादानस्कन्धास् त
इति. तेषाम् इत्य् अत्राहार्यं. किं सिद्धम् इति. यद् अर्थापन्नं. तद् विचारयति. उपादानस्कन्धादयः सूत्रेषूक्ताः. तेनेह ते व्याख्यायन्ते. सर्वो ऽभिधर्मः सूत्रार्थ इति विस्तरेण उक्तम् एतत्. तत्संभूततुआद् उपादानस्कन्धा इति. उपादानसंभूताः स्कन्धा उपादानस्कन्धाः. मध्यपदलोपात्. यथा तृणसंभूतो ऽग्निस् तृणाग्निः. [तिब्. 19अ] तुषसंभूतो ऽग्निस् तुषाग्निर् इति. उपादानानां स्कन्धा उपादानस्कन्धा इति षष्ठीसमासेनैव मध्यपदलोपम् अकृत्वा अन्ये साधयन्ति. एवं च निदर्शयन्ति. यथा तृणानाम् अग्निस् तृणाग्निर् इति युक्तं. ये सत्त्वसंख्याताः. ते उपादानस्कन्धाः क्लेशाभिष्यन्दितकर्महेतुकत्वात्. बाह्यास् तु भावाः कथम् उपादानस्कन्धाः. ते ऽप्य् उपादाननिर्वृत्ताः.
कर्मजं लोकवैचित्र्यम्
इति सिद्धान्तात्. तद्विधेयत्वाद् वा राजपुरुषवद् इति. यथा राज्ञो विधेयः पुरुषो राजपुरुषः. एवम् उपादानां विधेयाः स्कन्धाः. तद्वशेनालम्बनगत्यन्तरप्रवृत्तेः. उपादानानि वा तेभ्यः संभवन्तीति. अर्थकथनमात्रम् एतत्. पदानि त्व् एवं वक्तव्यानि. उपादानां संभवा हेतवो वा स्कन्धा उपादानस्कन्धाः पुष्पफलवृक्षवत्. यथा पुष्पाणां फलानां वा संभवो हेतुर् वा वृक्षः. पुष्पवृक्षः फलवृक्ष इति वा. तद्वत्. अर्हत्स्कन्धा अपि पारसांतानिकोपादानविधेया विक्रियोत्पादनात्. तेभ्यो ऽपि पारसांतानिकानि उपादानानि संभवन्तीति अविरुद्धम् एषाम् उपादानस्कन्धत्वं. रणा हि क्लेशाः आत्मपरव्याबाधनाद् इति. ये ह्य् आत्मानं परांश् च व्याबाधन्ते. ते रणा युद्धानीत्य् अर्थः. तथैव च क्लेशा [तिब्. 19ब्] इति रणा उच्यन्ते. तदनुशयितत्वाद् इति. तैर् अनुशयिता उपसेविता इत्य् अर्थः. अथ वा ( अभिध्-क्-व्य् 23 ) ऽनुशयिनः कृताः तैर् अनुशयिताः. तद्भावस् तदनुशयितत्वं. तस्मात्. तदनुशयितत्वात्. अथ वा तेषाम् अनुशयितत्वं. तस्मात्. सरणाः सास्रववत्. सास्रवत्वे यद् व्याख्यानं. तद् एवास्य वक्तव्यं. आर्याणां प्रतिकूलत्वात् दुःखम् इति. संस्कारदुःखतया आर्याणां तत् प्रतिकूलं. समुदेत्य् अस्माद् दुःखम् इति समुदय इति. हेतुभूताः स्कन्धाः समुदयः. फलभूताः स्कन्धा दुःखम् इति वर्णयन्ति. लुज्यत इति लोक इति. अस्मिन्न् एव रोहिताश्व व्याममात्रे कलेवरे लोकं प्रज्ञपयामि लोकसमुदयं चेति सूत्रं. लुज्यते प्रलुज्यते तस्माल् लोक इति च भगवतैवोक्तं. लुज्यते विनश्यतीत्य् अर्थः. लुजिर् इह गृहीतो न लोकः. नैरुक्तेन तु विधानेन गकारस्य स्थाने ककारः कृतः. तस्माल् लोक इति भवति. दृष्टिर् अस्मिंस् तिष्ठतीति. ये केचिद् भिक्षव आत्मत आत्मीयतश् च समनुपश्यन्ति. त इमान् एव पंचोपादानस्कन्धान् आत्मत आत्मीयतश् च समनुपश्यन्तीति वचनाद् उपादानस्कन्धा दृष्टिस्थानं भवतीति. भव इति सास्रवा एव धर्माः भवशब्देनोक्ताः. भवः कतमः. पंचोपादानस्कन्धा इति वचनाद्. एते च दुःखादयः शब्दा मार्गसत्ये ऽपि प्रसज्यन्ते. मार्गसत्यम् अपि हि संस्कारदुःखतया दुःखं. [तिब्. 20अ] समनन्तरप्रत्ययादिभावेन चास्मात् सास्रवं वस्तु समुदेति. लुज्यते च. दृष्टिश् च तद् आलम्बते. भवति च तद् उत्पद्यते इत्य् अर्थः. नैष दोषः. रूढिं ह्य् अपेक्षते शब्दप्रवृत्तिः. ये धर्माः संस्कारदुःखतया आर्यानाम् प्रतिकूला दुःखा विरोधिनः तदुत्पादकाः प्रसिद्धाः दृष्टिपुष्टिजनकः. अनादिमति च संसारे विनश्यन्ति भवन्ति. तेष्व् एवामी दुःखादय आर्यैः संकेतिता न मार्गसत्ये. तस्मात् सास्रवा एव धर्मा दुःखशब्दाद्यभिधेया भवन्ति नानास्रवाः. न हि गच्छतीति गौर् इत्य् उक्ते सर्वो गन्ता गौर् इत्य् उच्यते. तस्मात् सूक्तं दुःखं समुदय इत्येवमादि. 8.
(इ.9अब्) रूपम्
इति रूपस्कन्धः.
पंचेति
मनैन्द्रियव्युदासार्थं.
अर्था
विषयाः अर्यन्ते ज्ञायन्त इत्य् अर्थः. पुनः
पंचेति
ग्रहणं धर्मायतनविषयनिरासार्थं.
(इ.9च्द्) तद्विज्ञानाश्रया
इति. तच्छब्दो ऽर्थान् अपेक्षते. तेष्व् अर्थेषु तेषां वा विज्ञानानि तद्विज्ञानानि. ( अभिध्-क्-व्य् 24 ) तेषाम् आश्रयास् तद्विज्ञानाश्रयाः.
रूपप्रसादा
इति. रूपाणि च तानि प्रसादाश् च त इति रूपप्रसादाः. अनेन विशेषणेन मनैन्द्रियं निरस्तं भवति. मनो ऽपि हि तद्विज्ञानाश्रयः.
पंचानां सहजाश् च तैर्
इति सिद्धान्तात्. [अनुशयितास् ते.] न तु मनो रूपस्वभावम् इत्य् अतो निरस्तं. रूपग्रहणं [तिब्. 20ब्] त्व् इह श्रद्धाप्रसादनिरासार्थं. तद्विज्ञानाश्रया इत्य् अनेन विशेषणेन श्रद्धाया अप्रसंग इति चेत्. न. बहुव्रीहिकल्पनायां तत्प्रसंगसंभवात्. रूपग्रहणे तु बहुव्रीहिकल्पना निवर्तते. न हि रूपमयो ऽस्ति प्रसादो यस्य तद्विज्ञानान्य् आश्रयत्वेन कल्पेरन्. प्रसादग्रहणं पुनर् इन्द्रियग्राह्यवस्तुव्यतिरिक्तरूपप्रसादविशेषज्ञापनार्थं. वैभाषिका हि ब्रुवते. भूतविकारविशेषा एवेन्द्रियाणीति. प्रवचने तु नैवं. किं तर्हि. रूपादिविषयव्यतिरिक्तानि अच्छानि अतीन्द्रियाणि स्वविज्ञानानुमेयानि इन्द्रियाणि येषां चक्षुरादीनि अधिष्ठानानि दृश्यन्ते.
तद्विज्ञानाश्रया
इति च विशेषणम् अन्योन्यलक्षणसांकर्यनिवृत्त्यर्थं. यदि हि रूपप्रसादाश् चक्षुरादय इत्य् एतावद् अवक्ष्यत्. चक्षुर् अपि श्रोत्रादि वा चक्षुः. यतस् त्व् एवं विशेष्यते. रूपविज्ञानाश्रयो यो रूपप्रसादः. तच् चक्षुर् इति. अतो लक्षणसांकर्यं न भवति. न हि श्रोत्रम् अन्यद् वा इन्द्रियं रूपविज्ञानस्याश्रयः. एवं यावत् स्प्रष्टव्यविज्ञानाश्रयो यो रूपप्रसादः. तत् कायेन्द्रियम् इति वक्तव्यं. यथोक्तं भगवतेति. एतद् व्याख्यानं सूत्रानुगतम् इत्य् अभिप्रायः. कथम् इति. आध्यात्मिकम् इति विज्ञानाश्रय इत्य् अर्थः. आत्मशब्दो हि चित्तम् आत्मेत्य् उपचर्यत इति वक्ष्यते. आत्मनि अधि अध्यात्मम्. अध्यात्मम् एव आध्यात्मिकं. [तिब्. 21अ] आत्मनि चित्तलक्षणे कर्तव्ये हेतुर् इत्य् अयम् अर्थ आध्यात्मिकशब्देनोच्यते. विज्ञानाश्रय इति यावद् उक्तं भवति.
अथ वा यानीति विस्तरः. अथ वा
तच्-
छब्देन इन्द्रियाण्य् अभिसंबध्यन्ते. चक्षुर्विज्ञानं श्रोत्रविज्ञानम् इत्येवमादि प्रवचनप्रसिद्धम् एतत्. न तु रूपविज्ञानं शब्दविज्ञानम् इति. लोके तु कदाचिद् एवं भवेत्. तस्माद् इदं व्याख्यानान्तरम् आश्रीयते. तस्माद् आह. एवं च कृत्वा प्रकरणग्रन्थो ऽप्य् अनुवृत्त इति विस्तरः. कथम् इहासिद्धम् असिद्धेन साध्यते. चक्षुर् एव ह्य् असिद्धं. तदसिद्धौ चक्षुर्विज्ञानम् अप्य् असिद्धं. कथं तत् तेन तदाश्रयतया साध्यते. सिद्धा ( अभिध्-क्-व्य् 25 ) एवैते पंच विज्ञानविशेषाः. परस्परविशेषोपलक्षणार्थं तु वयम् एतैश् चक्षुरादिभिस् तान् विशेषयन्तो दर्शयामः. एतद् उक्तं भवति. एतस्य प्रथमस्यैकस्य स्वसंवेद्यस्य व्ज्ञानविशेषस्य य आश्रयो रूपप्रसादः. तच् चक्षुरिन्द्रियं. एवं यावद् एतस्य पंचमस्य स्वसंवेद्यस्य विज्ञानविशेषस्य य आश्रयो रूपप्रसादः. तत् कायेन्द्रियम् इति. नासिद्धेनासिद्धस्य साधनं.
(इ.10) रूपं द्विविधेति.
चक्षुषो ऽर्थो वर्णसंस्थानभेदाद् द्विःप्रकारः. लोकप्रतीतत्वात् तस्य स्वलक्षणं अनुक्त्वा प्रभेद एव कथ्यते. वर्णश् चतुर्विधो नीलादिर् इति. नीललोहितपीतावदाता वर्णाः. तद्भेदा अन्य इति अभ्रादयः. अपरे व्याचक्षते. तद्भेदा अन्य इति नीलादिवर्णचतुष्टयसंपर्कविशेषात् [तिब्. 21ब्] काकाण्डवर्णादयो ऽपि जायन्ते. न केवलम् अभ्राद्य इति. संस्थानम् आकृतिविशेषः. पुनस् तद् एवान्तर्गणिकेन भेदेन भिद्यते.
विंशतिधेति.
तद्यथा नीलपीतादि. संस्थानम् अष्टविधं दीर्घादिविसातान्तं. शेषो द्वादशविधो वर्ण इति विंशतिधा. नभश् चैकवर्णम् इति. यद् दूरतो वैडूर्यभित्त्याकारं दृश्यते. वृत्तं वर्तुलं. परिमण्डलं चक्रलं. उन्नतं स्थूलादिरूपं. अवनतं निम्नरूपं. यत्र रूपाणां दर्शनम् इति वचनं छायान्धकारयोर् नानाकरणप्रदर्शनार्थं. न विपंचितं न विभक्तम् इत्य् अर्थः.
इदम् इह विचार्यते. यदि नीलादिवर्णचतुष्टयभेदा एव अभ्रादयो न तद्व्यतिरिक्ता भवन्ति. यथेह काकाण्डादिवर्णा नोक्ताः. तथाभ्रादयो ऽपि न वक्तव्या इति. नैतद् व्याख्यानकारैर् विचारितं. शक्यं त्व् एवं भणितुं. मायारूपसदृशत्वात् नीलादिभेदभूता अपि ते अभ्रादयः पृथग् उक्ताः. तथा हि ते दूरतो भित्तय इव लक्ष्यन्ते अभ्यासगमने तु न दृश्यन्ते. मा कस्यचिद् एवं भूत्. नैतत् किंचिद् अस्ति. विमतिर् वा. किम् अस्त्य् एतत्. उत भ्रान्तिमात्रम् इति. तद्विपर्याससंशयनिवृत्त्यर्थम् इमे अभ्रादय उक्ताः. संत्य् एवामी रूपायतनस्वभावा इति. दीर्घादीनां प्रदेश इति. दीर्घादिविसातान्त [तिब्. 22अ] प्रदेश इत्य् अर्थः. कतरो ऽसौ प्रदेश इत्य् आह. कायविज्ञप्तिस्वभाव इति. कायविज्ञप्तिर् हि कदाचिद् दीर्घा कदाचिद् ध्रस्वा कदाचिद् यावद् विसातेति. कीदृशी पुनः सावगन्तव्या. तद् आलम्बनचित्तसमुत्थापितं यत् कायकर्म. अकायकर्मस्वभावं तु दीर्घादिविसातान्तं निरस्तं बोद्धव्यं. अस्त्य् उभयथा. परिशिष्टम् इति. यन् निरस्तं दीर्घादि. अभ्रधूमरजोमहिकाश् च.
दृश्यते हि नीलादीनां दीर्घादिपरिच्छेद इति. नीलपीतलोहितावदातच्छायान्धकाराणां दीर्घादिसंस्थानग्रहणं. तस्माद् एषाम् अपि तृतीयायां कोट्याम् अन्तर्भाव इत्य् अभिप्रायः. कथं पुनर् एकं द्रव्यम् उभयथा विद्यत इति. कथम् एकं द्रव्यं वर्णसंस्थानात्मकं भवति. वर्णरूपाद् धि संस्थानरूपं द्रव्यान्तरम् इति वः सिद्धान्तः. उभयस्य तत्र प्रज्ञानात्. वर्णसंस्थानस्य तत्र ग्रहणात्. ज्ञानार्थो ह्य् एष विदिर् न सत्तार्थ इति. विद ज्ञान इत्य् एतस्य धातोर् लुग्विकरणस्य एतद् रूपं विद्यत इति. न तु विद सत्तायाम् इत्य् एतस्य धातोः श्यन्विकरणस्यैतद् रूपम् इत्य् अर्थः. ज्ञानं तत्रोभयाकारं प्रवर्तते. न द्रव्यं एकम् उभयलक्षणम् इति वैभाषिकपरिहारः. कायविज्ञप्ताव् अपि तर्हि प्रसंग इत्य् आचार्यः. न हि कायविज्ञप्तौ गृह्यमानायां वर्णग्रहणं न प्रवर्तते. वैभाषिकाणाम् अयम् अभिप्रायः. नीलादिग्रहणम् आतपालोकग्रहणं वा संस्थाननिरपेक्षं प्रवर्तते. कायविज्ञप्तिग्रहणं तु वर्णनिरपेक्षं. परिशिष्टरूपायतनग्रहणं [तिब्. 22ब्] तु वर्णसंस्थानापेक्षं प्रवर्तत इति. सौत्रान्तिकपाक्षिकस् तु अयम् आचार्यो नैनम् अर्थं प्रयच्छति. न हि चाक्षुषम् एतत् संस्थानग्रहणं. मानसं त्व् एतत् परिकल्पितं. वर्णसंनिवेशविशेष एव हि संस्थानं. न संस्थानं नाम द्रव्यं किंचिद् अस्ति. वर्णाग्रहणे संस्थानग्रहणाभावात्. एतच् च कर्मकोशस्थाने परीक्षिष्यते.
सत्त्वासत्त्वाख्यश् चेति. वाग्विज्ञप्तिशब्दस् तद्व्यतिरिक्तश् चेत्य् अर्थः. सत्त्वासत्त्वसंख्यातश् चेति केचित् पठन्ति. अयम् एव च इहार्थो ऽभिप्रेतः. यदि हि सत्त्वासत्त्वसंतानज इति अयम् अर्थो ऽभिप्रेतो भवेत्. सत्त्वाख्यो वाग्विज्ञप्तिशब्दो ऽसत्त्वाख्यो ऽन्य इति एवं वक्ष्यमाणकं विवरणं निःप्रयोजनम् एव. तस्मात् सत्त्वासत्त्वाख्यश् चेति पाठः स्फुटः पठितव्यः. उपात्तमहाभूतहेतुक इति. प्रत्युत्पन्नानीन्द्रियाविनिर्भागानि भूतान्य् उपात्तानि. अन्यानि अनुपात्तानि. उपात्तानि महाभूतानि हेतुर् अस्येति उपात्तमहाभूतहेतुकः. यथा हस्तवाच्छब्द इति. यदि सत्त्वसंतानज इत्य् अभिप्रेतः. बाह्यो ऽपि हि निर्मितो मानुषाकारो हस्तवाच्छब्दं कुर्यात्. स चानुपात्तमहाभूतहेतुकस्वभावो ऽवगन्तव्य इन्द्रियविनिर्भागवर्तित्वात्. स च मानुषीम् अपि वाचं निर्मातृवशाद् भाषेत्. वक्ष्यति ह्य्
एकस्य भाषमाणस्य भाषन्ते सर्वनिर्मिताः.
एकस्य तूष्णींभूतस्य सर्वे तूष्णींभवन्ति ते.
तस्य च बाह्यनिर्मितशब्दस्य अनुपात्तमहाभूतहेतुक इत्य् अत्र ग्रहणं. यथा वायुवनस्पतिनदीशब्द [तिब्. 23अ] इति. यथाशब्दस्योदाहरणार्थत्वात्. ( अभिध्-क्-व्य् 27 )
सत्त्वाख्यो वाग्विज्ञप्तिसब्दो ऽसत्त्वाख्यो ऽन्य इति. सत्त्वम् आचष्टे सत्त्वाख्यः. वाग्विज्ञप्तिशब्देन हि सत्त्वो ऽयम् इति विज्ञायते. तं वाग्विज्ञप्तिशब्दं वर्जयित्वा अन्यः शब्दो हस्तशब्दो ऽपि यावद् असत्त्वाख्य एव. किम् अंग असत्त्वसंतानज इति व्याख्यातं भवति. तद् एवम् उपात्तमहाभूतहेतुकः सत्त्वाख्यश् चासत्त्वाख्यश् च भवति. अनुपात्तमहाभूतहेतुको ऽपि निर्मितशब्दो वाग्विज्ञप्तिस्वभावः सत्त्वाख्यः. तस्यैव हस्तशब्दो वायुवनस्पत्यादिशब्दश् चासत्त्वाख्य इति. चतुर्विधः शब्दो मनोज्ञामनोज्ञभेदात् पुनर् अष्टविधो भवति. यथैको वर्णपरमाणुर् इति. न भूतचतुष्कद्वयम् उपादाय वर्तते शद्बः. उपादायरूपत्वात्. वर्णपरमाणुवद् इति भावः.
रसः षोढेति.
षण्मूलजातिम् अधिकृत्यैवम् उक्तं. रसषट्कस्य अन्योन्यसम्पर्कविशेषात् त्व् अतिबहुप्रकारा रसाः संभवन्ति. एककद्विकत्रिकचतुष्कपंचकषट्कसम्पर्कयोगाद् धि चरके त्रिषष्टी रसा उपदिष्टाः.
सुगन्धदुर्गन्धयोः समविषमगन्धत्वाद् इति. अनुत्कटोत्कटगन्धत्वाद् इत्य् अर्थः. अस्मिन् पक्षे द्विविधो गन्ध इष्टः. त्रिविधस् तु शास्त्र इति. समगंधो ऽन्यस् तृतीय इत्य् अर्थः. [तिब्. 23ब्] अपरे पुनर् व्याचक्षते. समगन्ध इति तयोर् एवैकदेश इति स एवार्थो भवति. शब्दमात्रं तु भिद्यते.
शीतम् उष्माभिलाषकृद् इति. संभवं प्रत्य् एवम् उच्यते. यो धर्म उष्माभिलाषं कुर्यात्. तच् छीतं नामोपादायरूपं. ग्रीष्मे यद्य् अपि तन् न कुर्यात् तज्जातीयत्वात् तु शीतम् एव तद् अवगन्तव्यं. कारणे कार्योपचाराद् इति. अत्तुमिच्छा जिघत्सा चैतसिको धर्मः. तस्य कारणं. अन्तर् उदरे कायेन्द्रियेण यः स्पृश्यते. सा जिघत्सा नामोपादायरूपं. यथा
बुद्धानां सुखम् उत्पाद
इत्यादि अभ्युदयनिःश्रेयससुखकारणत्वात् बुद्धोत्पादस्य स सुखम् इत्य् उच्यते. तद्वत्. एवं पिपासापि वक्तव्या. संचितानि पुनस् तुल्यन्त इति सूक्ष्मगुरुत्वसद्भावाद् इत्य् अभिप्रायः. अत्रानुमानं. सगुरुत्वं रूपावचरं वस्त्रादि. आधाराधेयभावात्. कुण्डबदरवद् इति. अनुग्राहकं किलास्तीति. किलशब्दो वैभाषिकमतद्योतनार्थं. स्वमतं तु समाधिर् एवात्रानुग्राहकः. किम् अत्र शीतेन परिकल्पितेनेति. यदा तत्प्रकारव्यवच्छेद इति. यदा नीलादिप्रकारनिमित्ताभोगः. एवं श्रोत्रादिविज्ञानम् इति. य एष बहुविधः शब्द उक्तः. तत्र कदाचिद् एकेन द्रव्येण श्रोत्रविज्ञानम् उत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति. कदाचिद् बहुभिर् यदा न व्यवच्छेदः. तद्यथा [तिब्. 24अ] तूर्यशब्दसमूहम् अनेकाकारतारमन्द्रतादिशब्दरूपं शृण्वतः. एवं घ्राणजिह्वाविज्ञाने अपि स्वविषये योज्ये. कायविज्ञानं तु ( अभिध्-क्-व्य् 28 ) परं पंचभिर् इति. कथं. कदाचिद् एकेन द्रव्येणोत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति. कदाचिद् द्वाभ्यां यावत् पंचभिर् यदा न व्यवच्छेदः. एकेन च श्लक्ष्णत्वादिनेति. किम् अत्र कारणं. कर्कशत्वादीनाम् अन्यभूतचतुष्काश्रितत्वात्. ननु चैवम् इति विस्तरः. यथा चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानालम्बनान्य् अभिसमस्य मनोविज्ञानं गृह्णातीति कृत्वा सामान्यलक्षणविषयं तद् व्यवस्थाप्यते. तथा नीलपीतलोहितावदातालम्बनानां चतुर्णां चक्षुर्विज्ञानानां तानि चत्वारि बहुतराणि चालम्बनान्य् अभिसमस्य चक्षुर्विज्ञानम् एकं गृह्णातीति सामान्यलक्षणविषयं तत् प्राप्नोति. रूपायतनसामान्यलक्षणम् अस्यालम्बनम् इति कृत्वा. तथा श्रोत्रघ्राणजिह्वाकायविज्ञानान्य् अपि स्वविषयेषु योज्यानि. आयतनस्वलक्षणं प्रतीति. स्वं लक्षणं स्वलक्षणं. आयतनानां स्वलक्षणं आयतनस्वलक्षणं. चक्षुर्विज्ञानविज्ञेयत्वादि. रूपायतनत्वादि वा. तत् प्रत्य् एते पंच विज्ञानकायाः स्वलक्षणविषया इष्यन्ते प्रवचने. न द्रव्यस्वलक्षणं प्रति स्वलक्षणविषया इष्यन्ते इति प्रकृतं. द्रव्याणां नीलादिकानां स्वलक्षणं नीलाद्याकारचक्षुर्विज्ञानादिविज्ञेयत्वं. [तिब्. 24ब्] नीलाकारादि वा. न तत् प्रत्य् एते पंच विज्ञानकायाः स्वलक्षणविषया इष्यंते इत्य् अदोषः. युगपद्विषयसंप्राप्ताव् इति. कायजिह्वेन्द्रिययोर् युगपद्विषयसंप्राप्तिः संभवति. द्वयोश् च विज्ञानयोर् युगपत्प्रवृत्तिर् न संभवति. अतः पृच्छति. कतरद् विज्ञानं पूर्वम् उत्पद्यत इति. यस्य विषयः पटीयान्. यदि कायेन्द्रियस्य विषयः पटुतरः कायविज्ञानं पूर्वम् उत्पद्यते. अथ जिह्वेन्द्रियस्य विषयः पटीयान् जिह्वाविज्ञानं पूर्वम् उत्पद्यते. समप्राप्ते तु विषये तुल्य इत्य् अर्थः. जिह्वाविज्ञानं पूर्वम् उत्पद्यते. कस्मात्. भोक्तुकामतावर्जितत्वात् संततेः. भोजनेच्छाप्रवणत्वात् आत्मभावस्येत्य् अर्थः. पूर्वं जिह्वाविज्ञानम् उत्पद्यत इति वचनात् पश्चात् कायविज्ञानम् उत्पत्स्यत इत्य् अर्थाद् उक्तं भवति. तेनात्र विचार्यते. किं यो ऽसौ जिह्वाविषयक्षणेन सह प्राप्तः कायविषयक्सण आसीत्. तत्र तत् कायविज्ञानम् उत्पद्यते. आहोस्विद् अन्यस्मिन् कायविज्ञानविषयक्षण इति. अन्यस्मिन्न् इत्य् आह. कथम् आलम्बननियमो न भिद्यते. नैष दोषः. यत् तद्विषयालंबनं विज्ञानं. तद् अप्रतिसंख्यानिरोधनिरुद्धं. अन्यत् तु तत्सदृशं कायविज्ञानम् उत्पद्यत इति. अतः पश्चात् तद् उत्पद्यते इत्य् उच्यते जातिसामान्येनैकत्वोपचारात्.
(इ.11) अनेककथाप्रपंचव्यवहितत्वात् नष्ट इवाविज्ञप्तेर् उद्देशधिकार इति. अत इदम् उपन्यस्यति. उक्ताः पंचेन्द्रियार्था यथा च तेषां ग्रहणम् इति. कदाचिद् एकेन द्रव्येण चक्षुर्विज्ञानम् उत्पद्यत इत्येवमादिना. [तिब्. 25अ] तेषां तु ग्रहणम् इति कर्मणि षष्ठी. अविज्ञप्तिर् इदानीं वक्तव्येति.
रूपं पंचेन्द्रियाण्य् अर्थाः पंचाविज्ञप्तिर् एव चेत्य्
अविज्ञप्तिर् एवावशिष्यते. तस्या लक्षणनिर्देशावसर इति वक्तव्या.
विक्षिप्ताचित्तकस्येति.
केचिद् एवं वृत्तिं पठन्ति. अस्मिं पाठे एवं सूत्रविग्रहः. विक्षिप्तं नास्ति वा चित्तम् अस्येति विक्षिप्ताचित्तकः. अथ वा विक्षिप्तं चित्तं नास्ति वा चित्तम् अस्येति विक्षिप्ताचित्तकः. एकस्य चित्तशब्दस्य लोपः. केचिद् एवं पठन्ति. विक्षिप्तस्येति. अस्मिन् पाठे उत्तरपदद्वयस्य बहुव्रीहिं कृत्वा पश्चाद् एवं विग्रहः. विक्षिप्तश् चाचित्तकश् च विक्षिप्ताचित्तकः. विक्षिप्तः पुद्गलः विक्षिप्तचित्त इत्य् अर्थः. विक्षिप्तचित्तस्येति तदन्यचित्तस्यापीति अविक्षिप्तचित्ताद् अन्यचित्तस्येत्य् अर्थः. तद्यथा कुशलाया अविज्ञप्तेः समुत्थापकं चित्तं कुशलं. तदन्यचित्तो ऽकुशलाव्याकृतचित्तः. स इह विक्षिप्तचित्तो ऽभिप्रेतः. अकुशलायास् त्व् अविज्ञप्तेर् अकुशलं चित्तं समुत्थापकं. तदन्यचित्तः कुशलाव्याकृतचित्तः. स चापि विक्षिप्तचित्तो वेदितव्यः. तस्य. तदन्यचित्तस्यापि. अचित्तकस्यापीति असंज्ञिनिरोधसमापत्तिसमापन्नस्यापि. अपिशब्देनाविक्षिप्तसचित्तकस्यापीति विज्ञायत [तिब्. 25ब्] इति. एतत्पुद्गलद्वयव्यतिरिक्तस्य तृतीयस्याप्य् अर्थः. यो ऽनुबन्ध इति प्रवाह इति. यो धर्मो नित्यप्रवाहयुक्त इत्य् अर्थः. प्रवाहेन प्रवाही निर्दिश्यते प्रवाहोपलक्ष्यत्वात्. अथ वा अनुबध्नातीति अनुबन्धः. प्रवाह इति च व्याख्यापदं कृतबहुव्रीहिकं. प्रवृत्तः प्रकृष्टो वा वाहो ऽस्येति प्रवाहो धर्मः. स एव निर्दिश्यते. न तत् स्रोतः. कुशलाकुशल इति. कुशलाकुषल एवेत्य् अवधारणं. अव्याकृतो नस्तीत्य् अर्थः. एतेन चक्षुरादयो व्यदस्ता वेदितव्याः. प्राप्तिप्रवाहो ऽप्य् अस्ति ईदृश इति. तत्प्राप्तिर् अपि विक्षिप्ताविक्षिप्तचित्तस्यापि प्रवाहिणी कुशलाकुशलैव चेति तद्विशेषणार्थम् उच्यते. महाभूतान्य् उपादायेति. महाभूतहेतुक इत्य् अर्थः. यथेन्धनम् उपादायाग्निर् भवतीत्य् उक्ते. इन्धनहेतुको ऽग्निर् इति गम्यते. जननादिहेतुभावाद् इति.
जननान् निश्रयात् स्थानाद् उपस्तम्भोपबृंहणात्.
जननहेतुस् तेभ्य उत्पत्तेः. निश्रयहेतुर् जातस्य भूतानुविधायित्वाद् आचार्यादिनिश्रयवत्. प्रतिष्ठाहेतुर् आधारभावात् चित्रकुड्यवत्. उपस्तम्भहेतुर् अनुच्छेदहेतुत्वात्. उपबृंहणहेतुर् वृद्धिहेतुत्वात्. कतमान्य् महाभूतान्य् उपादाय. किम् आश्रयमहाभूतानि. उताहो निश्रयमहाभूतानि. आश्रयमहाभूतानीत्य् आहुः. तन्नामकरणज्ञापनार्थ इति. यस्माद् रूपक्रियास्वभावापि सती [तिब्. 26अ] विज्ञप्तिवत् परं न विज्ञापयति. तस्माद् अविज्ञप्तिर् ( अभिध्-क्-व्य् 30 ) इत्य् अर्थः. रूपक्रियास्वभावापीत्य् उभयविशाषणं. किम् अर्थं. यद् धि वस्तु रूपस्वभावम् एव न कृइयास्वभावं. तन् न परं गमयति. तद्यथा चक्षुरादयः. यद् अपि क्रियास्वभावम् एव न रूपस्वभावं. तद् अपि परं न गमयति. तद्यथा चेतना. यत् तूभयस्वभावं. तत् परं गमयति. तद्यथा विज्ञप्तिः. विज्ञप्तिर् हि स्वसमुत्थापकं चित्तं कुशलाकुशलाव्याकृतं सौम्यं क्रूरम् अनुभयम् इति वा परं विज्ञापयति. तेन विज्ञप्तिवद् इति विपरीतदृष्टान्तप्रयोगः.
समासतस् त्व् इति विस्तरः. शिष्यसुखावबोधार्थं संक्षेपतो वाक्येन तद् अविज्ञप्तिरूपं दर्शयत्य् आचार्यः. विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपम् अविज्ञप्तिर् इति. यथासंभवम् एतत् योज्यं. कायवाक्विज्ञप्तिसंभूतं कुशलं प्रातिमोक्षसंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च. अकुशलं पुनर् असंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च. समाधिसंभूतं तु कुशलम् एव. तद् द्विविधं. सास्रवसमाधिसंभूतं ध्यानसंवरस्वभावं. अनास्रवसमाधिसंभूतं अनास्रवसंवरस्वभावं. उपादायरूपस्वभावं च. न चित्तचैतसिकादिस्वभावम् [तिब्. 26ब्] इत्य् अवगन्तव्यं. ननु चैवं विज्ञप्तिर् अपि अविज्ञप्तिः प्राप्नोति. सापि उत्तरा सभागहेतुभूतपूर्वविज्ञप्तिसंभूता. कुशलाकुशलम् एवेत्य् अवधारणात् विज्ञप्ताव् अप्रसंगः. विज्ञप्तिर् ह्य् अव्याक्र्तापि संभवति. अत एव दिव्यं चक्षुः श्रोत्रं च समाधिसंभूतम् अपि सत् विज्ञप्तिजं च विपाकरूपं नाविज्ञप्तिः प्रसजतीति.
अत्राचार्यसंघभद्र इदम् अविज्ञप्तिलक्षणसूत्रं दूषयति.
न्यूनं शास्त्रापेतं हानिर् अतस्याः प्रसज्यते तत्त्वं
अपिशब्दाधिकवचनं विशेष्यं अविशेषितं चात्र.
अनुबन्धो हि प्रवाहस् तेनैव व्याखातः. न चाद्यः क्षणः प्रवाहो मा भूद् अतिप्रसंगः. तस्मात् तस्यात्र लक्षणेनास्त्य् अवरोध इति न्यूनं प्रवाहस्य चाद्रव्यत्वात् अद्रव्यम् अविज्ञप्तिर् इति शास्त्रापेतं. समाहितायाश् च नास्ति विक्षिप्तचित्ताचित्तकस्यानुबन्ध इति सा चाविज्ञप्तिर् न प्रसज्यत इति हानिः. अविक्षिप्तचित्तकस्य तदनुबन्धान् नैष दोष इति चेत्. शुभाशुभाया विज्ञप्तेर् अविज्ञप्तिलक्षणप्रसंग इत्य् अतस्याः प्रसज्यते तत्त्वं. अचित्तकस्यापीति चापिशब्दवैयर्थ्यं पूर्वेणैव कृतत्वात्. विक्षिप्तचित्तकस्यापीति अनेन हि सर्वसचित्तकावस्थाग्रहणं. का पुनर् अन्या अवस्था. या द्वितीयेनापिशब्देन संगृह्येतेति अपिशब्दाधिकवचनं. अचित्तकं चाधिकृत्य शुभो [तिब्. 27अ] ऽविज्ञप्त्यनुबन्धो विशेषणीयः. न च व्याख्याने ऽपि विशेषित इति विशेष्यम् अविशेषितम्. ( अभिध्-क्-व्य् 31 ) इदं चापरं विशेष्यम् अविशेषितम् अप्रतिघं रूपम् इति. एवम् अनेकदोषदुष्तत्वात् न संबद्धम् एतल् लक्सणम् इति. अत्र ब्रूमः. यत् तावद् उक्तं न्यूनं प्रवाहस्याविज्ञप्त्युपदेशाद् आद्यः क्षणो नाविज्ञप्तिः स्याद् इति. इदं तावद् असौ प्रष्टव्यः. को ऽयं प्रवाहो नाम. बहुषु क्षणेषु प्रवाह इत्य् आख्या. यद्य् एवं आद्यो ऽपि क्षणः प्रवाहः सिध्यति. प्रथमक्षणप्रभृतिबहुषु क्षणेषु प्रवाह इति कृत्वा. तथा ह्य् उत्सात् तडागाद् वा निर्गच्छताम् उदकानाम् आद्योदकावयवप्रभृतिषु प्रवाहसंज्ञेति. नास्त्य् अव्यापिता लक्षणस्य. यदा चानुबध्नातीति अनुबन्ध इत्य् अच्प्रत्ययान्तेन पदेन द्रव्यम् एव निर्दिश्यते. तदा न्यूनताशंकापि नास्ति. अत एव शास्त्रापेततादोषो ऽपि परिहृतो भवति. अथाप्य् अनुबंधनम् अनुबंध इति स्रोतो ऽभिधीयते. तथाप्य् अदोषो रूपाधिकारात्. प्रवाहवर्तित्वात् तु प्रवाहशब्देन प्रदर्श्यते. समाहिताया अप्य् अविज्ञप्तेर् अग्रहणं न भवति. सापि हि यद्य् अपि विक्षिप्तचित्ताचित्तकसंतानं नानुबध्नातीति अविक्षिप्तकसचित्तसंतानं त्व् अनुबध्नात्य् एव. अविज्ञप्तिजातिसामान्येन तु विक्षिप्ताचित्तकस्यापि यो ऽनुबन्धः. साविज्ञप्तिर् इति उच्यते. यत् पुनर् एतद् उक्तं. अविक्षिप्तचित्तकस्य तदनुबन्धान् नैष दोष इति चेद् इति. यद्य् अविक्षिप्तचित्तस्य [तिब्. 27ब्] केवलस्य यो ऽनुबन्धः. साप्य् अविज्ञप्तिर् इति समाहिताया अविज्ञप्तेस् त्यागो न भवतीति ब्रवीषि. विज्ञप्तिर् अपि कुशलाकुशला तथैव भवतीत्य् अविज्ञप्तिस् ते प्राप्नोतीति. स चाप्य् अदोषः शुभाशुभ एवेत्य् अवधारणात्. विज्ञप्तिर् ह्य् अव्याकृतापि संभवतीति. न विज्ञप्तिर् अविज्ञप्तिः प्रसज्यते. अथ वा प्रकर्षगतेर् एष प्रसंगो न भविष्यति. प्रकर्षेण हि यो ऽनुबन्धः. सैवाविज्ञप्तिः. न च विज्ञप्तिर् अविज्ञप्तिवत् प्रकर्षेणानुबध्नातीति. अविज्ञप्त्यनिरोधे ऽपि तन्निरोधदर्शनात्. यद् अप्य् उक्तम्. अपिशब्दाधिकवचनम् इति. तद् अप्य् अयुक्तम् उक्तं. तथा ह्य् एक एवेह सूत्रे पठितो ऽपिशब्दः. वृत्तौ तु तेन पुद्गलद्वयेन तदर्थः सम्बध्यत इति द्विः पुनः पठितः. तेनैकेन सूत्रपठितेनापिशब्देन विक्षिप्तविपरीतम् अविक्षिप्तम् अचित्तकविपरीतं च तम् एव सचित्तकं तृतीयं पुद्गलम् अविज्ञप्त्याश्रयं ब्रुवन्न् आचार्यः स्वनामोक्तं विक्षिप्ताचित्तकपुद्गलद्वयं जातिसामान्येनाविज्ञप्त्याश्रयं प्रदर्शयन् विज्ञप्तिचित्तचैत्तेभ्यो ऽर्थान्तरभूताम् अविज्ञप्तिम् आचष्टे. त्रय एव हि पुद्गला भवन्ति विज्ञप्तिचित्तविसभागचित्तो विज्ञप्तिचित्तसभागचित्तो अचित्तकश् च. तत्र विज्ञप्तिचित्तविसभागचित्तो विक्षिप्तचित्त इहाभिप्रेतः. तस्य सा वाक्कायविज्ञप्तिर् [तिब्. 28अ] निरुद्धा भवति. अचित्तकस्य तु चित्तचैत्ता अपि निरुद्धा इति. तत्र विज्ञप्तेश् चित्तचैतसिककलापाच् चार्थान्तरभूतेयम् अविज्ञप्तिः. यत एभ्यो ऽनुबन्धिनीत्वेन विशिष्यते. तम् एवार्थं दर्शयन्न् आह.
विक्षिप्ताचित्तकस्यापीति.
अविक्षिप्तचित्तस्याविज्ञप्तिर् वर्तत इति नातिशयः. विज्ञप्तिर् अपि हि तस्य वर्तते. विक्षिप्तचित्तस्यापि तु वर्तत इत्य् अतिषयः. विज्ञप्तिर् हि तस्य नास्ति. अविज्ञप्तिस् त्व् अनुबन्धिनीति विज्ञप्तेर् विशिष्यते. तथा विक्षिप्तचित्तकस्याविज्ञप्तिर् वर्तत इति नातिशयः. चित्तचैत्ता अपि हि तस्य वर्तन्त एव. अचित्तकस्यापि तु वर्तते इति अतिशयः. तस्य हि चित्तचैत्ता निरुद्धाः. अविज्ञप्तिस् त्व् अनुबन्धिनीति चित्तचैत्तेभ्यो विशिष्यते. तद् एवं धर्मान्तरविशेषणार्थं अविक्षिप्तचित्तो विक्षिप्ताचित्तकतृतीयभूतस् तेनैकेनाप्य् अपिशब्देनाभिधीयते. अत एव चापिशब्देनाविक्षिप्तसचित्तकस्यापीत्य् उक्तम् आचार्येण. तृतीयभूतत्वात्. इतरथा ह्य् अपिशब्देनाविक्षिप्तचित्तकस्यापीत्य् एवावक्ष्यत् सचित्तकस्यापीति वा. तद्यथा त्रयो लोके मनुष्याः. एको धनवान् इतराव् अपि धनमात्रवन्तौ. ताव् अभिसमीक्ष्य विष्णुमित्रस्य धनम् अस्तीत्य् एकेनोक्ते द्वितीयो वक्ता भवेत्. एवदत्तयज्ञदत्तयोर् [तिब्. 28ब्] अपि धनम् अस्तीति. अपिशब्देन विष्णुमित्रस्याप्य् अस्तीति. एवदत्तयज्ञदत्तगतेन द्वैतम् इवापन्नेनापिशब्देन स एव विष्णुमित्रो लक्ष्यते न त्व् अवसृज्यते इत्य् अर्थः. तेन नात्रापिशब्दो ऽधिक एव. तद्वद् इहापि द्रष्टव्यं. यत् पुनर् एतद् उक्तं. अचित्तकं चाधिकृत्य शुभो ऽविज्ञप्त्यनुबन्धो विशेषणीय इति. तद् अपि न किंचित्. अविज्ञप्तिजातिम् अधिकृत्यैतल् लक्षणं प्रणीतं. सा चाविज्ञप्तिजातिर् अचित्तकस्य भवतीति एतावद् विवक्षितं. किम् अनेन विशेषितेन. त्वदीये ऽप्य् अविज्ञप्तिलक्षणे शुभो ऽविज्ञप्त्यनुबन्धो अचित्तकम् अधिकृत्य न विशेषितः.
कृते ऽपि विसभागे ऽपि चित्ते चित्तात्यये च यत्
व्याकृताप्रतिघं रूपं सा ह्य् अविज्ञप्तिर् इष्यत
इति. एषा च विज्ञप्तिसंभूता कुशलैवाविज्ञप्तिर् अचित्तकस्य संभवतीति चतुर्थे कोशस्थाने ज्ञापयिष्यते. यच् चाप्रतिघम् इति अविशेषितम् इति. तद् अपि पश्चाद् दर्शयिष्यामः.
सप्रतिघा दश
रूपिण
इत्य् अत्र. दशैव धातवः सप्रतिघा इत्य् अवधारणात्. अविज्ञप्तिर् धर्मधातुपरिपठिता. सा त्व् अप्रतिघेति सेत्स्यति. तस्माद् इदम् आस्माकीनम् एवम् अदोषदुष्टम् अविज्ञप्तिलक्षणम् इति. तद् एवास्तु.
(इ.12) भूतानि पृथिवीधातुर्
इति विस्तरः. धातुग्रहणं वर्णसंस्थानात्मकपृथिव्यादिनिरासार्थं. स्वलक्षणोपादायरूपधारणाद् [तिब्. 29अ] धातव इति. काठिन्यादिस्वलक्षणं ( अभिध्-क्-व्य् 33 ) चक्षुराद्युपादायरूपं च दधातीति धातवः. अष्टादशधातवस् तु स्वसामान्यलक्षणधारणात्. गोत्रार्थो वा धात्वर्थः धारणार्थम् अनपेक्स्य. षड्धाधातुदेशनायां पुनर्भवबीजार्थो वा धात्वर्थः भवं पुष्णन्तीति कृत्वा. महत्त्वम् एषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वाद् इति. सर्वोपादायरूपाश्रयत्वेन महत्त्वाद् इत्य् अर्थः. तदुद्भूतवृत्तिष्व् इति. तैर् महाभूतैर् उद्भूता व्यक्ता वृत्तिर् धृत्यादिका येषु. त इमे तदुद्भूतवृत्तयः पृथिव्यप्तेजोवायुस्कन्धाः. तेषु. एषां महाभूतानां महासंनिवेशत्वान् महारचनत्वात् भूतं तन्वन्तीति भूतानि.
धृत्यादिकर्मसंसिद्धा
इति. धृत्यादिकर्मनिर्देशः पृथिव्यादिषु शेषानुमानार्थं. उपलादिके हि पृथिवीद्रव्ये संग्रहपक्तिव्यूहनदर्शनाच् छेषाणां जलतेजोवायूनाम् अस्तित्वम् अनुमीयते. अप्सु नौसंधारणोष्णतेरणकर्मदर्शनात् पृथिवीतेजोवायूनाम् अस्तित्वं. अग्निज्वालायां स्थैर्यसम्पिण्डनचलनदर्शनात् पृथिव्युदकवायूनाम् अस्तित्वं. वायौ संधारणशीतोष्णस्पर्शदर्शनात् पृथिव्यप्तेजसाम् अस्तित्वम् इति वैभाषिकाः. व्यूहनं पुनर् वृद्धिः प्रसर्पणं वेति. वृद्धिः सम्बन्धाधिकशरीरंकुराद्यवयवोत्पत्तिः. प्रसर्पणं शरीरादीनां प्रबन्धेन देशन्तरोत्पत्तिः.
उष्णतेति
स्वभावाभिधाने ऽपि भावप्रत्ययः. उष्ण एव उष्णतेति. [तिब्. 29ब्] देशन्तरोत्पादनात् प्रदीपेरणवद् इति. क्षणिकानां नास्ति देशान्तरगमनं यत्रैवोत्पत्तिः. तत्रैव विनाशः. तेनैवम् उच्यते. देशान्तरोत्पादनस्वभावा भूतस्रोतस ईरणा. क्षणिकत्वात्. प्रदीपवत्. क्षणिकानि च भूतानि. रूपत्वात्. प्रदीपवत्. प्रदीपश् च क्षणिकः प्रसिद्ध इत्य् उदाहरणं. कर्मणास्य स्वभावो ऽभिव्यक्त इति. ईरणाकर्मणा लघुत्वं विशिष्यते. यद् ईरणात्मकं लघुत्वं. स वायुधातुर् इति. लघुसमुदीरणो वायुधातुः. लघ्व् एव तु यत्. तद् उपादायरूपं.
(इ.13) प्रवचने पृथिवीधात्वादयः पृथिव्यादयश् चोक्ता इत्य् अतः पृच्छति. कः पुनर् एषां विशेष इति.
लोकसंज्ञयेति
लोकसंव्यवहारेण. वात्येति वातानां समूहो वात्या. ब्राह्मणादिभ्यो यन्न् इति समूहार्थे यन्प्रत्ययः. स्त्रीत्वाच् चाप्प्रत्ययः.
तथा ह्य् अर्थवर्गीयेषूक्तम् इति. अर्थवर्गीयाणि सूत्राणि क्षुद्रके पठन्ते. ( अभिध्-क्-व्य् 34 ) तेषूक्तं.
तस्य चेत् कामयानस्येति
विस्तरः.
तस्य
देहिनः
कामयानस्य छन्दजातस्य
यदि
कामा
विषया
न समृध्यन्ते
न सम्पद्यन्ते.
शल्यविद्ध इवसौ रूप्यते.
बाध्यत इत्य् अर्थः. बाधनार्थपरिच्छिन्नेनानेन रूप्यतेशब्देन रूप्यते रूप्यत इति भिक्षव इत्य् अत्र सूत्रे रूप्यतेशब्दो बाधनार्थ एव परिच्छिद्यते. शल्यविद्धः कामयानश् च [तिब्. 30अ] दुःखवेदयितृत्वाद् बाध्यत इति युक्तं. रूपं तु कथं बाध्यते. अत आह. विपरिणामोत्पादनेति. विक्रियोत्पादनेत्य् अर्थः. तथा चेहार्थे सति
शल्यविद्ध इव रूप्यते
इत्य् अत्रापि यदि विक्रियत इत्य् अर्थो गृह्यते. सुतराम् अर्थो युज्यते. प्रतिघात इति. स्वदेशे परस्योत्पत्तिप्रतिबन्धः. परमाणुरूपं तर्हीति. द्रव्यपरमाणुरूपं न रूपं प्राप्नोति. कस्मात्. अरूपणात्. निरवयवत्वे सति अरूपणाद् इत्य् अभिप्रायः. पक्षद्वये ऽप्य् एतच् चोद्यम् उपन्यस्तं. बाधनरूपणे प्रतिघातरूपणे च द्रव्यपरमाणुर् निरवयवत्वान् न शक्यते रूपयितुम् इति. न वै परमाणुरूपम् एकं पृथग्भूतम् अस्तीति. एकम् इति ग्रहणं द्रव्यपरमाणुसंदर्शनार्थं. पृथग्भूतम् असंघातस्थम् इत्य् अर्थः. तद् ईदृग् नास्ति. संघातस्थं नित्यं भवति.
कामे ऽष्टद्रव्यको ऽशब्द
इत्यादिवचनात् संघातस्थं तद् रूप्यत एवेति. अर्थाद् एतद् अभीष्टं भवति. तद् द्रव्यपरमाणुरूपं संघातस्थं रूप्यते बाध्यते प्रतिहन्यते च. अतीतानागतं तर्हीति विस्तरः. अतीतानागतम् अदेशत्वान् न रूप्यते न बाध्यते नापि प्रतिहन्यते. तद् अपीति विस्तरः. [तिब्. 30ब्] तद् अपि रूपितम् इत्य् अतीतबाधनप्रतिघातनार्थेन. रूपयिष्यमाणम् इत्य् उत्पत्तिधर्मकम् अनागतं. तेनैवार्थद्वयेन. तज्जातीयं चेत्य् उत्पत्तिधर्मकजातीयम् अनुत्पत्तिधर्मकम् ( अभिध्-क्-व्य् 35 ) अनागतं. इंधनवत्. यद् अपीद्धं यद् अपीन्धिष्यमाणं तज्जातीयं च. तद् अपीन्धनम्. तज्जातीयं पुनर् इन्धनं यद् इन्धनार्थे कल्पितम् अप्राप्यैवाग्निम् अंतरा नंक्ष्यति. अविज्ञप्तिस् तर्हि न रूपं प्राप्नोति. कस्मात्. अप्रतिघत्वात्. अप्रतिघत्वेन हि सा न बाध्यते नापि प्रतिहन्यते. सापि विज्ञप्तिरूपणाद् इति विस्तरः. विज्ञप्तिर् अविज्ञप्तिसमुत्थापिका. तस्याः सप्रतिघाया रूपणात् अविज्ञप्तिर् अपि रूप्यते. यथा छायासमुत्थापकस्य वृक्षस्य प्रचलनात् छाया प्रचलति. तद्वत्. नाविकाराद् इति. अनेन प्रतिज्ञादोष उद्ग्राह्यते. परेण ह्य् एवं प्रतिज्ञातं. स्वसमुत्थापकविकारानुविधायिनी अविज्ञप्तिः. समुत्थाप्यत्वात्. वृक्षछायावद् इति. सेयं पूर्वाभ्युपगमविरोधिनी प्रतिज्ञा. अभ्युपगतो हि विज्ञप्तेर् विकारे ऽपि अविज्ञप्तेर् अविकारः. तथा ह्य् अंजलिं भंक्त्वा कपोतं कुर्वतः कायविज्ञप्तिर् विक्रियत इत्य् अभ्युपगम्यते न त्व् अविज्ञप्तिः. तस्माद् असाधनम् एतत्. विज्ञप्तिनिवृत्तौ वाविज्ञप्तिनिवृत्तिः स्याद् [तिब्. 31अ] इत्य् अनेन धर्मिविशेषविपर्ययो ऽप्य् अस्याः प्रतिज्ञाया उद्ग्राह्यते. यदि वृक्षछायाधर्म इष्यते वृक्षनिवृत्तौ छायानिवृत्तिर् दृष्टेति. तद्वत् स्यात्. अत्र कश्चिन् नाविकाराद् इति न सम्यग् एतद् उक्तम् इति दूषयति. विक्रियत एवाविज्ञप्तिर् विज्ञप्तिविकारे सति. मृदुमध्याधिमात्रत्वे हि विज्ञप्तेर् मृदुमध्याधिमात्रता भवत्य् अविज्ञप्तेर् इति. तद् एतद् अयुक्तं. कस्मात्. उत्पत्तिर् एवाविज्ञप्तेर् एवं भवति. मृदुर् मध्याधिमात्रा वा. न तु विकारः. उत्पन्नस्य हि धर्मस्य पुनरन्यथोत्पादनं विकारः. तच् च रूपणम् अभिप्रेतम्. आश्रयभूतरूपणाद् इति अपर इति. वृद्धाचार्यवसुबन्धुः. भूतग्रहणम् आश्रयभूतप्रदर्शनार्थं. अतश् चेतरः प्रसंजयति. एवं तर्हि चक्षुर्विज्ञानादीनाम् अपीति विस्तरः. चक्षुराद्याश्रयरूपणात् तद्विज्ञानानाम् अपि रूपत्वप्रसंगः. विषमो ऽयम् उपन्यास इति. वृद्धाचार्यवसुबन्धुदेशीयः कश्चित् परिहरति. अविज्ञप्तिर् हीति विस्तरः. छाया वृक्षम् उपश्लिष्टाश्रित्य वर्तते. प्रभापि मणिं तथैव. उत्पत्तिनिमित्तमात्रं तानि तेषाम् इति. नोपश्लिष्टानीति भावः. तम् इतरः इतरः. प्रत्याह. इदं तावद् अवैभाषिकीयम् इति विस्तरः. नैतद् वैभाषिकमतं. वैभाषिकमतं तु छाया वर्णपरमाणुः स्वभूतचतुष्कम् आश्रित्य वर्तते [तिब्. 31ब्] न वृक्षं. तथा प्रभा वर्णपरमाणुः स्वभूतचतुष्कम् आश्रित्य वर्तते न मणिं. पृथग्द्रव्यत्वात्. इत्य् एवम् अनाश्रयकारणत्वान् मणिवृक्षयोः न महाभूतविज्ञप्तिवत् उपश्लिष्टे छायाप्रभे इति असामान्यं दृष्टान्तदार्ष्टान्तिकयोः. सत्य् अपि च तदाश्रितत्व इति विस्तरः. अथापि पारंपर्येण तदाश्रितत्वम् अभ्युपगम्यते. छाया स्वभूताश्रिता. तानि तु भूतानि वृक्षम् आश्रितानि. प्रभापि स्वभूताश्रिता. तानि तु भूतानि मणिम् आश्रितानि. तदनुविधायित्वात्. तथाप्य् असामान्यं. ( अभिध्-क्-व्य् 36 ) निरुद्धेष्व् अप्य् अविज्ञप्त्याश्रयेषु महाभूतेषु तस्या अनिरोधाभ्युपगमाद् इति.
क्षणाद् ऊर्ध्वम् अविज्ञप्तिः कामाप्तातीतभूतजेति
सिद्धान्तात्. तस्मान् न भवत्य् एष परिहार इति. य उक्तो ऽभूद् अविज्ञप्तिर् हि छायेव वृक्षम् इति विस्तरेण.
अन्ये पुनर् अत्र परिहारम् आहुर् इति. अयम् एवाचार्यस् तन् मतं समर्थयन्न् आह. आश्रयो भेदं गत इति. द्विविध इत्य् अर्थः. कश्चिद् रूप्यते चक्षुरादिः सप्रतिघत्वात्. कश्चिन् न रूप्यते. मनः. विपर्ययात्. तस्माद् असमानः प्रसंग इति. चक्षुर्विज्ञानादीनाम् अप्य् आश्रयभूतरूपणाद् रूपत्वप्रसंग इति. रूपणाद् रूपम् इत्य् आश्रयरूपणाद् इत्य् अर्थः.
अत्र चोदयन्ति. विज्ञप्तिसंभूताया अविज्ञप्तेर् एवं परिकरेण रूपत्वं भवद् भवेत्. समाधिसंभूतायास् तु कथं रूपत्वम् इति. तज्जातीयत्वात् तद् अपि रूपं. [तिब्. 32अ] किं पुनस् तज्जातीयत्वं. महाभूतान्य् उपादायेति भावः. तेषाम् उपादायरूपजननादिहेतुभूतत्वाद् इति.
(इ.14अब्) इन्द्रियार्थास् त एवेति
भगवतो विनेयवशात् तिस्रो देशनाः स्कन्धायतनधातुदेशनाः. तासु च ये स्कन्धेषु देशिता धर्माः. त एव आयतनधातुषु देशिताः. असंस्कृतास् त्व् अत्र केवलम् अतिरिक्ताः. सर्वश् चाभिधर्मः सूत्रव्याख्यानं. अत इदम् उक्तं.
इन्द्रियार्थास् त एवेति
विस्तरः. लाघविकश् चायम् आचार्यो वेदनादिस्कन्धलक्षणम् अनुक्त्वैव लाघवेन रूपस्कन्धस्वभावान् धर्मान् आयतनधातुषु दर्शयति. इन्द्रियाणि च इन्द्रियार्थाश् च
इन्द्रियराहाः.
त एवेति
विशेषणम् अन्येन्द्रियनिरासार्थं अन्यार्थनिरासार्थं च. आयतनव्यवस्थायां तु यथासंख्येन दशायतनानि चक्षुरायतनं रूपायतनं यावत् कायायतनं स्प्रष्टव्यायतनम् इति. धातुव्यवस्थायां त एव दश धातवः चक्षुर्धातू रूपधातुर् यावत् कायधातुः स्प्रष्टव्यधातुर् इति.
(इ.14च्द्, 15) उक्तो रूपस्कन्धस् तस्य चायतनधातुव्यवस्थानम् इति. न सकलस्य रूपस्कन्धस्यायतनधातुव्यवस्थानम् उक्तं. अविज्ञप्तिरूपस्य वक्ष्यमाणत्वात्. कथम् इदम् उच्यते. उक्तम् इति. बाहुलिको निर्देशः. बाहुल्येन रूपस्कन्धस्यायतनधातुव्यवस्थानम् उक्तम् इत्य् अर्थः. कतिपयमुद्गगुलिकासम्भवे ऽपि माषराशिव्यपदेशवत्.
त्रिविधो ऽनुभव इति. [तिब्. 32ब्] अनुभूतिर् अनुभव उपभोगः. कस्य. चित्तस्य पुद्गलस्य वा. स च त्रिविधः. सुखो दुःखो ऽदुःखासुखश् च. ( अभिध्-क्-व्य् 37 ) वस्तुनो ह्लादपरितापतदुभयविनिर्मुक्तस्वरूपसाक्षात्करणस्वभावः. अनुभूयते वानेन विषय इत्य् अनुभवः. अनुभवतीति वानुभवः. कायचित्तोपचयापचयतदुभयविनिर्मुक्तावस्थाप्रवृत्तश् चैअसिकविशेषः स्पर्शानुभव इत्य् अपरे. अनुर् लक्षणे स्पर्शचिह्नः. स्पर्शनिमित्तानुभव इत्य् अर्थः. स वेदनास्कन्धः. निमित्तोद्ग्रहणात्मिकेति. निमित्तं वस्तुनो अवस्थाविशेषो नीलत्वादि. तस्योद्ग्रहणं परिच्छेदः. तदात्मिका तत्स्वभावा. दुःखादीत्य् आदिशब्देन लोहितादीनां ग्रहणम्. असौ संज्ञास्कन्धः. यदि परिच्छेदात्मिका संज्ञा तत्संप्रयोगे निमित्तम् उद्गृह्णन्तीति पंचापि विज्ञानकाया विकल्पकाः स्युः. न स्युः. न हि पंचविज्ञानसंप्रयोगिनी संज्ञापट्वी. मनोविज्ञानकायसंप्रयोगिनी तु पट्वीति तद् एव विकल्पकम् उक्तं. षट् संज्ञाकाया वेदनावद् इति. यथा चक्षुःसंस्पर्शजा वेदनेति विस्तरेणोक्तं. तथा चक्षुःसंस्पर्शजा संज्ञेति विस्तरेण वक्तव्यं.
चतुर्भ्यो ऽन्य
इति. चतुर्भ्यः स्कन्धेभ्यः स्कन्धाधिकारात्. रूपस्कन्धादिभ्यस् [तिब्. 33अ] त्रिभ्य उक्तेभ्यो विज्ञानस्कन्धाच् चोद्दिष्टवक्ष्यमाणकाच् चतुर्भ्यो ऽन्ये संस्काराः संस्कारस्कन्धः. सूत्रे षट् चेतनाकाया इत्य् उक्तम् इति. संस्कारस्कन्धः कतमः. षट् चेतनाकाया इति. अभिसंस्करणे प्रधानेति. एवं चैवं च स्याम् इत्य् अभिसंस्करणे प्रधाना. कर्म हेतुर् उपपत्तय इति वचनात्. छन्दप्राप्त्यादयस् तु चेतनानुविधायित्वात् तदाकारहेतुभावानुविधानतः संस्कारस्कन्ध एव वेदितव्याः. तद् एवं सति संस्करणे प्रवृत्तो धर्मराशिः संस्कार इत्य् उक्तं भवति. अपरे पुनर् आहुः. संस्कृताभिसंस्करणे चेतनायाः प्राधान्यम् उक्तम्. अतः सूत्रे चेतनाग्रहणं. संप्रयुक्तविप्रयुक्तसंस्कृतधर्मसंग्रहेण तु प्राधान्याद् अयम् एव स्कन्धः संस्कारस्कन्ध उक्तः. संस्कृतराशिर् इति कृत्वा. संस्कृतम् अभिसंस्करोतीति भाविन्या संज्ञया अनागतं स्कन्धपंचकं संस्कृतम् इत्य् उक्तम्. अन्यथा हीति विस्तरः. यदि यथासूत्रनिर्देशं चेतनैव केवला संस्कारस्कन्ध इष्यते नान्ये. शेषाणां छन्दादीनां चैतसिकानां प्राप्त्यादीनां च चित्तविप्रयुक्तानां स्कन्धासंग्रहात्. रूपादिषु स्कन्धेषु रूपणादिलक्षणाभावेनासंग्रहात्. संस्कारस्कन्धे चैवं. सूत्रे यथारुतग्रहणेनासंग्रहात्. इति स्कन्धेष्व् असंग्रहाद् दुःखसमुदयसत्यत्वं न स्यात्. इति परिज्ञाप्रहाणे न स्यातां. [तिब्. 33ब्] परिज्ञा दुःखस्य प्रहाणं समुदयस्य. अनभिज्ञाय लौकिकेन मार्गेण अपरिज्ञाय लोकोत्तरेण. अथ वानभिज्ञाय दर्शनमार्गेण अपरिज्ञाय भावनामार्गेणा. एवम् अप्रहायेत्य् उक्तम् इति सूत्रान्तरं. नहम् एकधर्मम् ( अभिध्-क्-व्य् 38 ) अपि अपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति. दुःखनिरोधं वदामीत्य् अर्थः. ननु चाकाशाप्रतिसंख्यानिरोधौ लोकोत्तरेण मार्गेण न परिज्ञायेते. अथ च दुःखस्यान्तक्रियेष्यते. संक्लेशवस्त्वभिसंधिवचनात्. सौत्रान्तिकदर्शनेन च प्रज्ञप्तिसत्त्वाद् अदोषः. न हि तौ संक्लेशवस्तू. किम् अनयोः परिज्ञेयत्वेन. निरोधमार्गसत्ये अपि तर्हि न संक्लेशवस्तू इति न परिज्ञेये स्यातां. दुःखसमुदयसत्यसंबन्धसद्भावात् तयोः परिज्ञेयत्वं व्यवस्थाप्यते. तथा हि योगिन एवं विचारयन्ति. अस्य सहेतुकस्य दुःखस्य को निरोधः. केन चोपायेन स निरोधः प्राप्यत इति. निरोधमार्गसत्ये अपि परिजानन्ति. न त्व् आकाशाप्रतिसंख्यानिरोधयोर् दुःखेन सम्बन्ध इति न तौ परिजानन्ति. प्रयोगावस्थायां तु लौकिकेन ज्ञानेन ताव् अपि सामान्यरुपेण सर्वधर्मा अनात्मान इति भावयन्ति.
धर्मायतनधात्वाख्या
इति. आयतनं च धातुश् चायतनधातू. धर्मश् चासाव् आयतनधातुश् च धर्मायतनधातुः. तदाख्या एषां त इमे
धर्मायतनधात्वाख्याः.
के. वेदनासंज्ञासंस्कारस्कन्धाः.
सहाविज्ञप्त्यसंस्कृतैर्
इति. सहाविज्ञप्त्या सहासंस्कृतैश् चाकाशादिभिः. [तिब्. 34अ] आयतनदेशनायां धर्मायतनम् इति. धातुदेशनायां च धर्मधातुर् इति. सप्त द्रव्याणीति. अविज्ञप्तिर् वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः आकाशं प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् चेति.
(इ.16) विज्ञानं प्रतिविज्ञप्तिर्
इति. विज्ञानस्कन्धः प्रतिविज्ञप्तिर् इत्य् अर्थः स्कन्धाधिकारात्. प्रतिर् वीप्सार्थः. विषयंविषयं प्रतीत्य् अर्थः. उपलब्धिर् वस्तुमात्रग्रहणं. वेदनादयस् तु चैतसा विशेषा विशेषग्रहणरूपाः. षड् विज्ञानकाया इति षड् विज्ञानसमूहाः.
षड् विज्ञानान्य् अथो मन
इति. षड् विज्ञानधातवो याथासंख्येन यश् चक्षुर्विज्ञानं. स चक्षुर्विज्ञानधातुः. एवं यावत् यन् मनोविज्ञानं. स मनोविज्ञानधातुः. समस्तानि त्व् एतानि षट् मनोधातुर् इति वेदितव्यं.
(इ.17अब्) षण्णाम् अनन्तरातीतं विज्ञानं यद् धि. तन् मन
इति.
षण्णाम्
इति निर्धारणे षष्ठी. तेषाम् एव मध्ये नान्यद् इत्य् अर्थः. अनन्तरग्रहणम् ( अभिध्-क्-व्य् 39 ) अन्यविज्ञानव्यवहितनिवृत्त्यर्थं. यद् धि यस्यानन्तरम् अन्यविज्ञानाव्यवहितं. [तिब्. 34ब्] तत् तस्याश्रयः. व्यवहितं तु न तस्याश्रयः. अन्यस्यासाव् आश्रयः. यस्य तदव्यवहितं. अत एवाचित्तिकावस्थायां चिरातीतम् अपि समापत्तिप्रवेशचित्तं व्युत्थानचित्तस्याश्रयो भवति. विज्ञानान्तराव्यवधानात्. अतीतग्रहणं प्रत्युत्पन्ननिरासार्थं. मनोविज्ञानं हि आश्रयि तस्याम् अवस्थायां प्रत्युतपन्नं. अतस् तद् अतीतम् इष्यते. तद् एव चैतद् उच्यते.
षष्ठाश्रयप्रसिद्ध्यर्थम्
इति. विज्ञानग्रहनं वेदनाद्यनन्तरातीतनिवृत्त्यर्थं.
यद् धि. तन् मन
इति जातिनिर्देशान् न वीप्साप्रयोगः. वृत्तौ तु द्रव्यपदार्थाभिधित्सया वीप्साप्रयोगः. यद्यत् समनन्तरनिरुद्धं विज्ञानं तत्तन् मनोधातुर् इति. तद्यथा स एवेति विस्तरः. तद्यथा स एव पुत्रो ऽन्यस्य पित्राख्यां लभते. तद् एव फलम् अन्यस्य बीजाख्यां. तथेहापि स एव चक्षुरादिविज्ञानधातुर् अन्यस्याश्रय इति मनोधात्वाख्यां लभते.
(इ.17च्द्) सप्तदश धातवो भवन्ति द्वादश वेति. य एव षड्विज्ञानधातवः. स एव मनोधातुः. य एव च मनोधातुः. त एव च षड्विज्ञानधातव इति इतरेतरान्तर्भावे यदि षड्विज्ञानधातवो गृह्येरन् नार्थो मनोधातुनेति सप्तदश धातवो भवन्ति. यदि मनोधातुर् गृह्येत नार्थः साड्विज्ञानधातुभिर् इति द्वादश धातवो भवन्ति.
षष्ठाश्रयप्रसिद्ध्यर्थम्
इति. पंचानां विज्ञानधातूनां आश्रयप्रसिद्धिर् नांगीक्रियते चक्षुरादिस्वाश्रयसंभवात्. मनोविज्ञानाश्रयो नास्तीति तदाश्रयप्रसिद्ध्यर्थं [तिब्. 35अ] मनोधातुर् व्यवस्थाप्यते. आश्रयादिषट्कव्यवस्थानेनाष्टादश धातवो भवन्ति. आश्रयषट्कं चक्षुरादिमनोन्तं. आश्रितषट्कं चक्षुर्विज्ञानादिमनोविज्ञानान्तं. आलम्बनषट्कं रूपादिधर्मान्तम् इति. योगाचारदर्शनेन तु षड्विज्ञानव्यतिरिक्तो ऽप्य् अस्ति मनोधातुः. ताम्रपर्णीया अपि हृदयवस्तु मनोविज्ञानधातोर् आश्रयं कल्पयन्ति. तच् चारूप्यधाताव् अपि विद्यत इति वर्णयन्ति. आरूप्यधाताव् अपि हि तेषां रूपम् अभिप्रेतं. आरूप्य इति एच् ईषदर्थे आङ् आपिंगलवद् इति. चरमं चित्तम् इति. निरुपधिशेषनिर्वाणकाले. न मनो भविष्यतीति. न मनोधातुर् भविष्यतीत्य् अर्थः. न हि तद् अस्तीति. नोत्पद्यत इत्य् अर्थः. न. तस्यापि मनोभावेनेति विस्तरः. नैतद् एवं. कस्मात्. तस्यापि चरमचित्तस्य मनोभावेनाश्रयत्वेनावस्थितत्वात्. अन्यकारणवैकल्याद् इति. पौनर्भविककर्मक्लेशकारणवैकल्यात्. नोत्तरविज्ञानसंभूतिर् इति. न पुनर्भवप्रतिसंधिविज्ञानम् इत्य् अभिप्रायः.
इदम् इह विचार्यते. उक्तम् एतत्. आश्रयाश्रितालम्बनषट्कव्यवस्थानाद् अष्टादश धातवो भवन्तीति. आश्रितषट्कं तावद् व्यवस्थाप्यते. चक्षुर्विज्ञानधातुर् यावन् मनोविज्ञानधातुर् इति. किम् अस्याश्रितषट्कस्य यथासंख्यं आश्रयषत्कं व्यवस्थाप्यते. चक्षुर्विज्ञानधातोर् आश्रयश् चक्षुर्धातुर् [तिब्. 35ब्] यावन् मनोविज्ञनधातोर् मनोधातुर् आश्रय इति. ओम् इत्य् आह. यदा तर्हि चक्षुस् तत्सभागं भवति. तत् कस्याश्रयः. न कस्यचित्. कथं तर्हीदम् उक्तं. चक्षुर्विज्ञानधातोश् चक्षुर्धातुर् आश्रय इत्यादि. आश्रय एव चक्षुः. यस् तु किंचिदनाश्रयस् तत्सभागं चक्षुः. तद् अपि तज्जातीयत्वात् चक्षुर्धातुत्वेन व्यवस्थाप्यत एव. एवं यावत् कायधातुर् वक्तव्यः. मनोधातुर् अपि किं मनोविज्ञानधातोर् एवाश्रयः. नेत्य् आह. चक्षुर्विज्ञानधात्वादीनाम् अपि हि स आश्रय इष्यते. तथा हि वक्ष्यति.
चरमस्याश्रयो ऽतीतः. पंचानां सहजश् च तैर्
इति. किं तर्हीदम् उक्तं.
षष्ठाश्रयप्रसिद्ध्यस्थं धातवो ऽष्टादश स्मृता
इति. नान्येषाम् आश्रयः स इति कृत्वा षष्ठाश्रयप्रसिद्धिर् न भवति. षष्ठस्याप्य् अयम् आश्रयो भवति संभवतः. आलम्बनषट्कम् अपि. चक्षुर्विज्ञानधातोर् आलम्बनं रूपधातुर् यावन् मनोविज्ञानधातोर् धर्मधातुर् आलम्बनम् इति. तद् इदं विचार्यते. किं यथा चक्षुर्विज्ञानधातोर् यावन्ति रूपाणि आलम्बनं. स रूपधातुः. एवं यावत् कायविज्ञानधातोर् यावन्ति स्प्रष्टव्यान्य् आलम्ब्नं. स स्प्रष्टव्यधातुः. एवं मनोविज्ञानधतोर् यावन्तो धर्मा आलम्बनं. स धर्मधातुर् इति. अत्र स्थविर आह. सर्वधर्मस्वभावो धर्मधातुर् अष्टादशधातुस्वभाव इत्य् अर्थः. कथम् अस्याध्यात्मिकबाह्यधातुव्यवस्था सिध्यति. चक्षुरादयो हि द्वादशाध्यात्मिका इष्यन्ते. षड् बाह्या इति. [तिब्. 36अ] यदि हि ते ऽपि धर्मधाताव् अन्तर्भाव्येरन् सांकर्यं प्राप्नोति. स्थविर आह. पार्यायिकम् एषाम् आध्यात्मिकबाह्यत्वं. विज्ञानानाम् आश्रयास् ते चक्षुरादय इत्य् आध्यात्मिकाः. मनोविज्ञानविषयत्वात् तु बाह्या इति. तद् एवं नेच्छन्ति वैभाषिकाः. सूत्रविरोधात्. एवं हि सूत्र उक्तं. धर्मा भिक्षो बाह्यम् आयतनम् एकादशभिर् आयतनैर् असंगृहीतम् अनिदर्शनम् अप्रतिघम् इति. तस्मात् सप्तद्रव्यको धर्मधातुर् एष्टव्यः. अविज्ञप्तिवेदनासंज्ञासंस्कारस्कन्धाकाशप्रतिसंख्यानिरोधप्रतिषंख्यानिरोधस्वभावत्वात्. अपरिपूर्णस् तर्हि मनोविज्ञानधातोर् आलम्बननिर्देशः. न च चक्षुर्विज्ञानादीनाम् अपरिपूर्ण अलम्बननिर्देश इष्यते. अस्त्य् एतद् एवं. किं तु चक्षुरादीनां षण्णाम् आश्रयत्वेन निर्देशाच् चक्षुर्विज्ञानादीनां चाश्रितत्वेन रूपादीनां च पंचानां पंचविज्ञानकायालम्बननिर्देशान् ( अभिध्-क्-व्य् 41 ) न तेशां मनोविज्ञानविषयत्वे ऽपि धर्मधातौ प्रक्षेप इति वर्णयन्ति.
(इ.18) समासतस् तु ज्ञातव्यः सर्वसंग्रह
इति. आयतनादिभिर् अपि सर्वसंग्रहः. न तु समासतः. किं तर्हि. विस्तरतः. अयं तु देशनात्रयान् निष्कृष्य समासत उक्तः. रूपस्कन्धेन रूपस्कन्धः संगृहीतो दश चेन्द्रियार्थस्वभावान्य् आयतनानि धातवश् च. धर्मायतनधात्वेकदेशश् चाविज्ञप्तिः. [तिब्. 36ब्] मनआयतनेन विज्ञानस्कन्धः. तद् एव च मनआयतनं सप्तचित्तधातवश् च संगृहीताः. धर्मधातुना वेदनासंज्ञासंस्कारस्कन्धाः संगृहीताः धर्मायतनं धर्मधातुश् च. अविज्ञप्तिर् इह द्विः संगृहीता. तद्यथा चक्षुरिन्द्रियम् इति. चक्षुरिन्द्रियं वेदनादिस्कन्धश्रोत्राद्यायतनधातुनिरोधसत्यमार्गसत्यस्वभावेन वियुक्तं. अत एतद् उक्तं. चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां दुःखसमुदयसत्याभ्यां च संगृहीतं तत्स्वभावत्वात्. नान्यैः स्कन्धादिभिस् तद्भाववियुक्तत्वाद् इति. महतात्राल्पकं संगृहीतं. न तु महद् अल्पकेन. कथम् इति. रूपस्कन्धो महान् सर्वरूपसंग्राहकत्वात्. चक्षुरिन्द्रियम् अल्पकं रूपस्कन्धैकदेशत्वात्. रूपस्कन्धेन चक्षुरिन्द्रियं संगृहीतं. न तु चक्षुरिन्द्रियेण रूपस्कन्धः. चक्षुरिन्द्रियव्यतिरिक्तरूपस्कन्धसद्भावात्. तद्यथा हस्तिपदेन पक्षिपदं संगृहीतं. न तु पक्षिपदेन हस्तिपदं संगृहीतं. तद्वत्. समेन तु समम् अन्योन्यं संगृहीतं. तद्यथा चक्षुरिन्द्रियं चक्षुरायतनेन. चक्षुरायतनम् अपि चक्षुरिन्द्रियेणेत्य् अयम् अभिधर्मनयो वेदितव्यः. यथा संग्रहवस्तुभिः पर्षदाम् इति. चत्वारि संग्रहवस्तूनि. दानं प्रियवादिता अर्थचर्या समानार्थता च. चतस्रः पर्षदब् भिक्षुभिक्षुण्युपासकोपासिकाः. [तिप्. 37अ] तैस् तासां संग्रहः. स तु कादाचित्कः. कदाचिद्भवः कादाचित्कः. कदाचिद् आसां दीयते प्रियं चोच्यते. न चे संग्रह इति. सांकेतिकः सांव्यवहारिकः. स्वभावसंग्रहस् तु पारमार्थिक इत्य् उक्तं.
(इ.19अब्) जातिगोचरविज्ञानसामान्याद् एकधातुता
द्वित्वे ऽपि चक्षुरादीनाम्
इत्य् अर्थाद् एतद् उक्तं भवति. जात्यादिभेदाद् यथासंभवं धातुभेदव्यवस्थानं. न त्व् अधिष्ठानभेदाद् इति. तत्र चक्षुर्धात्वादीनाम् अन्योन्यं जातिगोचरविज्ञानभेदो भवति. रूपधात्वादीनां जातिविज्ञानभेदः. विज्ञानधातूनां जातिगोचरभेदः. मनोविज्ञानस्यापि हि धर्मधातुर् असाधारणो गोचरः. एवं श्रोत्रघ्राणयोर् अपि योज्यम् इति. जातिसामान्यम् उभयोः श्रोत्रस्वभावत्वात्. गोचरसामान्यम् उभयोः शब्दविषयत्वात्. ( अभिध्-क्-व्य् 42 ) विज्ञानसामान्यम् उभयोर् एकश्रोत्रविज्ञानाश्रयत्वात्. तस्माद् एक एव श्रोत्रधातुः. एवं घ्राणस्यापि योज्यं.
(इ.19च्द्) कार्यान्तराभावात् तर्हि द्वयानुत्पत्तिप्रसंगः स्याद् इत्य् अत आह.
शोभार्थं तु द्वयोद्भव
इति. एकचक्षुःश्रोत्राधिष्ठानैकनासिकाबिलसंभवान् महद् वैरूप्यं स्याद् इत्य् एकस्य चक्षुःश्रोत्राधिष्ठानस्य एकस्य च नासिकाबिलस्य संभवान् महद् वैरूप्यं स्यात्. ननु चोष्ट्रमार्जारोलूकप्रभृतीनां चक्षुरादिद्वयोद्भवे ऽपि न भवत्य् आश्रयशोभा. जात्यन्तरापेक्षया [तिब्. 37ब्] न तेषाम् आश्रयशोभा. स्वजात्यपेक्सया तु यस्य चक्षुरादिद्वयम् अस्ति. तस्य तस्यां स्वजाताव् आश्रयशोभा. यस्य नास्ति. तस्य वैरूप्यम् इति. अदूष्यम् एतत्. आचार्यसंघभद्रस् त्व् अस्य सूत्रस्यार्थं विवव्रे. शोभार्थम् इत्य् आधिपत्यार्थम् इत्य् अर्थः. आधिपत्यसंपन्नो हि लोके शोभतीत्य् अपदिश्यते. येषां चेन्द्रियाणां अमून्य् अधिष्ठानानि. तेषां परिशुद्धदर्शनश्रवणघ्राणायाधिपत्यं स्यात्. न हि यथा द्वाभ्यां चक्षुर्भ्यां परिशुद्धं दर्शनं भवति तथैकेन. एवम् इतरयोर् अपि. एवं चैषाम् इन्द्रियत्वं हीयेत. तदर्थम् एतद् उक्तं स्याद् इति. स्फुटोपलब्ध्यर्थम् इत्य् अर्थः. इहापि शक्यम् एवं वक्तुम्. एकम् एव परिस्फुटोपलब्ध्याश्रयभूतं विस्तीर्णं कर्मणोत्पाद्यतां. किम् आश्रयविच्छेदेनेति. विभाषायां तु लिखितम् एतत् पक्षद्वयं. शोभार्थं द्वयोद्भव इत्य् एको व्यक्त्यर्थम् इत्य् अपर इति. अलं प्रसंगेन. ननु च कर्मवशात् इन्द्रियद्वयोत्पत्तिः. किम् अन्यद् एवोच्यते शोभार्थं व्यक्त्यर्थं चेति. कर्मवशाद् एवात्रेन्द्रियद्वयोद्भव उक्तः. कथम् इति. एवं विभक्तावयवाश्रयेणानादिकालाभ्यस्तः शोभाभिमानः सत्त्वानां प्रवर्तते. अतस् तदभिलाषपूर्वकेण स्फुटोपलब्ध्यभिलाषपूर्वकेण च कर्मणा तद् इन्द्रियद्वयम् [तिब्. 38अ] अभिनिर्वर्तमानं शोभार्थं व्यक्त्यर्थं चोद्भवतीत्य् उच्यते.
(इ.20अब्) राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातव
इति. यथाक्रमं राशिः आयद्वारं गोत्रं चार्थ एषां. त इमे राश्यायद्वारगोत्रार्थाः. के. स्कन्धायतनधातुशब्दाः. अथ वा राश्यायद्वारगोत्रशब्दानाम् अर्थाः. के. स्कन्धायतनधातवः. सूत्रे वचनात्. सूत्रे राश्यर्थः स्कन्धार्थ इति. राशेर् यो ऽर्थः. स स्कन्धस्यार्थः. तं सूत्रेण दर्शयति. यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् इति विस्तरः. ऐकध्यम् इति. एकधैवैकध्यं. अनित्यतानिरुद्धम् इति. अनित्यतया संस्कृतलक्षणेन ( अभिध्-क्-व्य् 43 ) निरुद्धम् इत्य् अर्थः. अनित्यताग्रहणं अन्यनिरोधनिरासार्थं. पंचविधो हि निरोधं. लक्षणनिरोधः समापत्तिनिरोध उपपत्तिनिरोधः प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् च. तद् यद्य् अतीतं रूपं निरुद्धम् इत्य् एव ब्रूयात्. अविशेषितत्वात् समापत्तिनिरोधादीनाम् अपि प्रसंगः स्यात्. न च तैर् अतीतार्थतेष्यते. समापत्तिनिरोधो ह्य् अनागतानाम् एव चित्तचैत्तानाम्. उपपत्तिनिरोधो ऽप्य् एषाम् एव. प्रतिसंख्यानिरोधः सास्रवाणाम् एव. अप्रतिसंख्यानिरोधो ऽप्य् अनुत्पत्तिधर्माणाम् एवानागतानां. तस्माल् [तिब्. 38ब्] लक्षणनिरोधग्रहणार्थम् इदम् अनित्यताग्रहणं. अनागतम् अनुत्पन्नम् इति. प्रत्युत्पन्नताम् असंप्राप्तं. प्रत्युत्पन्नम् उत्पन्नानिरुद्धम् इति. उत्पन्नग्रहणम् अनागतविशेषणार्थं. अनिरुद्धग्रहणम् अतीतविशेषणार्थं. अनागतं यद्य् अप्य् अनिरुद्धं न तूत्पन्नम्. अतीतम् अपि यद्य् अप्य् उत्पन्नं न त्व् अनिरुद्धम् इति. आध्यात्मिकं स्वासांतानिकम् इति. चक्षुरादिकं रूपादिकं च. बाह्यम् अन्यद् इति. तद् एव पारसांतानिकम् असत्त्वसंख्यातं च. आयतनतो वेति. आध्यात्मिकं चक्षुरादिपंचकं स्वपरसंततिपतितं.
द्वादशाध्यात्मिका
इति वचनात्. बाह्यम् अन्यद् रूपादिकं विषयपंचकं स्वपरसंततिपतितम्. असत्त्वसंख्यातं चाविज्ञप्तिश् च. बाह्यायतनस्वभावम् इति कृत्वा. औदारिकं सप्रतिघम् इति. परमाणुसंचयस्वभावं. सूक्ष्मम् अप्रतिघं. अविज्ञप्तिरूपं. आपेक्षिकं वेति. अपेक्षया वा औदारिकं सूक्ष्मं च भवति. तद्यथा लिक्षाम् अपेक्ष्य औदारिकी यूका. यूकाम् अपेक्ष्य सुक्ष्मा लिक्षेति. तद् एवं सति सप्रतिघम् एव औदारिकं च सूक्ष्मं भवति. अप्रतिघं तु सूक्ष्मम् एवासंचितत्वात्. आपेक्षिकत्वाद् असिद्धम् इति. सैव सूक्ष्मा लिक्षा वातायनरजो ऽपेक्ष्य औदारिकी. सैव च औदारिकी यूकाम् अपेक्ष्य सूक्ष्मेति अव्यवस्थितम् औदारिकसूक्ष्मत्वं पारापारवत्. कथं हि नाम. औदारिकं सूक्ष्मं भवति सूक्ष्मं च औदारिकम् इति. न. अपेक्षाभेदाद् [तिब्. 39अ] इति. अपेक्षया भेदो ऽपेक्षाभेदः. तस्मान् नासिद्धं. यद् एवापेक्ष्य औदारिकं न जातु तद् अपेक्ष्य सूक्ष्मं. न कदाचित् तद् एवापेक्ष्यम् इत्य् अर्थः. पितृपुत्रवद् इति. तद्यथा एवदत्तस्य पुत्रो यज्ञदत्तः. यज्ञदत्तस्य पुत्रो विष्णुमित्रः. स यज्ञदत्तो विष्णुमित्रम् अपेक्ष्य पिता. एवदत्तम् अपेक्ष्य पुत्रः. न चापेक्षिकत्वाद् अस्य पितृपुत्रभावो न सिध्यति. अपेक्षाभेदात्. न हि स यज्ञदत्तस् तम् एव विष्णुमित्रम् अपेक्ष्य पुत्रः. नापि तम् एव देवदत्तम् अपेक्ष्य ( अभिध्-क्-व्य् 44 ) पितेति. तद्वत्. हीनं क्लिष्टं सद्भिस् त्यक्तम् इति कृत्वा. प्रणीतम् अक्लिष्टं क्लेशदूषितत्वात्. दूरम् अतीतानागतं संतानप्रच्युतत्वात् तदसंप्राप्तत्वाच् च. अन्तिकं प्रत्युत्पन्नं संतानसंनिहितत्वात्. एवं यावद् विज्ञानम् इति. या काचिद् वेदना अतीतानागतप्रत्युत्पन्ना आध्यात्मिकी वा बाह्या वा औदारिका वा सूक्ष्मा या वा दूरे या वा अन्तिके तां सर्वाम् ऐकध्यम् अभिसंक्षिप्य वेदनास्कन्ध इति संख्यां गच्छति. एवं यावद् विज्ञानं वक्तव्यं. यावत् सर्वम् ऐकध्यम् अभिसंक्षिप्य विज्ञानस्कन्ध इति संख्यां गच्छतीति. अतीतादित्वम् एषां वेदनादीनां यथा रूपस्य. अयं तु विशेषो वेदनादीनां. औदारिकं पंचेन्द्रियाश्रयं वेदनादिचतुष्कं. अमूर्तत्वात् अवगतम् औदारिकत्वं [तिब्. 39ब्] नास्ति. सूक्षं मानसम् आश्रयस्याप्य् अमूर्तत्वात्. भूमितो वेति. औदारिकं सूक्ष्मं च वेदनादिकं. औदारिकी कामावचरी वेदना. सूक्ष्मा प्रथमध्यानभूमिका. औदारिकी प्रथमध्यानभूमिका. सूक्ष्मा द्वितीयध्यानभूमिका. एवं यावद् औदारिकी आकिंचन्यायतनभूमिका. सूक्ष्मा भवाग्रभूमिकेति. यथा वेदना. एवं यावद् विज्ञानं वक्तव्यं. भदन्त इति स्थविरः. कश्चित् सौत्रान्तिकस् तन्नामा वा. भगवद्विशेषस् त्व् आह. स्थविरहर्मतातो ऽसाव् इति. अत्र वयं ब्रूमः. यदि हर्मत्रातो ऽतीतानागतास्तित्ववादी. स इति न सौत्रान्तिको न आर्ष्टान्तिक इत्य् अर्थः. तथा हि वक्ष्यति. भावान्यत्विको भदन्तहर्मत्रातः. स किलाह. धर्मस्याध्वसु प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यस्यान्यथात्वम् इति. सौत्रान्तिकदर्शनावलंबी चायं भदन्तो विभाषायां लिखितः. भदन्त आहेत्येवमादि. भदन्तहर्मत्रातो ऽपि स्वनाम्नैव विभाषायां लिखितः. भदन्तहर्मत्रात आहेत्येवमदि. तेन लक्ष्यते भदन्तहर्मत्राताद् अन्यो ऽयं सौत्रान्तिकः कश्चित् स्थविरो भिक्षुर् इति. पंचेन्द्रियग्राह्यम् इति रूपादिपंचकं. सूक्ष्मम् अन्यच् चक्षुरादिपंचकं. अविज्ञप्तिश् च. मनापम् इति. मन आप्नोतीति मनआपं मनोज्ञम् इत्य् अर्थः. पुनःसंधिकरणं चात्र द्रष्टव्यं. पूर्वत्रासिद्धम् इति ईषदर्थेन ञपरिग्रहात् किंचित् सिद्धम् इत्य् एकसवर्णदीर्घत्वं. दूरम् अदृश्यदेशम् इति. आधारदेशं आश्रयाधारदेशं [तिब्. 40अ] चाधिकृत्य. द्रष्टुं शक्यो दृश्यः. दृश्यो देशो ऽस्येति दृश्यदेशं दृश्याधारदेशं. दृश्याश्रयाधारदेशं वा. तद्यथा कुण्डे बदरं. चक्षुरादि वा. तद् अन्तिकं. अदृश्यदेशं तु तद्विपरीतं दूरं. दूरम् अदृश्यम् इति नोक्तं. आसन्नम् अपि हि किंचिद् अतिसूक्ष्मत्वान् न दृश्यते. न च तद् दूरम् इष्यते. दृश्यदेशत्वात्. किमर्थं पुनर् एवं भदन्तेन व्याख्यायते. अतीतादीनां स्वशब्देनाभिहितत्वात्. अन्यथा हि पुनरुक्तदोषः स्यात्. दूरान्तिकत्वं तु तेषाम् आश्रयवशाद् ( अभिध्-क्-व्य् 45 ) इति. तेषां वेदनादीनाम् अमूर्तत्वेनादेशस्थत्वात् तस्माद् एवं वक्तव्यं. दूरे अदृश्यमानाश्रया वेदनादयः. अन्तिके दृश्यमानाश्रया इति. औदारिकसूक्ष्मत्वं पूर्ववद् इति. औदारिकं पंचेन्द्रियाश्रयं. सूक्ष्मं मानसम् इति.
चित्तचैत्तानाम् आयम् उत्पत्तिं तन्वन्तीत्य् आयतनानि. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति सर्वेषाम् आयतनत्वसिद्धिः.
एकस्मिन्न् आश्रये संताने वेति. आश्रये समुदायलक्षणे शरीरे. संताने वा चित्तादीनां प्रवाहलक्षणे. स्वस्या जातेः. किं. आकरा इति प्रकृतं. सभागहेतुत्वात्. पूर्वोत्पन्नं चक्षुः पश्चिमस्य सभागबेतुर् इत्य् आकरो धातुः. यतो हि सुवर्णाद्युत्पत्तिः. ते तेषाम् आकराः. असंस्कृतं न धातुः स्यात्. न ह्य् असंस्कृतम् असंस्कृतस्यान्यस्य वा सभागहेतुः. [तिब्. 40ब्] चित्तचैत्तानां तर्हीति. किं. आकरा इति प्रकृतं. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति सर्वधातवो विज्ञानस्य ससंप्रयोगस्य प्रत्ययो ऽवश्यम् आलम्बनम् अधिपतिश् चेत्य् आकराः.
राशिपुद्गलवद् इति. प्रज्ञप्तिसन्तः स्कन्धाः. राशिशब्दवाच्यत्वात्. धान्यराशिवत्. पुद्गलवद् वा. स हि प्रज्ञप्तिसन् पुद्गलः रूपादिप्रज्ञप्तिकारणनिरपेक्षागृह्यमाणस्वभावत्वात् धान्यराशिवत्. कार्यभारोद्वहनार्थ इति. कार्यम् एव भारः. कार्यभारः. तद् उह्यते तेनेति उद्वहनं. कार्यभारस्योद्वहनं कार्यभारोद्वःअनं. शरीरप्रदेशः स लोके स्कन्ध इत्य् उच्यते. अनेनापि कार्यभार उह्यते नामरूपप्रत्ययं षडायतनम् इत्यादिवचनात्. तस्मात् स्कन्ध इव स्कन्ध इत्य् औपचारिकशब्दः. प्रच्छेदार्थो वा. अवध्यर्थो वेत्य् अर्थः. रूपप्रच्छेदो यावद् विज्ञानप्रच्छेद इति. तद् एतद् उत्सूत्रम् इति. तद् एतद् उभयं कार्यभारोद्वहनार्थः प्रच्छेदार्थश् चेति. उत्क्रान्तं सूत्राद् उत्सूत्रं. सूत्रं हीति विस्तरेण तत् प्रतिपादयति. प्रत्येकम् इति विस्तरः. कथम् इत्य् आह. सर्वम् एतद् अतीतादिरूपम् एकशः एकैकं रूपस्कन्ध इति. समुदायेन समुदायिद्रव्यम् उक्तं. तेषां ह्य् अतीतादीनां रूपाणां स राशिर् इत्य् अभिप्रायः. सूत्रे ऽप्य् एवम् एवोक्तं. पृथिवीधातुः [तिब्. 41अ] कतमः. केशा रोमाणीति विस्तरः. एकैकं केशादिद्रव्यं पृथिवीधातुर् इति विज्ञायते. अयं च परिहारः कार्यभारोद्वहनार्थप्रच्छेदार्थपक्षयोर् स्पि शक्यते वक्तुं. न शक्यं एवम् इति विस्तरः. ऐकध्यम् अधिसंक्षिप्येति वचनातिरेकात्. एकैकं रूपस्कन्ध इति न शक्यते विज्ञातुं. यदि ह्य् एवम् अर्थो ऽभविष्यत्. तत् सर्वं रूपस्कन्ध इत्य् एवावक्ष्यत्. नार्थम् ऐकध्यम् अभिसंक्षिप्येति वचनेन. तस्माद् राशिवद् एव स्कन्धाः प्रज्ञप्तिसन्त इति स्थापनापक्ष आचार्यस्य. द्रव्यसद्रूपप्रतिपत्तिस् तु स्कन्धनिर्देशे तत्समुदायित्वाद् इत्य् अवगन्तव्यं. रूपीण्य् अपीति विस्तरः. रूपिग्रहणम् अरूपिविशेषणार्थं. अरूपि हि मनआयतनं असंहतम् अपि कारणभावं बिभर्ति. रूपीण्य् अपि ( अभिध्-क्-व्य् 46 ) चक्षुरादीनि आयतनानि समुदितान्य् एव चित्तचैत्तायद्वारतां गच्छन्ति नासमुदितानीति. समुदायलक्षणत्वात् स्कन्धवत् प्रज्ञाप्तिसन्ति स्युः. संचिताश्रयालम्बना हि पंचविज्ञानकाया इति. न. एकशः समग्राणां कारणभावाद् इति. नैतद् एवं. कस्मात्. एकशः प्रत्येकं समग्राणां समुदितानां कारणत्वात्. यस्माद् बहूनाम् एषाम् चकुरादिपरमाणूनां परस्परम् अपेक्ष्यमाणानाम् एकैकशः कारणभावः. न त्व् असंहतानां. तद्यथा दार्वाकर्षणे बहूनाम् आक्रष्टॄणां [तिब्. 41ब्] प्रत्येकम् असामर्थ्यं. समुदितानां तु परस्परम् अपेक्ष्यमाणानां सामर्थ्यं. यथा वा केशाः पृथक्पृथग् अवस्थिता न समर्थास् तैमिरिकचक्षुर्विज्ञानकरणे. समुदितास् त्व् असंयुक्ता अपि समर्थाः. तद्वच् चक्षुरादीन्द्रियपरमाणवो रूपादिविषयपरमाणवश् च चक्षुरादिविज्ञानोत्पादने प्रत्येकम् असमर्थाः. समुदितास् तु समर्थाः. शक्तिऋ हि भावानां तादृश्य् अवगन्तव्या. विषयसहकारित्वाद् वेति. यदि बहूनाम् आयद्वारभाव इति समुदायायतनत्वं स्यान् न द्रव्यायतनत्वं. इन्द्रियविषयपरमाणूनां समुदितानाम् आयद्वारभाव इति तत् समुदायायतनत्वं स्यात्. न पृथगायतनत्वं स्यात्. इष्यते च पृथगायतनत्वं द्वादशायतनानीति सूत्रात्. साधनं चात्रोपतिष्ठते. ये सहकारिणः. न तैः सह समुदायात्मकायतनभूताश् चक्षुरायतनसमुदायद्रव्यपरमाणवः. चक्षुर्विज्ञानकारणत्वात्. चक्षुरायतनरूपायतनसमुदायद्रव्यपरमाणुवत्. यथा चक्षुरायतनसमुदायद्रव्यपरमाणवः. एवं यावत् कायायतनसमुदायद्रव्यपरमाणवो योज्याः. विभाषायां तूच्यत इति. अनेनापि प्रज्ञप्तिसन्तः स्कन्धा इति व्याचष्टे. अयं तु विशेषः. अद्रव्यसन्तो ऽपि ते तत्रोपचारेण प्रदर्श्यन्त इति. विशेषार्थस् तुशब्दः. स्कन्धप्रज्ञप्तिम् अपेक्षते इति. स्कन्ध इति प्रज्ञप्तिम् अपेक्षते. राशिर् इति प्रज्ञप्तिम् [तिब्. 42अ] अपेक्षत इत्य् अर्थः. परमाणुर् एकस्य धातोर् इति. दशानां चक्षुरादीनां रूपिणां धातूनां अन्यतमस्य प्रदेशः. एवम् आयतनानाम् एषाम् एवान्यतमस्य रूपस्कन्धस्य च प्रदेशः. कसमात्. न हि प्रज्ञप्ताव् अपेक्षितायां प्रदेशिनि प्रवृत्तः शब्दः प्रदेशे व्यवस्थाप्यते. अथ नापेक्षते. किं. स्कन्धप्रज्ञप्तिम् इत्य् अधिकृतं. स आह. परमाणुर् एको धातुर् इति विस्तरः. स एकैकस् तेषाम् आयतनधातूनां यो ऽन्यतम उक्तो रूपस्कन्धश् च. भवति हि प्रदेशे ऽपि प्रदेशिवद् उपचार इति. प्रदेशे ऽपि परमाणौ अन्यतमरूपायतनधातुवद् रूपस्कन्धवच् चोपचारः. तत्र तस्येवेति वतिः. यथा पटैकदेशे दग्धे पटो दग्ध इति. यथा पटशब्दः समुदाये प्रवृत्तः. प्रदेशे ऽप्य् उपचर्यते पटैकदेशे. तद्वत् स्कन्धशब्दो ( अभिध्-क्-व्य् 47 ) ऽतीतादिरूपसमुदाये प्रवृत्तः. प्रदेशे ऽपि परमाणाव् उपचर्यत इति. स्कन्धा एव प्रज्ञप्तिसन्तो नायतनधातव इति. रूपादीनां स्कन्धा इति कृत्वा. यदा तु रूपाण्य् एव स्कन्धा इति समासः. तदा द्रव्यसन्तः स्कन्धा इत्य् अभिप्रायः.
इदम् इह विचार्यते. किम् अत्र कारणं यद् इन्द्रियपरमाणूनां विषयपरमाणूनां च विज्ञानोत्पत्तये तुल्ये ऽप्य् अन्योन्यसापेक्षत्वे न द्वयानाम् एषां केवलेन्द्रियपरमाणुवद् एकायतनत्वं व्यवस्थाप्यते. यस्माच् [तिब्. 42ब्] चक्षुरिन्द्रियादिपरमाणवः सर्वे स्वविज्ञानोत्पत्तौ साधारणानि कारणानि भवन्ति. न तु तथा विषयपरमाणवः. तथा हि चक्षुरिन्द्रियपरमाणवो नीलविषयविज्ञानोत्पत्ताव् अपि कारणं भवन्ति. पीतादिविज्ञानोत्पत्ताव् अपि. नीलविषयपरमाणवस् तु स्वविज्ञानोत्पत्ताव् एव कारणं भवन्ति. न पीतादिविज्ञानोत्पत्तौ. इत्य् अतश् चक्षुरिन्द्रियपरमाणुभिस् तद्विषयपरमाणूनाम् अतुल्यवर्तित्वात्. पृथक्स्थानावस्थितत्वात्. न चक्षूरूपपरमणूनाम् एकायतनत्वव्यवस्थानत्वं युज्यते. एवं यावत् कायेन्द्रियस्प्रष्टव्यपरमाणूनां एकायतनत्वव्यवस्थानं न युज्यत इति वक्तव्यं.
(इ.20च्द्) मोहेन्द्रियरुचित्रैधाद्
इति. संमोहप्रज्ञाधिमोक्षत्रैधाद् इत्य् अर्थः. त्रयः प्रकारास् त्रैधम् इति. त्रिधैव त्रैधम् इति स्वर्थे ऽण्प्रत्यय इत्य् एके. त्रिधाभावस् त्रैधम् इति भावे ऽण्प्रत्यय इत्य् अपरे. मोहेन्द्रियरुचीनां त्रैधं. तस्माद् इति. पिण्डात्मग्रहणत इति. केचिच् चैत्तान् पिण्डतो गृहीत्वा तान् एवात्मतो गृह्णन्ति. पिण्डग्राहे सत्य् आत्मग्राहप्रवृत्तेः. तेषां स्कन्धदेशना. तस्यां हि वेदनासंज्ञासंस्कारभेदेन त्रिधा चैत्ता देशिताः. नायम् एकः पिन्डश् चैत्तविशेषा इहेत्य् आत्मग्राहः प्रतिपक्षितो भवति. अथ वा पिण्डरूपो ऽयम् आत्मभावः. स चात्मा वेदयिता संज्ञाता चेतयितेति केचित् संमूढाः. तेषां स्कन्धदेशना. नायम् आत्मरूपः पिण्डश् चैत्ता इहेमे वेदनासंज्ञासंस्काराः [तिब्. 43अ] प्रवर्तन्ते इत्य् आत्मग्राहः प्रतिपक्षितो भवति. केचिद् रूप एवेति. पिण्डात्मग्रहणतः संमूढा इत्य् अधिकृतं. तेषाम् आयतनदेशना. तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं. चैत्तास् त्व् ऐकध्यम् एव धर्मायतनत्वेन चित्तं च मनआयतनत्वेनेति. केचिद् रूपचित्तयोर् इति. संमूढाः पिण्डात्मग्रहणत इत्य् अधिकृतम् एव. तेषां धातुदेशना. तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं. चित्तं चक्षुर्विज्ञानादिधातुभेदेन. न तु चैत्ता धर्मधातुत्वेनैव देशितत्वाद् इति. तया रूपचित्तपिण्डग्राहसंमोहः प्रतिपक्षितो भवति.
इन्द्रियाण्य् अपीति विस्तरः. त्रिविधः पुद्गलः तीक्ष्णमध्यमृद्विन्द्रियत्वात्. अथ वा त्रिविधः पुद्गलः उद्घटितज्ञो विपंचितज्ञः पदपरम इति. ( अभिध्-क्-व्य् 48 ) तत्र तीक्ष्णेन्द्रियाणां स्कन्धदेशना. ते हि तीक्ष्णेन्द्रियत्वात् स्कन्धभेदेनैव आयतनधातुभेदं प्रतिपत्तुं शक्नुवन्ति. यथोक्तं यद् भिक्षो न त्वं स ते धर्मः प्रहातव्य इति. आज्ञातं भगवन्न् इत्य् आह. यथा कथम् अस्य भिक्षो संक्षिप्तेनोक्तस्यार्थम् आजानासि. रूपं भदन्त नाहं. स मे धर्मः प्रहातव्य इति विस्तरः. मध्येन्द्रियाणाम् आयतनदेशना. ते हि मध्येन्द्रियत्वान् [तिब्. 43ब्] मध्येनैव नातिविस्तीर्णेनायतनप्रभेदेन धातुप्रभेदं प्रतिपत्तुं शक्नुवन्ति. न तु संक्षिप्तेन स्कन्धप्रभेदेन. मृद्विन्द्रियाणां धातुदेशना. ते हि मृद्विन्द्रियत्वात् नाविभक्तं स्वबुद्धिसामर्थ्येन प्रतिपत्तुं शक्नुवन्ति.
रुचिर् अपि त्रिविधेति. पूर्वाभ्यासयोगाद् रुचेस् त्रैविध्यं. अथ वा शमथचरितानां संक्षिप्ता रुचिः. शमथविपश्यनाचरितानां मध्या रुचिः. विपश्यनाचरितानां विस्तीर्णा रुचिर् इति.
(इ.21) किं पुनः कारणम् इति विस्तरः. ननु च कारणम् उक्तं पिण्डात्मग्रहणतश् चैत्तसंमूढानां स्कन्धदेशनेति. सत्यम् उक्तं. चैत्तास् तेषां विभक्ता इति. वेदनासंज्ञे एव तु संस्कारस्कन्धात् पृथक् स्कन्धीकृतः. न पुनर् अन्य इति किम् अत्र कारणं. कामाध्यवसानम् इति विस्तरः. कामेषु च दृष्टिषु चाभिष्वंगः. तयोर् विवादमूलयोर् अध्यवसानयोर् वेदनासंज्ञे यथाक्रमं प्रधानहेतुर् इति. प्रधानग्रहणाद् अविद्यादयो ऽप्रधानहेतव इत्य् अर्थत उक्तं भवति. वेदनास्वादवशाद् धि कामान् अभिष्वजन्ते गृहिणः. विपरीतसंज्ञावशाच् च दृष्टीः. किम्. अभिष्वजन्त इत्य् अधिकृतं. अधर्मे धर्मसंज्ञिनो धर्मे चाधर्मसंज्ञिनो ऽनात्मादिषु चात्मसंज्ञिनस् तास् तादृशीः शीलव्रतपरामर्शादीर् अभिष्वजन्ते. के ते. प्रायेण प्रव्रजिताः. वेदनागृद्धो हीति [तिब्. 44अ] विस्तरः. वेदनासक्तश् चतुर्भिर् विपर्यासैर् विपर्यस्तः संसारे जन्मपरंपरां करोति क्रमकारणाद् इति. चत्वारि कारणानि स्कन्धानुक्रमे वक्ष्यंते.
यथौदारिकसंक्लेशभाजनाद्यर्थधातुत
इति. रूपं हि सप्रतिघत्वात् सर्वौदारिकं. अरूपिणां वेदना प्रचारौदारिकतया. तथा हि व्यपदिशन्ति. हस्ते मे वेदना पादे मे वेदनेति. द्वाभ्याम् औदारिकतरा संज्ञा. विज्ञानात् संस्कारा इत्य् अतो यथौदारिकं तत् पूर्वम् उक्तम् इत्य् प्रथमं कारणं. अथ वानादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामाः. ते च वेदनास्वादगर्धात्. तद्गर्धः संज्ञाविपर्यासात्. तद्विपर्यासः क्लेशैः. चित्तं च तत्संक्लिष्टम् इति यथासंक्लेशं क्रम इति द्वितीयं. भाजनाद्यर्थेन वा भाजनभोजनव्यंजनपक्तृभोक्तृभूता हि ( अभिध्-क्-व्य् 49 ) रूपादयः स्कन्धा इति तृतीयं. धातुतो वा कामरूपप्रभावितो हि कामधातुः. वेदनाप्रभावितानि ध्यानानि. संज्ञाप्रभावितास् त्रय आरूप्याः. संस्कारमात्रप्रभावितं भवाग्रम्. एता विज्ञानस्थितयस् तासु च प्रतिष्ठितं विज्ञानम् इति क्षेत्रबीजसंदर्शानार्थः स्कन्धानुक्रम इति चतुर्थं कारणम्. अथ एव च क्रमकारणात् वेदनासंज्ञे [तिब्. 44ब्] पृथक् स्कन्धीकृते. यत एते औदारिकतरे संक्लेशानुक्रमहेतू भोजनव्यंजनभूते तत्प्रभावितं च धातुद्वयम् इति.
(इ.22अब्) न तावद् एष्व् एवान्तर्नेतुं शक्यते अर्थायोगाद् इति. रूपणादेर् अर्थस्यायोगाद् असंभवात्. रूपस्वभावं यावद् विज्ञानस्वभावम् इति वा न शक्यम् एष्व् एव पंचस्कन्धेष्व् अन्तर्नेतुम्. अतत्स्वाभाव्यात्. न चापि षष्ठः स्कन्धो वक्तुं शक्यते. कुतः. अर्थायोगात्. अतीताद्यर्थयोगाद् इत्य् अर्थः. ननु च बहुत्वाद् असंस्कृतानां असंस्कृतस्कन्धो ऽन्यो योक्ष्यते. किम् अतीताद्यर्थेनेति. एतच् चायुक्तम् असंस्कृतानां देशसंनिकर्षाभावेनाभिसंक्षेपायोगात्. संक्लेशवस्तुज्ञापनार्थम् इति विस्तरः. न संक्लेशवस्त्व् अनास्रवत्वात्. न व्यवदानवस्त्व् असंस्कृतत्वात्. व्यवदानहेतुर् हि व्यवदानवस्त्व् इत्य् अभिप्रायः. अथ वा रूपस्कन्ध इत्य् उक्ते यावद् विज्ञानस्कन्ध इत्य् उक्ते संक्लेशवस्तु व्यवदानवस्तु च रूपस्कन्धो यावद् विज्ञानस्कन्ध इति विज्ञायते. न त्व् असंस्कृतस्कन्ध इत्य् उक्ते संक्लेशव्यवदानवस्तु विज्ञायत इति न संभवति असंस्कृतस्कन्ध इति. तेषां धात्वायतनेष्व् अप्य् एष प्रसंग इति. तेषाम् एवंवादिनां यथा घटोपरमो न घटः. एवं धातूपरमो न धातुः. आयतनोपरमो नायतनम् इति धर्मधात्वायतनयोर् अप्य् असंस्कृतं न व्यवस्थापितं स्यात्. सर्वधर्मसंग्रहश् च धात्वायतनेष्व् अभिप्रेत इत्य् अयुक्तम् एतत्.
(इ.22च्द्) उक्तः स्कन्धानाम् [तिब्. 45अ] अन्यः प्रकारः.
क्रमः पुनर्
इत्य् अन्यप्रकारवचनापेक्षाः पुनःशब्दोपन्यास इति दर्शयति. सर्वौदारिकम् इति. सर्वेभ्यो वेदनादिभ्य औदारिकं रूपं. सनिदर्शनसप्रतिघत्वादियोगात्. अरूपिणां वेदनादीनां. निर्धारणे षष्ठी. वेदना औदारिकी प्रचारौदारिकतया समुदाचारौदारिकतयेत्य् अर्थः. द्वाभ्यां संस्कारविज्ञानाभ्यां. औदारिकी संज्ञा. निमित्तपरिच्छेदेन सुज्ञातत्वात्. विज्ञानात् संस्कार औदारिकः सुखी स्यां न दुःखी स्याम् इत्य् अभिसंस्कारलक्षणत्वात्. विज्ञानं तु सर्वसूक्ष्मम् उपलब्धिमात्रलक्षणत्वात्. यथौदारिकं च विनेयानाम् अर्थप्रतिपादनं न्याय्यम् इति एवं स्कन्धानुक्रमः. ते च वेदनास्वादगर्धात्. ते च स्त्रीपुरुषा वेदनास्वादसक्तेर् अन्योन्यं रूपाभिरामा भवन्ति. तद्गर्ध इति. वेदनागर्धः. संज्ञाविपर्यासाद् इति. नित्यादिकान् निमित्तोद्ग्रहणात्. ( अभिध्-क्-व्य् 50 ) सुखापि हि वेदना संस्कारविपरिणामदुःखतया दुःखा. भाजनभोजनम् इति विस्तरः. रूपं भाजनभूतं वेदनाश्रयत्वात्. वेदना भोजनभूता आस्वाद्यत्वात्. संज्ञा व्यंजनभूता वेदनां तन्निमित्तोद्ग्रहणेन व्यंजयतीति कृत्वा. संज्ञावशेन वा वेदना रोचत इति कृत्वा व्यंजनभूता सम्ज्ञा. चेतना पक्तृभूता विपाकवेदनाम् अभिसंस्कृत्य उपनयनात्. [तिब्. 45ब्] विज्ञानं भोक्तृभूतं तदनुग्रहाद् इति. भाजनाद्यर्थेन वानुक्रमः. धातुतो वेति विस्तरः. कामगुणा एव रूपाणि. तैः प्रभावितः प्रकर्षितः कामधातुः. वेदनाप्रभावितानि ध्यानानि. सौमनस्यसुखेन्द्रियप्रभावितं प्रथमं ध्यानं. सौमनस्येन्द्रियप्रभावितं द्वितीयं. सुखेन्द्रियप्रभावितं तृतीयं. उपेक्षेन्द्रियपरिशुद्धिप्रभावितं चतुर्थं ध्यानं. संज्ञाप्रभावितास् त्रय आरूप्याः. आकाशसंज्ञाप्रभावितम् आकाशानंत्यायतनं. विज्ञानसंज्ञाप्रभावितं विज्ञानानंत्यायतनं. आकिंचन्यसंज्ञाप्रभावितं आकिंचन्यायतनं. संस्कारमात्रप्रभावितं भवाग्रं. तत्र हि चेतना अशीतिं कल्पसहस्राण्य् आयुर् आक्षिपति. विज्ञानं कस्मात् सर्वेषां पश्चाद् उक्तम् इत्य् अत आह एता विज्ञानस्थितय इति विस्तरः. चतस्रो विज्ञानस्थितयः. रूपोपगा विज्ञानस्थितिः कामधातुः. वेदनोपगा चत्वारि ध्यानानि. संज्ञोपगा त्रय आरूप्याः. संस्कारोपगा भवाग्रं. तासु चतसृषु विज्ञानस्थितिषु प्रतिष्ठितं विज्ञानं तदाश्रितत्वात् सर्वपश्चाद् उक्तं. इत्य् एवं क्षेत्रबीजसंदर्शनार्थः स्कन्धानुक्रम उक्तो भवति. अत एव च पंच स्कन्धा नाल्पीयांसो न भूयांस इति. यथौदारिकादिभिः कारणैर् नाल्पीयांसो न भूयांस इत्य् अर्थः.
(इ.23) पंच वर्तमानविषयत्वात् पूर्वं उक्तानीति. यानि [तिब्. 46अ] वर्तमानविषयानि. तानि परिस्फुटविषयाणि. परिस्फुटविषयाणि च सुगमानीति पूर्वम् उक्तानि. वर्तमानविषयाणि च पूर्ववृत्तीनि भवन्त्य् एवं च पूर्वम् उक्तानि. मनस् त्व् अनियतविषयम् इत्य् आकुलविषयित्वात् असुगमं. पश्चाद्वृत्ति च प्रायेण. कथम् इत्य् आह. किंचिद् वर्तमानविषयं किंचिद् यावत् त्र्यध्वानध्वविषयम् इति. यावच्छब्देन किंचिद् अतीतविषयं किंचिद् अनागतविषयं किंचित् त्र्यध्वविषयं. सर्वधर्मा अनात्मान इति यथा. किंचिद् अनध्वविषयम् असंस्कृतविषयम् इत्य् अर्थः. एवम् अनियतविषयं मनः. तथा च न तत् सुगमम् इति पश्चाद् उक्तं. सुगमं हि लोके पूर्वम् उपदिश्यमानं दृश्यते.
भौतिकार्थाच् चतुष्टयम्
इति चक्षुरादिचतुष्टयं रूपाद्युपादायरूपविषयं. तस्मात्. तत् कायात् पूर्वम् उक्तं. कायस्य त्व् अनियतो विषयः. कदाचिद् भूतानि कदाचिद् भौतिकं ( अभिध्-क्-व्य् 51 ) यदि व्यवच्छेदग्रहणं. कदाचिद् उभयं यद्य् अव्यवच्छेदग्रहणं. शेषं पुनर् इतरस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वम् उक्तम् इति. शेषं चक्षुरादि. तद् इतरस्मात् संभवतो दूराशुतरवृत्त्या दूरवृत्त्या दूरतरवृत्त्या आशुतरवृत्त्येति विभज्य द्वयं द्वयात्. एकं चैकस्मात् पुनर् एकं चैकस्माद् इति योज्यम् इत्य् अर्थः. कथम् इत्य् आह. चक्षुःश्रोत्रं हि दूरविषयं तत् पूर्वम् उक्तं द्वयात् घ्राणजिह्वातः. तयोर् अपि चक्षुःश्रोत्रयोः [तिब्. 46ब्] चक्षुषो दूरतरे वृत्तिः. पश्यतो ऽपि दूरान् नदीं तच्छब्दाश्रवणात्. अतस् तत् पूर्वम् उक्तम् इति वर्तते. चक्षुः श्रोत्रात् पूर्वम् उक्तं. तयोर् आशुतरवृत्तित्वाद् इति. तयोर् घ्राणजिह्वयोर् घ्राणं पूर्वम् उक्तं जिह्वायाः. कथम् इत्य् आह. अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणाद् इति.
इदम् इह विचार्यते. घ्राणजिह्वे प्राप्तविषयग्राहिण्यौ. कथं. भोज्यस्थो गन्धः तेन घ्राणेन गृहते. न त्व् अभोज्यस्थो गृह्यते. वायोस् तु गन्धान्तरम् उद्भवति भोज्यावयवेन वा सूक्ष्मेण सहागतो गन्धो गृह्यते. निरुछ्वासस्य गन्धाग्रहणात्. न तर्हीदं वक्तव्यं. अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणाद् इति. यत् तत् पिण्डरूपं भोज्यं. तज् जिह्वाम् अप्राप्तम् इत्य् अभिसंधायवचणाद् अदोषः. एवं ह्य् आशुतरवृत्ति घ्राणं यद् भोज्यावयवसहागतम् अपि गन्धं जिघ्रति. जिह्वा तु भोज्यावयवसहागतं रसं नास्वादयति. पिण्डभोज्यसहागतम् एव तु रसम् आस्वादयतीति न साशुतरवृत्तिर् इत्य् अवगन्तव्यं.
(इ.24) कथं विशेषणार्थम् इति प्रतिपादयन्न् आह. यथा गम्येत प्रत्येकम् इति विस्तरः. यथा विज्ञायेत एकैकश एषां दशानां आयतनत्वं चक्षुरादीनां पंचानां विषयित्वेन. रूपादीनां च पंचानां विषयत्वेन व्यवस्थानात्. न समस्तानाम् आयतनत्वं रूपायतनम् इत्य् एकम् एवेति. तथा च परस्परतो विशेषणं न स्यात्. यदि विशेषणार्थं नामन्तराण्य् उच्यन्ते नवानां चक्षुरायतनस्य यावत् कायायतनस्य शब्दायतनस्य यावत् स्प्रष्टव्यायतनस्येति. रूपायतनस्यापि कस्मान् नामन्तरं नोच्यते. [तिब्. 47अ] अत आह. चक्षुरादिभिश् च विशेषितैर् यन् न चक्षुर्संज्ञकं रूपं च. तद् रूपायतनं ज्ञास्यत इत्य् अस्य नामान्तरं नोच्यते. तद्यथा सर्वासु गोष्व् अंकितासु या गौर् नांकिता. तस्या अनंकनम् एवांकनं भवति. तद्वत्. प्राधान्याद् इति त्रिभिः कारणै रूपायतनस्य प्राधान्यं. पान्यादिसंस्पर्शैर् बाधनालक्षणाद् रूपणात्. इदम् इहामुत्रेति देशनिदर्शनरूपणात्. इदम् एव रूपम् इति लोकप्रतीतत्वाच् च. विशेषणार्थम् एवैकं धर्मायतनम् उक्तम् इति. कथं विशेषणार्थं. यथा गम्येत प्रत्येकम् एषां द्वादशानाम् आयतनत्वं विषयिविषयत्वेन व्यवस्थानात् ( अभिध्-क्-व्य् 52 ) न समस्तानाम् इति. चक्षुरादिभिश् च विशेषितैर् यन् न चक्षुरादिसंज्ञकं धर्मश् च. तद् धर्मायतनं ज्ञास्यत इति तस्य नामान्तरं नोच्यते. वेदनादीनाम् इत्य् आदिशब्देन संज्ञासंस्काराविज्ञप्त्यसंस्कृतानां ग्रहणं. विंशतिप्रकारत्वेनेति.
रूपं द्विधा विंशतिधेति
वचनात्. चक्षुस्त्रयगोचरत्वाच् च. मांसचक्षुर् अस्मदादीनां. दिव्यं चक्षुर् देवानां. आर्यं प्रज्ञाचक्षुर् आर्याणाम् अनास्रवं ज्ञानं सत्यचतुष्टयालम्बनं. अतो रूपम् एव चक्षुस्त्रयगोचरं. न चक्षुरादयः. तस्मात्. तद् एव रूपायतनम् उक्तं नान्यानि.
(इ.25) येषाम् वाक्स्वभावं बुद्धवचनम् इति. येषां सौत्रान्तिकानां [तिब्. 47ब्] वाग्विज्ञप्तिस्वभावं. तेषां तानि रूपस्कन्धसंगृहीतानि. शब्दायतनस्य रूपस्कन्धसंगृहीतत्वात्. येषां नामस्वभावम् इति. येषां निकायान्तरीयाणां चित्तविप्रयुक्तं नामास्ति. तेषां संस्कारस्कन्धेन संगृहीतानि. संस्कारस्कन्धसंगृहीतत्वान् नाम्नः. आभिधार्मिकाणां तूभयस्वभावं बुद्धवचनम् इष्टं. तथा हि ज्ञानप्रस्थान उक्तं. कतमद् बुद्धवचनं. तथागतस्य या वाग् वचनं व्याहारो गीर् निरुक्तिर् वाक्पथो वाग्घोशो वाक्कर्म वाग्विज्ञप्तिः. बुद्धवचनं कुशलं वक्तव्यं. अव्याकृतं वक्तव्यं. स्यात् कुशलं. स्याद् अव्याकृतं. कतरत् कुशलं. कुशलचित्तस्य तथागतस्य वाचं भाषमाणस्य या वाग् यावद् वाग्विज्ञप्तिः. कतरद् अव्याकृतं. अव्याकृतचित्तस्य तथागतस्येति पूर्ववत्. पुनस् तत्रैवानन्तरम् उक्तं बुद्धवचनं नाम क एष धर्मः. नामकायपदकायव्यंजनकायानां या अनुपूर्वरचना अनुपूर्वस्थापना अनुपूर्वसमायोग इति. तेषाम् आभिधार्मिकाणां रूपस्कन्धेन संस्कारस्कन्धेन च तान्य् अशीतिधर्मस्कन्धसहस्राणि संगृहीतानि. सातिरेकाणि मे अशीतिधर्मस्कन्धसहस्राणि भगवतो ऽन्तिकात् संमुखम् उद्गृहीतानीति सूत्रवचनं. चतुरशीतिधर्मस्कन्धसहस्राणीति निकायान्तरे सूत्रपाठः.
(इ.26) शास्त्रप्रमाण इत्य् एक
इति. शास्त्रस्य प्रमाणं शास्त्रप्रमाणं. शास्त्रप्रमाणं [तिब्. 48अ] प्रमाणम् अस्य. सो ऽयं धर्मस्कन्धः.
शास्त्रप्रमाण इत्य् एके
तावद् आहुः. तच् च षट्सहस्राणीति. तच् च शास्त्रं हर्मस्कन्धसंज्ञकं ग्रन्थप्रामाण्येन षट्सहस्राणीति. तानि त्व् अशीतिधर्मस्कन्धसहस्राण्य् अन्तर्हितानि. एकं त्व् एतद् अवशिष्यत इति कथयन्ति.
स्कन्धादीनां कथैकशः.
( अभिध्-क्-व्य् 53 ) अपर आहुर् इति वाक्याध्याहारः. स्कन्धादीनाम् एकैका कथा धर्मस्कन्धः. ते च धर्मस्कन्धा अशीतिसहस्रसंख्या व्याख्यायंते. प्रतीत्यसमुत्पादादीनि चेह व्याख्यास्यन्ते. प्रणिधिज्ञानारणादीनाम् इत्य् आदिग्रहणेन संग्रहवस्तुकर्मपथाशुभानपानस्मृत्यादीनि गृह्यन्ते.
चरितप्रतिपक्षस् तु धर्मस्कन्धो ऽनुवर्णित
इति तुशब्दः पूर्वोक्तपक्षनिराकरणर्थो ऽवधारणार्थो वा. रागद्वेषमोहमानादिचरितभेदेनेति. आदिशब्देन दृष्टिविचिकित्सादीनां ग्रहणं. केचित् सत्त्वा रागचरिताः. केचिद् द्वेषचरिताः. केचिन् मोहचरिताः. केचिन् मानचरिताः. केचिद् दृष्टिचरिताः. केचिद् विचिकित्साचरिताः. केचिद् रागद्वेषचरिताः. केचिद् रागद्वेषमोहचरिताः. केचिद् रागाशया द्वेषप्रयोगाः. केचिद् द्वेशाशया रागप्रयोगाः. केचित् कृत्रिमरागा निगृह्यद्वेषाः. केचित् कृत्रिमद्वेषा निगृह्यरागा इति. तेषां प्रतिपक्षेण भगवता तान्य् उक्तानीति.
(इ.27) ये ऽप्य् अन्ये स्कन्धायतनधातव इति विस्तरः. [तिब्. 48ब्] ये ऽपि स्कन्धायतनधातवः. ते ऽप्य् एष्व् एव स्कन्धायतनधातुषु प्रतिपाद्याः प्रवेशयितव्याः. स्वंस्वं स्वभावं एषां यथा व्यवस्थापितम् अस्मिन् शास्त्रे विमृष्य स्कन्धाः स्कन्धेषु प्रतिपादयितव्या आयतनान्य् आयतनेषु धातवो धातुषु. शीलस्कन्धो रूपस्कन्धसंगृहीत इति. कायवाग्विरतिरूपस्वभावत्वात् शीलस्कन्धस्य. शेषाः संस्कारस्कन्धेनेति. समाध्यादीनां चैतसिकत्वात्. विमुक्तिर् इहाधिमोक्षो ऽभिप्रेतः. विमुक्तिज्ञानदर्शनं च प्रज्ञाविशेष एवेति. अष्टाव् अलोभस्वभावत्वात् धर्मायतनेनेति. कतमान्य् अष्टौ. पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नायतनानि. तानि च अलोभस्वभावानि अपदेक्ष्यन्ते
अलोभो ऽष्टाव्
इति. अलोभश् च धर्मायतने ऽन्तर्भवति. तेन तत्संग्रहः. सपरिवाराणि तु पंचस्कन्धस्वभावत्वान् मनोधर्मायतनाभ्यां. किं. संगृहीतानि. तस्यालोभस्य परिवारो ऽनुपरिवर्तिरूपं रूपस्कन्धो वेदनासंज्ञे वेदनासंज्ञास्कन्धौ चेतनादयः संप्रयुक्ता जात्यादयश् च विप्रयुक्ताः संस्कारस्कन्धः. विज्ञानं चात्र कलापे विज्ञानस्कन्ध इति पंचस्कन्धस्वभावानि तानि भवन्ति. नवमदशमे त्व् आकाशानंत्यायतनविज्ञानानन्त्यायतनकृत्स्ने पश्चाद् वक्ष्येते. [तिब्. 49अ] तथाभिभ्वायतनानीति तान्य् अलोभस्वभावत्वात् धर्मायतनेन. सपरिवाराणि तु पंचस्वभावत्वान् मनोधर्मायतनेन पूर्ववत् व्याख्यातव्यानि. आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि. आकाशविज्ञानाकिंचन्यनैवसंज्ञानासंज्ञायतनानि चतुःस्कन्धस्वभावत्वान् मनोधर्मायतनाभ्यां संगृहीतानि. न हि तत्र रूपस्कन्धो ऽस्ति. पंच विमुक्त्यायतनानीति विस्तरः. ( अभिध्-क्-व्य् 54 ) सूत्र उक्तं. पंचेमानि विमुक्त्यायतनानि. कतमानि इह भिक्षो शास्ता धर्मं देशयति. अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. यथायथास्य शास्ता अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी धर्मं देशयति. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी भवति धर्मप्रतिसंवेदी च. तस्यार्थप्रतिसंवेदिनो धर्मप्रतिसंवेदिनश् चोत्पद्यते प्रामोद्यं. प्रमुदितस्य प्रीतिर् जायते. प्रीतमनसः कायः प्रश्रभ्यते. प्रश्रब्धकायः सुखं वेदयते. सुखितस्य चित्तं समाधीयते. समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति. यथाभूतं प्रजानन् यथाभूतं पश्यन् निर्विद्यते. निर्विण्णो विरज्यते. विरक्तो विमुच्यते. [तिब्. 49ब्] इदं प्रथमं विमुक्त्यायतनं. यत्र स्थितस्य भिक्षोर् वा भिक्षुण्या वा अनुपस्थिता स्मृतिर् उपतिष्ठते. असमाहितं चित्तं समाधीयते. अपरिक्षीणाश् चास्रवाः परिक्षीयन्ते. अननुप्राप्तं चानुत्तरं योगक्षेमं निर्वाणम् अनुप्राप्नोति. पुनर् अपरं न हैव भिक्षो शास्ता धर्मं देशयत्य् अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति. यथायथा तान् यथाश्रुतान् यथोपदिष्टान् यथापर्यवाप्तां विस्तरेण स्वरेण स्वाध्यायं करोति. तथातथा तेषु अर्थप्रतिसंवेदी भवति पूर्ववत्. इदं द्वितीयं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. नापि यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वाध्यायं करोति. अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति. यथायथा यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी भवतीति पूर्ववत्. इदं तृतीयं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्ता पूर्ववत्. नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति. अपि तु यथाश्रुतान् यावद् यथापर्यवाप्तान् चिन्तयति तुलयति उपपरीक्षते. [तिब्. 50अ] यथायथा यथाश्रुतान् यावद् यथापर्यवाप्तान् चिन्तयति यावद् उपपरीक्षते. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी पूर्ववत्. इदं चतुर्थं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्तेति पूर्ववत्. नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति नापि चिन्तयति. अपि त्व् अनेनान्यतमं भद्रकं समाधिनिमित्तं साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसिकृतं सुभावितं सुजुष्टं सुप्रतिविद्धं. तद्यथा विनीलकं ( अभिध्-क्-व्य् 55 ) वा विपूयकं वा व्याध्मातकं वा विपटुमकं वा विलोहितकं वा विखादितकं वा विक्षिप्तकं वा अस्थि वा अस्थिसंकलिका वा. यथायथा खल्व् अनेनान्यतमान्यतमं भद्रकं समाधिनिमित्तं पूर्ववत् यावत् सुप्रतिविद्धम्. तथातथा तेषु धर्मेष्व् अर्थप्रतिवेदी भवति पूर्ववत्. इदं पंचमं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. विमुक्तेर् आयद्वारं प्रज्ञाविशेषः. प्रज्ञा च धर्मायतनेन संगृहीता. सपरिवाराणि शब्दमनोधर्मायतनैः. देशनास्वाध्यायपरसंप्रकाशनेषु शब्दग्रहणाच् छब्दायतनम् अस्ति. मनोधर्मायतने तु प्रज्ञापरिवारभूते सर्वत्रस्थे इति त्रिभिः संग्रहः. द्वयोर् आयतनयोर् इति. सूत्र उक्तं. रूपिणः सन्ति सत्त्वा [तिब्. 50ब्] असंज्ञिनः अप्रतिसंज्ञिनः. तद्यथा देवा असंज्ञिसत्त्वाः. इदं प्रथमम् आयतनं. अरूपिणः सन्ति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरन्ति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. इदं द्वितीयम् आयतनम् इति. अनयोर् द्वयोर् आयतनयोर् असंज्ञिसत्त्वा दशभिर् आयतनैः संगृहीताः. गन्धरसायतनयोर् एव तत्राभावात्. भवति हि च्युत्युपपत्तिकालयोस् तेषां मनआयतनम् इति. नैवसंज्ञानसंज्ञायतनोपगा मनोधर्मायतनाभ्यां संगृहीता इत्य् अधिकृतं. तेषाम् अरूपित्वात्. बहुधातुके ऽपि द्वाषष्टिर् धातव इति. सूत्र उक्तं. आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्. कियता भदन्त पण्डितो धातुकुशलो भवति. भगवान् आह. पण्डित आनन्द अष्टादश धातूञ् जानाति
पश्यति यथाभूतं. चक्षुर्धातुं रूपधातुं चक्षुर्विज्ञानधातुं. एवं यावन् मनोधातुं धर्मधातुं मनोविज्ञानधातुम् इति. इतीमान् आनन्दाष्टादश धातूञ् जानाति पश्यति यथाभूतं. षड् अपि धातूं जानाति पश्यति यथाभूतं. पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुम् इति. अपरान् अपि षड् धातूं जानाति पश्यति यथाभूतं. कामधातुं व्यापादधातुं [तिब्. 51अ] विहिंसाधातुं नैष्क्रम्यधातुम् अव्यापादधातुम् अविहिंसाधातुम् इति. अपरान् अपि षड् धातूञ् जानाति पश्यति यथाभूतं. सुखधातुं दुःखधातुं सौमनस्यधातुं दौर्मनस्यधातुम् उपेक्षाधातुम् अविद्याधातुम् इति. चतुरो ऽपि धातूञ् जानाति पश्यति यथाभूतं. वेदनाधातुं संज्ञाधातुं संस्कारधातुं विज्ञानधातुम् इति. त्रीण्य् अपि धातूं जानाति पश्यति यथाभूतं. कामधातुं रूपधातुम् आरूप्यधातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. रूपधातुं आरूप्यधातुं निरोधधातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. अतीतं ( अभिध्-क्-व्य् 56 ) धातुम् अनागतं धातुं प्रत्युत्पन्नं धातुं. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. हीनं धातुं मध्यमं धातुं प्रणीतं धातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. कुशलं धातुम् अकुशलं अव्याकृतं धातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. शैक्षं धातुम् अशैक्षं धातुं नैवशैक्षंनाशैक्षं धातुम् इति. द्वाव् अपि धातू जानाति पश्यति यथाभूतं. सास्रवं [तिब्. 51ब्] धातुम् अनास्रवं धातुम् इति. अपराव् अपि द्वौ धातू जानाति पश्यति यथाभूतं संस्कृतं धातुम् असंस्कृतं धातुम् इति. इमौ द्वौ धातू जानाति पश्यति यथाभूतं. इयता चानन्द पण्डितो धातुकुशलो भवतीति. इतीमान्य् अत्राभिसंबन्धीनि वाक्यानि प्रत्येकं मध्ये ऽपि पठितव्यानि. विस्तरभयात् तु मया न लिखितानीति बोधव्यं. यथायोगं संग्रहो वेदितव्य इति. अष्टादश तावद् धातवस् त एव त इति. एभिस् ते संगृहीता एवाष्टादशसु धातुषु. यत्र पृथिवीधात्वादयः षट्. तेषाम् आद्यानां चतुर्णां स्प्रष्टव्यधातौ संग्रहः. आकाशधातो रूपधाताव् आलोकतमस्स्वभावत्वात्. विज्ञानधातोः सप्तसु चित्तधातुषु संग्रहः. कामधात्वादीनां तु षण्णां कामधातुः कामराग इहाभिप्रेतः. स च चैतसिकः. व्यापादधात्वादयो ऽपि चैतसिका एवेति. तेषां धर्मधातुसंग्रहः. सुखधात्वादीनाम् अपि षण्णां तस्मिन्न् एव संग्रहः. वेदनाधात्वादीनां चतुर्णां त्रयाणां धर्मधातौ. विज्ञानधातोः सप्तसु विज्ञानधातुषु. कामधात्वादीनां त्रयाणां कामधातोः अष्टादशसु धातुषु. रूपधातोश् चतुर्दशसु विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः. आरूप्यधातोर् मनोधर्ममनोविज्ञानधातुषु. रूपधात्वादीनां तु त्रयाणां द्वयोर् उक्तः संग्रहः. निरोधधातोर् धर्मधातौ [तिब्. 52अ]. अतीतधात्वादीनां त्रयाणां प्रत्येकम् अष्टादशसु धातुषु संग्रहः. हीनादयस् त्रयो धातवः कामधात्वादय एवेति एषाम् उक्तः संग्रहः. कुशलादीनां त्रयाणां कुशलाकुशलधात्वो रूपशब्दधर्मधातुषु सप्तसु च चित्तधातुषु. अव्याकृतधातोर् अष्टादशसु धातुषु. शैक्षाशैक्षधात्वादीनां त्रयाणां द्वयोर् मनोधर्ममनोविज्ञानधातुषु. तृतीयस्याष्टादशधातुषु. सास्रवानास्रवधात्वोः आद्यस्याष्टादशसु धातुषु. द्वितीयस्य मनोधर्ममनोविज्ञानधातुषु. संस्कृतासंस्कृतधात्वोर् आद्यस्याष्टादशसु धातुषु. द्वितीयस्य धर्मधातौ संग्रहः. त एते द्वाषष्टिर् धातवः.
(इ.28) य इमे तत्रेति बहुधातुके. एतेषां द्वयोर् लक्षणम् अनुक्तम् इति. ( अभिध्-क्-व्य् 57 ) पृथिवीधात्वादीनाम् उक्तं लक्षणम् अमी
धृत्यादिकर्मसंसिद्धाः. खरस्नेहोष्णतेरणा
इति. ननु च विज्ञानधातोर् अप्य् उक्तं लक्षणं.
विज्ञानं प्रतिविज्ञप्तिर्
इति वचनात्. सत्यम् उक्तं सर्वेषां विज्ञानानां लक्षणं. विज्ञानधातुस् तु किम् इह किंचिद् एव विज्ञानम् इत्य् अभिप्रेतं. उताहो सर्वम् इति न विवेचितम्. असंस्कृतं चाकाशम् उक्तलक्षणं. न त्व् आकाशधातुः. अवश्यं ह्य् अयम् [तिब्. 52ब्] अन्य आकाशात्. तथा हि षड्धातुर् अयं भिक्षो पुरुष इति सूत्रान्तरम् उक्तम्. इत्य् अनया बुद्ध्याभिहितं द्वयोर् लक्षणम् अनुक्तम् इति. अत एवाह. तत् किम् आकाशम् एवाकाशधातुर् वेदितव्यः. सर्वं च विज्ञानं विज्ञानधातुर् इति. मुखनासिकादिष्व् इत्य् आदिशब्देन श्रोत्रादीनां ग्रहणं.
आलोकतमसी किलेति.
किलशब्दः परमतद्योतनार्थः. स्वमतं तु सप्रतिघद्रव्याभावमात्रम् आकाशम् इति अभिप्रायो लक्ष्यते. रात्रिंदिवस्वभाव इति. रात्रिवर्तिनस् तमसो भास्करातपलक्ष्यस्य चालोकस्याभिप्रेतत्वात्. बाहुलिको वायं निर्देशः. अघं किल चितस्थं रूपम् इति. चितस्थं संघातस्थं. अत्यर्थं हन्ति हन्यते चेति अघं नैरुक्तेन विधिना. अत्यर्थशब्दस्य अकारादेशः कृतो हन्तेश् च घादेशः. तस्य तट् सामन्तकम् इति. तस्याघस्य कुड्यादिकस्य सामन्तकं समीपस्थं. तद् अपेक्ष्य व्यवस्थापितम् इत्य् अर्थः. अत्रापि व्याख्याने किलशब्दो वैभाषिकव्याख्यानप्रदर्शानार्थः. स्वमतं तु यत् तत् पश्चाद् उच्यते. तद् आह. अघं च तत्. अन्यस्य रूपस्य तत्राप्रतिघातान् न प्रतिहन्यते ऽन्यद् रूपम् अस्मिन्न् इति कृत्वा. सामन्तकं चान्यस्य रूपस्येति चितस्थस्य. अस्मिन् पक्षे कर्मधारयः समासः. अघं च तत् सामन्तकं च तद् इति अघसामन्तकं.
विज्ञानं सास्रवम्
[तिब्. 53अ] इति. जन्मनो हेतोर् विज्ञानस्याभिप्रेतत्वात्. कुत इति चेत्. अत आह. यस्माद् इमे षड्धातव इष्टा.
जन्मनिश्रयाः.
षड्धातुर् अयं भिक्षो पुरुष इति. षट् खलु धातून् प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर् इति वचनात्. एते हि जन्मन इति विस्तरः. एते हि जन्मनो जनकपोषकसंवर्धकत्वाद् आधारभूताः. जनको ह्य् अत्र विज्ञानधातुः प्रतिसंधिबीजत्वात्. पोषकानि भूतानि तत्संनिश्रयभावात्. संवर्धक ( अभिध्-क्-व्य् 58 ) आकाशधातुर् अवकाशदानात्. अत एवैषां धातुत्ववचनं. प्रतिसंधिं दधत इति धातवः. अनास्रवास् तु धर्मा नैवम् इति. न जन्मनिश्रया जन्मनिरोधित्वात्.
(इ.29) सनिदर्शन एको ऽत्र रूपम्
इति. किम् इदं निदर्शनं नाम. येन विशेषेण योगात् तद् वस्तु तथा निदर्शयितुं शक्यते. स विशेषो निदर्शनम् इत्य् उच्यते. वचनेन परस्य चक्षुर्विज्ञानाम् उत्पन्नं वा निदर्शनं. तेन सह वर्तते सनिदर्शन एको रूपधातुर् अत्राष्टादशसु धातुषु. रूपधातुर् एवैकः सनिदर्शन इत्य् अवधारणाद् उक्तं भवति. अनिदर्शनाः शेषा इति. अनेन चास्य सनिदर्शनत्वेन प्राधान्यम् उक्तम् इति. न पुनरुक्तदोषप्रसंग इति तत्सिद्धेः. एते च सनिदर्शनत्वादयः प्रभेदाः प्रायेण सूत्रोक्ता एव प्रदर्श्यन्ते. [तिब्. 53ब्] तथा हि सूत्र उक्तं. चक्षुर् भिक्षो आध्यात्मिकम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूपप्रसादः रूप्य् अनिदर्शनं सप्रतिघं. यावत् कायो भिक्षो आध्यात्मिकम् आयतनं पूर्ववत्. मनो भिक्षो आध्यात्मिकम् आयतनं अरूप्य् अनिदर्शनम् अप्रतिघं. रूपाणि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूपि सनिदर्शनं सप्रतिघं. शब्दा हि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघं. यावत् स्प्रष्टव्यानि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतानि चत्वारि च महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघं. धर्मा भिक्षो बाह्यम् आयतनं. एकादशभिर् आयतनैर् असंगृहीतं अरूप्य् अनिदर्शनम् अप्रतिघम् इति. एते च प्रभेदा धातूनाम् एव आ प्रथमकोशस्थानपरिसमाप्तेः कथ्यन्ते. रूपविज्ञानविभागत्वात्.
सप्रतिघा दश रूपिण
इति. रूपिग्रहणम् अरूपिनिरासार्थं. रूपणं रूपं. तद् एषाम् अस्तीति रूपिणः. दशेति चक्षुर्धात्वादयः पंच तद्विषयधातवश् च पंच चेति. धर्मधातोर् निरासः कथं कृतः. स चापि हि रूपीति शक्यते वक्तुं. तत्राविज्ञप्तिरूपसद्भावात्. रूपिण एवेत्य् अवधारणात् तन्निरासः कृतो भवति. ये हि धातवो रूपिस्वभावा एव ते ग्रहीतव्याः. धर्मधातुस् तु रूप्यरूपिस्वभाव [तिब्. 54अ] इति. स्वदेशे परस्योत्पत्तिप्रतिबन्ध इति विस्तरः. यत्रैकं सप्रतिघं वस्तु. तत्र द्वितीयस्योत्पत्तिर् न भवति.
यथा हस्तो हस्ते ऽभ्याहतः प्रतिहन्यते. उपले वा. हस्तो हस्तस्थाने उपलस्थाने वा नोत्पद्यते. उपलो ऽपि. तयोर् हस्तोपलयोः स्थाने उपलो ऽपि नोत्पद्यते. जले प्रतिहन्यत इति. जले स्वविषये प्रवर्तत इत्य् अर्थः. प्रायेण मनुष्याणाम् ( अभिध्-क्-व्य् 59 ) इति प्रायग्रहणं कैवर्तादिनिवृत्त्यर्थं. अस्ति नोभयत्रेति. गर्भे नियतमृत्यूनां. एतान् आकारान् इति. एतां प्रकारान् इत्य् अर्थः. तितीला जतुन्यः. मार्जारादीनाम् इत्य् आदिग्रहणेन चौरमनुष्यादीनां व्याघ्रादीनां च ग्रहणं. यस्मिं यस्य कारित्रं. स तस्य विषय इति. कारित्रं पुरुषकारः. चक्षुःश्रोत्रादीनां रूपशब्दादिष्व् आलोचनश्रवणादिकारित्रं. तच् च स्वचित्तचैत्तान् प्रत्य् आश्रयभावविशेषलक्षणं वेदितव्यं. यच् चित्तचैत्तैर् गृह्यते दण्डावष्टम्भनयोगेन. तद् आलम्बनं रूपादि. तद् एवं सति चित्तचैत्तानाम् एवालम्बनं. विषयः पुनश् चक्षुरादीनाम् अपि न केवलं चित्तचैत्तानां. तस्मात् परेणाप्रवृत्तेर् इति. यो हि लोके यतः परेण न प्रवर्तते. स तत्र प्रतिहन्यते काष्ठे कुड्ये वा. तथा चक्षुरादि विषयात् परेण न कारित्रं करोति. विषय एव तु करोति तस्मात् तत्र प्रतिहन्यत इत्य् उच्यते. [तिब्. 54ब्] निपातो वात्र प्रतिघात इति विस्तरः. अत्र विषये निपतनं निपातः. या स्वविषये प्रवृत्तिः. कारित्रम् इत्य् अर्थः. तद् इहावरणप्रतिघातेनेति विस्तरः.
सप्रतिघा दशेत्य्
अत्रावरणप्रतिघातेन ते दश धातवः सप्रतिघा अभिप्रेताः. तत्र विषयालम्बनप्रतिघाताभ्यां चित्तचैत्तानाम् अपि सप्रतिघत्वप्रसंगात् चतुष्कोटिकः प्रश्नश् चतुष्कोणश् चतुःप्रकार इत्य् अर्थः. पश्चात्पादक इति. यदि प्रश्नस्य पश्चाद्भागं गृहीत्वा विसर्जनायोत्तिष्ठते स पश्चात्पादकः. यदि पूर्वं भागं गृहीत्वा स पूर्वपादकः. विषयप्रतिघातेनापि त इति चित्तचैत्ताः. ते हि विषयप्रतिघातेनालम्बनप्रतिघातेन च सप्रतिघाः. पंचेन्द्रियाणि नालम्बनप्रतिघातेन सप्रतिघान्य् अनालम्बनत्वात्.
यत्रोत्पित्सोर् मनस
इति विस्तरः. यत्राश्रये आलम्बने च उत्पत्तुकामस्य मनसः.
प्रतिघातो
ऽनुत्पत्तिः
शक्यते परैः कर्तुम्
अन्तरावरणेन.
तद् एव सप्रतिघं.
तेनान्तरावरणलक्षणेन प्रतिघेन सप्रतिघत्वात्. स्वदेशे परस्योत्पत्तिप्रतिबन्धनलक्षणेन प्रतिघातेन सप्रतिघत्वाद् इत्य् अपरे. किं पुनस् तत्. पंचेन्द्रियपंचविषयधातुस्वभावं.
विपर्ययात् अप्रतिघम् इष्टं.
यत्रोत्पित्सोर् मनसः प्रतिघातो न शक्यते परैः कर्तुं यथा मनोधातोर् धर्मधातोश् च मनोविज्ञानोत्पत्तौ [तिब्. 55अ] अन्तरावरणं न शक्यते परैः कर्तुं. अतः सप्तचित्तधातुधर्मधर्मधातुस्वभावम् अप्रतिघम् इति सिद्धं.
अव्याकृता अष्टाव्
इति. अव्याकृता एवाष्टाव् इत्य् अवधारणं. कुशलाकुशलभावेनाव्याकरणात् अव्याकृताः. ये कुशलाकुशलव्यतिरिक्ताः. त एवाव्याकृता इहाभिप्रेताः. न तु कुशलाः अकुशलाव्याकृताव्याकरणात्. नाप्य् अकुशलाः कुशलाव्याकृताव्याकरणात्. कुशलाकुशलानां कुशलाकुशलभावेन व्याकृतत्वात्. संकेतरूढ्यपेक्षा हि शब्दप्रवृत्तिः.
त्रिधान्य
इति. धातव इत्य् अधिकृतं. त्रैधैवान्ये नैकधा न द्विधेति अवधारणं. अलोभादिसंप्रयुक्ताः कुशला इति विस्तरः. अलोभद्वेषमोहह्र्यपत्रपासंप्रयुक्ताः सप्तचित्तधातवः कुशलाः. लोभद्वेषमोहाह्रीअनपत्राप्यसंप्रयुक्ता अकुशलाः. कुत्सिताच् छलिता गता अपक्रान्ता इति कुशलाः. प्रज्ञा वा कुश इव तीक्ष्णेति कुशः. तं लान्ति आददत इत्य् कुशलः. तद्विपरीता अकुशलाः. अन्ये त्व् अलोभादिलोभाद्यसंप्रयुक्ता अव्याकृताः. धर्मधातुर् इति विस्तरः. अलोभादिस्वभावो [तिब्. 55ब्] यो ऽयम् उक्तः. अलोभादिसंप्रयुक्तो वेदनादिः. अलोभादिसमुत्थो विप्रयुक्तः. प्रातिजात्यादिः. अविज्ञप्तिश् च. प्रतिसंख्यानिरोधश् चापर इति चतुर्विधः कुशलः. धर्मधातुर् लोभादिस्वभावसंप्रयुक्तसमुत्थो ऽकुशलः. अन्यो ऽव्याकृतो यो नालोभादिस्वभावसंप्रयुक्तसमुत्थः. नापि लोभादिस्वभावसंप्रयुक्तसमुत्थः. आकाशम् अप्रतिसंख्यानिरोधः. तेषां च यथाशंभवं प्राप्तिजात्यादयः. एषो ऽव्याकृतो धर्मधातुः. तदन्याव् अव्याकृताव् इति. ताभ्यां कुशलाकुशलचित्तसमुत्थाभ्यां रूपशब्दधातुभ्याम् अन्यौ रूपशब्दधातू अव्याकृतचित्तसमुत्थौ कायवाग्विज्ञप्तिसंगृहीतौ विज्ञप्त्यसंगृहीतौ चाव्याकृतौ.
(इ.30) कामधात्वाप्ताः सर्वे
इति. कामधात्वाप्ताः सर्व एवेत्य् अवधार्यते. अष्टादशधातुत्वमात्रसंग्रहात्. न तु प्रत्येकं साकल्यतः. तत आह.
रूपे चतुर्दशेति.
तयोः कवडीकाराहारत्वाद् इति. तयोर् गन्धरसयोः. गन्धो ऽपि हि कवडीकाराहारः सूक्ष्मः. तत्राभावप्रसंग इति. तत्र रूपधातौ स्प्रष्टव्यधातोर् अभावप्रसंगः कवडीकाराहारत्वात्.
कवडीकार आहारः कामे त्र्यायतमात्मक
[तिब्. 56] इति सिद्धान्तात्. गन्धरसयोर् अप्य् एष प्रसंग इति. यौ नाहारस्वभावौ. तौ तत्र स्याताम् इत्य् अर्थः. अस्ति तु स्प्रष्टव्यस्येति. किं. परिभोग इन्द्रियाश्रयभावेन आधारभावेन प्रावरणभावेन च. अन्ये पुनर् आहुर् इति भदन्तश्रीलातः. प्रश्रब्धिसहगतेनेति. प्रश्रब्धिसहोत्पन्नेन कायकर्मण्यतासहगतेनेत्य् अर्थः. अत्राचार्यो भदन्तश्रीलातमतम् अनादृत्य वैभाषिकमतं सावकाशं दृष्ट्वा विनिश्चयम् आरभते. एवं तर्हीति विस्तरः. वैभाषिकैर् अर्थत एतत् प्रतिज्ञातं. न स्तो रूपधातौ गन्धरसौ. निःप्रयोजनत्वात्. स्त्रीपुरुषेन्द्रियविषयवद् इति. तं पक्षम् आचार्यो दूषयति. दुष्टो ऽयं पक्षः. धर्मिविशेषविपर्ययापक्षालत्वात्. रूपधातुगन्धरसाख्यो हि धर्मी विद्यमानस्वग्राहको ऽभिप्रेतः. तस्याविद्यमानस्वग्राहकत्वं प्राप्नोति. यथा हि स्त्रीपुरुषेन्द्रियविषयो निःप्रयोजनत्वेन अविद्यमानस्वग्राहको भवति. तथा गन्धरसाख्यो ऽपि विषयः प्राप्नोति. स्फुटम् अप्य् अनुमानम् अस्ति. येनैष धर्मिविशेषविपर्ययो व्यज्यते. न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निःप्रयोजनविषयत्वात्. पुरुषेन्द्रियवद् इति. वैभाषिकदेशीयः कश्चित् प्रतिविधत्ते. अस्ति प्रयोजनम् इति विस्तरः. ताभ्यां घ्राणजिह्वेन्द्रियाभ्यां [तिब्. 56ब्] विना शरीरशोभैव न स्यात् वाग्विज्ञप्तिश् च. अनेन दृष्टबाधेन प्रसंगं निवर्तयति. अनुमानं ह्य् अत्र दृष्टं बाधते. किं इत्य् उच्यते. स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. सप्रयोजनत्वात्. चक्षुरिन्द्रियवद् इति. आचार्य आह. यद्य् एतत् प्रयोजनम् इति विस्तरः. अधिष्ठानेनैवाश्रयशोभा वचनं च भवति नेन्द्रियेणेति सप्रयोजनत्वस्य हेतोर् असिद्धतां दर्शयति. वैभाशिकदेशीय आह. नानिन्द्रियम् अधिष्ठानम् इति विस्तरः. न रूपधातौ संभवत्य् अनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम्. इन्द्रियाधिष्ठानत्वात्. पुरुषेन्द्रियाधिष्ठानवद् इति. एतेन सप्रयोजनत्वस्य सिद्धतां स्थापयति. आचार्य आह. युक्तस् तदसंभव इति विस्तरः. युक्तस् तत्र पुरुषेन्द्रियाधिष्ठानस्यासंभवो निःप्रयोजनत्वात्. घ्राणजिह्वेन्द्रियाधिष्ठानानं त्व् आश्रयशोभाभिव्याहार प्रयोजनत्वात् सप्रयोजनं. अतो ऽस्य विनापीन्द्रियेण युक्तः संभवः. साधनं तत्रोच्यते. संभवति रूपधाताव् अनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानं. सप्रयोजनत्वात्. चक्षुरिन्द्रियाधिष्ठानवद् इति. अनेन ताम् एव सप्रयोजनत्वस्यासिद्धतां व्यवस्थापयति. एवम् अत्र सप्रयोजनत्ववादिनि वैभाषिकदेशीये कस्मिंश्चिन् निषिद्धे यद् एतद् आदाव् उक्तं. एवं तर्हि घ्राणजिह्वेन्द्रिययोर् अप्य् अभावप्रसंगः निःप्रयोजनत्वाद् इति तद्दूषणाभासतां दर्शयन्तो वैभाषिका आहुः. निःप्रयोजनापीति विस्तरः. यथा गर्भे [तिब्. 57अ] नियतमृत्यूनां निःप्रयोजनाभिनिर्वृत्तिः. ( अभिध्-क्-व्य् 62 ) न हि तेषां रूपदर्शनादिर् भवति. एवं रूपधातौ घ्राणजिह्वेन्द्रियाभिनिर्वृत्तिर् निःप्रयोजनापि भविष्यतीति. तेन न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. निःप्रयोजनत्वात्. पुरुषेन्द्रियवद् इति निःप्रयोजनत्वम् अनैकान्तिकं प्रदर्श्यते. आचार्य आह. स्यान् नाम निःप्रयोजनेति विस्तरः. भवेन् निःप्रयोजनेन्द्रियाभिनिर्वृत्तिः. न तु निर्हेतुका संस्कृतानां सहेतुकत्वात्. यश् च विषयाद् वितृष्णः. स नियतम् इन्द्रियाद् अपीति. अनेन हेत्वभावः प्रदर्श्यते. ततश् चैवं साधनम् उच्यते. न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. निर्हेतुकत्वात्. निर्हेतुकांकुरवत् पुरुषेन्द्रियवद् वा. पुरुषेन्द्रियम् अपि वा किं निर्वर्तत इत्य् आचार्य एव विकल्पं वाहयति. को ऽभिप्रायः. यदि निःप्रयोजना हेतुम् अन्तरेणापि वा घ्राणजिह्वेन्द्रिययोर् उत्पत्तिः पुरुषेन्द्रियम् अपि वा न निर्वर्तते. वैभाषिकानां ह्य् अयं पक्षः. सघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतानः. रूपिप्राणित्वात्. कामावचरसत्त्वसंतानवद् इति. आचार्यस् तु पुरुषेन्द्रियम् अपि किं न निर्वर्तत इत्य् अनेन तस्य पक्षस्य धर्मिविशेषविपर्ययं दर्शयति. अविद्यमानपुरुषेन्द्रियो रूपधातुसत्त्वसंतानो धर्मी. तस्य विपर्ययो विद्यमानपुरुषेन्द्रियत्वम् इति. वैभाषिकाः [तिब्. 57ब्] परिहरंत्य्
अशोभाकरत्वाद् इतिल्. कथम् इति. न रूपधातौ पुरुषेन्द्रियम् अस्ति. अशोभाकरत्वात्. काणकुण्ठत्ववत्. तदनुमानबाधनान् न विपर्येत्य् अस्माकम् एषा प्रतिज्ञा. यदि दृष्टं न बाधत इति नैयायिकसिद्धान्ताद् इत्य् अभिप्रायः. आचार्य आह. कोशगतवस्तिगुह्यानां किं न शोभते. वस्तौ गुह्यं वस्तिगुह्यं. वस्तिर् येन तत् पुरुषेन्द्रियं वेष्टितं. गुह्यं पुरुषेन्द्रियं. कोशो यत्र तद् वस्तिगुह्यं तिष्ठति. कोशगतं वस्तिगुह्यं. येषां त इमे कोशगतवस्तिगुह्याः. तेषां किं न शोभते शोभत एवेत्य् अर्थः. अनेनाशोभाकरत्वम् असिद्धं दर्शयति. न च प्रयोजनवशाद् उत्पत्तिर् इति विस्तरः. वैभाषिकैर् अशोभाकरत्वाद् इति ब्रुवद्भिर् अर्थापत्त्यैतत् प्रतिज्ञातं भवति. प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियम् इति. स च पक्षो ऽनुमानबाधितो धर्मिस्वरूपविपर्ययापक्षालत्वात्. कथम् इति. उच्यते. न प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियं. स्वकारणोत्पाद्यत्वात्. काणकुण्ठत्ववत्. वैभाषिका आहुः. सूत्रं तर्हि विरुध्यत इति विस्तरः. यो ऽयम् अविद्यमानघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतान इति पक्षः. स सापक्षालः. प्राक्पक्षविरोधात्. [तिब्. 58अ] तथा हि भगवता रूपावचराः सत्त्वा अविकला अहीनेन्द्रिया इति उक्ताः. काणकुण्ठत्वाभावत्वात्. अहीनेन्द्रियाश् चक्षुरादिभिर् अहीनत्वात्. आचार्य आह. यानि तत्रेति विस्तरः. यानि तत्र रूपधातौ घ्राणेन्द्रियादिरहितानि चक्षुरादीनि तैर् अहीनेन्द्रिया इति सूत्रार्थपरिग्रहाद् अविरोधः. एवं तु वर्णयन्ति वैभाषिकाः. स्त एवेति विस्तरः. भवत. एव तत्र ( अभिध्-क्-व्य् 63 ) रूपधातौ घ्राणजिह्वेन्द्रिये न तु गन्धरसौ. आत्मभावमुखेन हि स्वसंतानमुखेन षडायतने चक्षुरादिके तृष्णासमुदाचार्ः प्राणिनां प्रवर्तते. तदभिष्यन्दितं च कर्मेति. सहेतुके रूपधातौ घ्राणजिह्वेन्द्रिये. ततश् च सहेतुकत्वात्. स्त एव ते रूपधातौ. सहेतुकांकुरादिवद् इति. अनेन च न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निर्हेतुकत्वाद् इति यत् साधनम् उक्तं. तद् असिद्धम् इति प्रतिपादयन्ति. पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेन. किं. तृष्णासमुदाचार इति प्रकृतं. मैथुनस्पर्शवीतरागाश् च रूपावचराः सत्त्वाः. तस्मात् तस्मात् तत्र न तृष्णापूर्वकं कर्म भवति. तस्माद् अहेतुकत्वात्. तत्र पुरुषेन्द्रियं नास्ति निर्हेतुकांकुरादिवद् इति सिद्धं रूपधातौ चतुर्दशैव धातव इति.
आरूप्याप्ता
इति विस्तरः.
मनोधर्ममनोविज्ञानधातव
[तिब्. 58ब्] एवारूप्याप्ता इत्य् अवधारणाद् अन्ये धातवो न सन्तीत्य् उक्तं भवति. यस्माद् रूपवीतरागानां तत्रोपपत्तिः. अतो दश रूपस्वभावा धातवश् चक्षुरादयः पंच रूपादयश् चापि पंच न सन्ति. तदाश्रयालम्बनाश् च पंच विज्ञानधातवो न सन्तीति. ते चक्षुरादयो रूपादयश् च यथाक्रमम् आश्रया आलम्बनानि च येषां. त इमे तदाश्रयालम्बनाः. आश्रयाणां चक्षुरादीनाम् आलम्बनानां च रूपादीनां अभावात् ते ऽपि चक्षुर्विज्ञानादिधातवस् तत्र न सन्ति.
(इ.31अब्) सास्रवानास्रवा एते त्रय
इति. एत एव त्रयः सास्रवानास्रवा इत्य् अवधारणं.
शेषास् तु सास्रवा
इति. किम् अर्थम् इदम् उच्यते. नन्व् एत एव त्रयः सास्रवानास्रवा इत्य् अवधारणात्. शेषाः सास्रवा इति सिद्धं. न सिद्धं. कथं. शेषां सास्रवा एवानास्रवा एव वा स्युर् इत्य् आशंकाः. तन्निवृत्त्यर्थम् इदम् उच्यते. शेषाः सास्रवा एवेति.
(इ.31च्द्) सवितर्कविचारा हि पंच विज्ञानधातव
इति. सवितर्कसविचारा एवेति हिशब्दो ऽवधारणे.
अन्त्यास् त्रयस् त्रिप्रकारा
इति. अन्त्या एव त्रिप्रकारा इत्य् अवधारणं. अन्यत्र वितर्कविचाराभ्याम् इति. वितर्कविचारौ संप्रयुक्तकधर्मधातुस्वभावौ तयोर् अत्र ग्रहणप्रसंग इति परिवर्ज्येते. [तिब्. 59अ] वितर्को हि द्वितीयप्रकारान्तरे ऽन्तर्भविष्यति. विचारो ऽपि ध्यानान्तरजस् तृतीये प्रकारे ऽन्तर्भवति. तदन्यस् तु ( अभिध्-क्-व्य् 64 ) त्रिष्व् अपि प्रकारेषु नान्तर्भवतीति वक्ष्यति. ते एते मनोधात्वादयः संप्रयुक्तधर्मधातुपर्यन्ताः कामधातौ प्रथमे च ध्याने ससामन्तके मौले सवितर्काः सविचाराः वितर्कविचारसंप्रयोगात्. अत एव ध्यानान्तरे ऽवितर्का वितर्काभावात्. विचारमात्रा विचारसंप्रयोगात्. अत एव द्वितीयात् प्रभृति यावद् भवाग्रं तयोर् अभावाद् अवितर्का अविचाराः. सर्वश् चासंप्रयुक्तो धर्मधातुर् इति. यथासंभवं त्रैधातुकरूपचित्तविप्रयुक्ता असंस्कृताश् च ध्यानान्तरे च विचारः अवितर्को. वितर्काभावात्. अविचारो द्वितीयविचाराभावात्. विचार एषु त्रिषु प्रकारेषु नान्तर्भवतीति. कामधातुप्रथमध्यानभूमिको विचारः प्रथमे तावत् प्रकारे नान्तर्भवति. सवितर्कः सविचार इति. स हि सवितर्कः संभवति न तु सविचारो विचारसंप्रयोगात्. द्वितीये ऽपि नान्तर्भवति. अवितर्को विचारमात्र इति. वितर्कसंप्रयोगात्. द्वितीयविचाराभावाच् च. तृतीये ऽपि नान्तर्भवति. अवितर्कः अविचार इति. स हि यद्य् अपि अविचारो द्वितीयविचाराभावात्. न त्व् अवितर्को [तिब्. 59ब्] वितर्कसंप्रयोगात्. स कथं वक्तव्य इत्य् अत आह. अविचारो वितर्कमात्र इति. द्वितीयविचाराभावात् अविचारः. वितर्कसंप्रयोगात् वितर्कमात्रः. अत एवेति. यस्मात् सवितर्कसविचाराणां भूमौ विचार एव चतुर्थः प्रकारो भवति. अविचारो वितर्कमात्र इति.
शेषा उभयवर्जिता
इति. शेसा दश रूपिणो धातव उक्ताः. ते ऽवितर्का विचारमात्रा वा अवितर्का अविचाराः स्युर् इति आशंकायाम् अवधार्य तदुभयवर्जिता एव शेषा अवितर्का अविचारा एवेत्य् अर्थः.
(इ.32) कथम् अविकल्पका इत्य् उच्यन्त इति. चक्षुर्विज्ञानसमंगी नीलं विजानाति नोहति नीलम् इति वचनात्. त्रिविधः किल विकल्प इति. किलशब्दः परमतद्योतनार्थः. स्वाभिप्रायस् तु चेतनाप्रज्ञाविशेष एव वितर्क इति न स्वभावविकल्पो ऽन्यो धर्मो ऽस्तीति. तथा ह्य् अनेन पंचस्कन्धक उक्तं. वितर्कः कतमः. पर्येषको मनोजल्पः चेतनाप्रज्ञाविशेषः या चित्तस्यौदारिकता. विचारः कतमः. प्रत्यवेक्षको मनोजल्पस् तथैव या चित्तस्य सूक्ष्मता. अनभ्यूहावस्थायां चेतना अभ्यूहावस्थायां प्रज्ञेति व्यवस्थाप्यते. तद् एषां स्वभावविकल्पो ऽस्तीति. तद् इति वाक्योपन्यासे निपातस् तस्मादर्थे वा. स्वभावेनैव [तिब्. 60अ] विकल्प औदारिकलक्षणत्वात्. स्वभावविकल्पो वितर्कः. स एषां पंचानां विज्ञानकायानां संप्रयोगतो ऽस्ति तस्मात् सविकल्पा उक्ताः. नेतराव् अभिनिरूपणानुस्मरणविकल्पाव् एषां स्तः. तस्माद् अविकल्पका उच्यन्ते. यथा एकपादको ऽश्वः अपादक इति. पादत्रये च्छिन्ने एकस्मिन्न् अपि पादे सत्य् ( अभिध्-क्-व्य् 65 ) अपादक इत्य् उच्यते. तद्वद् एकविकल्पा अविकल्पका इति. सा ह्य् अभिनिरूपणाविकल्प इति. सा मानस्य् असमाहिता प्रज्ञा श्रुतचिन्तामय्य् उपपत्तिप्रतिलंभिका च. सा हि मनसि भवा मानसी. व्यग्रा विविधाग्रा व्यग्रा विविधालम्बनेत्य् अर्थः. विगतप्रधाना वा मुहुर्मुहुर् आलम्बनान्तराश्रयणात्. व्यग्रा कस्माद् अभिनिरूपणाविकल्प इत्य् उच्यते. तत्रतत्रालम्बने नामापेक्षयाभिप्रवृत्तेः. रूपं वेदना अनित्यं दुःखम् इत्याद्यभिनिरूपणाच् च. समाहिता तु भावनामयी नामनपेक्ष्यालम्बने प्रवर्तत इति. नैषाभिनिरूपणाविकल्प इत्य् उच्यते. मानस्य् एव सर्वा स्मृतिर् इति. समाहिता चासमाहिता च. सा किल नामानपेक्षा अनुभूतार्थमात्रालम्बना प्रवर्तते. स्मृतिः कतमा. चेतसो ऽभिलाष इति लक्षणात्. पंचविज्ञानकायसंप्रयुक्ता तु नानुभूतार्थाभिलाषप्रवृत्तेति [तिब्. 60ब्] नानुस्मरणविकल्प इतीष्यते.
(इ.33) सप्त सालम्बना
इत्य् उभयावधारणं. सप्तैव सालम्बनाः सालम्बना एव च सप्तेति.
अर्धं च धर्मतः
सालम्बनम् इति. उक्तव्यतिरेकेणेदम् उच्यते. अत्राप्य् उभयावधारणं. धर्मार्धम् एव सालम्बनं. सालम्बनम् एव च धर्मार्धम् इति. यस्माच् च सप्तैव सालम्बना धर्मार्धं चैव सालम्बनम् इति अवधारणम् अस्ति तस्माच् च्छेषा रूपिणो धातवो धर्मधातुप्रदेशश् चासंयुक्तो ऽनालम्बना इति सिद्धम् इत्य् उक्तं. तथा ह्य् अनवधारणे ह्य् अयम् अर्थो न सिध्येत्.
नवानुपात्ता
इति नवानुपात्ता एवेत्य् अवधारणं. अष्टमस्यार्धेन सार्धम् इति. सहेति यावत्.
ते चाष्टाव्
इति. ते च सप्त चित्तधातवो धर्मधातुश् च यस्यार्धं सालम्बनम् उक्तं. अष्टग्रहणं सकलधर्मधातुग्रहणार्थं. मा धर्मधात्वर्धाग्रहणं विज्ञायीति.
ते चाष्टौ शब्दश् चापर
इति नवानुपात्ता इत्य् उक्ताः.
अन्ये नव द्विधेति.
चक्षुरादयः पंच शब्दवर्ज्याश् च रूपादयश् चत्वार इति नव ते द्विधैव. उपात्तानुपात्ता इत्य् अर्थः. न तूपात्ता एवेति. एतदर्थं च.
अन्ये नव द्विधेति
पुनः सूत्रितं. अनुग्रहोपघाताभ्याम् अन्योन्यानुविधानाद् [तिब्. 61अ] इति. चक्षुर्धात्वादीनाम् अनुग्रहोपघाताभ्याम् अंजनादिपाणिघातादिलक्षणाभ्यां ( अभिध्-क्-व्य् 66 ) चित्तचैत्तानाम् अनुग्रहोपघातौ भवतः. चित्तचैत्तानां चानुग्रहोपघाताभ्यां सौमनस्यदौर्मनस्यलक्षणाभ्यां चक्षुर्धात्वादीनाम् अनुग्रहोपघातौ भवतः. अतस् ते चित्तचैत्तैर् अधिष्ठानभावेनोपगृहीता उच्यन्ते स्वीकृता इत्य् अर्थः. यल् लोके सचेतनम् इति सजीवम् इत्य् अर्थः.
(इ.34) स्प्रष्टव्यं द्विविधम्
इत्य् उभयावधारणं. स्प्रष्टव्यम् एव द्विविधं द्विविधम् एव स्प्रष्टव्यम् एवेति.
शेषा रूपिणो नव भौतिका
इत्य् अत्राप्य् उभयावधारणं.
धर्मधात्वेकदेशश् च भौतिक
इत्य् अत्राप्य् उभयावधारणं. यस्माच् चैते उभयावधारिताः. तस्माच् छेषाः सप्त चित्तधातवो धर्मधातुश् चाविज्ञप्तिवर्ज्यो नोभयथेति सिद्धं. भूतानां चतुष्कखक्खटादिलक्षणावधारणाद् इति. चतुष्कावधारणात् पृथिव्यप्तेजोवायुधातवः स्प्रष्टव्यधातौ चत्वारि भूतानि. श्लक्ष्णत्वादयस् तत्र चक्षुरादयश् च न भूतानि. खक्खटादिलक्षणावधारणाच् च पृथिव्यप्तेजोवायुधातुष्व् अन्ये धर्माश् चक्षुरादयो नान्तर्भावं गच्छन्ति. कथं. चत्वारि महाभूतानि पृथिवीधातुर् [तिब्. 61ब्] अब्धातुस् तेजोधातुर् वायुधातुः. पृथिवीधातुः कतमः खक्खटत्वम् इति विस्तरः. तेषां च स्प्रष्टव्यत्वाद् इति. तेषां च खक्खटत्वादीनां स्प्रष्टव्यत्वात्. यस्मात् तानि स्प्रष्टव्यानि. वर्णादयस् तु द्रष्टव्याः श्रोतव्या घ्रातव्याः स्वादयितव्याः. कथं गम्यते स्प्रष्टव्यानि तानीति. अत आह. न हि काठिन्यादीनि चक्षुरादिभिर् गृह्यन्ते. किं तर्हि. कायेन्द्रियेणैवेत्य् अतो ऽवगम्यते स्प्रष्टव्यानि तानीति. स्यान् मतं ते ऽपि वर्णादयः स्प्रष्टव्या इत्य् अत आह. नापि वर्णादयः कायेन्द्रियेण. किं. गृह्यन्त इति प्रकृतं. उक्तं च सूत्र इति विस्तरः. अपरस्मिन्न् अपि सूत्रे स्पष्टम् आदर्शितं. कथम् इति विस्तरेण यावद् इदम् उक्तं. स्प्रष्टव्यानि भिक्षो बाह्यम् आयतनं चत्वारि महाभूतानि चत्वारि महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघम् इति. शेषं चक्षुराद्यायतनं न भूतानीति स्पष्टम् आदर्शितं. यत् तर्हि सूत्र उक्तम् इति विस्तरः. यच् चक्षुषि मांसपिण्डे खक्खटखरगतं खरप्रकार इत्य् अर्थः. चक्षुरिन्द्रियं खक्खटस्वभावम् इति मत्वा चोदयन्ति. तेनाविनिर्भागवर्तिनो मांसपिण्डस्यैष उपदेश इति. तेन चक्षुरिन्द्रियेणाविनिर्भागवर्तिनो ऽधिष्ठानस्य एतद् वचनं. भवति हि चक्षुरधिष्ठाने ऽपि चक्षुरुपचारः. अत एव मांसपिण्ड इति ग्रहणं. अन्यथा चक्षुषीत्य् एवावक्ष्यत् यदीन्द्रियम् एवेष्यते. [तिब्. 62अ] षड्धातुर् अयं ( अभिध्-क्-व्य् 67 ) भिक्षो पुरुष इति विस्तरः. गर्भावक्रान्तिसूत्रे कललाद्यवस्थायाम् इति भूतमात्रोपदेशान् न भौतिकम् अस्तीति चोद्यम् आशंक्याह. मूलसत्त्वद्रव्यसंदर्शानार्थम् इति. मूलस्य सत्त्वद्रव्यस्य संदर्शनार्थम् एव. पृथिवीधात्वादयश् चत्वारो मूलसत्त्वं. पंचानां चक्षुरादीनां स्पर्शायतनानां तत उत्पत्तेः. मनोधातुर् अपि मूलसत्त्वं मनःस्पर्शायतनस्य तत उत्पत्तेः. अथ वा चतुर्णां पृथिवीधात्वादीनाम् उपादायरूपाश्रयत्वात्. विज्ञानधातोश् च चैतसिकानाम् आश्रयत्वात् त एव मूलसत्त्वं. कथं गम्यते. पुनः षट्स्पर्शायतनवचनात्. तत्त्रैव सूत्रे पश्चाद् उक्तं. षट् स्पर्शायतनानीति चक्षुःस्प्रर्शायतनं यावन् मनःस्पर्शायतनम् इति. अतो विज्ञायते मूलसत्त्वद्रव्यसंदर्शनार्थत्वात् षड्धातुर् अयं भिक्षो पुरुष इति वचनं. न तु भूतमात्रत्वाद् इति. ननु च यथा विज्ञानधातोर् अव्यतिरिक्तम् अपि मनःस्पर्शायतनं पुनर् उच्यते. एवं चक्षुरादीन्य् अपि चतुर्धात्वव्यतिरिक्तानि पुनर् उच्येरन्न् इति. अतो न पुनः षट्स्पर्शायतनवचनेन तद्व्यतिरिक्तभौतिकास्तित्वसिद्धिः. नैतद् एवं. यदि हि पृथिवीधात्वादय एव स्पर्शायतनानि अभविष्यन् भूतान्य् एव स्पर्शायतनानीत्य् एवावक्ष्यत्. न त्व् एवं. किं तर्हि. चक्षुःस्पर्शायतनं यावन् मनःस्पर्शायतनम् इति. अतो ऽवगम्यते. पृथिवीधात्वादिव्यतिरिक्तानि चक्षुरादीनीति. [तिब्. 62ब्] विज्ञानधातुस् तु चक्षुरादिस्पर्शायतनवचनानुषंगेन पुनर् उच्यते. स्पर्शायतनम् इति को ऽर्थः. स्पर्शस्य चैतसिकस्याश्रय इत्य् अर्थः. चित्तभावप्रसंगाच् चेति. यदि षड्धातुर् अयं भिक्षो पुरुष इति यथाभूतम् एव द्रव्याणि गृह्येरन् नान्यानि तदाश्रितानि द्रव्याणि. तेनैतत् प्राप्तं. विज्ञानधातुमात्रग्रहणात्. अत्र चैतसिकानां तदाश्रितानाम् अग्रहणप्रसंगः. इष्टत्वाद् अदोष इति चेत्. न. सपक्षालत्वाद् अस्य पक्षस्य. सापक्षालो ह्य् अयं पक्षः. चित्तविशेषा एव चैतसिका इति स्वसिद्धान्तविरोधात्. तेनाह. न च युक्तं चित्तम् एव चैत्ता इत्य् अभ्युपगन्तुं. कस्मात्. संज्ञा वेदना च चैतसिक एष धर्मश् चित्तनिश्रित इति सूत्रवचनात्. साधनं चात्रोपतिष्ठते. चित्ताद् अर्थान्तरभूते संज्ञावेदने. स्कन्धदेशनायां पृथग् देशितत्वात्. रूपस्कन्धवद् इति. अथ वा स्वाश्रयाद् अर्थान्तरभूते संज्ञावेदने. तदाश्रितत्वात्. यत् स्वाश्रयाश्रितं तत् स्वाश्रयाद् अर्थान्तरभूतं. तद्यथा कुड्याश्रितं चित्रं. सरागादिचित्तवचनाच् चेति. सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं चित्तं विगतरागं चित्तं इति यथाभूतं प्रजानाति.
सद्वेषं चित्तं सद्वेषं चित्तम् इति यथाभूतं प्रजानातीति विस्तरः. [तिब्. 63अ] अत्र ( अभिध्-क्-व्य् 68 ) साधनं. सरागं चित्तम् इति चित्तरागयोः परस्परतो ऽर्थान्तरत्वं. सहयोगनिर्दिष्टत्वात्. सपुत्रश् चैत्र इति सहयोगनिर्दिष्टचैत्रपुत्रवद् इति.
संचिता दशेति.
परमाणुसंचयस्वभावा दशैवेत्य् अर्थः. अन्ये तु धातवो ऽस्माद् अवधारणान् न संचिता इति सिद्धं.
(इ.35) तुलयतीति कस्य धातोर् एतद् रूपं. तथा हि तुल उन्मान इत्य् अस्य धातोस् तोलयतीति रूपं भवति. नैष दोषः. तुलां करोति तुलयतीति प्रातिपदिकधातोर् एतद् रूपम् इष्यते. कर्मणि च तुल्य इति रूपं भवति.
बाह्यं धातुचतुष्टयम्
इति रूपादिकं शब्दवर्ज्यं. परशुदार्वादिसंज्ञकम् इति. परश्वादिसंज्ञकं छिनत्ति दार्वादिसंज्ञाकं छिद्यते. संभवं प्रत्य् एवम् उच्यते. कदाचित् परश्वादिसंज्ञकं छिद्यते. दार्वादिसंज्ञकम् अपि च्छिनत्ति. संबन्धोत्पादिन इति विस्तरः. संबन्धेनाविभागेनोत्पत्तुं शीलम् अस्येति संबन्धोत्पादि. संघातस्रोतो रूपादिसंघातसंतान इत्य् अर्थः. तस्य विभक्तोत्पादनं विभक्तजननं यत् स छेदः. क्षणिकानां हि भावानां विनापि परश्वादिना च्छेदो भवत्य् एव. संताननिरोधस् तु परश्वादिनेति. परश्वादिकं छिनत्तीत्य् उच्यते. कारणसामग्रीविशेषवशाद् विकार्यविशेषोत्पत्तिर् भवति. तत्र धातुचतुष्टयम् अवच्छिनत्ति छिद्यते वेत्य् अवधार्यते. तथावधारणाच् चान्ये धातवो नोभयथेति सिद्धं. अत एव चाह. न कायेन्द्रियादीनि छिद्यन्त इति विस्तरः. अत्र न चक्षुरिन्द्रियादीनीति वक्तव्ये कस्मात् कायेन्द्रियादीनीति वचनं. यस्मात् कायेन्द्रिये परिस्फुटश् छेदो भवति यदि भवेद् इत्य् अतः [तिब्. 63ब्] कायेन्द्रियपुरस्सराणीन्द्रियाणि कथ्यन्ते. निरवशेसांगच्छेदे सर्वांगप्रत्यंगच्छेदे. तदद्वैधीकरणात् तेषां कायेन्द्रियादीनां अद्वैधीकरणात्. कथं पुनर् गम्यते तदद्वैधीकरणम् इति. अतः पुनर् आह. न हीन्द्रियाणि द्विधा भवन्ति छिन्नस्यांगस्य कायाद् अपगतस्य निरिन्द्रियत्वात्. इदम् अपि कथं गम्यते. निरिन्द्रियं तद् अंगं यच् छिन्नं कायाद् अपगतम् इति. यस्मात् तत् प्रतीत्य स्प्रष्टव्यादिकं च कायादिविज्ञानानुपपत्तिः. कथं तर्हि छिन्नेन पुनर् लग्नेन नासिकाग्रेण कायविज्ञानोत्पत्तिः. नासिकामूलसंबन्धेन पुनः कायेन्द्रियोत्पत्तेर् अदोषः. कथम् इह गृहगोधिकादीनां पुच्छानि छिन्नानि स्पन्दन्ते यदि तत्र कायेन्द्रियं नास्ति. वायधातोर् एष विकारो नैतत् कायेन्द्रियस्य कर्मेत्य् अवगन्तव्यं. न चापि छिन्दन्ति मणिप्रभावद् अच्छत्वात्. यथा मणिप्रभा न छिनत्ति अच्छत्वात्. तद्वद् इन्द्रियाणि.
दह्यते तुलयत्य् एवम्
इत्य् एवंशब्देन तद् एव बाह्यं धातुचतुष्टयं तथात्वेन प्रदर्श्यते. काष्ठादीनाम् अग्निकृतो विकारो दाहः. च चेन्द्रियानां न भवति मणिप्रभावद् अच्छत्वात्. न हि तानि काष्ठादिवच् चर्मादिवद् वा विक्रियन्ते. किं तर्हि. तत्संबन्धात् प्रवाहछेदो भवति. तुलादिभूतं च तद् एव धातुचतुष्टयं तुलयति नेन्द्रियाणि तथैवाच्छत्वात्. अमूर्तानां तु धातूनाम् अमूर्तत्वाद् एव छेदाद्यसंभव इति. तेषां छेदादि न चिन्त्यते. न शब्द उच्छेदित्वाद् इति. [तिब्. 64अ] किं. छिनत्ति छिद्यते दह्यते तुल्यति वाप्रवाहवर्तित्वात्.
विवादो दग्धृतुल्ययोर्
इत्य् उत्तरत्रापीदम् अनुवर्तते न शब्द उच्छेदित्वाद् इति. तद् एव धातुचतुष्टयं दाहकं तुल्यं चेति. अग्निक्षारादि दाहकं. समस्तस्यात्र धातुचतुष्टयस्य भस्मादिविकारहेतुत्वात्. लवणादि तुल्यं. तत्रापि समस्तस्य तुलावनतिहेतुत्वाद् इत्य् एकेषाम् अभिप्रायः. तेजोधातूर् एव दग्धा गुरुत्वम् एव च तुल्यम् इति. तेजोधातुर् एवाग्निज्वालादिगत उद्भूतवृत्तिर् दहति. पृथिवीधात्वादीनाम् उद्भूतस्ववृत्तित्वे ऽप्य् अदाहकत्वदर्शनात्. गुरुत्वम् एव चोपादायरूपम् उद्भूतवृत्ति तुल्यते. आतपादिषु लघुद्रव्येषु रूपादीनाम् उद्भूतवृत्तित्वे ऽप्य् अतुल्यत्वदर्शनात्.
(इ.36, 37अब्) पंचाध्यात्मम्
इति. पंचग्रहणं मनोनिवृत्त्यर्थं. अध्यात्मग्रहणं रूपादिनिवृत्त्यर्थं. विपाकजौपचयिका एव पंचाध्यात्मिका न नैष्यन्दिका इत्य् अवधारणं. कस्मात्. तद्व्यतिरिक्तनिष्यन्दाभावात्. विपाकजा औपचयिकाश् च यद्य् अपि नैष्यन्दिका भवन्ति.
निष्यन्दो हेतुसदृश
इति कृत्वा. ते तु विपाकजौपचयिकत्वेनैव संगृहीतत्वात्. न नैष्यन्दिका इति गृह्यन्ते. ये तु स्वहेतुसदृशा न च विपाकजा न चौपचयिकाः. त इह नैष्यन्दिका [तिब्. 64ब्] अभिप्रेताः. न चैवंविधाश् चक्षुरादयो भवन्ति. किं तर्हि विपाकजा वा औपचयिका वा भवन्तीत्य् अत एवम् उच्यते. तद्व्यतिरिक्तनिष्यन्दाभावाद् इति. कथं पुनर् ज्ञायते नैष्यन्दिकास् ते न सन्तीति. मृतस्याननुवृत्तेः. न हि रूपादिवन् मृतस्य चक्षुर्धात्वादयो ऽनुवर्तन्ते. विपाकहेतोर् जाता इति. विपाकस्य फलस्य हेतुर् विपाकहेतुः. विपाकहेतोर् जाता विपाकजाः. मध्यपदलोपात् हेतुशब्दलोपात् गोरथवत्. यथा गोभिर् युक्तो रथो गोरथ इति. फलकालप्राप्तं वा कर्मेति. विपाकफलोत्पत्त्यनन्तरक्षणावस्थम् इत्य् अर्थः. विपच्यत इति विपाकः. कर्मकर्तरि घञ्. विपाकाज् जाता विपाकजाः. फलं तु विपक्तिर् एवेति विपाक इति. भावे घञ्. भवतु वा हेतौ फलोपचार इति विस्तरः. अविपाकस्वभावो ऽपि कर्मलक्षणो हेत्म् विपाक इत्य् ( अभिध्-क्-व्य् 70 ) उच्यते. तदुत्पादकत्वात्. यथा फले हेतूपुचार इति विस्तरः. षड् इमानि स्पर्शायतनानि चक्षुरादीनि पौराणं कर्म पुराणे जन्मनि भवं पुराणम् एव वा पौराणं कर्म. तानि स्पर्शायतनानि अपौराणकर्मस्वभावान्य् अपि पौराणं कर्मेत्य् उच्यंते. तज्जातत्वात्. एवम् इह विपर्ययोपचारो द्रष्टव्यः. आहारसंस्कारस्वप्नसमाधिविशेषैर् उपचिता औपचयिका इति. विशेषशब्दः प्रत्येकम् अभिसंबध्यते. तत्राहारस्वप्नौ लोके प्रतीतौ. संस्कारो ऽभ्यंगस्नानानुवासनादिस्वभाव्ः. [तिब्. 65अ] समाधिश् चित्तैकाग्रतालक्षणः. समीपे चय उपचयः. उपचये भवा औपचयिकाः सैनिकवत्. उपचया एव वा औपचयिकाः वैनयिकवत्. स्वार्थे तद्धितविधानात्. ब्रह्मचर्येण चेत्य् एके इति. ब्रह्मचारिणाम् उपशान्तेन्द्रियाणां शरीरोपचयदर्शनात्. अनुपघातमात्रं तु तेन स्याद् इति. अब्रह्मचर्येण शरीरापचयः. ब्रह्मचर्येण तु शरीरापचयो न भवति. तस्माद् आह. अनुपय्घातमात्रं तु तेन ब्रह्मचर्येण स्यात् नोपचयः. उपचयस् त्व् आहारादिभिर् एव. कस्मात् तर्हि प्रव्रजितानां केषांचिच् छरीरापचयो भवति. कामपरिदाहादियोगाद् असौ भवेत्. प्रतिप्राकार इवारक्षेति. उपचयसंतानो विपाकसंतानस्य परिवार्यावस्थानेनारक्षा. शब्द औपचयिक इत्य् अनुपचितकायस्य शब्दसौष्ठवादर्शनात्. इच्छातः प्रवृत्तेर् इति. शब्दो मे स्याद् इति इच्छया शब्दः प्रवर्तते. अनिच्छया न प्रवर्तते. विपाकजश् च धर्मो ऽनिच्छतो ऽपि प्रवर्तते. तस्मान् न विपाकजः शब्दः. साधनं चात्रोच्यते. न विपाकजः शब्दः. इच्छातः प्रवृत्तेः. योनिशोमनसिकारचैतसिकवत्. यत् तु विपाकजं. न तस्येच्छया प्रवृत्तिः. तद्यथा चक्षुरिन्द्रियस्येति. यत् तर्हीति विस्तरः. अनेन स्वसिद्धान्तविरुद्धतां प्रतिज्ञाया उद्ग्राहयति. तृतीयासौ परंपरेत्य् एक इति विस्तरः. भूतानि पारुष्यविरतेः कर्मपथस्य कण्ठे विपाकस्वभावानि [तिब्. 65ब्] निर्वर्तन्ते. तेभ्यः शब्दः. द्वितीये ऽपि पक्षे कर्मेभ्यो विपाकजानि भूतानि. तेभ्य औपचयिकानि आहारोपचयतः समाध्युपचयतो वा भूतान्तराणि. तेभ्यो नैष्यन्दिकानि पूर्वभूतव्यतिरिक्तान्य् आगन्तुकानि भूतानि. तेभ्यः शब्द इति. परंपराभिनिर्वर्तनं त्व् अभिसंधाय पारुष्यविरतेर् ब्रह्मस्वरता निर्वर्तत इत्य् उक्तं. अनेन स्वसिद्धान्तविरुद्धता तस्याः प्रतिज्ञायाः परिह्रियते. यदि शब्दवद् युक्तिविरोधः स्याद् इति. शब्द इच्छातः प्रवर्तत इति विपाकयुक्तिविरोधात् न विपाकज उक्तः. तद् यदि तद्वच् छारीरिक्य् अपि वेदना इच्छातः प्रवर्तते न विपाकजा स्यात्. न त्व् इच्छातः सा प्रवर्तते. किं तर्हि. अनिच्छयापि सा प्रवर्तते. चक्षुरादिवत्. तस्माद् विपाकजेति युज्यत इत्य् अभिप्रायः. कीदृशी पुनः सा. या सुखदुःखप्रत्ययोपसंहारम् अन्तरेणापि प्रवर्तते. नैष्यन्दिकाः सभागसर्वत्रगहेतुजनिता इति. सभागसर्वत्रगहेतुभिर् एव जनिता न विपाकहेतुनेति अवधारणं. ( अभिध्-क्-व्य् 71 ) विपाकजा विपाकहेतुजनिता इति. विपाकहेतुना जनिता एव न तु विपाकहेतुनैव जनिता इत्य् अवधारणं. सभागहेतुनापि जनिता विपाकजा भवन्ति. तत्र चाष्टाव् अप्रतिघा नैष्यन्दिका
विपाकजा एवेत्य् अवधार्यते. न हि एत् [तिब्. 66अ] औपचयिकाः संचयाभावात्. अपरमाणुसंचयस्वभावत्वाद् इत्य् अर्थः.
त्रिधान्य
इति. त्रिधान्य एवेत्य् अवधार्यते. तर्त्र विपाकजा इन्द्रियाविनिर्भागिन एव.
विपाको ऽव्याकृतो धर्मः सत्त्वाख्य
इति वचनात्. नैष्यन्दिकौपचयिकास् तु इन्द्रियविनिर्भागिनो ऽपि. कथं पुनर् गम्यते. इन्द्रियविनिर्भागिनो ऽपि नैष्यन्दिकाः सन्तीति. मृतस्यापि तदनुवृत्तिदर्शनात्. न ह्य् असत्त्वसंख्याता विपाकजा इष्यन्ते.
द्रव्यवान् एक
इति. एक एव द्रव्यवान् इत्य् अवधारणं. सारत्वाद् द्रव्यम् इत्य् अविनाशात्. क्षणम् एकम् अनैष्यन्दिका भवन्तीति. क्षणम् एकम् असभागहेतुनिर्वर्तिताः. पूर्वक्षणानास्रवाभावात् क्षणिका न तु क्षणान्तरविनाशिन इत्य् अयम् अर्थो ऽभिप्रेतः. अन्यथा हि पश्चिमा एव धातवः क्षणिका इत्य् अवधारणात् तदितरेषां धातूनाम् अक्षणिकत्वप्रसंगः. कथं पुनर् दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर् मनोविज्ञानधातुश् च युगपद् भवतः. न हि विज्ञानद्वयसमवधानम् इष्यते. नोच्यते युगपत् तौ भवत इति. किं तर्हि. एकम् अत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते. नामद्वयेन कथ्यते इत्य् अर्थः. तेन व्याचष्टे दुःखधर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर् मनोविज्ञानधातुश् चेति. [तिब्. 66ब्] शेषास् तत्सहभुवो धर्मधातुर् इति. तत्र क्षान्तिकलापे चित्ताद् अन्ये धर्माः शेषाः. तद्सहभुवस् तया क्षान्त्या सहभुवः. तद्यथा अनास्रवसंवरो रूपं वेदनासंज्ञाचेतनादयः संप्रयुक्ताः. तेषां च प्राप्तिजात्यादयो धर्मधातुर् इति.
(इ.37च्द्) समन्वागमं प्रतिलभत इति. प्राप्तिम् अलब्धपूर्वां लभत इत्य् अर्थः. चक्षुर्विज्ञानधातुनापि स इति. किं. समन्वागमं प्रतिलभत इत्य् अधिकृतं.
पृथग् लाभ
इत्य् अनेन प्रथमद्वितीये कोट्यौ दर्शिते.
सहापि चेत्य्
अनेन तृतीया कोटिर् दर्शिता. चतुर्थी तु उक्तनिर्मुक्तेति सुगमत्वान् न दर्शिता.
च-
शब्देन वा साप्य् उक्ता. अपृथग् असह चेति. कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमान इति. कामधातौ स्थितः पुद्गलः क्रमेण कललादिक्रमेण ( अभिध्-क्-व्य् 72 ) मृत्युक्रमेण वा. चक्षुरिन्द्रियं. किंप्रतिसंयुक्तं. किं कामधाताव् एव. नेत्य् उच्यते. अविशेषेण कामप्रतिसंयुक्तं वा रूपप्रतिसंयुक्तं वा प्रतिलभमानः. कललाद्यवस्थायां तथा क्रमेण मरणस्याचक्षुष्मन्मरणस्य च काले चक्षुर्धातुना असमन्वागतः. कललाद्यवस्थायां तथा मरणावस्थायां वा तदभावात्. षडायतनोत्पत्त्यवस्थायां भवस्यान्तराले वा तेनेदानीं समन्वागमं प्रतिलभते. न तु चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते. यस्माद् असौ कुशलक्लिष्टेनातीतानागतेन समन्वागत एव पूर्वम् अन्तराभवप्रतिसंधिकाले. विप्रकृतावस्था ह्य् एषाधिक्रियते न प्रतिलब्धवत्प्रतिलप्स्यमानावस्था. चक्षुर्विज्ञानधातुनेति [तिब्. 67अ] विस्तरः. द्वितीयादिध्यानोपपन्नस् तत्र तस्य चक्षुर्विज्ञानधातोर् अभावात् तेन पूर्वम् असमन्वागत इदानीं चक्षुर्विज्ञानं प्रथमध्यानभूमिकम् अनिवृताव्याकृतस्वभावं संमुखीकुर्वाणः. तेन चक्षुर्विज्ञानधातुना समन्वागमं प्रतिलभते. न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते. प्रतिलब्धवत्समन्वागतत्वात्. तत्प्रच्युतश् चाधस्ताद् उपपद्यमान इति. द्वितीयादिध्यानप्रच्युतो ऽधस्तात् प्रथमे ध्याने कामधातौ चोपपद्यमानश् चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते. अन्तराभवप्रतिसंधाने कुशलक्लिष्टेन अतीतानागतेन. न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते. प्रतिलब्धवत्समन्वागतत्वात्. स्याद् उभयेनेति विस्तरः. आरूप्यधातुच्युत उभाभ्यां चक्षुर्धातुचक्षुर्विज्ञानधातुभ्यां पूर्वम् असमन्वागतः. अन्तराभवप्रतिसंध्यवस्थायाम् एव चक्षुर्धातुनोत्पादाभिमुखेन चक्षुर्विज्ञानधातुना कुशलक्लिष्टेनातीतानागतेन समन्वागमं प्रतिलभते. अविकलेन्द्रिया ह्य् अन्तराभविकाः. नोभयेन एतान् आकारान् स्थापयित्वेति. कोटीत्रयोक्तान् धर्मप्रकारान् त्यक्त्वेत्य् अर्थः. आरूप्यधातुच्युतस् तत्रैवोत्पद्यमानो नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. असमन्वागतत्वं तत्रास्ति न तु समन्वागमप्रतिलम्भः. द्वितीयादिध्यानोपपन्नश् च चक्षुर्विज्ञानम् असंमुखीकुर्वाणो नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. कथं. चक्षुर्धातुना यद्य् अपि समन्वागमं प्रतिलभते न तु चक्षुर्धातुनासाव् असमन्वागतः. चक्षुर्विज्ञानधातुना यद्य् अप्य् असौ असमन्वागतो न तु समन्वागमं [तिब्. 67ब्] प्रतिलभते तदसंमुखीकुर्वाणत्वात्. चक्षुष्मान् कामधातुस्थः सकृन्मरणात् अन्तराभवप्रतिसंधौ ( अभिध्-क्-व्य् 73 ) नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. ताभ्यां समन्वागतत्वात्. यश् चक्षुर्धातुना समन्वागतश् चक्षुर्विज्ञानधातुनापि स इति.
पृथग् लाभः सहापि चेत्य्
अनेनैव सूत्रेणेदम् अपि चतुःकोटिकं वर्तयति. लाभो हि प्रतिलम्भः. प्राप्तिमात्रे ऽपि विवक्षया कदाचिद् भवति. प्रथमे चतुःकोटिके प्रतिलम्भो ऽधिकृतो द्वितीये तु प्राप्तिमात्रं. प्रथमा कोटिर् इति विस्तरः. द्वितीयादिध्यानोपपन्नो ऽवाश्यं चक्षुर्धातुना समन्वागत इन्द्रियैर् अविकलत्वात्. चक्षुर्विज्ञानधातुनात्रासमन्वागतः. तत्राभावात्. प्रथमध्यानभूमिकस्य चक्षुर्विज्ञानस्यासंमुखीक्रियमाणत्वात्. कामधाताव् अलब्धविहीनचक्षुर् इति. अलब्धं विहीनं वा चक्षुर् अस्यालब्धविहीनचक्षुः. अलब्धचक्षुः कललाद्यवस्थः. विहीनचक्षुर् विनष्टचक्षुः. स कामधातौ चक्षुर्विज्ञानधातुना अन्तराभवप्रतिसंधौ प्रतिलब्धेन कुशलक्लिष्टेन समन्वागतः. न चक्षुर्धातुना तस्याभावात्. लब्धाविहीनचक्षुर् इति. लब्धम् अविहीनं चक्षुर् अस्य लब्धाविहीनचक्षुः. स कामधातौ चक्षुर्धातुना चक्षुर्विज्ञानधातुना च तथा पूर्वं प्रतिलब्धेनेदानीं त्व् अनेन चाव्याकृतेन समन्वागतः. प्रथमध्यानोपपन्नश् च तेनोभयेन समन्वागतः. स्वभूमिकस्य तत्रावश्यम् अस्तित्वात् परभूमिकस्य चक्षुषः सम्भवात्. द्वितीयादिध्यानोपपन्नश् च पश्यन्. प्रथमध्यानभूमिकं [तिब्. 68अ] चक्षुर्विज्ञानं संमुखीकुर्वाण इत्य् अर्थः. स चाप्य् अवश्यम् अनेनोभयेन समन्वागतः. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. आरूप्योपपन्नः.
यथायोगम् अभ्यूहितव्याव् इति. यश् चक्षुर्धातुना अस्मन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः. यो वा रूपधातुना चक्षुर्धातुनापि सः. चक्षुर्धातुरूपधात्वोः स्यात्
पृथग् लाभः सहापि च.
पृथक् तावत्. स्याच् चक्षुर्धातुना समन्वागतः. न रूपधातुना. कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः. स्याद् रूपधातुना न चक्षुर्धातुनेति इयं कोटिर् नास्ति.
सहापि.
स्यात् उभयेनासमन्वागतः समन्वागमं प्रतिलभते. आरूप्यधातोश् च्युतो रूपधातौ कामधातौ चोपपद्यमानः. नोभयेन एतान् आकारान् स्थापयित्वा. यश् चक्षुर्धातुसमन्वागतो रूपधातुनापि स इति पूर्वपादकः. यस् तावच् चक्षुर्धातुना समन्वागतो रूपधातुनापि सः. स्यात् रूपधातुना न चक्षुर्धातुना कललाद्यवस्थास्व् अलब्धचक्षुर् लब्धविहीनचक्षुश् च. ( अभिध्-क्-व्य् 74 ) यश् चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः. यो वा रूपधातुनासमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः. तथैव तयोः स्यात्
पृथग् लाभः सहापि च.
पृथक् तावत्. स्याच् चक्षुर्विज्ञानधातुना न रूपधातुना. द्वितीयादिध्यानोपपन्नश् चक्षुर्विज्ञानं संमुखीकुर्वाणः. स्याद् रूपधातुना न चक्षुर्विज्ञानधातुना. [तिब्. 68ब्] आरूप्यधातोश् च्युतो द्वितीयादिषु ध्यानेषूपपद्यमानः.
सहापि.
स्याद् उभवेनासमन्वागतः समन्वागमं प्रतिलभते. आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः. नोभयेन. एतान् आकारान् स्थापयित्वा. यश् चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः. यो वा रूपधातुना चक्षुर्विज्ञानधातुनापि सः. पूर्वपादकः. यस् तावच् चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः. स्याद् रूपधातुना न चक्षुर्विज्ञानधातुनापि. द्वितीयादिध्यानोपपन्नश् चक्षुर्विज्ञानम् असंमुखीकुर्वाणः. यथा चेयं चक्षुर्विज्ञानरूपधातूनां प्रतिलम्भसमन्वागमचिन्ता. तथा श्रोत्रविज्ञानशब्दधात्वादीनाम् अपि प्रतिलम्भसमन्वागमचिन्ता कर्तव्या. श्रोत्रविज्ञानधात्वोः स्यात्
पृथग् लाभः सहापि चेत्य्
आदि.
(इ.38अब्) द्वादशाध्यात्मिका
इति. उभयावधारणम्. अवधारणाद् एव चान्ये रूपादयो बाह्या इति सिद्धं. आत्मन्य् अध्य् अध्यात्मं. अध्य् आत्मानम् इति वा अध्यात्मं. अध्यात्मम् एव आध्यात्मिकाः. अध्यात्मे वा भवाः आध्यात्मिकाः. अहंकारसंनिश्रयत्वाच् चित्तम् आत्मेत्य् उपचर्यत इत्य् अहंकारसंनिश्रय आत्मेत्य् आत्मवादिनः संकल्पयन्ति. चित्तं चाहंकारसंनिश्रय इत्य् आत्मेत्य् उपचर्यते. कथम् इत्य् आह.
आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डित
इत्य् उक्तं गाथायां. कथं पुनर् गम्यते चित्तम् आत्मशब्देनोच्यत इति. तत आह. चित्तस्य चान्यत्र दमनम् उक्तं भगवतेति. अन्यत्र गाथायाम् उक्तं.
[तिब्. 69अ] चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्
इति. तेनायम् अर्थः. आत्मनि चित्तीकार्ये आत्मानं वा चित्तम् अधिकृत्य ये धर्माः प्रत्यासन्नभावात् आश्रयभावेन वर्तन्ते. ते आध्यात्मिकाः. ये तु विषयभावेन वर्तन्ते. ते बाह्या इति. कः पुनः प्रत्यासन्नभावः. येन विज्ञानं तद्विकारम् अनुविधत्ते. चक्षुरादिष्व् एव हि विज्ञानं लक्ष्यते न रूपादिष्व् ( अभिध्-क्-व्य् 75 ) इति. तथा हि चित्तम् इन्द्रियसम्बद्धे शरीरदेशे परिच्छिद्यते न विषयदेश इति. एवं तर्हि षड् विज्ञानधातव इति विस्तरः. इह पंच तावद् विज्ञानधातवो वर्तमाना एव गृह्यन्ते. इन्द्रियविषयसमानकालत्वात्. वर्तनानविषया हि पंच विज्ञानकायाः मनोविज्ञाधातुर् अपि वर्तमान एवेह व्यवस्थाप्यते. यस्मा मनोधातुर् अस्याश्रयो ऽनन्तरातीतो व्यवस्थाप्यते. कालभेदाद् एव हि मनिधातुमनोविज्ञानधात्वोः पृथग्व्यवस्थानं. तस्मात् त आध्यात्मिका न प्राप्नुवन्ति. न ह्य् एते मनोधातुत्वम् अप्राप्ता अतीतत्वम् अप्राप्ताश् चित्तस्याश्रयीभवन्ति. यदा तदा त एव ते भवन्तीति लक्षणं नातिवर्तन्त इति. किम् अनेन वाक्येन साधितं. इदम् अनेन साधितं. वर्तमानानाम् अप्य् एषाम् आश्रयभावो भविष्यतीति भविष्यदाश्रयभावेनाध्यात्मिकत्वं भवतीति. यदि वानागतप्रत्युत्पन्नस्येति विस्तरः. अतीते ऽध्वनि यन् मनोधातुलक्षणं. तद् अनागतप्रत्युत्पन्नयोर् अप्य् अध्वनोर् अस्त्य् एवेत्य् अभिप्रायः. न हि लक्षणस्याध्वसु [तिब्.69ब्] व्यभिचारो ऽस्ति. न हि स्वभावपरित्यागो ऽस्तीत्य् अर्थः.
(इ.38च्द्) धर्मसंज्ञकः सभाग
इति. धर्मसंज्ञकः सभाग एवेत्य् अवधार्यते. यो हि विषयो यस्य विज्ञानस्य नियत इति. तद्यथा चक्षुर्विज्ञानस्य रूपं नियतो विषयो यावन् मनोविज्ञानस्य धर्माः. यदि तत्र तच् चक्षुर्विज्ञानम् उत्पन्नम् उत्पत्तिधर्मि वा. यावद् यदि तत्र मनोविज्ञनम् उत्पन्नम् उत्पत्तिधर्मि वा. स विषयः सभाग इत्य् उच्यते. तस्य च स्वभावसहभूनिर्मुक्ता इति. स्वभावेन सहभूभिश् च निर्मुक्ताः स्वभावसहभूनिर्मुक्ताः. सर्वधर्मास् तस्य विज्ञानस्यालम्बनं. न स्वभावः. स्वात्मनि वृत्तिविरोधात्. न हि तद् एवांगुल्यग्रं तेनैवांगुल्यग्रेण स्पृश्यते. न सैवासिधारा तयैवासिधारया छिद्यते. न सहभुवः. संप्रयुक्ता विप्रयुक्ता वा. अतिसंनिकृष्टत्वात्. न ह्य् अक्षिस्थम् अंजनं तेन गृह्यते. स पुनश् चित्तक्षणो ऽन्यस्य चित्तक्षणस्य आलम्बनम् इति. ये पूर्वस्मिन् क्षणे स्वभावसहभुवो धर्मा नालम्बिता अभूवन्. ते ऽप्य् आलम्बिता इति द्वयोः क्षणयोः सर्वधर्मा आलंबनं भवन्ति. तस्माद् धर्मधातुर् नित्यं सभागः. धर्मधातुर् हि नियतो मनस एव.
तत्सभागाश् च शेषाः.
चशब्देन सभागाश् चेति. शेषा एव सभागतत्सभागा इत्य् अवधार्यते. ननु च धर्मधातुर् [तिब्. 70अ] एव सभाग एवेत्य् अवधारणे शेषा न सभागा इति सभागतत्सभागाः सेत्स्यन्ति. न सेत्स्यन्ति. यद्य् अपि न सभागा एवेति भवेयुः. ( अभिध्-क्-व्य् 76 ) तत्सभागा एवेति तु संभवेयुः. तन्निवृत्त्यर्थम् इदम् आरभ्यते. सभागतत्सभागा एव शेषाः. न तु सभागा एव नापि तत्सभागा एवेति.
यो न स्वकर्मकृत्
स तत्सभाग इति संबन्धनीयं
तत्सभागाश् चेति.
अनन्तरोक्तत्वात्. उक्तं भवति. यः स्वकर्मकृत् स सभाग इति. अस्वकर्मकृद् एव तत्सभागस् तत्सभाग एव वास्वकर्मकृद् इत्य् अवधारणे ऽर्थापत्त्या स्वकर्मकृत् सभाग इति. रूपाण्य् अपश्यद् इति. अद्राक्षीद् इति वक्तव्यं. एवं ह्य् अद्यतनातीतं ह्यस्तनातीतं च परिगृहीतं भवति. अन्यथा ह्य् अव्यापि लक्षणं स्यात्. अथैवम् एव पाठ उदाहरणमात्रं तद् द्रष्टव्यां. अद्यतनातीतम् अपि वक्तव्यं. एवं यावन् मनः स्वेन विषयकारित्रेण वक्तव्यम् इति. स्वेन विषयपुरुषकारेण वक्तव्यं. कथम् इति. येन श्रोत्रेण शब्दान् अशृणोत् शृणोति श्रोष्यति वा. तद् उच्यते सभागं श्रोत्रम् इति सर्वं. विज्ञानसमायुक्तम् असमायुक्तं चेति विज्ञानसम्बद्धम् असम्बद्धं चेत्य् अर्थः. यद् एकस्य चक्षुः सभागं तद् [तिब्. 70ब्] सर्वेषां किं. सभागम् इति वर्तते एवं तद्सभागम् अपीति. यद् एकस्य चक्षुस् तद्सभागं. तत् सर्वेषां तत्सभागम् इत्य् अर्थः. प्राप्तग्रहणाद् इति. गन्धादयः. ये एवदत्तेन घ्राणादीन्द्रियप्राप्ता गृह्यन्ते. न ते यज्ञदत्तेन गृह्यन्ते. स्वघ्राणादिकप्रविष्टत्वात्. इत्य् असाधारणत्वाद् एषां चक्षुरादिवद् अतिदेशो न्याय्यः. य एकस्य गन्धः सभागः. स सर्वेषाम्. एवं तत्सभागो ऽपीति वक्तव्यं. न तु वक्तव्यं यथा रूपम् एवं गन्धादय इति. अस्ति ह्य् एष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानम् उत्पादयेयुः. त एवान्येषाम् अपीति. यदि ते एवदत्तघ्राणादीन्द्रियप्राप्ता भवेयुर् एवदत्तस्य विज्ञानम् उत्पादयेयुः. अथ यज्ञदत्तघ्राणादीन्द्रियप्राप्ता यज्ञदत्तस्य विज्ञानम् उत्पादयेयुर् इत्य् अर्थः. अथ वा त एवान्येषाम् अपीति. तत्रान्तर्गतसूक्ष्मक्रिमिप्रभृतीनाम् अपि विज्ञानम् उत्पादयेयुः. न तस्यैव एवदत्तस्य यस्य घ्राणादीन्द्रियप्राप्तास् ते गन्धादय इति. इन्द्रियविषयविज्ञानानाम् अन्योन्यभजनम् इति. आश्रयविषयाश्रयिभावेनान्योन्याभिमुख्येन प्रवृत्तिः. तथा हीन्द्रियधातवो विज्ञानधातून् आश्रयभावेन यथायोगं भजन्ते. सेवन्त इत्य् अर्थः. विषयधातूंश् च विषयिभावेन. तथा विषयधातवः स्वेन्द्रियधातून् विषयभावेन भजन्ते. विज्ञानधातूंस् तु विषयभावेन आलम्बनभावेन वा भजन्ते. तथा [तिब्. 71अ] विज्ञानधातवः स्वेन्द्रियधातूनाम् आश्रयिभावेन भजन्ते. विषयधातूंश् च विषयिभावेनालम्बकभावेन वा भजन्त. इत्य् अन्योन्यभजनं भागः. भावे घञ्. कारित्रभजनं वा भागः. कारित्रं ( अभिध्-क्-व्य् 77 ) चक्षुरादीनां दर्शनादि. विज्ञानधातूनां विज्ञातृत्वं. विषयधातूनां तद्विषयालम्बनभावः. तस्य कारित्रस्य भजनं कारित्रभजनं. स एषाम् अस्तीत्य् अर्थः. प्रदर्शनमात्रम् एतत्. विग्रहस् त्व् एवं कर्तव्यः. सह भागेन वर्तन्ते सभागा इति. समानो वा भाग एषां एषां त इमे सभागाः. समानार्थस्य सहशब्दस्य सभाव आदिष्टः. स्पर्शसमानकार्यत्वाद् वा. किं. सभागा इति प्रकृतम्. अत्र कर्मणि घञ्. भज्यत इति भागः. विग्रहस् तु पूर्ववत्. स्पर्शश् चैतसिकः. एषाम् इन्द्रियविषयविज्ञानानां समानं कार्यं. चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानं. त्रयाणां संनिपातः स्पर्श इत्यादिवचनात्. ये पुनर् असभागा इति विस्तरः. ये पुनर् अन्ये चक्षुरादय इत्थम् असभागाः. तेषां सभागानाम् उक्तलक्षणानां सभागाः सदृशाः. ते तत्सभागाः. तेषां तैर् वा सभागास् ते तत्सभागाः. तुल्यार्थे ह्य् अत्र सभागशब्दो गृह्यते.
(इ.39) दर्शनहेया इति. दर्शनं प्रथमतः सत्यदर्शनम् अनास्रवं पंचदशचित्तक्षणसंगृहीतं. भावना तद् एव पुनःपुनर्दर्शनं. लौकिकं वा समाहितं ज्ञानं भावना.
दश भावनया हेयाः पंच चेति.
रूपिणो धातवो दश पंच च तद्विज्ञानधातव इति. [तिब्. 71ब्] कथं पुनर् एतद् गम्यते. एत एव त इति.
अन्त्यास् त्रयं त्रिधेति
वचनात्. अन्त्यत्रयात् अन्ये पंचदश धातव एव त उच्यन्त इति. ते भावनाहेया एवेत्य् अवधार्यन्ते. त्रिप्रकारा इति. दर्शनहेया भावनाहेया अहेयाश् चेत्य् अर्थः. एत एव त्रिधा अष्टाशीत्यनुशयास् तत्सहभुव इति. धातुप्रकाराकारभिन्नाः सत्कायदृष्ट्यादयो ऽनुशयास् तत्सहभुवो विज्ञानवेदनादयः संप्रयुक्ताः असंप्रयुक्तानि च तल्लक्षणानुलक्षणानि. तत्प्राप्तयश् च सानुचरा इति. तच्छब्देन अनुशयादयः संबध्यन्ते. तेषाम् अनुशयानां तत्सहभुवां च प्राप्तयस् तत्प्राप्तयः. यद्य् अप्य् अनुशयसहभुवो भवन्ति. न तु सर्वाः. काश्चिद् धि प्राप्तयो ऽनुशयादिसहभुवो भवन्ति याः सहजाः. काश्चित् तु पूर्वं पश्चाच् च तेभ्यो भवन्त्य् अतः पृथक् प्राप्तिग्रहणं. सानुचरा इति ग्रहणेन अनुप्राप्तयस् तल्लक्षणानि च संगृह्यन्ते. शेषाः सास्रवा भावनाहेया इति. एत एव त्रयो ऽन्त्या धातवो ये शेषा दर्शनहेयेभ्यो ऽन्ये सास्रवाः. ते भावनाहेयाः. के पुनस् ते. दशानुशयास् तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. कुशलसास्रवाः. अनिवृताव्याकृताश् च संस्काराः. अविज्ञप्तिरूपं च सास्रवं सानुचरं. [तिब्. 72अ] अनास्रवा अहेया इति मार्गसत्यासंस्कृतस्वभावाः. ननु चान्यद् अपीति विस्तरः. पृथग्जनत्वम् अनिवृताव्याकृतसंस्कारस्वभावत्वाद् भावनाहेयमध्यगतम्. अपायसंवर्तनीयं च ( अभिध्-क्-व्य् 78 ) कायवाक्कर्म रूपस्वभावत्वाद् भावनाहेयम् उक्तम्. इत्य् अतश् चोदयन्ति वात्सीपुत्रीयाः. आर्यमार्गविरोधित्वाद् इति. पृथग्जनत्वम् आर्यमार्गोत्पादे न भवति. नियते चापायिके कर्मणि सति आर्यमार्गो नोत्पद्यते. आर्यमार्गोत्पादे च सत्य् आपायिकं कर्म नोत्पद्यते. तस्मात् सत्कायदृष्ट्यादिवत् तद् उभयं दर्शनहेयम् इति वर्णयन्ति. तत्प्रतिषेधार्थम् उक्तम् अप्य् एतद् अभिसंक्षेपेण. सुखप्रतिपत्त्यर्थं पुनर् उच्यते.
न दृष्टिहेयम् अक्लिष्टं न रूपं नाप्य् अषष्ठजं.
दृष्टिर् दर्शनम्. अक्लिष्टम् अनिवृतव्याकृतं कुशलं वा न दर्शनहेयं. रूपं तु क्लिष्टम् अपि न दर्शनहेयं.
अषष्ठजं
पंचेन्द्रियजं पंचविज्ञानं तद् अरूपं क्लिष्टम् अपि सन् न दर्शनहेयं. अतो ऽन्यत् तु दर्शनहेयं संभवति यथोक्तम्. अक्लिष्टाव्याकृतं च पृथग्जनत्वं समुच्छिन्नकुशलमूलवीतरागाणाम् अपि तत्समन्वागमाद् इति. समुच्छिन्नकुशलमूलाः कुशलैर् धर्मैर् असमन्वागता इष्टाः. पृथग्जनत्वेन तु समन्वागताः. [तिब्. 72ब्] यस्मात् ते पृथग्जना इष्यन्ते. तस्मान् न कुशलं पृथग्जनत्वं. क्लिष्टम् अपि तन् न भवति. वीतरागानाम् अपि तेन समन्वागमात्. क्लिष्टस्य हि वस्तुनः स्वभावप्रहाणम् इष्यते. प्राप्तिछेदः प्रहाणम् इत्य् अर्थः. तद् यदि पृथग्जनत्वं क्लिष्टं स्यात् लौकिकवीतरागाणां तस्य प्राप्तिछेद इति तेनसमन्वागमः स्यात्. इष्यते च तेषां तेन समन्वागमः. तथा हि ते लौकिकवीतरागाः पृथग्जना एवेष्यन्ते. अक्लिष्टव्याकृतत्वैकत्वे ऽदोषः. छन्दरागप्रहाणं अक्लिष्टस्येष्यते. तदालम्बनक्लेशप्राप्तिछेद इत्य् अर्थः. न तु तदात्मीयप्राप्तिछेद इष्यते. तथा ह्य् उक्तं भगवता यो भिक्षवो रूपे छन्दरागः. तं प्रजहीत. एवं वस् तद् रूपं प्रहीणं भवतीति विस्तरः. तस्माद् अक्लिष्टाव्याकृतं पृथग्जनत्वं तेषां प्रहीणम् अपि चक्षुरादिवत् समुदाचरति. अतस् तेन समन्वागमो भवति. किं पुनः कारणं. अक्लिष्टव्याकृतत्वात् पृथग्जनत्वं न दर्शनप्रहातव्यं. रूपत्वाच् च कायवाक्कर्म इत्य् आह. सत्येष्व् अविप्रतिपत्तेः. अक्लेशदुष्टत्वात् पृथग्जनत्वं न दुःखादिषु सत्येषु विप्रतिपद्यते. न विपरीतरूपेण प्रवर्तत इत्य् अर्थः. अनालम्बकत्वाच् च. कायवाक्कर्माप्य् अनालम्बकत्वाद् एव न विप्रतिपद्यते. तस्मात् तद् उभयं न दर्शनहेयं. अयं च सत्येष्व् अविप्रतिपत्तेर् [तिब्. 73अ] इति हेतुर् अषष्ठजे ऽप्य् अनुवर्तयितव्यः. दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच् चेति. अयम् उपचयहेतुः पृथग्जनत्वस्यैव दर्शनहेयत्वनिवृत्त्यर्थम् उच्यते कायवाक्कर्मणो ऽनभिसंबन्धात्. दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्राप्तिश् छिद्यते ( अभिध्-क्-व्य् 79 ). न तु छिन्ना तत्प्रहेयक्लेशप्राप्तिवत्.
निरुध्यमानो मार्गस् तु प्रजहाति तदावृतिम्
इति वचनात्. दुःखे धर्मज्ञाने तु तत्प्राप्तिश् छिन्ना. तेन तत्प्राप्तिसद्भावात् दुःखे धर्मज्ञानक्षान्त्यवस्थायां स पुद्गलः पृथग्जनः स्यात्. न चासौ तस्याम् अवस्थायां पृथग्जन इति शक्यते व्यवस्थापयितुम् अधिगतार्यमार्गत्वात्. तथा हि पृथग्जनत्वं कतमद्. आर्यधर्माणाम् अलाभ इति पृथग्जनत्वलक्षणं. स चार्यधर्माणां लाभेनालाभो व्यावर्तते. तस्माद् आर्य एवासाव् इति. इदं तावत् भवन्तो वैभाषिकाः प्रष्टव्याः. तत् पृथ्ग्जनत्वं किं भावनामार्गप्रतिलम्भाद् एव प्रहीयते. नेत्य् उच्यते. तत् पृथग्जनत्वं नवभौमिकं कामावचरं यावत् भावाग्रिकं. तच् चाक्लिष्टं. तेन प्रतिभूमिभूमिनवमक्लेशप्रकारप्रहाणावस्थायां प्रहीयते. सर्वं ह्य् अक्लिष्टं सास्रवं नवम एव विमुक्तिमार्गे प्रहीयते. यद्य् एवम् अवीतरागावस्थायाम् आर्यः पृथग्जनः स्यात्. न. पृथग्जनत्वस्य विहीनत्वात्. [तिब्. 73ब्] दुःखे धर्मज्ञानक्षान्तेः प्रभृति हि तद् विहीनम् एव. न तु प्रहीणं. कः पुनर् विहानप्रहाणयोर् विशेष इति. विहानं प्राप्तिछेदे व्यवस्थापितं. प्रहाणं तु प्रतिपक्षलाभे व्यवस्थापितं. तस्मात् प्राप्तिछेदात् तेन पृथग्जनत्वेनासमन्वागमात् तस्याम् अवस्थायाम् आर्य एव भवति. न पृथग्जन इत्य् अदोष एषः.
(इ.40, 41) चक्षुश् च धर्मधातोश् च प्रदेशो दृष्टिर्
इति. चक्षुर् एव धर्मधातुप्रदेश एव दृष्टिर् इत्य् अवधार्यते. सत्कायदृष्ट्यादिकेति. सत्कायदृष्टिर् अन्तग्राहदृष्टिर् मिथ्यादृष्टिर् दृष्टिपरामर्शः शीलव्रतपरामर्शश् चेति. शैक्षस्यानास्रवेति प्रज्ञेत्य् अधिकृतं. अशैक्षस्याशैक्षीति. अशैक्षस्यानास्रवा प्रज्ञा अशैक्षी. क्षयानुत्पादज्ञानवर्ज्येति वक्तव्यं. वक्ष्यति हि
क्षयानुत्पादधीर् न दृग्
इति. समेघामेघेति विस्तरेण यावत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर् दृष्टिभिर् धर्मदर्शनम् इति. लोके भवा लौकिकी. क्लिष्टा चाक्ल्ष्टा च क्लिष्टाक्लिष्टे. क्लिष्टाक्लिष्टे चासौ लौकिकी च. क्लिष्टाक्लिष्टलौकिकी. क्लिष्टाक्लिष्टलौकिकी च शैक्षी चाशैक्षी च क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्ष्यः. ताभिर् धर्मदर्शनं. कीदृशम् इत्य् आह. समेघामेघरात्रिंदिवरूपदर्शनवद् इति. यथा [तिब्. 74अ] समेघायां रात्रौ रूपदर्शनं. एवं क्लिष्टया लौकिक्या सत्कायदृष्ट्यादिकया दृष्ट्या धर्मदर्शनं. अव्यक्ततरम् इत्य् अर्थः. यथा तस्याम् एव रात्रौ अमेघायां रूपदर्शनं. एवम् अक्लिष्टया लौकिक्या दृष्ट्या धर्मदर्शनं. ( अभिध्-क्-व्य् 80 ) अव्यक्तम् इत्य् अर्थः. यथा समेघे दिवसे रूपदर्शनं. एवं शैक्ष्या दृष्त्या धर्मदर्शनं. व्यक्तं न त्व् अत्यर्थं. यथा पुनर् अमेघे दिवसे रूपदर्शनं. एवम् अशैक्ष्या दृष्ट्या धर्मदर्षनम्. अत्यर्थं व्यक्तम् इत्य् अर्थः.
अतीरणाद्
इति असंतीरणात्. संतीरणं पुनर् विषयोपनिध्यानपूर्वकं निश्चयाकर्षणं. अत एव चान्यापीति विस्तरः. अत एवासंतीरणाद् अन्यापि मानसी क्लिष्टा रागादिसंप्रयुक्ता अक्लिष्टा वा क्षयानुत्पादज्ञानानिवृताव्याकृता प्रज्ञा न दृष्टिः. रूपालोचनार्थेनेति. चक्षुर् न संतीरकत्वेन दृष्टिः. किं तर्हि. रूपालोचनार्थेन. प्रज्ञा तु संतीरकत्वेनेति दर्शितं भवति. अन्यविज्ञानसमंगिन इति. अन्यविज्ञानसंमुखीहाविनः पुद्गलस्यान्यविज्ञानव्यासक्तस्येत्य् अर्थः. पश्येच् चक्षुरिन्द्रियं विषयादिसांनिध्यात्. यस्य तु चक्षुर्विज्ञानं पश्यतीति पक्षः. तस्य तद्विज्ञानासंभवाद् अदोषः. तद् एव चक्षुराश्रितं विज्ञानं पश्यतीत्य् अस्त्व् इति. दर्शनस्य तद्भावे भावात् तदभावे चाभावात्.
दृश्यते रूपं न किलान्तरितं यत
[तिब्. 74ब्] इति किलशब्दः परमतौ. तस्याप्रतिघत्वाद् इति. विज्ञानम् अमूर्तिं कुड्यादीन्य् अतिक्रम्यापि पश्येत्. विज्ञानवाद्य् आह. नैव ह्य् आवृते चक्षुर्विज्ञानम् उत्पद्यते इत्य् अनाभासगतत्वात् विषयस्येत्य् अभिप्रायः. किं खलु नोत्पद्यत इत्य् अप्रतिघत्वात् कुड्यादीनि व्यतिभिद्य कुड्याद्यव्यवहित इव विषये विज्ञानम् उत्पत्स्यत इति भावः. यस्य त्व् इति. यस्य मम वैभाषिकस्य पक्षः चक्षुः पश्यतीति. तस्य मम चक्षुषः सप्रतिघत्वात् व्यवहिते कुड्यादिभिर् वृत्त्यभावः. तस्य चक्षुष आलोचनवृत्त्यभावः. विज्ञानं तर्हि वैभाषिकस्य व्यवहिते ऽपि प्राप्नोतीति चोद्यम् अन्तर्नीतम् आशंक्य स एव वैभाषिकः पुनर् आह. विज्ञानस्याप्य् अनुत्पत्तिर् इति. यथैव चक्षुषो व्यवहिते वृत्त्यभावो युज्यते विज्ञानस्याप्य् अनुत्पत्तिर् विज्ञानवृत्त्यभाव आश्रयेण सहैकविषयप्रवृत्तत्वात् युज्यते. य एव हि चक्षुषो व्यवहितो ऽर्थो विषयः स्यात्. स एव विज्ञानस्येति युक्ता विज्ञानस्याप्य् अनुत्पत्तिः. तव तु विज्ञानवादिनो ऽप्रतिघत्वाद् विज्ञानस्य व्यवहिते विज्ञानम् उत्पद्येत. न तूत्पद्यते. तस्माच् चक्षुः पश्यति न विज्ञानम् इति सिद्धं. एवं विज्ञानवादिनि प्रतिषिद्धे तत्पक्षम् आचार्यो गृहीत्वाह. किं नु वै चक्षुः प्राप्तविषयम् इति विस्तरः. यथा कायेन्द्रियं प्राप्तविषयं कुड्यादिव्यवहितं [तिब्. 75अ] विषयं न गृह्णाति. कुड्यादिप्रतिघातात्. ततः परेण प्रवर्तितुम् अलहमानत्वात्. किम् एवं चक्षुः प्राप्तविषयं कुड्यादिप्रतिघातेन प्रतिहतं सत् ततः परेण गन्तुम् अलभमानं ( अभिध्-क्-व्य् 81 ) तं कुड्यादिव्यवहितं विषयं न गृह्णातीति. नैतद् युज्यते. तस्मात् सप्रतिघत्वात् आवृतं चक्षुर् न पश्येद् इति न वक्तव्यं. काचाभ्रपटलस्फटिकांबुभिश् चान्तरितं कथं दृश्यत इति. काचेनाभ्रपटलेन स्फटिकेनाम्बुना चान्तरितं व्यवहितं रूपं कथं दृश्यते. सप्रतिघत्वाद् धि कुड्यादिव्यवहितवत् काचादिव्यवहितं चक्षुर् न पश्येत् तच् च पश्यतीति सिद्धान्तः. यत्रालोकस्याप्रतिबन्ध इति. आलोके हि सति विषय आभासगतो भवतीति विज्ञानोत्पत्तिसंभवः. एवं हि विज्ञानकारणं पठ्यते. चक्षुरिन्द्रियम् अनुपहतं भवति. विषय आभासगतो भवति. तज्जश् च मनसारः प्रत्युपस्थितो भवतीत्य् अत आवृते रूपे काचादिभिस् तत्रोत्पद्यते एव चक्षुर्विज्ञानं यत्र तु प्रतिबन्धो ऽकाचादिस्वभावैः कुड्यादिभिस् तमस्वद्भिः तत्रावृते नोत्पद्यते. किं. चक्षुर् विज्ञानम् इति. अनुत्पन्नत्वाद् आवृतं नेक्षत इति. यत् त्वया किं खलु नोत्पद्यत इति अनुत्पत्तौ कारणं पृष्टम् इदं तत्कारणम् इति ब्रूमः. यत् तर्हि सूत्र उक्तम् इति विस्तरः. चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यंजनग्राहीति विष्तरः. यस्माच् चक्षुः पश्यति. तस्मात् पुद्गलश् चक्षुषा पश्यतीत्य् अभिप्रायः. आचार्यः प्राह. तेनाश्रयेणेति [तिब्. 75ब्] अयम् अत्राभिसंधिः. चक्षुर् अश्रित्येत्य् एवात्राभिसंधिः. चक्षुषा आश्रयेण विज्ञानेन दृष्ट्वेत्य् अर्थः. कथं ज्ञायत इत्य् आह. यथा मनसा धर्मान् विज्ञायेति. मनसा आश्रयेण विज्ञानेन विज्ञायेति भवति. न ह्य् अनन्तरातीतं मनो धर्मान् विजानाति. वर्तमानावस्थायां हि विज्ञानं कारित्रं करोति. आश्रितकर्म वा आश्रयस्योपचर्यत इति. आश्रितस्य विज्ञानस्य कर्म दर्शनम् आश्रयस्य चक्षुष उपचर्यते. विज्ञाने पश्यति सति चक्षुः पश्यतीत्य् उपचारः. यथा मंचाः क्रोशंतीति. यथा मंचस्थेषु पुरुषेषु क्रोशत्सु मंचाः क्रोशन्तीत्य् उपचारः. तद्वत्. यथा च सूत्र उक्तम् इति विस्तरः. वैभाषिकाणाम् अप्य् अयं पक्षः. न चक्षुर् विजानाति. किं तर्हि. विज्ञानं विजानातीति. अथ चोक्तं चक्षुर्विज्ञेयानि रूपाणि कान्तानीति. तत्राश्रितकर्म आश्रयस्योपचर्यत इति अवश्यं प्रतिपत्तव्यं. द्वारं यावद् एव रूपाणां दर्शनायेति. द्वारम् इव द्वारं हेतुर् आश्रय इति अभिप्रायः. अनेनागमेन तेनाश्रयेणेति यो ऽर्थ उक्तः. तम् एव समर्थयति. तेन चक्षुषा द्वारेण विज्ञानं पश्यतीति. दर्शने तत्र द्वाराख्येति. चक्षुर् ब्राह्मण द्वारं यावद् एव रूपाणां दार्शनायेत्य् अत्र. न ह्य् एतद् युज्यते दर्शनं रूपाणां दर्शनायेति. अत्रावाचकत्वान् नैतद् युज्यत इत्य् [तिब्. 76अ] अभिप्रायः. यदि दर्शनं करणं दृश्यते ऽनेनेति दर्शनम् इति. कर्तरि वा ल्युट् पश्यतीति दर्शनम् इति.
दर्शनायेति च भावसाधनं. दृष्टिर् दर्शनं तस्मै दर्शनायेति. कथम् ( अभिध्-क्-व्य् 82 ) एतद् युज्यते. यस्माच् चक्षुर्व्यतिरिक्तं दर्शनं नास्ति. आलोचनम् इति चेत्. न. विज्ञानाव्यतिरिक्तत्वात् विज्ञानम् एव ह्य् आलोचनं. नातो ऽन्यत् पश्यामः. यदि तु चक्षुर्द्वारं विवरं रूपाणां दर्शनाय विज्ञानायेत्य् अर्थो गृह्येत तद् युज्यते. तद्यथा काचित् प्रज्ञा पश्यत्य् अप्य् उच्यत इति. पश्यतीत्य् अप्य् उच्यत इति इतिशब्दो ऽत्राध्याहार्यः. अनेनोपन्यासेन दर्शनविज्ञानयोर् अनर्थान्तरभाव इति दर्शयति. का पुनर् असौ या प्रज्ञैवम् उच्यते. या दर्शनात्मिकोक्ता.
तदन्योभयथार्या धीर्
इति. तस्यैवं जानत एवं पश्यत इति सूत्रे ऽपि वचनात्. किंचिद् इति वचनान् न सर्वं विज्ञानं पश्यतीत्य् उक्तं भवति. चक्षुर्विज्ञानं हि पश्यतीत्य् उच्यते. न तु श्रोत्रादिविज्ञानम् इति. कान्या दृष्टिक्रियेति. यस्योपलम्भकत्वं. तस्य दर्शनं युज्यत इत्य् अभिप्रायः. तद् एतद् अचोद्यम् इति विस्तरः. यदि विज्ञानं विजानाति. कर्तृभूतस्य विज्ञानस्य कान्या विज्ञानक्रियेति वक्तव्यम् इति तुल्यं चोद्यम् आपद्यते. न च तत्र कर्तृक्रियाभेदः. न कर्तुर् विज्ञानस्य क्रियायाश् च विज्ञानलक्षणाया भेदो ऽन्यत्वम् अस्ति. भवति च कर्तृक्रियासम्बन्धव्यपदेशः. विज्ञानं विजानातीति. [तिब्. 76ब्] तद्वद् इहापि भवेत्. चक्षुः पश्यतीति अचोद्यम् एतत्. चक्षुर्विज्ञानं दर्शनम् इत्य् अपरे. तस्याश्रयभावाच् चक्षुः पश्यतीत्य् उच्यते. यथा नादस्याश्रयभावात् घण्टा नदतीत्य् उच्यते. [विज्ञानं तर्हि कस्याश्रयभावाद् रूपं विजानातीत्य् आह.] विज्ञानस्याश्रयभावाद् इति. चक्षुर्विज्ञानस्याश्रयभावाद् इत्य् अर्थः. तद् विज्ञानं दर्शनम् इति रूढं लोके इति. दर्शनम् इति लोके रूढं न तु विज्ञानम् इति रूढं. कथं गम्यत इत्य् आह. तथा हि तस्मिन्न् उत्पन्ने रूपं दृष्टम् इत्य् उच्यते न विज्ञातम् इति. विभाषायाम् अप्य् उच्यत इति. स एवर्थो ऽभिधीयत इत्य् अभिप्रायः. चक्षुःसंप्राप्तं चक्षुराभासगतं. विज्ञानं तु सांनिध्य मात्रेणेति. नाश्रयभावयोगेनेति दर्शयति. यथा सूर्यो दिवसकर इति. यथा यथा सांनिध्यमात्रेण सूर्यो दिवसं करोतीत्य् उच्यते. तथा विज्ञानं विजानातीत्य् उच्यते. कस्मात्. लोके तथा सिद्धत्वात्. निर्व्यापारं हीदं इति विस्तरः. निर्व्यापरम् इति निरीहम्. अनेन हि कर्तुर् अर्थान्तरभूतां वा क्रियां प्रतिषेधति. धर्ममात्रम् इति. स्वतंत्रस्य कर्तुः प्रतिषेधं करोति. हेतुफलमात्रं चेति. असत्य् अपि कर्तरि हेतुफलयोः कार्यकारणम् अर्थत्वं दर्शयति. तत्र छन्दत उपचाराः क्रियन्ते यद् वस्तु व्यवहारांगं तेनेह व्यवहारार्थसंसिद्ध्यर्थम् असद् अपि सद्रूपेण परिकल्प्य [तिब्. 77अ] कर्तृक्रियादिव्यवस्थाणं क्रियते. चक्षुः पश्यति विज्ञानं विजानातीत्य् ( अभिध्-क्-व्य् 83 ) एवमादि. नात्राभिनिवेष्टव्यं.
भावो भवित्रपेक्षो ऽन्य
इत्यादि जनपदनिरुक्तिं नभिनिविशेतेति. जनपदस् तत्र नियता निश्चिता चोक्तिर् जनपदनिरुक्तिः. तां नाभिनिविशेत. तस्माद् अत्रेयं निरुक्तिर् इति. न वा सर्वाम् एवार्थवतीं निरुक्तिं कल्पयेत्. संज्ञां च लोकस्य नाभिधावेद् इति. आत्मा जीव इत्य् एवमादिकां संज्ञां लोकस्य नाध्यारोपयेत्. अभूतसमारोपेणास्त्य् आत्मा शरीरादिव्यतिरिक्त इति गच्छेद् इत्य् अर्थः. अथ वा संज्ञां च लोकस्य नाभिधावेन् नातिसरेत्. अर्थाबावात् संज्ञापि नास्तीति न कल्पयेद् इत्य् अर्थः. अतिसरणम् अतिक्रमणम् इत्य् एको ऽर्थः.
(इ.42अब्) उभाभ्याम् अपीत्य्
अपिशब्दाद् एकेनापि नात्र नियमः. द्वयोर् विवृतयोः पर्रिशुद्धतरं दर्शनम् इति. उक्तं भवति नैकतरान्यथीभावाद् इति. उन्मीलितार्धनिमीलितयोर् अक्ष्णोः एकतरस्यान्यथीभावाद् द्वयोर् एकतरद् यद्य् अन्यथीभवति. यदि यद् उन्मीलितं. तद् अर्धनिमीलितं क्रियेत् सर्वनिमीलितं वा. यच् चार्धनिमीलितं. यदि तत् सर्वनिमीलितं क्रियेत् सर्वोन्मीलितं वा. तदा द्विचन्द्रदर्शनं न भवति. अतो ऽवगम्यते द्वयोर् अपि चक्षुषोर् अत्र विज्ञानोत्पत्तौ व्यापारो ऽस्तीति. देशप्रतिष्ठितत्वात् रूपवद् इति विपरीतदृष्टान्तः. यथा रूपस्य देशप्रतिष्ठितत्वात् आश्रयविच्छेदाद् [तिब्. 77ब्] विच्छेदो भवति. नैवं विज्ञानस्य. न हि विज्ञानं च नाश्रयविच्छेदाद् विच्छेदो भवति.
(इ.42च्द्) तथा हि दूराद् रूपं पश्यतीति. यत्र रूपं दृश्यते. न तत्र तद्ग्राहकं चक्षुरिन्द्रियम् अस्ति. तत्र प्रमाणानुपलभ्यमानत्वात्. तत्राविद्यमानदेवदत्तादिवत्. यथा चक्षुः. एवं श्रोत्रम् अपि वक्तव्यं. इतर आह. स्वविषयदेशप्राप्ति चक्षुःश्रोत्रम्. इन्द्रियत्वात्. घ्राणेन्द्रियादिवत्. अनेनानुमानेन तत्र प्रमाणानुपलभ्यमानत्वं हेतुम् असिद्धं दर्शयति. आचार्य आह. सति च प्राप्तविषयत्व इति विस्तरः. यदि प्राप्तविषयं चक्षुःश्रोत्रं कल्प्येत दिव्यं चक्षुःश्रोत्रम् इह मनुष्येषु ध्यायिनां नोपजायेत्. यदि हि चक्षुःश्रोत्रम् अपि विप्रकृष्टदेशस्थं व्यवहितं च कुड्यादिभिर् यथायोगं रूपं शब्दं गृह्णीयात्. एवम् अस्य दिव्यत्वं संभवेत्. तच् च प्राप्तविषयत्वे न स्यात्. घ्राणादिवत्. यथा घ्राणजिह्वाकायाः प्राप्तविषयत्वात् दिव्या ध्यायिनां नोपजायेरन्. तद्वत्. अनेन स्वविषयदेशप्रापित्वपक्षस्य धर्मिविशेषविपर्ययापक्षालत्वं दर्शयति. संभवद्दिव्यत्वे हि चक्षुःश्रोत्रे धर्मी. असंभवद्दिव्यत्वभावो विशेषविपर्ययः. स प्राप्नोतीति ( अभिध्-क्-व्य् 84 ) दोषः अनेन दोषेणानुमानत्वात्. तत्प्रमाणानुपलभ्यमानत्वं सिद्धं व्यवस्थापयति. तस्माद् अप्राप्तविषयं चक्षुःश्रोत्रं. यद्य् अप्राप्तविषयं चक्षुर् इति विस्तरः. आसन्नेनातिदूरस्थेन तिरस्कृतेन वा तुल्या तदप्राप्तिर् इति [तिब्. 78अ] तत्र दर्शनं प्रसंजयति. किम् इदं परस्य साधनम् उत दूषणम् इति. यदि तावद् एवं साधनम् अतिदूरं तिरस्कृतं चक्षुःश्रोत्रेण गृह्यते. अप्राप्तत्वात्. आसन्नविषयवद् इति. तदसाधनं हेतोः स्वयम् अनिश्चितत्वात्. पूर्वाभ्युपगमविरोधाद् वा. अथ दूषणं सर्वप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य धर्मिणः प्रसज्यते. तद् अदूषणम् अनुमानबाधनात्. कथम् इत्य् आह. कथं तावद् अयस्कान्तो न सर्वम् अप्राप्तम् अयः कर्षयतीति प्रश्नमुखेनायस्कान्तनिदर्शनम् उपन्यस्य सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रस्य साधयति. न सर्वाप्राप्तग्राहकं चक्षुःश्रोत्रं. सर्वाप्राप्तग्रहणशक्तिहीनत्वात्. अयस्कान्तवत्. अयस्कान्तो ह्य् अप्राप्तम् अयो गृह्णाति कर्षतीत्य् अर्थः. न च सर्वम् अप्राप्तं गृह्णाति. तद्वच् चक्षुःश्रोत्रं. प्राप्तविषयत्वे ऽपि चैतत् समानम् इति. नातिदूरतिरस्कृतो विषयश् चक्षुःश्रोत्रेण गृह्यते. ग्रहणायोग्यत्वात्. संप्राप्तांजनदशलाकावत्. अथ वा न सर्वस्वग्राह्यग्राहि चक्षुःश्रोत्रम्. इन्द्रियस्वाभाव्यात्. घ्राणेन्द्रियादिवत्. घ्राणादीनां हि प्राप्तो विषयो न तु सर्वः. सहभूगन्धाद्यग्रहणात्. घ्राणादिसहभूनि हि गन्धरसस्प्रष्टव्यानि घ्राणादिभिर् न गृह्यन्ते. शक्तिर् हीन्द्रियाणाम् ईदृशीति. मनस् त्व् अरूपित्वाद् इति. प्राप्तत्वं मूर्तानाम् एव व्यवस्थाप्येत नामूर्तानाम् इति. मनो ऽप्राप्तविषयम् [तिब्. 78ब्] इति न विचारः क्रियते.
त्रयम् अन्यथेति.
प्राप्तविषयम् एव त्रयम् इति इष्टावधारणार्थम् आरम्भः. अन्यथा हि प्राप्ताप्राप्तविषयम् इत्य् अपि संभाव्येत. निरुच्छ्वासस्य गन्धाग्रहणाद् इति. यद् उच्छ्वासेन सर्धं सूक्ष्मं भूतचतुष्कं घ्राणम् आगतं. तस्य गन्धो घ्राणेन घ्रायते. वायौ गन्धान्तरम् उत्पन्नम् इत्य् अपरे. मिशृईभवेयुर् एकदेशीभवेयुः. अथैकदेशेन. किं. स्पृशेयुर् इति वर्तते. कथं शब्दाभिनिष्पत्तिर् इति. यदि न स्पृशन्ति. अनभिघाते शब्दाभिनिष्पत्तिर् न प्राप्नोतीत्य् अभिप्रायः. अत एवेति काश्मीराः. यदि हि स्पृशेयुः. हस्तो हस्ते ऽभ्याहतः सज्जेत जतुनेव जत्वन्तरं. कथं चितं प्रत्याहतं न विशीर्यत इति. अन्योन्यम् अस्पृशतां परमाणूनां संघातः प्रत्याहतः पाण्यादिभिः कथं न विशीर्यते. तद् एवैषां निरन्तरत्वं यन् मध्ये नास्ति किंचिद् इत्य् आलोकादि मध्ये नास्तीति निरन्तरत्वम् एषां व्यवस्थाप्यते. तद् एव च प्राप्तत्वं नान्यथेति. अपि ( अभिध्-क्-व्य् 85 ) खल्व् इति. अपि चेत्य् अर्थः. संघाताः सावयवत्वात् स्पृशन्तीत्य् अदोषः. यो ऽसौ दोष उक्तो यदि सर्वात्मना स्पृशेयुर् मिश्रीभवेयुर् द्रव्याण्य् अथैकदेशेन सावयवाः प्रसज्येरन्न् इति. कारणं प्रतीति. यस्य यादृशं कारणं. तस्य तत् कारणं. स्पृष्टम् अस्पृष्टं वा प्रतीत्य् आह. कदाचिद् इति विस्तरः. स्पृष्टहेतुकम् इति. स्पृष्टम् अन्योन्यं हेतुर् अस्य स्पृष्टहेतुकं. एवम् अस्पृष्टहेतुकं. [तिब्. 79अ] यदा विशीर्यत इति. तद्यथा शुष्का मृच् चूर्णीक्रियमाणा. यदा चयं गच्छतीति. तद्यथा हिमं. तद् धि पूर्वं सूक्ष्मं पश्चान् महद् भवति. चयवतां चय इति. तद्यथा मृत्पिण्डद्वयसंनिपाते. उत्तरक्षणावस्थानं स्याद् इति. उत्पद्य स्पृष्टियोगात्. निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः. भदन्तमतं चैष्टव्यम् इति. वैभाषिकमतं कस्मान् नैष्टव्यं. ननु वैभाषिकैर् अप्य् एवम् उक्तं. तद् एवैषां निरन्तरत्वं यन् मध्ये नास्ति किंचिद् इति. अस्त्य् एवम्. सावकाशं तु तद् वचनम्. यन् मध्ये नास्ति किंचिद् इति ब्रुवाणा वैभाषिका मध्ये आलोकादि नेच्छन्ति. अन्यपरमाणुप्रवेशानवकाशं तु न ब्रुवते. अन्यथा हि सान्तराणां परमाणूनां शून्येष्व् अन्तरेषु गतिः केन प्रतिबध्येत गतिमत इति वाक्यशेषः. अयं चापरो दोषः. न च परमाणुभ्यो ऽन्ये संघाताः यथा वैभाषिकाः कल्पयन्ति. त एव ते संघाताः परमाणवः स्पृश्यन्ते. यथा रूप्यन्त इति. संघाता एव नैक इत्य् अर्थः. यदि च परमाणोर् इति विस्तरः. परमाण्वपरिनिष्पत्तिं वक्तुकामः आचार्यो विचारयति. यदि परमाणोर् एकस्य पूर्वादिदिग्भागभेदः कल्प्येत स्पृष्टस्यान्योन्यम् अस्पृष्टस्य वा सावयवत्वप्रसंगः. न चेत्. किम्. दिग्भागभेद इति वर्तते. स्पृष्टस्याप्य् अप्रसंगः. कस्य. सावयवत्वस्य. [तिब्. 79ब्] अत्र साधनम्. न निरवयवः परमाणुः. दिग्भागभेदवत्त्वात्. माषराशिवद् इति. तद् एतद् दिग्भागभेदवत्त्वं नेच्छन्ति वैभाषिकाः. दिग्भागभेदो हि संघातरूपाणाम् एव कल्प्यते. एवं च वर्णयन्ति. धर्मतैवेयं यत् सप्रतिघानां भिन्नदेशत्वं. तेषां नैरन्तर्येणावस्थानात् अभिन्नदेशत्वं मा भूद् इति सान्तराणाम् अपि सप्रतिघत्वेन गतिः प्रतिबध्यत इति.
(इ.43अब्) आशुवृत्त्या च पर्वतादीनाम् अलातचक्रादिवद् इति. आत्मपरिमाणतुल्यस्यैवार्थस्य ग्रहण इष्यमाणे कथं पर्वतादीनां महतां सकृद् इव ग्रहणं लक्ष्यते न क्रमेणेत्य् आशंक्य युक्तिं तथा ग्रहणे कथयति. आशुवृत्त्या चेत्यादि. यथा अलातचक्रादिग्रहणं क्रमेण वर्तमानं सकृद् इव लक्ष्यते. तथा पर्वतनदीशब्दादिग्रहणम् आशुवृत्त्या भवतीति. आहोस्वित् तुल्यातुल्यस्येति. द्राक्षाफलादिदर्शने तुल्यस्य. वालाग्रपर्वतादिदर्शने अतुल्यस्येत्य् अभिप्रायः. उन्मिषितमात्रेणेति न क्रमदर्शनन्यायेन. एवं श्रोत्रेणेति ( अभिध्-क्-व्य् 86 ) विस्तरः. कदाचिद् अल्पीयांसो यदा मशकशब्दं शृणोति. कदाचित् समाः यदा श्रोत्रपरमाणुसमप्रमाणं कस्यचिच् छब्दं शृणोति. कदाचिद् भूयांसो यदा मेघशब्दं शृणोतीति. अजाजीपुष्पवद् अवस्थिताः कालजीरकपुष्पवद् अवस्थिताः एकतलावस्थिता इत्य् अर्थः. भूर्जाभ्यन्तरावस्थिता इति कर्णाभ्यन्तरे यद् भूर्जपत्त्रवर्णाकारं. तद् भूर्जम् इवेति भूर्जं. तदभ्यंतरे ऽवस्थिताः श्रोत्रेन्द्रियपरमाणवः. [तिब्. 80अ] घाटाभ्यन्तरे घाटा नासापुटी. मालावद् अवस्थितानीति. मण्डलेन समपंक्त्यावस्थितानीति. वालाग्रमात्रं किलेति. आगमसूचनार्थः किलशब्दः. अस्फुटम् अव्याप्तं. स किलेति कर्मसामर्थ्याद् एवाविशरणं स्याद् इति. किलशब्देन अरुचिं सूचयति. संचिताश्रयालम्बनत्वाद् इति संचिताश्रयत्वात् संचितालम्बनत्वाच् च.
(इ.43च्द्) चरमस्याश्रयो ऽतीत
इति. अतीत एवेत्य् अवधारणं. अत एवोच्यत इति. यस्मात् पंच विज्ञानकाया इन्द्रियद्वयाश्रयाः. चक्षुरादीन्द्रियाश्रया मनैन्द्रियाश्रयाश् च. तस्माच् चतुःकोटिक उत्तिष्ठते. प्रथमा कोटिश् चक्षुर् इति. चक्षुर्विज्ञानस्य चक्षुर् आश्रयभावेन न समनन्तरप्रत्ययभावेन. न हि चक्षुश् चित्तचैत्तस्वभावं.
चित्तचैत्ता अचरमा उत्पन्नाः समनन्तर
इति च समनन्तरप्रत्ययलक्षणं. द्वितीया कोटिः समनन्तरातीतश् चैतसिको धर्मधातुस् तस्य समनन्तरभावेन. षड् एव ह्य् आश्रया विज्ञानस्येष्यन्ते चक्षुरादयो मनःपर्यन्ता नान्ये. तृतीया समनन्तरातीतं मनः. उभयलक्षणयुक्तत्वात्. चतुर्थी उक्तनिर्मुक्ता धर्माः. कोटित्रयमुक्ता विप्रयुक्ता असंस्कृतादयः. [तिब्. 80ब्] एवं यावत् कायविज्ञानस्य स्वम् इन्द्रियं वक्तव्यम् इति. यः श्रोत्रविज्ञानस्याश्रयभावेन. समन्तरप्रत्ययभावेनापि स. तस्येति चतुःकोटिकः. प्रथमा कोटिः श्रोत्रं. द्वितीया समनन्तरातीतश् चैतसिको धर्मधातुः. तृतीया समनन्तरातीतं मनः. चतुर्थी कोटिर् उक्तनिर्मुक्ता धर्मा. इत्य् एवम् अपि वक्तव्यं. मनोविज्ञानस्य पूर्वपादक इति. यो मनोविज्ञानस्याश्रयभावेन. समनन्तरप्रत्ययभावेनापि स. तस्येति पूर्वपादकः. यस् तावद् आश्रयभावेन. समनन्तरप्रत्ययभावेनापि स इति. मनस् तावद् अवश्यम् असौ समनन्तरप्रत्ययः. स्यात् समनन्तरप्रत्ययभावेन नाश्रयभावेन. समनन्तरातीतश् चैतसिको धर्मधातुर् अचक्षुराद्याश्रयषट्स्वभावत्वात्.
(इ.44अब्) तद्विकारविकारित्वाद्
इति विस्तरः. तेषां चक्षुरादीनां विकारस् तद्विकारः. तद्विकारेण विकारस् तद्विकारविकारः. स एषाम् अस्तीति तद्विकारविकारीणि विज्ञानानि. तद्भावस् ( अभिध्-क्-व्य् 87 ) तद्विकारविकारित्वम्. तस्मात्. चक्षुरादय एवैषाम् आश्रया इत्य् अवधार्यते. अनुग्रहोपघातपटुमन्दतानुविधानाद् इति. चक्षुरादीनां अंजनादिभिर् अनुग्रहं रेण्वादिभिश् चोपघातं चक्षुरादिविज्ञानान्य् अनुविदधते. ससुखोत्पादात् सदुःखोत्पादाच् च. यथाक्रमं पटुमन्दतां च तेषाम् अनुविदधते. [तिब्. 81अ] पटुमन्दतोत्पादाद् अतो ऽवगम्यते. चक्षुरादिविकारेण विज्ञानविकारो भवतीति. ननु च पटुनि रूपे पटुचक्षुर्विज्ञानम् उत्पद्यमानं दृश्यते. मन्दे मंदम् इति. [तेषां चक्षुरादीनां.] यद्य् अपि रूपस्य पटुमंदते चक्षुर्विज्ञानम् अनुविदधीत. विधुरावस्थयोस् तु चक्षूरूपयोश् चक्षुरवस्थाम् एव चक्षुर्विज्ञानम् अनुविधत्ते. न रूपवस्थां. तथा हि चक्षुषि अनुगृहीते रूपे चोपहते तद्वीतरागाणां मध्यस्थानां च चक्षुर्विज्ञानम् अविकारम् उत्पद्यते. न तु सदुःखम् उत्पद्यते. रूपे पुनर् अनुगृहीते ऽपरित्यक्ते चक्षुषि चोपहते कामलव्याधिना तिमिरोपघातेन वा पीतदर्शनं भ्रान्तं केशोण्डुकादिदर्शनं वा प्रवर्तते. तथा पटुनि रूपे जरया मन्दे चक्षुषि मन्दं चक्षुर्विज्ञानम् उत्पद्यते. एवं मन्दे रूपे चक्षुर् यद्य् अतिपटु भवेत् पटु चक्षुर्विज्ञानम् उत्पद्यते. तथा हि जातिस्वभावेन पटुनि गृध्रचक्षुषि मन्दे ऽपि शवरूपे अनेकयोजनविप्रकृष्टे ऽपि चक्षुर्विज्ञानम् उत्पद्यते. इत्य् एवं श्रोत्रादीन्य् अपि योज्यानि.
(इ.44च्द्) अतो ऽसाधारणत्वाच् चेति.
अत आश्रयभावात्. असाधारणत्वाच् च. आश्रयभावो व्याख्यात इति न तं प्रत्य् आद्रियते. असाधारणत्वम् एव तु व्याचक्षाण आह. कथम् असाधारणत्वम् इत्यादि. अन्यचक्षुर्विज्ञानस्यापीति. अन्यसंतानविज्ञानस्यापीत्य् अर्थः. तैर् [तिब्. 81ब्] एव निर्दिश्यत इति. चक्षुरादिभिश् चक्षुर्विज्ञानं यावन् मनोविज्ञानं. न रूपादिभिः रूपविज्ञानं यावद् धर्मविज्ञानं. यथा भेरीशब्दो यवांकुर इति. असाधारणत्वात् ताभ्यां भेरीयवाभ्यां यथा निर्देशो लोके भेरीशब्दो यवांकुर इति न तु दण्डशब्दः क्षेत्रांकुर इति वा. दण्डो हि पटहादिशब्दस्यापि कारणीभवेत्. क्षेत्रं च शालिगोधूमांकुरस्यापीति साधारणत्वात् न ताभ्यां निर्देशः क्रियते. असाधारणाभ्यां तु भेरीयवाभ्यां निर्देशः. तद्वद् इहापि द्रष्टव्यम्. अपि खलु चक्षुर् इव विज्ञानम् उभयोः सत्त्वसंख्यातत्वात्. रूपं त्व् असत्त्वसंख्यातम् अपि. चक्षुषा विज्ञानं चक्षुर्विज्ञानम्. तस्य कारणभावात्. चक्षुषि विज्ञानं चक्षुर्विज्ञानं. सुखदुःखवेदनासंप्रयुक्तस्य विज्नानस्य चक्षुरनुग्रहोपघातप्रवृत्तत्वात्. चक्षुषो विज्ञानं चक्षुर्विज्ञानम्. असाधारणत्वेन ततः प्रवृत्तेः. चक्षुषो विज्ञानं चक्षुर्विज्ञानम्. सत्त्वसंख्यातस्यैव स्वामिभावात्. चक्षुषि विज्ञानं चक्षुर्विज्ञानम्. तत्संप्रयोगिन्याः सुखाया दुःखाया वा ( अभिध्-क्-व्य् 88 ) वेदनायाश् चक्षुष्य् एव परिच्छिद्यमानत्वात्. एवं श्रोत्रादिषु योज्यम्. तद् एवं चक्षुरादिभिर् एव विज्ञाननिर्देशो युज्यते न रूपादिभिः. एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो [तिब्. 82अ] योजयितव्यम् इति. तस्यैव कामधातूपपन्नस्य योजयितव्यम्. एवं तृतीयादिध्यानचक्षुषा योज्यम् इति. तस्यैव प्रथमध्यानोपपन्नस्य तृतीयचतुर्थध्यानचक्षुषा पश्यतो योज्यम्.
(इ.45, 46) न कायस्याधरं चक्षुर्
इति. अधरभूमिकम् इत्य् अर्थः. स्वभूमिकम् ऊर्ध्वभूमिकं चाभ्यनुज्ञातं भवति. पंचभूमिकानि हि कायचक्षूरूपाणि. कायः शरीरं. एतानि कायादीनि पंचभूमिकानि. कामावचराणि प्रथमध्यानभूमिकानि यावच् चतुर्थध्यानभूमिकान्य् आरूप्यधाताव् अभावात्. द्विभूमिकं चक्षुर्विज्ञानम् इति. कामावचरं प्रथमध्यानभूमिकं च. तयोर् वितर्कविचारसद्भावाच् चक्षुर्विज्ञानस्य चावश्यं सवितर्कविचारत्वात्.
ऊर्ध्वरूपं न चक्षुष
इति. नोर्ध्वभूमिकं रूपं चक्षुषो विषयो भवति. ऊर्ध्वभूमिकस्य रूपस्य सूक्ष्मत्वात्. स्वभूमिकम् अधरभूमिकं चाभ्यनुज्ञातं भवति.
विज्ञानं च.
किम्. ऊर्ध्वं न चक्षुष इति प्रकृतं. कामावचरस्य चक्षुषो ऽधरभूमिकस्य प्रथमध्यानभूमिकं चक्षुर्विज्ञानं न भवति. स्वभूमिकम् अधरभूमिकं वाभ्यनुज्ञातं भवति. कामावचरस्य चक्षुषः स्वभूमिकं कामावचरम् एव चक्षुर्विज्ञानं भवति. प्रथमध्यानभूमिकस्य चक्षुषः प्रथमध्यानभूमिकम् एव चक्षुर्विज्ञानं भवति. कामावचरं तु चक्षुर्विज्ञानम् अस्य न भवति. ननु चोक्तम् अधरभूमिकम् अभ्यनुज्ञातम् इति. सत्यम् उक्तम् एतत्. [तिब्. 82ब्] किं तु. असत्य् आत्मीये अधरभूमिकम् इष्यते. न सतीति. द्वितीयतृतीयचतुर्थध्यानचक्षुषो ह्य् असत्य् आत्मीये प्रथमध्यानभूमिकम् एवाधरं चक्षुर्विज्ञानं भवति. न तु कामावचरं परमनिहीनत्वात्. संभवतस् त्व् एवम् उक्तम् अधरभूमिकम् अभ्यनुज्ञातम् इति. अस्येत्य् अनन्तरोक्तस्य चक्षुर्विज्ञानस्येति. चक्षुर्विज्ञानजातेः रूपं सर्वतो विषयः. संभवतस् तु योज्यम्. कामावचरस्य चक्षुर्विज्ञानस्य स्वभूमिकम् एव रूपम्. प्रथमध्यानभूमिकस्य तु प्रथमध्यानभूमिकचक्षुराश्रयस्य चक्षुर्विज्ञानस्य स्वभूमिकम् अधरभूमिकं च रूपं विषयः. चतुर्थध्यानभूमिकचक्षुराश्रयस्य तु चतुर्थध्यानभूमिकं रूपं ततश् चाधरभूमिकं सर्वं विषयः. एवं यावत् द्वितीयध्यानभूमिकचक्षुराश्रयस्य द्वितीयध्यानभूमिकं ततश् ( अभिध्-क्-व्य् 89 ) चाधरभूमिकं रूपं विषयः. एवं चक्षुर्विज्ञानजातेर् ऊर्ध्वम् अधः स्वभूमौ च रूपं विषयो भवति. कायस्य चोभे रूपविज्ञाने सर्वतो भवत इति. कामावचरस्य कायस्य शरीरस्य स्वभूमिकोर्ध्वभूमिके रूपविज्ञाने भवतः. प्रथमध्यानभूमिकस्य कायस्य प्रथमध्यानभूमिकम् एव विज्ञानम्. रूपं तु स्वोर्ध्वाधरभूमिकम्. यथा स्वाश्रयं चक्षुः. द्वितीयादिध्यानभूमिकस्य कायस्य विज्ञानम् अधरभूमिकम् एव प्रथमध्यानभूमिकम् एवेत्य् अर्थः. रूपं तु द्वितीयतृतीयध्यानभूमिकस्य कायस्य स्वोर्ध्वाधरभूमिकं [तिब्. 83अ] यथा स्वाश्रयं चक्षुः. चतुर्थध्यानभूमिकस्य कायस्य रूपं स्वाधरभूमिकम्. तत ऊर्ध्वं रूपभावात्.
तथा श्रोत्रम्
इति. यथा चक्षुर् उक्तम्. तथा श्रोत्रं व्याख्यातव्यम्. कथम् इत्य् आह. यत्र काये स्थितः श्रोत्रेण शब्दान् शृणोति. किं तानि कायश्रोत्रशब्दविज्ञानान्य् एकभूमिकान्य् एव भवन्ति. आहोस्विद् अन्यभूमिकान्य् अपि. आह. सर्वेषां भेदः. कामधातूपपन्नस्य स्वेन श्रोत्रेण स्वां शब्दां शृण्वतः सर्वं स्वभूमिकं भवतीति विस्तरेण अनया दिशात्र ग्रन्थो वक्तव्यः. यावद् अयं तु नियमः.
न कायस्याधरं श्रोत्रम् ऊर्ध्वं शब्दो न च श्रुतेर्
विज्ञानं चास्य शब्दस् तु कायस्योभे च सर्वत
इति विस्तरेण योज्यं. कथम् इति.
न कायस्याधरं श्रोत्रम्.
पंचभूमिका हि कायश्रोत्रशब्दाः कामावचरा यावच् चतुर्थध्यानभूमिकाः. द्विभूमिकं ष्रोत्रविज्ञानं कामावचरं प्रथमध्यानभूमिकं च. तत्र यद्भूमिकः कायः. तद्भूमिकम् ऊर्ध्वभूमिकं वा श्रोत्रं भवति. न त्व् अधरभूमिकम्. यद्भूमिकं श्रोत्रं. तद्भूमिको ऽधरभूमिको वास्य शब्दो विषयो भवति.
ऊर्ध्वं शब्दो न च श्रुतेः.
न हि कदाचिद् ऊर्ध्वभूमिकः शब्दो ऽधरभूमिकेन श्रोत्रेण श्रोतुं शक्यते.
विज्ञानं च
ऊर्ध्वं न श्रोत्रस्य शब्दवत्.
अस्य शब्दस् तु कायस्योभे च सर्वतः.
अस्येति अनन्तरोक्तस्य श्रोत्रविज्ञानस्य शब्दः सर्वतो विषय ऊर्ध्वम् अधः स्वभूमौ च. कायस्य चोभे शब्दविज्ञाने सर्वतो भवत इति.
अनियतं मन
इति. यथा चक्षुः श्रोत्रं वा नियमितं न कायस्याधरं चक्षुः श्रोत्रं वेत्य् एवमादिना. नैवं नियमितं मनः. अत एवाह. पंचभूमिके ऽपि काये सर्वभूमिकानि मनआदीनि भवन्तीति [तिब्. 83ब्] मनोधर्ममनोविज्ञानानि सर्वभूमिकानि कामावचराणि यावद् भावाग्रिकाणि. तद्यथा कामधातूपपन्नो यदि कामावचरान् मनसो ऽनन्तरं कामावचरम् एव कामावचरधर्मालम्बनं मनोविज्ञानम् उत्पादयति. सर्वाणि कामावचराणि. यदि प्रथमध्यानभूमिकाद् यावद् भवाग्रभूमिकाद् उपपत्तिकाले समापत्तिकाले वा संभवतः कामावचरं तथैव मनोविज्ञानम् उत्पादयति. मनस् ततस्त्यम्. शेषानि कामावचराणि. अथ तत्रैव तद्विज्ञानम् उत्पादयति. धर्मास् त्व् आलम्बनं प्रथमध्यानभूमिका यावद् भवाग्रभूमिकाः. धर्मास् ततस्त्याः. शेषाणि पूर्ववत्. एवं प्रथमध्यानोपपन्नो यावद् भवाग्रोपपन्नो यथायोगं वक्तव्यः.
(इ.47) समाप्त आनुषंगिकः प्रसंग
इति.
चक्षुश् च धर्मधातोश् च प्रदेशो दृष्टिर्
इत्य् एतद् आधिकारिकम्. अथ यत्र काये स्थितश् चक्षुषा रूपाणि पश्यतीत्य् एवमादिर् अयम् आनुषंगिकः प्रसंगः. दर्शनसम्बन्धाद् आगतत्वात्.
पंच बाह्या द्विविज्ञेया
इति. पंचग्रहणं धर्मधातुनिराकरणार्थम्. बाह्यग्रहणं चक्षुरादिनिरासार्थम्. बाह्या एव पंच द्विविज्ञेया इत्य् अवधारणाद् अन्ये त्रयोदश धातव एकविज्ञानविज्ञेया इति सिद्धम्. पंचविज्ञानकायानाम् अविषयत्वात्.
नित्या धर्मा असंस्कृता
इति. असंस्कृता एव नित्या इत्य् अवधारणम्. अध्वसंचाराभावात् नित्याः.
धर्मार्ध इन्द्रियं ये च [तिब्. 84अ] द्वादशाध्यात्मिकाः स्मृता
इति. धातव इत्य् अधिकारः. द्वाविंशतीन्द्रियाण्य् उक्तानि सूत्र इति. अथ जातिश्रोणो ब्राह्मणो येन भगवांस् तेनोपसंक्रान्तः. उपसंक्रम्य बहगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकन्ते न्यषीदत्. एकान्तनिषण्णो जातिश्रोणो ब्राह्मणो भगवन्तम् इदम् अवोचत्. इन्द्रियाणीन्द्रियाणीति भो गौतम उच्यन्ते. कति भो गौतम इन्द्रियाणि. कियता चेन्द्रियाणां संग्रहो भवति. द्वाविंशतिर् इमानि ब्राह्मण इन्द्रियाणि. कतमानि द्वाविंशतिः. चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रियम् उपेक्षेन्द्रियं ( अभिध्-क्-व्य् 91 ) श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्. इतीमानि ब्राह्मण द्वाविंशतिर् इन्द्रियाणि. इयता इन्द्रियाणाम् इन्द्रियसंग्रहो भवति. अथ जातिश्रोणो ब्राह्मणो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्त इति.
धर्मार्ध
इति धर्मधात्वेकदेश इत्य् अर्थः.
धर्मार्धम्
इति नपुंसकनिर्देशेन केचित् पठन्ति. तेषां पाठे अर्धधर्म इति समप्रविभागः प्राप्नोति. अर्धं नपुंसकम् इति लक्षणात्. अर्धपिप्पलीति यथा. अथ नपुंसकलिंगो ऽप्य् अर्धशब्द एकदेशार्थे वर्तते तदैवं समासः क्रियते. धर्मश् चासाव् अर्धं च धर्मार्धम्. धर्मे वार्धं धर्मार्धम् इति. आभिधार्मिकास् तु षडायतनव्यवस्थाम् अनादृत्येति. चक्षुरायतनं यावत् कायायतनं [तिब्. 84ब्] मनआयतनम् इति षडायतनम् इति षडायतनव्यवस्थां युक्तरूपाम् अनादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति. सालम्बनत्वात्. वेदनेन्द्रियादीनि हि सालम्बनानि अनन्तरं पठन्ति. जीवितेन्द्रियादीन्य् एकादशेति. जीवितेन्द्रियं वेदनेन्द्रियाणि पंच श्रद्धादीनि चेति. त्रयाणां च भाग इति. आज्ञास्यामीन्द्रियादीनां नवद्रव्यात्मकानां. मनैन्द्रियं मुक्त्वान्यान्य् अष्टौ द्रव्याणि धर्मधात्वेकदेशः. चक्षुरादयः पंच स्वनामोक्ता इति. पंच चक्षुरादयो धातवः पंचेन्द्रियाणि चक्षुरिन्द्रियं यावत् कायेन्द्रियं. स्त्रीपुरुषेन्द्रिये च कायेन्द्रियैकदेश एवेति. पंच चक्षुरादिधातवः सप्तेन्द्रियाणि भवन्ति. सप्त चित्तधातवो मनैन्द्रियम् इति. एवं द्वादशाध्यात्मिका धातवो ऽष्टाव् इन्द्रियाणि भवन्तीति. द्वादशाध्यात्मिका धातव एव धर्मार्ध एव चेन्द्रियम् इति अवधारणात् पंच धातवो रूपादयस् तदन्यधर्मधातुप्रदेशो नेन्द्रियम् इति सिद्धम्.
आचार्ययशोमित्रकृतौ स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां धातुनिर्देशो नाम प्रथमं कोशस्थानम्.
( अभिध्-क्-व्य् 92 ) ब्लन्क्
इइ
(इन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानम्)
(इइ.1) उक्तानीन्द्रियाणीति. प्रथमस्य द्वितीयस्य च कोशस्थानस्य सम्बन्धोपनिपाततां दर्शयन्न् आह. उक्तानीन्द्रियाणीति. प्रथमकोशस्थानावसाने यस्माद्
धर्मार्धम् इन्द्रियम्
इत्य् उक्तम्. तस्माद् इदम् आयातम् इति सम्बन्धः. [तिब्. 85अ] कः पुनर् इन्द्रियार्थ इति. वैयाकरणैर् अन्यथा इन्द्रियशब्दार्थव्युत्पत्तिः कृतेति. अतः प्रश्नयति. कः पुनर् इन्द्रियार्थ इति. इदि परमैश्वर्ये इति पठ्यते. तस्य धातोर् इन्दन्तीतीन्द्रियाणीति रूपं द्रष्टव्यम्. कथं कृत्वा. इन्दन्तीति इन्द्राणि रप्रत्यय औणादिकः. इन्द्राण्य् एवेन्द्रियाणीति स्वार्थे घस्तद्धितः. अथ वा इन्दन्तीतीन्द्रियम्. बहुत्वात् तु बहुवचनेन कृतो निर्देश इन्दन्तीतीन्द्रियाणीति. तस्मात् इन्दन्तीत्य् अस्य शब्दस्य इन्द्रियम् इत्य् आदेशः. कथम्. अवर्णस्य रभावः तिशब्दस्य चेयादेशः. तेन नैरुक्तेन विधानेन इन्द्रियम् इति भवति. तद्यथा कुञ्जर इति. वैयाकरणैर् हि कुञ्जो ऽस्यास्तीति कुञ्जर इति मत्वर्थीयेन कुञ्जरशब्दो व्युत्पाद्यते. नैरुक्तैस् तु तद् अनादृत्य कुञ्जरः कुञ्जचारित्वाद् इति नैरुक्तेन न्यायेन साध्यते. तद्वद् इहापि द्रष्टव्यम्. यदि हि वैयाकरणनयेन इन्द्रस्य लिङ्गम् इन्द्रियम् इति व्युत्पाद्येत. आधिपत्यार्थ इन्द्रियार्थो हीयेताधिपत्यार्थश् चेष्यते. तस्माद् इत्थम् इन्द्रियशब्दस्य व्युत्पत्तिर् नैष्टव्येति. दृष्ट्वा श्रुत्वा च विषमपरिवर्जनाद् इति. दृष्ट्वा श्वभ्रादि श्रुत्वा च व्याघ्रादिरुतम्. श्वभ्रादिव्याघ्रादिरुतविषमपरिवर्जनात्. ससंप्रयोगयोर् इति सचैतसिकयोः. रूपदर्शनशब्दश्रवणयोश् चेति. चक्षुः पश्यति श्रोत्रं शृणोतीत्यादि वैभाषिकाणां सिद्धान्तः. तेनालम्बनविशेषलक्षणयोर् दर्शनश्रवणयोर् असाधारणकारणत्वे चक्षुःश्रोत्रयोर् आधिपत्यम्. ( अभिध्-क्-व्य् 94 ) आत्मभावशोभायां पूर्ववद् [तिब्. 85ब्] इति. अघ्राणादीनां सत्त्वानाम् अकान्तरूपत्वात्. अकान्तात्मभावत्वाद् इत्य् अर्थः. तैः कवडीकाराहारपरिभोगाद् इति. तैर् घ्राणादिभिस् तत्परिभोगाद् इति. कथं गन्धस्य कवदीकाराहारत्वम्. नासिकयोर् गन्धग्रासव्यवच्छेदेन कवडीकरणात्. कथं स्प्रष्टव्यस्य कवडीकाराहारत्वम्. कायेन स्नानाभ्यङ्गादिकस्प्रष्टव्यस्य रोमकूपमुखग्रासव्यवच्छेदेन कवडीकरणात्.
द्वयोः किलेति.
किलशब्दः परमतद्योतने. स्वमतम् अस्य पश्चाद् वक्ष्यते.
द्वयोर्
इति प्रत्येकम् अभिसम्बन्धः. सत्त्वभेदः स्त्रीपुरुष इति. स्त्रीत्य् एको निकायसभागः. पुरुष इत्य् अपरः. तयोर् भेदः. सत्त्वविकल्प इति स्तनादेः संस्थानस्य स्वरस्याचारस्य चान्यथात्वं विशेष इत्य् अर्थः. संक्लेशव्यवदानयोर् इत्य् अपर इति पूर्वाचार्यः. न सत्त्वभेदविकल्पयोः. अन्तरेणापि पुरुषेन्द्रियं रूपावचराणां विकल्पसिद्धेः. विकल्पकृतश् च सत्त्वभेद इत्य् अभिप्रायः. तद्वियुक्तविकलानाम् इति. वियुक्ताश् च ते विकलाश् च वियुक्तविकलाः. ताभ्यां स्त्रीपुरुषेन्द्रियाभ्यां वियुक्तविकलास् तद्वियुक्तविकलाः. के. षण्ढपण्डकोभयव्यञ्जनाः. तद्वियुक्ताः षण्ढपण्डकाः. तेषां स्त्रीपुरुषेन्द्रियाभावात्. षण्ढपण्डकानां [तिब्. 86अ] पुनः कः प्रतिविशेषः. षण्ढकाः स्वभावतो निःस्त्रीपुरुषेन्द्रियाः. पण्डका उपक्रमेणोपहतेन्द्रियाः. विनये तु पण्डका एव पंच पठ्यंते. प्रकृतिपण्डकः. ईर्ष्यापण्डकः. पक्षपण्डकः. आसेकपण्डकः. लूनपण्डकश् चेति. तत्र प्रकृतिपण्डकः षण्ढ इहाभिप्रेतः. यस्य हि प्रकृत्या व्यञ्जनं नास्ति. स प्रकृतिपण्डकः. शेषा इह पण्डका इष्यन्ते. लूनपण्डको हि तावद् इन्द्रियच्छेदात् इन्द्रियविकल इति स्फुट एषः. पक्षपण्डकादयस् त्व् इन्द्रियाकर्मण्यत्वेन तद्विकला एव. इन्द्रियकर्मण्यत्वकाले ऽपि तद्विकला इति व्यवस्थाप्यन्त एव. तदिन्द्रियकर्मण्यत्वस्य पुरुषसुखविशेषाजनकत्वात् प्रसवाजनकत्वाच् च. इन्द्रियसद्भावाशंकानिवृत्त्यर्थम् एव चेह षण्ढपण्डका इति पृथक्पाठः. अन्यथा हि विनयवद् इहाप्य् अभिधर्मे पण्डका इत्य् एव पठ्येरन्. उभयव्यञ्जनास् तद्विकलाः. स्थानभ्रंशवैकल्याद् अल्पसुखहेतुत्ववैकल्याच् च. अपरे व्याचक्षते. तद्वियुक्ताः षण्ढाः. तद्विकलाः पण्डकाः. उपक्रमवैकल्यात्. उभयव्यञ्जनाश् च तद्विकलाः. स्थानभ्रंशवैकल्यात्. अल्पसुखहेतुत्ववैकल्याच् चेति. तेषाम् असंवरादीनि न भवन्ति.
नृणाम् असंवरो हित्वा षण्ढपण्डद्विधाकृतीन्.
आनन्तर्यं षण्ढादीनां तु नेष्यते
अल्पोपकार्यलज्जित्वात्.
[तिब्. 86ब्] छिनत्ति स्त्री पुमान् दृष्टिचरित
इति वचनात्. स्त्रीपुरुषाणां तु तानि भवन्ति. अतः संक्लेशे आधिपत्यं स्त्रीपुरुषेन्द्रिययोः. संवरफलप्राप्तिवैराग्याणि चेति. संवरस् त्रिविधः प्रातिमोक्षसंवरो ध्यानसंवरो ऽनास्रवसंवरश् च. तेषाम् एको ऽपि संवरो न भवति किम् अङ्ग सर्वः.
संवरो ऽप्य् एवम्
इति वचनात्. अत एव च स्रोतआपत्त्यादिफलप्राप्तिः कामादिवैराग्यं च तेषां न संभवति. स्त्रीपुरुषाणां तु भवतीति. अतो व्यवदाने ऽपि स्त्रीपुरुशेन्द्रिययोर् आधिपत्यम् इति. निकायसभागसम्बन्धसंधारणयोर् इति. जीवितेन्द्रियस्य निकायसभागोत्पत्तौ. निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते. निकायसभागसंधारणे चाधिपत्यम्. जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात्. मनैन्द्रियस्य पुनर्भवसम्बन्ध इति. क्लिष्टेन पुनर्भवसम्बन्धात्. जीवितेन्द्रियाद् अस्य को विशेषः. जीवितेन्द्रियस्य अन्तराभव एव सम्बन्धनम्. मनैन्द्रियस्य तूपपत्तिभवे ऽपि. समानकालं च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति. मनैन्द्रियं तु भिन्नकालम् अपि पुनर्भवे तत्सम्बन्धनं करोति. वशिभावानुवर्तन इति. चित्तस्य वशिभावम् अनुवर्तते लोको धर्मो वा यथोक्तम्. चित्तेनायं लोको नीयत इति विस्तरः. गाथायाम् अप्य् उक्तम्.
चित्तेन नीयते लोकश् चित्तेन परिकृष्यते
एकधर्मस्य चित्तस्य [तिब्. 87अ] सर्वधर्मा वशानुगा
इति. रागादीनां तदनुशायित्वाद् इति. तेषु सुक्ःआदिषु अनुशायितुं शीलम् एषाम् आलम्बनतः संप्रयोगतो वा. त इमे तदनुशायिनो रागादयः. तद्भावस् तदनुशायित्वम्. तस्माद् इति. यथोक्तं सुखायां वेदनायां रागो ऽनुशेते. दुःखायां द्वेसः. अदुःखसुखायां मोह इति. तैर् हि व्यवदायत इति. तैर् विशुध्यतीत्य् अर्थः. तद् एवं क्लेशविशुद्धाव् एशां श्रद्धादीनाम् आधिपत्यम् उक्तं भवति.
व्यवदाने ऽपि सुखादीनाम् आधिपत्यम् इत्य् अपर इति. न केवलं संक्लेशे सुखादीनाम् आधिपत्यं. किं तर्हि. व्यवदाने ऽपीत्य् अपिशब्दस्यार्थः. आभिधार्मिकाः केचिद् एवम् आहुः. व्यवदाने ऽपि तेषाम् आधिपत्यम् अस्तीति आगमम् ( अभिध्-क्-व्य् 96 ) आनयन्ति. यस्मात् सुखितस्य चित्तं समाधीयत इत्य् उक्तं सूत्रे. दुःखोपनिषच् छ्रद्धा. दुःखम् उपनिषद् अस्याः. सेयं श्रद्धा दुःखोपनिषत्. दुःखहेतुकेत्य् अर्थः. दुःखे सति कस्यचिद् धर्मे रत्नत्रये वा श्रद्धा जायते. प्रव्रज्यां वाभिलषति. षण् णैष्क्रम्याश्रिताः सौमनस्यादय इति. षण् णैष्क्रम्याश्रितानि सौमनस्यानि. षण् णैष्क्रम्याश्रितानि दौर्मनस्यानि. षण् णैष्क्रम्याश्रिता उपेक्षाः. [तिब्. 87ब्] नैष्क्रम्यं सास्रवो ऽनास्रवो मार्गः. धातोः संसाराद् वा निष्क्रमणं वैराग्यम् इत्य् अपरे. यथोक्तं सूत्रे. चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौमनस्यं नैष्क्रम्याश्रितं नैष्क्रम्यालम्बनम् इत्य् अर्थः. नैष्क्रम्यानुकूलम् इति वा. एवं यावन् मनः प्रतीत्य धर्मांश् च उत्पद्यते सौमनस्यं नैष्क्रम्याश्रितम् इति. तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य उत्पद्यते दौर्मनस्यं नैष्क्रम्याश्रितम्. एवं यावन् मनः. तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते उपेक्षा नैष्क्रम्याश्रिता. एवं यावन् मनः. नैष्क्रम्यं प्राप्स्यामीति कस्यचित् सौमनस्यम्. न नैष्क्रम्याय मया यत्नः क्रियते इति कस्यचिद् दौर्मनस्यम्. कस्यचित् प्रतिसंख्यायोपेक्षा तेषु रूपादिषु भवति.
(इइ.2-4) अपरे पुनर् आहुर् इति सौत्रान्तिकाः. विज्ञाय विषमपरिहाराद् इति. विज्ञानेन विषमपरिहारः क्रियते. न चक्षुःश्रोत्रेणेत्य् अभिप्रायः. नापि विज्ञानाद् अन्यद् रूपदर्शनं शब्दश्रवणं वास्तीति. न रूपदर्शनशब्दश्रवणं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते. ग्रहणं च विज्ञानम् एवेति नान्यद् भवति. तस्माच् चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोर् उत्पत्तौ यद् आधिपत्यम् उक्तम्. तद् एव तद् भवति. नान्यत्राधिपत्यम् एतद् [तिब्. 88अ] इत्य् अभिप्रायः. मनसः पुनः सर्वार्थोपलब्धाव् इति.
स्वार्थोपलब्ध्याधिपत्याद्
इत्य् एव सिद्धे मनसः सर्वार्थोपलब्धाव् इति वचनं धर्मधातोर् असर्वधर्मस्वभावत्वात्. व्याख्यातं चैतत् पुरस्तात्. ननु चार्थानाम् अप्य् अत्राधिपत्यम् इति. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति वचनात्. अधिकं हि प्रभुत्वम् आधिपत्यम् इति. अधिकः प्रभुर् अधिपतिस् तद्भाव आधिपत्यम् इति. सर्वरूपोपलब्धौ सामान्यकारणत्वाद् इति. नीलपीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुषः करणत्वात्. न तु रूपस्यैकरूपस्य नीलपीतदिसर्वरूपोपलब्धौ कारणत्वम्. न हि नीलरूपं पीतरूपोपलब्धौ कारणं भवति. तत्पटुमन्दताद्यनुविधानाच् चोपलब्धेर् इति. यस्माद् उपलब्धिश् चक्षुरादिपटुमन्दताम् अनुविधत्ते. तद्यथा पटुनि चक्षुषि पट्वी तदुपलब्धिः. मन्दे मन्देति. आदिशब्देन अकुशलकुशलसवेदनावेदनानुविधानं. ( अभिध्-क्-व्य् 97 ) अकुशले मनस्य् अकुशलोपलब्धिः. कुशले कुशला. सवेदने सवेदना. अवेदने ऽवेदनेति. न रूपस्य पटुमन्दताद्य् अनुविधत्ते उपलब्धिः. तेनाह. तद्विपर्ययाद् इति. तस्माच् चक्षुरादीनाम् अधिकम् ऐश्वर्यं [तिब्. 88ब्] न रूपादीनाम्.
कायात् स्त्रीपुरुषेन्द्रिये
इति. अत्र साधनम्. कायेन्द्रियस्वभावं स्त्रीपुरुषेन्द्रियम्. स्प्रष्टव्यविज्ञानजनकत्वात्. अस्त्रीपुरुषेन्द्रियस्वभावकायेन्द्रियवत्. वैधर्म्येण चक्षुरिन्द्रियवत्. स्त्र्याकृतिस्वरचेष्टाभिप्राया इति. स्त्र्यभिप्रायपुरुषाभिप्राययोर् विपर्ययेण. तद् एवं सति सत्त्वविकल्प एव स्त्रीपुरुषेन्द्रिययोर् आधिपत्यम्. निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यम्. न तु वैभाषिकवत् निकायसभागसम्बन्धे. तत्र मनस एवाधिपत्यात्. संक्लेशे वेदनानाम् इति. अत्र वैभाषिकैः सार्धम् ऐकमत्यम्. तथा हि तैर् इति विस्तरः. तथा हि तैः श्रद्धादिभिः क्लेशाश् च विष्कंभ्यन्ते लौकिकमार्गगतैर् मार्गश् चावाह्यते निर्वेधभागीयादिगतैः. तद् एवं व्यवदानसंभारे श्रद्धादीनां प्रत्येकम् आधिपत्यम् उक्तं भवति. न ह्य् अविमुक्तचित्तस्यास्ति परिनिर्वाणम् इति. आज्ञातावीन्द्रियं क्षयज्ञानाद्य् अनास्रवम् इन्द्रियं. तद् एव च विमुक्तं क्लेशविमुक्त्या संतानविमुक्त्या च. तत्प्राप्तस्य निरुपधिशेषनिर्वाणं भवति. तस्माद् आज्ञातावीन्द्रियस्य निरुपधिशेषनिर्वाण आधिपत्यं व्यवस्थाप्यते. दृष्टधर्मसुखविहारं प्रतीति [तिब्.89अ] विस्तरः. दृष्टो धर्मो दृष्टधर्मः. दृष्टजन्मेत्य् अर्थः. सुखो विहारः सुखविहारः. दृष्टधर्मे सुखविहारः दृष्टधर्मसुखविहारः. तं प्रत्य् आज्ञातावीन्द्रियस्याधिपत्यम्. विमुक्तिप्रीतिसुखप्रतिसंवेदनाद् इति. विमुक्तिः क्लेशप्रहाणम्. प्रीतिः सौमनस्यम्. सुखं प्रश्रब्धिसुखम्. विमुक्त्या प्रीतिसुखस्य प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनम्. तस्माद् इति. तद् उक्तं भवति. विमुक्तिप्रीतिसुखप्रतिसंवेदनम् एव दृष्टधर्मसुखविहार इति.
(इइ.5) वाक्पाणिपादपायूपस्थानाम् अपि चेन्द्रियत्वम् उपसंख्यातव्यम् इति. सांख्याश् चक्षुरिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति. वागिन्द्रियं येन वचनं क्रियते. पाणीन्द्रियं येन किंचिद् द्रव्यम् आदीयते. पादेन्द्रियं येन विहरणं क्रियते. चंक्रमणम् इत्य् अर्थः. पाय्विन्द्रियं येन पुरीषोत्सर्गः क्रियते. उपस्थेन्द्रियं कायेन्द्रियैकदेशव्यतिरिक्तं येनानन्दः सुखविशेषः प्राप्यते. न खलूपसंख्यातव्यम् अविद्यादीनाम् इन्द्रियत्वम्. येनार्थेन भगवता द्वाविंशतिर् इन्द्रियाण्य् उक्तानि. तत्राविद्यादीनाम् अयोगात्. को ऽसाव् अर्थ इत्य् आह.
चित्ताश्रयस् तद्विकल्प
इति विस्तरः. चित्तस्याश्रयस् तदाश्रयस्य विकल्पः
स्थितिः संक्लेशो
व्यवदान-
संभारो व्यवदानं चेति.
एतच् च षडायतनं मौलं सत्त्वद्रव्यम् [तिब्. 89ब्] इति. तदितरेषां तदाश्रितत्वात्. तथा हि षडिन्द्रियाधिपत्यसंभूतम् इन्द्रियाधिष्ठानम्. षड् वा विषया विज्ञानकायाश् च. तद् एतद् अपि सत्त्वद्रव्यम् इष्यते न तु मौलम्. न ह्य् अधिष्ठानाद्याधिपत्यसंभूतं षडायतनम् इति. व्यवदानसंभरणं पंचभिर् इति श्रद्धादिभिः. व्यवदानं त्रिभिर् इति. अनाज्ञातमाज्ञास्यामीन्द्रियादिभिः.
(इइ.6) अपरः कल्पः.
प्रवृत्तेर् आश्रयोत्पत्तिर्
इति विस्तरः. प्रवृत्तिपक्षं निवृत्तिपक्षं चाधिकृत्योच्यते.
प्रवृत्तेः
संसारस्याश्रय उत्पत्तिः
स्थितिः उपभोगश् च.
निवृत्तेर् अपि निर्वाणस्याश्रय उत्पत्तिः स्थितिर् उपभोगश् च. एतावता च पुरुषार्थपरिसमाप्तिर् इति. निरर्थिका तदन्येन्द्रियप्रज्ञप्तिः. भवताम् अपि पुरुषार्थपरिसमाप्तिः पठ्यते. तस्य शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्त इति. तत्र षडायतनं मूलसत्त्वद्रव्यभूतं संसरतीति प्रवृत्तेर् आश्रयः. उत्पत्तिः स्त्रीपुरुषेन्द्रिये इति. उत्पद्यते ऽस्या इत्य् उत्पत्तिः. कस्माद् इत्य् आह. तत उत्पत्तेः. कस्य. षडायतनस्य. मनःकायेन्द्रिययोः साक्षात् ताभ्याम् उत्पत्तेः. चक्षुरादीनां चतुर्णां क्रमेणोत्पत्तेः. स्थितिर् जीवितेन्द्रियेण षडायतनावस्थानात्. उपभोगो वेदनाभिः सुखादिभिः. श्रद्धादयो हि निवृत्तेर् आश्रय इति. श्रद्धादीनां प्रतिष्ठाभूतत्वात्. आज्ञास्यामीन्द्रियं प्रभव इत्य् आदिभवः प्रथमतो ऽनास्रवोत्पत्तेः. [तिब्. 90अ] स्थितिर् आज्ञेन्द्रियं प्राबन्धिकत्वात्. उपभोग आज्ञातावीन्द्रियेणेति. तेन विमुक्तिप्रीतिसुखप्रतिसंवेदनात्. अत एतावन्त्य् एवेन्द्रियाणीति नाविद्यादीनाम् इन्द्रियत्वम् इष्टम् इत्य् अर्थः. अत एव चैषां एषो ऽनुक्रम इति. चक्षुरिन्द्रियं यावद् आज्ञातावीन्द्रियम् इति प्रवृत्तिनिवृत्त्योर् आश्रयादिभावात्. वाचस् तु नेन्द्रियत्वम्. वचने शिक्षाविशेषापेक्षत्वात्. जातमात्रो हि बालको विनैव शिक्षया चक्षुषा रूपाणि पश्यति. न त्व् एवं वचनं करोति. तस्माद् इन्द्रियधर्मातिक्रान्तत्वात्. न वाग् इन्द्रियं भवितुम् अर्हति. जिह्वेन्द्रियाधिष्ठानस्यैव तु एतत् कर्म वचनम् ( अभिध्-क्-व्य् 99 ) इति. पाणिपादस्य चादानविहरणाद् अनन्यत्वाद् इति. पाणिर् एव ह्य् अन्यथान्यत्र चोत्पन्न आदानम् उच्यते. पाद एव चान्यथान्यत्र चोत्पन्नो विहरणम् इति. कर्माभावात्. स्वात्मनि च वृत्तिविरोधात्. न पाणिपादस्येन्द्रियत्वम्. उरगप्रभृतीनाम् इति. सर्पादीनां पाणिपादं नास्ति. अथ च तेषाम् आदानविहरणं भवति न पाणिपादस्येन्द्रियत्वम्. तेषाम् अप्य् अस्ति सूक्ष्मम् इति चेत्. न. साध्यत्वात्. पायोर् अपि नेन्द्रियत्वम् उत्सर्ग इत्य् अशुच्युत्सर्गे. गुरुद्रव्यस्य यस्य कस्यचिद् आकाशे छिद्रे सर्वत्र पायुस्थानाद् अन्यत्रापि पतनात्. गुरुद्रव्यस्य गुरुत्वाद् एवं स्वयं पतनं नेन्द्रियकृतम्. वायुना च तत्प्रेरणाद् इति. वायुना तस्य गुरोर् अशुचिद्रव्यस्य प्रेरणा. [तिब्. 90ब्] वायोर् एव तत् कर्म स्यान् न पाय्विन्द्रियस्य. तदनुपलब्धेः. उपस्थस्यापि नेन्द्रियत्वं आनन्द इति. कायेन्द्रियैकदेशस्त्रीपुरुषेन्द्रियव्यतिरिक्तकल्पितस्य उपस्थस्य नेन्द्रियत्वम् आनन्दे. कायेन्द्रियैकदेशभूतस्त्रीपुरुषेन्द्रियकृतं हि तत्. क्लिष्टं सौख्यम् इति वाक्यर्थः. कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वनाम् अपीति विस्तरः. यदि यथोक्तात् कारणात् एतावन्त्य् एवेन्द्रियाणीति नेष्यते. कण्ठस्याभ्यवहरणे. दन्तस्य चर्वणे. अक्षिवर्त्मन उन्मेषनिमेषे. पर्वणः अस्थिसंधिसंकोचविकासक्रियायाम् इन्द्रियत्वं प्रसज्येत. सर्वस्य वा कारणभूतस्येति विस्तरः. सर्वस्य वा कारणभूतस्य बीजादेः स्वस्यां क्रियायां स्वकार्यक्रियायाम् अङ्कुरादिलक्षणायाम् इन्द्रियत्वं प्रसज्येतेत्य् अधिकृतम्. यदि यस्य यत्र पुरुषकारो ऽस्ति. तस्य तत्रेन्द्रियत्वम् इष्यते. स च नियमहेतुः पूर्वोक्तो नेष्यते. तस्माद् अयुक्तं वागादीनाम् इन्द्रियत्वम्.
(इइ.7, 8) तत्र चक्षुरादीनाम् इति विस्तरः. तत्रेति वाक्योपन्यासे. कृतो निर्देश इति.
तद्विज्ञानाश्रया रूपप्रसादाश् चक्षुरादयः.
कायात् स्त्रीपुरुषेन्द्रिये.
विज्ञानं प्रतिविज्ञप्तिर्
इति.
जीवितेन्द्रियस्येति.
आयुर् जीवितम् आधार ऊष्मविज्ञानयोर् हि य
इत्य् अत्र. श्रद्धादीनां चैत्तेष्व् इति.
श्रद्धाप्रमादः प्रश्रब्धिर्
इत्य् अत्र प्रदेशे. ननु च वेदनाया अपि कृतो निर्देशः चैत्तेषु च करिष्यते
वेदनानुभव
इति.
वेदना चेतना संज्ञेति
वचनात्. [तिब्. 91अ] सत्यं सामान्यं रूपं वेदनाया उक्तं वक्ष्यते च. विशेषविभागरूपं त्व् इह विवक्षितम् इति सुखादीनां कर्तव्यो निर्देश इत्य् आह. आज्ञास्यामीन्द्रियादीनां तर्हि न कर्तव्यो यस्मान् मनसो लक्षणम् उक्तम्. श्रद्धादीनां चैत्तेषु करिष्यते. सुखसौमनस्योपेक्षाणाम् इह क्रियते. एषाम् अपि कर्तव्य एव. यस्मान् नवद्रव्यस्वभावत्वम् एषां दर्शयितव्यम्. एतस्यां चावस्थायाम् एताणि नव द्रव्याण्य् अनाज्ञातमाज्ञास्यामीन्द्रियाख्यां लभन्ते. एतस्याम् अवस्थायाम् आज्ञेन्द्रियाख्याम् एतस्याम् आज्ञातावीन्द्रियाख्यां लभन्त इति. स एषाम् अवस्थाविशेषो दर्शयितव्य इत्य् अतः सूक्तम् एतत्. सुखादीनाम् आज्ञास्यामीन्द्रियादीनां च कर्तव्य इति.
असाता या कायिका वेदनेति
असातेति सातानिवृत्त्यर्थम्. कायिकीति मानसीनिवृत्त्यर्थम्. तत्र कायाश् चक्षुरादयः पंच परमाणुसंचयात्मकत्वात्. तत्र काये भवा कायेन वा आश्रयेण सह चरतीति कायिकी. या उपघातिका पंचेन्द्रियाश्रया वेदना. तत्
दुःखेन्द्रियम्
इत्य् अवगन्तव्यम्.
सुखं सातेति.
अत्रेन्द्रियम् इत्य् अनुवर्तते. कायिकीति च.
सातेति
ग्रहणम् असातानिवृत्त्यर्थम्. तद् एतद् उक्तं भवति. तत् सुखेन्द्रियं. यानुग्राहिका पंचेन्द्रिया वेदनेति.
ध्याने तृतीये तु [तिब्. 91ब्] चैतसी सा सुखेन्द्रियम्
इति. तृतीये तु ध्याने चैतस्य् अपि साता वेदना सुखेन्द्रियम् इति व्यवस्थाप्यते. कस्माच् चैतस्य् एव साता तत्र गृह्यते न कायिकीति. अत आह. न हि तत्र कायिकी वेदनास्ति. पञ्चविज्ञानकायाभावाद् इति. तृतीये ध्याने कस्मात् सा न सौमनस्येन्द्रियम्. अत आह. तृतीये तु ध्याने प्रीतिवीतरागत्वात्. सुखेनेन्द्रियम् एव सा. न सौमनस्येन्द्रियम्. सातत्वाद् धि सुखम् उच्यते. न प्रीतिर् असंप्रहर्षाकारत्वात्. तथा हि सूत्र उक्तम्. प्रीतेर् विरागाद् उपेक्षको विहरतीति विस्तरेण यावत् स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरतीति. सौमनस्याद् अन्या प्रीतिर् इति चेत्. अत आह. प्रीतिर् हि सौमनस्यम् इति.
असाता चैतसी पुनर् दौर्मनस्यम्
इति. उपघातिका चैतसिकी वेदना दौर्मनस्यम्.
उपेक्षा तु मध्येति.
उपेक्षेन्द्रियं तु या मध्या वेदना. नैवसातासातेत्य् अर्थः.
उभयीति.
उभयावयवाव् अस्या उभयी. कायिकी चैतसिकीत्य् अर्थः.
अविकल्पनाद्
इति. अभिनिरूपणाविकल्पभावाद् इत्य् अर्थः. प्रायेणेति ग्रहणं समाधिजविपाकजप्रीतिसुखपरिवर्जनार्थम्. न तु कायिकम् इति. न तु कायिकं सुखदुःखं विकल्पनाद् उत्पद्यते. किंकारणम् इत्य् आह. विषयवशाद् अर्हताम् अप्य् उत्पत्तेर् इति. प्रहीणप्रियाप्रियविकल्पानाम् अप्य् अर्हतां विषयवशेनैव कायिकसुखदुःखोत्पादात्. [तिब्. 92अ] अतस् तयोर् इन्द्रियत्वेन भेद इति. तयोः कायिकचैतसिकयोः सुखयोर् दुःखयोश् च इन्द्रियत्वेन भेदः पृथक्त्वं सुखेन्द्रियं सौमनस्येन्द्रियं दुःखेन्द्रियं दौर्मनस्येन्द्रियम् इति. उपेक्षा तु स्वरसेनैवानभिसंस्कारेणाविकल्पयत एवानभिनिरूपयत एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा नैष्यन्दिकी वा. तस्माद् एकम् इन्द्रियं क्रियते इन्द्रियत्वेनाभेदः उपेक्षेन्द्रियम् इति. अन्यथा च कायिकम् इति विस्तरः. अन्येनानुभवरूपविशेषेण कायिकं सुखम् अनुगृह्णाति. अन्येन चैतसिकं. स्थिरं हि कायिकम्. अस्थिरं हि चैतसिकम्. एवं दुःखम् अन्येनानुभवरूपविशेषेण कायिकम् उपहन्ति. अन्येन चैतसिकम् इति. उपेक्षायां नैष विकल्प इति. एष स्वरूपविशेषलक्षणो विकल्पो नास्ति. अत उपेक्षणं प्रत्य् उपेक्षाक्रियां प्रति. अविकल्पनात् अस्वभावविशेषाद् अभेदः.
दृग्भावनाशैक्षपथ
इति. दृग् दर्शनम्. दृशो भावनाया अशैक्षस्य च पन्था
दृग्भावनाशैक्षपथः.
तस्मिन्न् एव मार्गत्रये यानि मनःसुखसौमनस्योपेक्षाश्रद्धावीर्यस्मृतिसमाधिप्रज्ञाख्यानि नव द्रव्याणि. तानि दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियम् इति व्यवस्थाप्यन्ते. अन्योन्यम् अपेक्ष्यमाणानि तानि नव द्रव्याणि तत्तन् नाम लभन्ते. [तिब्. 92ब्] नवेति च कलापान्तरापेक्षयैवम् उक्तम्. न त्व् एकस्मिंश् चित्तकलापे नव द्रव्याणि भवन्ति. सुखसौमनस्योपेक्षेन्द्रियाणाम् एकतरस्यैव भावात्. यदि हि स मार्गो ऽनागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनभूमिकः. तत्रोपेक्षेन्द्रियम् एव. न सुखसौमनस्येन्द्रिये. यदि प्रथमद्वितीयध्यानभूमिकः. तत्र सौमनस्येन्द्रियम् एव. यदि तृतीयध्यानभूमिकः. तत्र सुखेन्द्रियम् एव नान्यद् इति. अनाज्ञातम् आज्ञातुं प्रवृत्त इति. अनाज्ञातं सत्यचतुष्टयम् आज्ञातुं ( अभिध्-क्-व्य् 102 ) वेदितुं प्रवृत्तः आज्ञास्यामीति प्रारब्धः. तस्येन्द्रियम् अनाज्ञातमाज्ञास्यामीन्द्रियं. अलुक्समासः. आख्यातप्रतिरूपकश् चायम् आज्ञास्यामीति शब्दः. भावनामार्गे नास्त्य् अपूर्वम् आज्ञेयं तद् एव तु सत्यचतुष्टयम् आजानाति शेषानुशयप्रहाणार्थं भावनाहेयक्लेशप्रहाणार्थम्. तस्याज्ञस्य पुद्गलस्येन्द्रियम् आज्ञेन्द्रियम्. आज्ञम् एवेन्द्रियम् इति वा. अशैक्षमार्गे त्व् आज्ञातम् इत्य् अवगमः आज्ञाताव इति. अर्थकथनमात्रम् एतत्. शब्दविग्रहस् त्व् एवं कर्तव्यः. आज्ञातम् इत्य् आव आज्ञातावः. अवतेः घञि रूपम् एतद् आव इति. सो ऽस्यास्तीति मत्वर्थीयः आज्ञातावी. आज्ञातम् अवितुं शीलम् अस्येति वेति ताच्छीलिको णिनिः. तथाभूतस्येन्द्रियम् इति. तथाभूतस्य पुद्गलस्येन्द्रियम्. आज्ञाताविन इत्य् अर्थः.
(इइ.9) अमलं त्रयम्
इति. अमलम् एव त्रयम् इत्य् अवधार्यते. ननु चायम् अनास्रवसास्रवप्रकारभेद उक्तो धातुनिर्देशे.
[तिब्. 93अ] अनास्रवा मार्गसत्यम्
इति. तथा
सास्रवानास्रवा एते त्रयः शेषास् तु सास्रवा
इत्यादिवचनात्. सत्यम् उक्तो ऽयम् एवमादिः प्रकारभेदः. स तु सामान्यरूपेणोक्तो न भेदरूपेण. अतः शिष्यसुखप्रतिपत्त्यर्थम् अयम् एवमादिप्रकारभेदः प्रतिपदरूपेण पुनर् अभिधीयत इत्य् एवम् अवगन्तव्यम्. द्विधा नवेति न सूत्रयितव्यम्. एकान्तानास्रवसास्रवनिर्धारणाद् एव हि द्विधा नवेति सिद्धेः. यदि ह्य् एतानि नवैकन्तेनानास्रवाणि स्युः. एकान्तानास्रवेष्व् आज्ञास्यामीन्द्रियादिषु पठ्येरन्. तथैकान्तसास्रवाणि स्युः. एकान्तसास्रवेषु रूपीन्द्रियजीवितदुःखदौर्मनस्येषु पठ्येरन्. न चैवम्. अतो नव द्विधेति सिद्धम्. अस्त्य् एतद् एवम्. मतान्तरनिवृत्त्यर्थं तु पुनर् इदम् उच्यते
नव द्विधेति.
द्विधैव नव. नानास्रवाणि यथैके कथयन्ति. तत्सिद्धये चागमम् आनयन्ति. यस्येमानीति विस्तरः. सर्वेण सर्वाणि न सन्तीति. सर्वेण प्रकारेण मृदुमध्याधिमात्रभेदेन. सर्वाणीति पञ्चापि न सन्तीत्य् अर्थः. पृथग्जनपक्षावस्थितं वदामीति वचनात्. अर्थाद् उक्तं भवति. यस्येमानि सन्ति स आर्य इति. नेदं ज्ञापकम्. तेषाम् अनास्रवत्वम् अधिकृत्येत्य् आचार्यः. तथा ह्य् [तिब्. 93ब्] आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्य् आहेति. कथम्. ( अभिध्-क्-व्य् 103 ) पञ्चेमानि भिक्षव इन्द्रियाणि. कतमानि पञ्च. श्रद्धेन्द्रियं यावत् प्रज्ञेन्द्रियं एषां पंचानाम् इन्द्रियाणां तीक्ष्णत्वात् परिपूर्णत्वाद् अर्हन् भवति. ततस् तनुतरैर् मृदुतरैर् अनागामी भवति. ततस् तनुतरैर् मृदुतरैः सकृदागामी. ततस् तनुतरैर् मृदुतरैः सकृदागामी. ततस् तनुतरैर् मृदुतरैः स्रोतआपन्नः. ततो ऽपि तनुतरैर् मृदुतरैर् धर्मानुसारी. ततस् तनुतरैर् मृदुतरैः श्रद्धानुसारी. इति हि भिक्षव इन्द्रियपारमितां प्रतीत्य फलपारमिता प्रज्ञायते. फलपारमितां प्रतीत्य पुद्गलपारमिता प्रज्ञायते. यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वाणि न सन्ति. तम् अहं बाह्यं पृथग्जनपक्षावस्थितं वदामीति. तद् एवम् आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्य् आह भगवान् इति. पृथग्जनो वा द्विविध इति. आभ्यन्तरकश् च बाह्यकश् च. असमुच्छिन्नकुशलमूल आभ्यन्तरको बौद्धसंगृहीतत्वात्. समुच्छिन्नकुशलमूलस् तु बाह्यकस् तद्विपर्ययात्. अत एव च बाह्यम् इति विशेषणम्. इतरथा हि पृथग्जनपक्षावस्थितं वदामीत्य् एवावक्ष्यत्. उक्तं च सूत्र इति. अथ भगवतो ऽचिराभिसंबुद्धस्यैतद् अभवत्. अधिगतो मे धर्मो गम्भीरो गम्भीरावभासो दुर्दर्शो दुरवबोधो ऽतर्क्यो ऽतर्कावचरः सूक्ष्मो [तिब्. 94अ] निपुणः पण्डितविज्ञवेदनीयः. तं चाहं परेषाम् आवेदयेयम्. तं च परे न विजानीयुः. स मम स्याद् विघातः. स्यात् क्लमथः. स्याच् चेतसो ऽनुदयः. यन् न्व् अहम् एकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारतायोगम् अनुयुक्तो विहरेयम्. अथ ब्रह्मणः सहापतेर् ब्रह्मलोके स्थितस्यैतद् अभवत्. नश्यति बतायं लोकः. प्रणश्यति बतायं लोकः. यत्रेदानीं कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते. तद्यथा उदुम्बरपुष्पम्. तस्य चाद्य भगवतो ऽल्पोत्सुकविहारितायां चित्तं क्रामति न धर्मदेशनायाम्. यन् न्व् अहं गत्वाध्येषयेयम्. अथ ब्रह्मा सहापतिः तद्यथा बलवान् पुरुषः सम्मिंजितं बाहुं प्रसारयेत्. प्रसारितं वा सम्मिंजयेत्. एवम् एव ब्रह्मा सहापतिः ब्रह्मलोके ऽन्तर्हितो भगवतः पुरस्तात् प्रत्यस्थात्. अथ ब्रह्मा तस्यां वेलायां गाथाम् अभाषत.
प्रादुर्बभूव मगधेषु पूर्वं
धर्मो ह्य् अशुद्धः समलानुबद्धः.
अपावृणीष्व अमृतस्य द्वारं
वदस्व धर्मं विरजं निरंगणम्.
अथ भगवान् तस्यां वेलायाम् इमे गाथे अभाषत्.
कृच्छ्रेण मे अधिगतो ब्रह्मन् खिलां प्रविदाल्य.
(अभिध्-क्-व्य् 104)
भवरागपरीतैश् च नायं धर्मः सुसंबुधः.
प्रतिस्रोतोपमं मार्गं गभीरम् अतिदुर्दृशं
न द्रक्ष्यन्ते रागरक्तास् तमःस्कन्धेन चावृताः.
ब्रह्मावोचत्. सन्ति भदन्त [तिब्. 94ब्] सत्त्वा लोके जाता लोके वृद्धास् तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपीत्य् अप्रवर्तित एव धर्मचक्र इति विस्तरः. इन्द्रियाणि श्रद्धादीनि. यैस् ते भव्या उक्ताः. यस्माद् अप्रवर्तिते ऽपि धर्मचक्रे सन्ति तीक्ष्णेन्द्रिया इत्याद्य् उक्तम्. तस्मात् सन्त्य् एव सास्रवाणि श्रद्धादीनीति. सदेवकाल् लोकाद् इति विस्तरः. न तावद् अहम् अस्मात् सदेवकाल् लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासापगतेन चेतसा बहुलं व्यहार्षम् इति विस्तरवचनम्. न चानास्रवाणाम् एष परीक्षाप्रकार इति. न ह्य् अनास्रवाणाम् आस्वाद आदीनवो निःसरणं वा युज्यते.
(इइ.10) अर्हन्न् इति. नानागामी. क्लेशविमुक्तसंतानत्वात्. ऋद्धिमान् इति प्राप्ताभिज्ञः. चेतोवशित्वं प्राप्त इति. असमयविमुक्तः. जीवितपरिष्कारम् इति. जीविताय परिष्कारस् तदनुगुणत्वात्. दत्त्वा तत् प्रणिधायेति. तद् आयुः प्रणिधाय चेतसि कृत्वेत्य् अर्थः. कथम् इत्य् आह. यन् मे भोगविपाकं कर्म. तद् आयुर्विपाकं भवत्व् इति. प्रान्तकोटिकम् इति.
वृद्धिनिष्ठागतम्
इति लक्षणम् अस्य वक्ष्यते. चित्तम् उत्पादयति वाचं च भाषत इति. चित्तवाचाव् अपि तत्सिद्धये कुर्यात् नैककारणसाध्यं हि कार्यं. तद् अनेन [तिब्. 95अ] विपाक एव जीवितेन्द्रियम् इति दर्शयति. यन् मे भोगविपाकं कर्म. तद् आयुर्विपाकदायि भवत्व् इति. ध्यानभावनाबलं तु तस्याकर्षकम् इति.
विपाकोच्छेषं विपच्यत इति. अकालमरणेनापरिसमाप्तफलस्य त्यक्तस्य जन्मान्तरकर्मणो भावनाबलेन विपाकोच्छेषम् आकृष्य प्रतिसंवेदयते. तेषां तादृश इति तेषां योगिनाम्.
पूर्वकर्मजं स्थितिकालावेधम् इति. पूर्वस्मिन् जन्मनि कर्म पूर्वकर्म. ततो जातः पूर्वकर्मजः. स्थितिर् इन्द्रियमहाभूतानां प्रवाहः. स्थितेः कालः स्थितिकालः. तस्यावेध आक्षेपः. स्थितिकालावेधः. तावत्संसारक्षणानुबन्धसामर्थम् आक्षेपः. तेन ह्य् असौ स्थितिकाल आविध्यते. तं पूर्वकर्मजं स्थितिकालावेधम् इन्द्रियमहाभूतानां व्यावर्तयन्ति योग्नः. अपूर्वं च समाधिजम् आगन्तुकम् आक्षिपन्ति.
प्रश्नात् प्रश्नान्तरम् उपजायत इति. अथ यद् अर्हन् भिक्षुर् आयुःसंस्कारान् स्थापयति. तज् जीवितेन्द्रियं कस्य विपाक इत्य् अस्मात् प्रश्नात् किमर्थम् आयुःसंस्कारान् अधितिष्ठन्तीति प्रश्नान्तरम्. परहितार्थं शासनस्थित्यर्थं चेति. परहितार्थं बुद्धा भगवन्तः. शासनस्थित्यर्थम् एव श्रावकः. रोगादिभूतं चात्मभावम् इति. रोगगण्डशल्यादिभूतं त्रिदुःखतायोगात्. क्व कस्य चेति. क्वेत्य् अस्य प्रश्नविसर्जनं मनुष्येष्व् एव [तिब्. 95ब्] त्रिषु द्वीपेष्व् इति. कस्येत्य् अस्य विसर्जनं स्त्रीपुरुषयोर् असमयविमुक्तस्यार्हतः प्रान्तकोटिध्यानलाभिन इति. तस्य हीति विस्तरः. समाधौ च वशित्वं प्रान्तकोटिकध्यानलाभिनः तीक्ष्णेन्द्रियत्वात्. क्लेशैश् चानुपस्तब्धा संततिर् निरवशेषक्लेशप्रहाणात्. दृष्टिप्राप्तस्य यद्य् अपि समाधौ वशित्वम् अस्ति. न तु तस्य क्लेशैर् अनुपस्तब्धा संततिः. समयविमुक्तस्य यद्य् अपि क्लेशैर् अनुपस्तब्धा संततिः. न तु समाधौ वशित्वम्. असमयविमुक्तस्य तूभयम् अस्ति.
बहुवचनम् इति. जीवितसंस्कारान् इति यद् वचनं. तद् बहुवचनम्. कस्माद् इत्य् आह. बहूनाम् इति विस्तरः. बहूनां संतानवर्तिनां जीवितसंस्काराणाम् उत्सर्जनाधिष्ठानात्. न ह्य् एकस्य क्षणस्य उत्सर्जने ऽधिष्ठाने वा प्रोयोजनम् अस्ति. प्रवाहेण परकार्याभिनिष्पादनात्. एकस्य च क्षणस्यापीडाकरत्वात्. न च कालन्तरस्थावरम् इति. कालान्तरस्थानशीलं कालान्तरस्थावरम् अक्षणिकम्. तच् चैतद् आयुर् द्रव्यं न भवतीति द्योतनार्थं बहुवचनम् इत्य् एके. बहुष्व् एव संस्कारेष्व् इति सौत्रान्तिकानाम् अयं पक्षः. एकस्मिन्न् अपि क्षणे बहवस् ते संस्काराः. येष्व् आयुर् इति प्रज्ञप्तिः. नैकम् आयुर् नाम द्रव्यम् अस्ति. ते च संस्काराः पंचस्कन्धस्वभावाश् चतुःस्कन्धस्वभावा वा द्रष्टव्याः. अन्यथा हि नैव संस्कारग्रहणम् अकरिष्यत. एवं तु वक्तव्यम् अभविष्यत्. भगवान् जीवितान्य् अधिष्ठाय आयूंष्य् उत्सृष्टवान् इति मरणवशित्वज्ञापनार्थम् इति. मरणे [तिब्. 96अ] वशित्वम् अस्तीति. त्रैमास्यम् एव नोर्ध्वम् इति. त्रयो मासाः समाहृतास् त्रिमासम्. त्रिमासम् एव त्रैमास्यम् अत्र कालाध्वनोर् अत्यन्तसंयोगे द्वितीया भवति. नोर्ध्वं त्रैमास्याद् विनेयकार्याभावात्. सुभद्रावसानत्वात् बुद्धकार्यस्य. तस्यापि संपादनार्थम् इति प्रतिज्ञातसंपादनार्थम्. अन्यथा वचनमात्रं स्याद् इति. कल्पावशेषः. कल्प एकः सकलः कल्पाधिकः कल्पः सातिरेक इत्य् अर्थः. स्कन्धमरणमारयोर् ( अभिध्-क्-व्य् 106 ) इति. चत्वारो माराः देवपुत्रमारः क्लेशमारः स्कन्धमारः मरणमारश् च. तत्र प्रथमे यामे देवपुत्रमारो निर्जितः. द्वितीये यामे दिव्येन चक्षुषा व्यवलोक्य तृतीये यामे क्लेशमारो निर्जितः. वैशाल्यां तु त्रैमास्यं जीवितसंस्कारान् अधिष्ठाय आयुःसंस्कारान् उत्सृष्टवान्. स्कन्धमारनिर्जयार्थम् उत्सृष्टाः स्कन्धाः. तेषूत्सृष्टेषु मर्तव्यं स्यात्. अतो मरणमारनिर्जयार्थम् अधिष्ठिता इति वैभाषिकाः.
निष्ठितम् आनुषंगिकं यत् प्रश्नात् प्रश्नान्तरम् उपजातं.
द्वेधा द्वादशेति.
द्वेधैव द्वादश एवेत्य् अवधार्यते.
ऋते ऽन्त्याद् अष्टकाच्
छ्रद्धादिकाद् आज्ञातावीन्द्रियपर्यन्तात्.
दौर्मनस्याच् च.
जीवितेन्द्रियाद् एकन्तविपाकाद् अन्यानि द्वादशेन्द्रियाणि विपाकश् चाविपाकश् च. तत्र चक्षुरादीनि पुरुषेन्द्रियावसानानि सप्त स्वप्नाद्यभिनिर्वृत्तान्य् औपचयिकान्य् अविपाकः. [तिब्. 96ब्] मनोदुःखसुखम् इति विस्तरः. यानि मनआदीनि कुशलक्लिष्टानि तान्य् अविपाकः. यानि च यथायोगम् ऐर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावान्य् अव्याकृतानि तान्य् अविपाकः. यथायोगम् इति विशेषणम्. ऐर्यापथिकादीनां मानसत्वेन दुःखेन्द्रियसंभवात् सुखसौमनस्ययोश् च क्वचिद् असंभवात्. तत्र कामधाताव् ऐर्यापथिकं मनैन्द्रियं तत्संप्रयुक्ते च सौमनस्योपेक्षेन्द्रिये अविपाकः. रूपधाताव् ऐर्यापथिकं मनैन्द्रियम् अविपाकः. वेदनेन्द्रियं च तत्संप्रयुक्तं यथाभूमि. नैर्माणिकं पञ्चभूमिकम्. तत्र चोपेक्षेन्द्रियम् एवाविपाकः. ऐर्यापथिकशैल्पस्थानिकनैर्माणिकानि नित्यम् उपेक्षेन्द्रियेण संप्रयुक्तानीति भदन्तानन्तवर्मा. शेषाणि विपाक इति. कुशलक्लिष्टैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावेभ्यो मनैन्द्रियादिभ्यो ऽन्यानि मनैन्द्रियादीनि विपाकजानि विपाकः. शेषाण्य् अविपाक इति सिद्धम् इति. जीवितेन्द्रियं द्वादश चक्षुरादीनि हित्वा तदवधारणाद् एव शेषाण्य् अविपाक इति सिद्धम्. कतमानि पुनस् तानि. दौर्मनस्येन्द्रियं न विपाकः कुशलाकुशलत्वात्. तथा हि वक्ष्यति.
तत् त्व् एकं सविपाकम्
इति. श्रद्धाद्य्
अष्टकं कुशलम्
इत्य् अविपाकः.
[तिब्. 97अ] विपाको ऽव्याकृतो धर्मः. सत्त्वाख्य
इति विपाकलक्षणाभावात्.
यदि दौर्मनस्येन्द्रियं न विपाक इत्य् अनेनागमविरोधं दर्शयति. संप्रयोगवेदनीयताम् अधिकृत्येति. वेदनीयं वेदना. दौर्मनस्यं वेदनीयम् अस्मिन्न् इति दौर्मनस्यवेदनीयं कर्म. सौमनस्योपेक्षावेदनीये अपीति. संप्रयोगमात्रवचनाद् दौर्मनस्यवत् सौमनस्योपेक्षे अपि न विपाकः प्राप्णुत इति परस्याभिप्रायः. संप्रयोगे ऽपि न दोषो विपाके ऽपीति. सौमनस्यं वेदनीयम् अस्मिन् सौमनस्यवेदनीयं कर्म. तथा सौमनस्यं विपाकत्वेन वेदनीयम् अस्य सौमनस्यवेदनीयं कर्मेति. अगत्या ह्य् एतद् एवं गम्येतेति. यदि दौर्मनस्यं युक्त्या परिच्छिन्नं न विपाक इति. तत एवम् अगत्याख्यायेत संप्रयोगवेदनीयताम् अधिकृत्योक्तम् इति. तेनाह का पुनर् अत्र युक्तिर् दौर्मनस्यं न विपाक इति. अथ वा अगत्या ह्य् एतद् एवं गम्येत. क्वचित् संप्रयोगवेदनीयता. क्वचिद् विपाकवेदनीयतेति. ब्रूयास् त्वं सर्वत्रैव तर्हि संप्रयोगवेदनीयतेति. अत एतद् अन्तराभिप्रायम् अभिसमीक्ष्याह. का पुनर् अत्र युक्तिर् दौर्मनस्यं न विपाक इति. दौर्मनस्यं हीत्य् [तिब्. 97ब्] अनिष्टचिन्तनादिकैः परिकल्पविशेषैर् उत्पाद्यते च [व्युत्पाद्यते च] व्युपशाम्यते च. सौमनस्यम् अप्य् एवम् इति. परिकल्पविशेषैर् इष्टचिन्तनादिभिर् उत्पाद्यते च व्युपशाम्यते च. वीतरागादीनां तर्हीति. यस्माद् वीतरागादीनां दौर्मनस्यं व्यावर्तते. न हि चक्षुरादिको विपाकभूतो वीतरागादीनां व्यावर्तते. दौर्मनस्यं तु व्यावर्तते. वचनाद् दौर्मनस्येन कामवीतरागो ऽसमन्वागत इति. सूत्रे ऽप्य् उक्तं. अवीतरागस्य द्विशल्या वेदनोक्ता कायिकं दुःखं प्रतिसंवेदयते चैतसिकं च दौर्मनस्यम् इति. वचनात् वीतरागस्य च एकशल्या कायिकम् एव दुःखं प्रतिसंवेदयत इति. सौमनस्यम् अप्य् एषाम् इति विस्तरः. वीतरागाणाम् अव्याकृतं विपाकरूपं सौमनस्यं कीदृशं स्यात्. समापत्तिसंगृहीतं तेषां सौमनस्यं संभवति. तच् च कुशलत्वान् न विपाकः. अतो वक्तव्यम्. कीदृशं तेषां सौमनस्यं विपाक इति. यादृशं तादृशम् अस्त्व् इति. अपरिच्छिद्यमानम् अपि तद् अस्त्य् एवेति दर्शयति. तस्यास्ति विपाकावकाशो न दौर्मनस्यस्य. सर्वथाप्य् असमुदाचारात् समापत्त्यवस्थायाम् अप्य् असमापत्त्यवस्थायाम् अपीत्य् अतो न विपाक इति सिद्धम्. मनैन्द्रियम् उभयोर् उभयस्येति. उभयोः सुगतिदुर्गत्योः उभयस्य कुशलाकुशलस्य. विपाक इत्य् अधिकारः. इदम् उत्सृष्टं जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य [तिब्. 98अ] विपाक इति. तत्र कथम् उभयव्यंजनम् असाधुसम्मतं कुशलस्य विपाक इत्य् आह. सुगताव् उभयव्यंजनस्याकुशलेन तत्स्थानप्रतिलंभ इति. स्थानम् अस्य भ्रष्टम्. अतो ऽस्याकुशलेन ( अभिध्-क्-व्य् 108 ) प्रतिलंभो विप्रयुक्तो धर्मः. उभयं तु व्यंजनं कुशलस्यैव विपाक इत्य् अभिप्रायः.
(इइ.11) तत् त्व् एकं सविपाकम्
इति. तद् एकं सविपाकम् एवेत्य् अर्थः. तेनाह. तुशब्द एवकारार्थो भिन्नक्रमश् चेति. भिन्नस्थान इत्य् अर्थः. तद् एकं सविपाकं त्व् इति हि क्रमो न भिन्नः स्यात्. श्लोकबन्धानुगुण्येन त्व् एवम् उक्तम्. न हि तद् अव्याकृतम् इति. सविपाकम् एवेत्य् अवधारणे युक्तिं दर्शयति. द्वे हि वस्तुनी अविपाके इष्येते. अव्याकृतम् अनास्रवं च. विकल्पविशेषोत्पाद्यत्वान् न तद् अव्याकृतम्. असमाहितत्वाच् च नानास्रवम्. अव्याकृतं हि पूतिबीजवन् न विपाकदानाय समर्थम्. अनास्रवं तु तृष्णानभिष्यन्दितत्वान् नालं विपाकदानायानभिष्यन्दितसारबीजवत्. पारिशेष्याद् अकुशलं वा तद् भवेत् कुशलसास्रवं वा. अतः सविपाकम् एव नास्त्य् अविपाकं दौर्मनस्यम्.
दश द्विधेति.
दशैव द्विधा द्विधैव च दशेत्य् अवधारणम्. द्विधेति सविपाकाविपाकानि.
[तिब्. 98ब्] मनो ऽन्यवित्तिश्रद्धादीनि चेति.
मनश् च अन्यवित्तयश् च श्रद्धादीनि चेति. वित्तिर् वेदना. अन्यग्रहणेन दौर्मनस्यवर्जितं गृह्यते दौर्मनस्यस्योक्तत्वात्.
श्रद्धादीनि
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा. गृह्यन्त इत्य् अधिकृतम् अन्यद् अविपाकम् इति. यथोक्तदौर्मनस्याद्यवधारणात्. जीवितं रूपाणि च सप्तेन्द्रियाण्य् आज्ञास्यामीन्द्रियादीनि च त्रीण्य् अविपाकानीति सिद्धम् अव्याकृतत्वात् अनास्रवत्वाच् च यथाक्रमम्.
(इइ.12) अष्टकं कुशलम्
इति. अष्टकं कुशलम् एवेत्य् अवधारणम्.
द्विधा दौर्मनस्यम्
इति. द्विधैव दौर्मनस्यं दौर्मनस्यम् एव द्विधेत्य् अवधारणं. द्विधेति कुशलं चाकुशलं च. अन्यद् अपि द्वैधम् अस्ति. कूशलं चाव्याकृतं च अकुशलं चाव्याकृतं चेति. तत् कथम् इदम् अवधार्यते. कुशलं चाकुशलं चेति. व्याख्यानतो विशेषप्रतिपत्तिः. अथ वा दौर्मनस्यं सविपाकम् एवेति निर्धारितम्. तस्माद् इदम् एव द्वैधं भवति नान्यत्.
अन्या च वित्तिर्
इति दौर्मनस्यवर्ज्यं वेदनाचतुष्टयं तस्योक्तत्वात्.
त्रेधेति.
कुशलाकुशलाव्याकृतानि. त्रयः प्रकारास् त्रेधा. द्वित्र्योश् च धमुञ्. एधाच् चेति ( अभिध्-क्-व्य् 109 ) त्रेधेत्य् एधाशब्दव्युत्पत्तिः. अलोभादिसंप्रयुक्तानि कुशलानि. लोभादिसंप्रयुक्तान्य् अकुशलानि. अतो ऽन्यान्य् [तिब्. 99अ] अव्याकृतानि.
अन्यद् एकधेति.
जीविताष्टमम् अन्यद् एकधैवेत्य् अवधार्यते. अव्याकृतम् एवेत्य् अर्थः. एतदर्थं च पुनर् अस्य करणम्. अन्यथा ह्य् अकुशलम् एव कुशलाव्याकृतम् एवाकुशलाव्याकृतम् एव वा तत् संभाव्यते. तस्माद् अभीप्सितैकधात्वप्रसिद्ध्यर्थं पुनर् उच्यते. यस्यैकधात्वं संभवति. तद् भवति. किं च संभवत्य् अव्याकृतत्वम् इति.
(इइ.13) कामाप्तम् अमलं हित्वेति.
अमलम् एव हित्वा कामाप्तं भवति. तद् ध्य् अप्रतिसंयुक्तम् एवेति. अधातुपतितम् एवेत्य् अर्थः.
रूपाप्तं स्त्रीपुमिन्द्रिये
इति विस्तरः. स्त्री च पुमांश् च स्त्रीपुमांसौ. समासान्ते विधिर् अनित्य इति परिभाषया समासान्तो न भवति. तयोर् इन्द्रिये स्त्रीपुमिन्द्रिये.
दुःखे चेति
दुःखवेदनास्वभावे इन्द्रिये दुःखदौर्मनस्ये इत्य् अर्थः. ते स्त्रीपुमिन्द्रिये दुःखदौर्मनस्ये अमलां चेहानुवर्तमानं हित्वा. शेषं रूपाप्तम् इन्द्रियं भवति.
क्वोच्यन्त इति पृष्टे सूत्रं दर्शयति. अस्थानम् अनवकाश इति विस्तरः. अत्र सूत्र इत्य् अभिप्रायः. अन्यः पुरुषभावो ऽस्ति. यः कामधातौ पुरुषाणां भवतीति. स्तनादिसंस्थानस्वराचारान्यथात्वम्. दुःखेन्द्रियं नास्तीति. आश्रयस्याच्छत्वात् तद् अभिघातजं नास्ति. अकुशलभावाच् च विपाकजं च नास्ति. दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसंतानत्वाद् इति. यस्माच् च शमथेन समाधिना [तिब्. 99ब्] प्रतिघविगमात्. रौक्ष्यं संताने नास्ति. तस्माद् दौर्मनस्येन्द्रियं नास्ति. आघातवस्त्वभावाच् चेति. आघातः कोपः. तस्य वस्तु विषयः आघातवस्तु. नव चाघातवस्तूनि. अनर्थं मे अकार्षीत् करोति करिष्यति चेत्य् आघातवस्तुत्रयम्. मित्रस्य मे अनर्थम् अकार्षीत् करोति करिष्यतीत्य् अपरम् आघातवस्तुत्रयम्. अमित्रस्य मे अर्थम् अकार्षीत् करोति करिष्यति चेत्य् अपरम् आघातवस्तुत्रयम् इति. एषां नवानाम् आघातवस्तूनाम् अभावात् विषयकृतम् अपि दौर्मनस्यं नास्ति. न केवलं हेतुकृतं नस्तीति दर्शयति. हेतुकृतं हि तद् यत् स्वसंतानप्रतिघकृतम्. प्रत्ययकृतं च तद् यन् नवाघातवस्तुकृतम् इति.
सुखे चापोह्य रूपि चेति.
चशब्देन पूर्वोक्तम् अनुकृष्यते. तेनाह. स्त्रीपुमिन्द्रिये दुःखे चामलं च हित्वेति वर्तत इति.
सुखे
इति. सुखवेदनास्वभावे सुखसौमनस्येन्द्रिये. रूपीन्द्रियं चक्षुरादि.
(इइ.14) वित्तित्रयं सुखसौमनस्योपेक्षा इति. सुखेन्द्रियं यत् तृतीयध्यानभूमिकं दर्शनहेयानुशयसंप्रयुक्तं. तद् दर्शनहेयम्. तत्रैव अतो ऽन्यत् सास्रवम्. पञ्चविज्ञानकायिकं च कामावचरम्. प्रथमध्यानभूमिकं च त्रिविज्ञानकायिकं भावनाप्रहातव्यम्. अनास्रवं तु सुखेन्द्रियम् अहेयम्. [तिब्. 100अ] सौमनस्यं दर्शनहेयसंप्रयुक्तं दर्शनहेयम्. अतो ऽन्यत् सास्रवं भावनाहेयम्. अनास्रवम् अहेयम्. उपेक्षेन्द्रियं तु सर्वगम् इति सुगमम्.
द्विहेया दुर्मनस्कतेति.
दौर्मनस्ययोगाद् दुर्मनस्कः. तद्भावो दुर्मनस्कता. दौर्मनस्यम् इत्य् अर्थः. यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेषः. तदभिधाने त्वतलाव् इति लक्षणात्. तद् दर्शनहेयसंप्रयुक्तं दर्शनहेयम्. अतो ऽन्यद् भावनाहेयम्. नाहेयम् असमाहितत्वात्.
(इइ.15) कामेष्व् आदौ विपाकौ द्वे लभ्येते
इति. कामप्रधानत्वात् कामधातुः काम इति निर्दिश्यत इति वक्ष्यते. अण्डजजरायुजसंस्वेदजैस् सत्त्वैः कामधाताव् आदौ प्रथमतो द्वे इन्द्रिये विपाकात्मके लभ्येते. कायेन्द्रियं जीवितेन्द्रियं च. कस्मात्. प्रतिसंधिकाले मनौपेक्षेन्द्रिययोर् अवश्यं क्लिष्टत्वात्.
उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैर्
इति वचनात्. चक्षुरादीनां च तस्याम् अवस्थायाम् अविद्यमानत्वात्.
नोपपादुकैर्
इति अपवादः. अविशेषितत्वाद् ध्य् उपपादुकैर् अपि तथैव द्वे एव लभ्येयाताम् इति प्रसंगः. तस्माद् अयं प्रतिषेधः. किम् उपपादुकैस् ते द्वे नैव लभ्येते. लभ्येते न तु द्वे एव. तेनाह
तैः षड् वेति
विस्तरः. [तिब्. 100ब्] यद्य् अव्यञ्जना भवन्ति. यद्य् अविद्यमानस्त्रीपुरुषेन्द्रियाः. यथा प्राथमकल्पिका इति.
युगाद्युत्पन्नाः प्राग् आसन् रूपिवत् सत्त्वा
इति वचनात्. कतमानि षट्. चक्षुरादीनि पञ्च जीवितं च षष्ठम् इति. यथा देवादिष्व् इति. आदिशब्देन नारकादयो ऽपि गृह्यन्ते. अन्तराभवोपपत्तिभवप्रतिसंध्यवस्थायां ( अभिध्-क्-व्य् 111 ) तानि प्रथमतो लभ्यन्ते. किं पुनर् उभयव्यञ्जना अप्य् उपपादुका भवन्तीति. निहीनोभयव्यञ्जनोत्पत्तिः. विशिष्टा चोपपादुका योनिः. कथम् अनयोः समायोग इति चोदनाभिप्रायः. रूपप्रधानत्वाद् रुपाणीति रूपधातुर् निर्दिश्यते. रूपप्रधानत्वाद् इति. रूपाणां स्वच्छत्वाद् भास्वरत्वाद् इत्य् अर्थः. अथ वा न कामगुणप्रधानो रूपधातुः. किं तर्हि. रूपमात्रप्रधानः. नाप्य् आरूप्यधातुवद् अरूपप्रधान इति. सूत्रे ऽप्य् उक्तम् इति. सूत्रे ऽप्य् एवं दृष्टम्. न मदुपज्ञम् एवैतद् इति दर्शयति. ये ऽपि ते शान्ता विमोक्षा अतिक्रम्य रूपाण्य् आरूप्याः. ते ऽप्य् अनित्या अध्रुवा अनाश्वाशिका विपरिणामधर्माण इति विस्तरः. अव्यञ्जनैर् उपपादुकैर् इति प्राथमकल्पिकैः. समापत्तितश् च परत्वाद् इति. यस्मात् पूर्वं रूपसमापत्तिः. पश्चाद् आरूप्यसमापत्तिः. तस्माद् रूपधातोर् उत्तर आरूप्यधातुः. उपपत्तितश् च प्रधानतरत्वाद् इति. यस्माच् चोपपत्तितः प्रधानतरः [तिब्. 101अ] रूपधातोर् आरूप्यधातुः. बहूनि कल्पसहस्राणि तत्रातिप्रशान्तो विपाको भवति. अतो ऽप्य् असाव् उत्तरो न तूपपत्तिदेशतः.
आरूप्यधातुर् अस्थान
इति वचनात्.
(इइ.16) निरोधयत्य् उपरमन्न्
इति. म्रियमाण आरूप्यधाताव् एतान्य् एव त्रीणीन्द्रियाणि निरोधयति. सापवादं चैतद् वेदितव्यम्.
शुभे सर्वत्र पञ्च चेति
वचनात्.
रूपे ऽष्टाव्
इति. रूपधाताव् अष्टाव् एतान्य् एव. सह पञ्चभिश् चक्षुरादिभिर् निरोधयेत्. सकृत्समग्रेन्द्रियमरणात्. अत एवाह. सर्वे ह्य् उपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते चेति.
कामे दश नवाष्ट वेति.
उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति. यदि समग्रपञ्चेन्द्रियो भवति. एकव्यञ्जनो नव. अव्यञ्जनो ऽष्टौ. यदि तु विकलेन्द्रियो ऽन्धो बधिरो वा भवति. तदा तद् इन्द्रियं परिहार्यम्. सापवादं चैतत् सर्वकामधाताव् एव वेदितव्यम्. तद् अपवादम् आह.
क्रममृत्योस् तु चत्वारीति.
न ह्य् एषां पृथग्निरोध इति. न ह्य् एषां कामधाताव् अन्योन्यं विरहय्य निरोधो ऽस्तीत्य् अभिप्रायः.
शुभे सर्वत्र पञ्च चेति.
सर्वस्य पूर्वोक्तस्य मरणविधेर्
निरोधयत्य् उपरमन्न् आरूप्ये जीवितं मन
इत्य् एवमादेर् अपवादः. त्रिविधं हि मरणचित्तं संभवति. क्लिष्टम् अव्याकृतं कुशलं च. [तिब्. 101ब्] तत्र क्लिष्टाव्याकृतचित्तस्योत्सर्गन्यायेन मरणविधिर् उक्तः. कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चाधिकाः प्रक्षेप्तव्याः. एषां हि श्रद्धादीनां कुशले चेतस्य् अवश्यं भावः. तेन यत्र त्रीण्य् उक्तानि तत्राष्टौ. यत्राष्टौ तत्र त्रयोदश. यत्र दश तत्र पञ्चदश. यत्र नव तत्र चतुर्दश. यत्र पुनर् अष्टौ तत्र त्रयोदश. यत्र चत्वारि तत्र नवेति विस्तरेण गणनीयम्. रूपारूप्यधात्वोऋ नास्ति क्रममरणम्.
(इइ.17) इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्त इति. इन्द्रियप्रकरणे इह क्रियमाणे. सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषाः कारित्रविशेषा वा विचार्यन्त इत्य् एके व्याचक्षते. अपरे तु व्याचक्षते. इन्द्रियप्रकरणे इन्द्रियस्कन्धके सर्व इन्द्रियधर्मा अवस्थाविशेषाः कारित्रविशेषा वा विचार्यन्ते. तेनेहापि ते विचार्यन्ते. तत्प्रत्यासत्वात् अस्य शास्त्रस्येत्य् अभिप्रायः.
नवाप्तिर् अन्त्यफलयोर्
इति. नवभिर् इन्द्रियैर् आप्तिर्
नवाप्तिः.
कस्य.
अन्त्यफलयोः.
अन्ते भवे अन्त्ये. अन्त्ये फले अन्त्यफले. तयोः. के पुनर् अन्त्ये. स्रोतआपत्तिफलं अर्हत्त्वफलं च. यथा दण्डस्य द्वाव् अन्तौ भवतः. एवं पङ्क्त्यवस्थितानां चतुर्णां फलानां स्रोतआपत्तिफलम् अर्हत्त्वफलं चान्ते भवतः. सकृदागामिफलम् अनागामिफलं च मध्ये भवतः. तयोर् अन्त्ययोः फलयोर् नवभिर् एवेन्द्रियैः प्राप्तिः. कतमैर् नवभिर् इत्य् आह. श्रद्धादिभिर् आज्ञातावीन्द्रियवर्ज्यैर् [तिब्. 102अ] मनौपेक्षेन्द्रियाभ्यां चेति. नवभिर् इति. तत्रैवम् अभिसमयक्रमः. दुःखे धर्मज्ञानक्षान्तिः. दुःखे धर्मज्ञानं. दुःखे ऽन्वयज्ञानक्षान्तिः. दुःखे ऽन्वयज्ञानं. समुदये धर्मज्ञानक्षान्तिः. समुदये धर्मज्ञानं. समुदये ऽन्वयज्ञानक्षान्तिः. समुदये ऽन्वयज्ञानं. निरोधे धर्मज्ञानक्षान्तिः. निरोधे धर्मज्ञानं. निरोधे ऽन्वयज्ञानक्षान्तिः. निरोधे ऽन्वयज्ञानं. मार्गे धर्मज्ञानक्षान्तिः. मार्गे धर्मज्ञानं. मार्गे ऽन्वयज्ञानक्षान्तिः. मार्गे ऽन्वयज्ञानम्. इति षोडश क्षणा अभिसमय इत्य् उच्यन्ते. तत्र दुःखे धर्मज्ञानक्षान्तिर् यावन् मार्गे ऽन्वयज्ञानक्षान्तिर् इति पञ्चदश ( अभिध्-क्-व्य् 113 ) क्षणा दर्शनमार्गः.
अदृष्टदृष्टेर् दृङ्मार्गस् तत्र पञ्चदश क्षणा
इति वचनात्. तच् चाज्ञास्यामीन्द्रियम् इत्य् उच्यते. मार्गे ऽन्वयज्ञानं तु षोडशः स भावनामार्गः. ततः प्रभृत्या वज्रोपमसमाधेर् यावान् अनास्रवो मार्गः सर्वो ऽसौ भावनामार्गः. तच् चाज्ञेन्द्रियम् इत्य् उच्यते. क्षयज्ञानात् प्रभृति सर्वो ऽनास्रवो मार्गो ऽशैक्षमार्गः. तच् चाज्ञातावीन्द्रियम् इत्य् उच्यते. तत्र स्रोतआपत्तिफलं मार्गे ऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्यते. श्रद्धादीनि चात्र पञ्चेन्दियाणि अवश्यं भवन्ति. तस्या अवस्थायाः कुशलत्वात्. आज्ञास्यामीन्द्रियस्वभावा चासौ मार्गे ऽन्वयज्ञानक्षान्तिर् वर्तमाना. मनैन्द्रियं च तत्संप्रयुक्तं भवति. उपेक्षेन्द्रियं चावश्यं अनागम्याश्रयत्वात्. [तिब्. 102ब्] अनागम्यस्य च उपेक्षेन्द्रियसंप्रयुक्तत्वात्. मार्गे ऽन्वयज्ञानं तु अस्याम् अवस्थायाम् आज्ञेन्द्रियस्वभावम् उत्पादाभिमुखं वर्तते. तेन श्रद्धादिभिः पञ्चभिर् आज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मनौपेक्षेन्द्रियाभ्यां चेति तत्फलं नवभिः प्राप्यते. उभाभ्यां हि तस्य प्राप्तिर् इति. आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमुक्तिमार्गेण चाज्ञेन्द्रियस्वभावेन तस्य प्राप्तिः. विसंयोगप्राप्तेर् आवाहकसंनिश्रयत्वात् यथाक्रमं. तस्या विसंयोगप्रातेर् आनन्तर्यमार्गस्यावाहकत्वात्. जनकत्वात्. विमुक्तिमार्गस्य च तस्याः संम्निश्रयत्वात्. आधारत्वाद् इत्य् अर्थः. द्वाभ्यां चौरनिष्कासनकपाटपिधानवत्. यथा हि द्वयोर् मनुष्ययोः एकेन चौरो निष्कास्यते. द्वितीयेनास्य कपाटं पिधीयते. तथानन्तर्यमार्गेण विसंयोगप्राप्तिर् आवाह्यते क्लेशप्राप्तिम् आदाय निरोधात्. विमुक्तिमार्गेणाधार्यते. विसंयोगप्राप्तिसहोत्पादात्. अर्हत्त्वस्य पुनः श्रद्धादिभिर् आज्ञास्यामीन्द्रियवर्ज्यैर् इति. वज्रोपमसमाध्यवस्थायाम् अर्हत्त्वफलं प्राप्यते. श्रद्धादीनि मनैन्द्रियं च पूर्ववत्. वज्रोपमसमाधिकलापस् तस्याम् अवस्थायाम् आनन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमानः. सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमत्. यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते. सुखेन्द्रियं तत्र वर्तमानं. [तिब्. 103अ] अथ प्रथमं द्वितीयं ध्यानं निश्रित्य तत्र सौमनस्येन्द्रियं. अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनानां अन्यतमं निश्रित्य तत्रोपेक्षेन्द्रियं वर्तमानं. क्षयज्ञानकलापस् तु अस्याम् अवस्थायां विमुक्तिमार्ग आज्ञातावीन्द्रियस्वभाव उत्पादाभिमुखो भवति. तेन श्रद्धादिभिः पंचभिर् आज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति तत्फलं नवभिः प्राप्यते. आनन्तर्यविमुक्तिमार्गाभ्यां ( अभिध्-क्-व्य् 114 ) तत्प्राप्तिर् इति पूर्ववद् व्याख्यानं.
सप्ताष्टनवभिर् द्वयोः
प्राप्तिर् इति वाक्यशेषः. प्रत्येकम् इति विस्तरः. सकृदागामिफलस्य सप्तभिर् अष्टाभिर् नवभिर् वा प्राप्तिः. एवम् अनागामिफलस्य. तत् प्रतिपादयन्न् आह. सकृदागामिफलं तावद् यद्य् आनुपूर्वकः प्राप्णोति स च लौकिकेन मार्गेणेति. लौकिको मार्गः शान्ताद्युदाराद्याकारः.
शान्ताद्युदाराद्याकारा उत्तराधरगोचरा
इति वचनात्. तेनोत्तरां भूमिं शान्ततः प्रणीततः निःसरणतश् चेह योगी पश्यति. अधराम् औदारिकतो दुःखिलतः स्थूलभित्तिकतश् च पश्यति. स चायं चतुःप्रकारो वर्ण्यते. प्रयोगमार्ग आनन्तर्यमार्गो विमुक्तिमार्गो विशेषमार्गश् च. तत्र प्रयोगमार्गो यत आनन्तर्यमार्ग उत्पद्यते. स पुनर् येन क्लेशान् प्रजहाति. विमुक्तिमार्गो [तिब्. 103ब्] ऽप्य् आनन्तर्यमार्गाद् अनन्तरम् उत्पद्यते. क्लेशप्रहाणप्राप्तेर् आधारकः. विशेषमार्गस् तत उच्चं विशिष्टो मार्गः. तेन मार्गेण नवप्रकाराः क्लेशाः प्रहेयाः. अधिमात्राधिमात्रो ऽधिमात्रमध्यो ऽधिमात्रमृदुः मध्याधिमात्रो मध्यमध्यो मध्यमृदुः मृद्वधिमात्रो मृदुमध्यो मृदुमृदुश् चेति. तद् यदि पृथग्जनः प्रजहाति दर्शनभावनाहेयान् क्लेशान् मिश्रीकृत्य तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रजहाति. मृदुमृदुभ्याम् आनन्तर्यविमुक्तिमार्गाभ्याम् अधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति. एवं यावद् अधिमात्राधिमात्राभ्याम् आनन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति. आर्यस् तु भावनाहेयान् एव क्लेशांस् तथैव नवधा कृत्वा प्रजहाति. दर्शनहेयानां दर्शनमार्गेण प्राक्प्रहीणत्वात्. लोकोत्तरस् तु भावनामार्गस् तथैव षोडशाकारः. अनित्याद्याकारभेदात्. स चापि तथैव प्रयोगादिमार्गभेदाच् चतुर्भेदः. इहापि मृदुमृदुभ्याम् आनन्तर्यविमुक्तिमार्गाभ्याम् अधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति. एवं यावद् अधिमात्राधिमात्राभ्याम् आनन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति. एष लौकिकलोकोत्तरयोर् मार्गयोर् दिङ्मात्रनिर्देशः. तत् सकृदागामिफलम् आनुपूर्वकेण वा लभ्येत भूयोवीतरागेण वा. तत्रानुपूर्विको यः स्रोतआपत्तिफलं प्राप्य क्रमात् सकृदागामिफलं प्राप्नोति. [तिब्. 104अ] कश् चासौ. यः सकलबन्धन एकप्रकाराद्युपलिखितो वा यदि न षष्ठप्रकारोपलिखितो नियामम् अवक्रामति. षोडशे चित्तक्षणे स स्रोतआपन्नो भवति. स भावनाहेयस्यैकस्य यावत् षष्ठस्यैव वा प्रकारस्य प्रहाणाय शमथचरितत्वात् लौकिकम् अपि मार्गम् उत्पादयति. स षष्ठप्रकारे प्रहीणे सकृदागामिफलं प्राप्नोति. तस्य फलस्य सप्तभिर् इन्द्रियैः प्राप्तिः श्रद्धादिभिः ( अभिध्-क्-व्य् 115 ) पंचभिर् मनैन्द्रियेण उपेक्षेन्द्रियेण च सप्तमेनानागम्यनिर्श्रयत्वात्. अथ लोकोत्तरेणे मार्गेण तस्याष्टाभिर् इन्द्रियैः प्राप्तिः. तैर् एवाज्ञेन्द्रियेण चाष्ठमेन. तन्य् एव हि श्रद्धादीनि सप्तेन्द्रियाणि आज्ञेन्द्रियाख्यां लभन्ते. अनास्रवत्वात्. अथ भूयोवीतराग इति. यो लौकिकेन मार्गेण पृथग्जनावस्थायां षट्प्रकारोपलिखितो ऽभूत्. स भूयोवीतराग इत्य् उच्यते. भूयसा प्रकारेण वीतराग इति कृत्वा. स यदि सकृदागामिफलं प्राप्नोति. कथं स प्राप्नोति इति. अभिसमयक्रमेण पूर्वोक्तेन मार्गे ऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्नोति. तस्य नवभिर् यथैव स्रोतआपत्तिफलस्य. श्रद्धादिभिर् आज्ञातावीन्द्रियवर्ज्यैः. मनौपेक्षेन्द्रियाभ्यां चेति पूर्ववत् व्याख्यानं. अयं हि स्रोतआपत्तिफलं अप्राप्यैव षोडशे क्षणे सकृदागामी भवति. अनागामिफलं यद्य् आनुपूर्वकः प्राप्नोतीति. इहानुपूर्वको [तिब्. 104ब्] यः स्रोतआपत्तिफलं सकृदागामिफलं च प्राप्य अनागामिफलं प्राप्नोति. यो वा भूयोवीतरागो भूत्वा स्रोतआपत्तिफलम् अलब्ध्वैव सकृदागामिफलम् एव च लब्ध्वानागामिफलं प्राप्नोति. स च यदि लौकिकेन मार्गेण प्राप्नोति. तस्य सप्तभिर् इन्द्रियैः प्राप्तिः. यथा सकृदागामिफलस्यानुपूर्विकीयस्येत्य् अभिप्रेतं. श्रद्धादिभिः पंचभिर् मनौपेक्षेन्द्रियाभ्यां चेत्य् अर्थः. अथ लोकोत्तरेण मार्गेण तस्याष्टाभिस् तथैवेति. यथा सकृदागामिफलस्यैवाष्टाभिर् इत्य् अर्थः. आज्ञेन्द्रियम् अष्टमं भवतीति. अथ वीतराग इति. कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे प्रहीणे प्रथमाद् अपि वा ध्यानाद् यावद् आकिंचन्याद् अपि वा विटरागो यो ऽनागामिफलं प्राप्नोति. तस्य नवभिः प्राप्तिः. यथा स्रोतआपत्तिफलस्य. स्रोतआपत्तिफलस्य हि दर्शनमार्गेण प्राप्तिः. अस्य च दर्शनमार्गेणैव प्राप्तिर् इति तुल्यत्वम्. अयं तु विशेषः. सखसौमनस्योपेक्षेन्द्रियाणाम् अन्यतमं भवति. निश्रयविशेषाद् इति. यदि तृतीयं ध्यानं निश्रित्य नियामम् अवक्रामति. सुखेन्द्रियं तत्र भवति. अथ प्रथमद्वितीये ध्याने निश्रित्य सौमनस्येन्द्रियं तत्र भवति. अथानागम्यध्यानान्तरचतुर्थध्यानानाम् अन्यतमं निश्रित्य उपेक्षेन्द्रियं तत्र भवतीति. [तिब्. 105अ] यदाप्य् अयम् आनुपूर्विक
इति विस्तरः. यदाप्य् अयम् अधिगतपूर्वफल आनुपूर्विकस् तीक्ष्णेन्द्रियः. स नवमे विमुक्तिमार्गे ध्यानं प्रविशति मौलं लौकिकेन मार्गेण तदाप्य् अष्टाभिर् इन्द्रियैर् अनागामिफलं प्राप्नोति. तत्र मौलध्यानसंगृहीतो विमुक्तिमार्गो भवति. तत्र च सौमनस्येन्द्रियं. आनन्तर्यमार्गस् त्व् अनागम्यसंगृहीत एव. यदि न पृअविशति तत्र चोपेक्षेन्द्रियम् एव नान्यथा. तस्य प्राप्तिर् अष्टाभिः श्रद्धादिभिः पंचभिर् मनौपेक्षासौमनस्येन्द्रियैश् चेति. उभाभ्यां च तस्य प्राप्तिर् इति. आनन्तर्यविमुक्तिमार्गाभ्यां. ( अभिध्-क्-व्य् 116 ) चौरनिष्कासनकपाटपिधानवद् इति व्याख्यातम् एतत्. अथ लोकोत्तरेण प्रविशतीति. स एव आनुपूर्विकस् तीक्ष्णेन्द्रियो वेदितव्यो ऽधिकारानुवृत्तेः. तस्य नवभिर् इन्द्रियैः प्राप्तिस् तैर् एवेदानीम् उक्तैर् इन्द्रियैः. आज्ञेन्द्रियेण च नवमेन. तान्य् एव हि इन्द्रियाणि अनास्रवत्वाद् आज्ञेन्द्रियाख्यां लभन्ते. इदम् इह चोद्यते. कस्माद् आनुपूर्विक एवम् उक्तो न पुनर् वीतरागपूर्वी. न हि वीतरागपूर्वी अनागम्यनिश्रयेण दर्शनमार्गम् उत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं ध्यानं प्रविशति. तत्राधिगते ऽनादरात्. आनुपूर्विको हि मौलध्यानर्थी तस्यानधिगतपूर्वत्वात्. तस्माद् अस्ति संभवो यद् असौ मौलम् एव प्रविशति. वीतरागपूर्वी तु चतुःसत्यदर्शनं प्रति कृतादरो न ध्यानं प्रतीति [तिब्. 105ब्] न तत्र षोडशे चित्तक्षणे मौलं ध्यानं प्रविशतीत्य् अभिप्रायः.
नवाप्तिर् अन्त्यफालयोर्
इत्य् उक्तं. तद् विरोधयति यत् तर्हि अभिधर्म उक्तं. ज्ञानप्रस्थाने. कतिभिर् इन्द्रियैर् अर्हत्त्वं प्राप्नोतीति. आह. एकादशभिर् इति. तत् कथं न विरुध्यत इत्य् अभिप्रायः.
एकस्य संभवाद्
इति. कस्यचिद् एवैकस्य पुद्गलस्य संभवो न सर्वस्य संभवः. यो हि मृद्विन्द्रियः परिहाय परिहाय सुखसौमनस्योपेक्षाभिः निश्रयविशेषात् पार्यायिकीभिर् अर्हत्त्वं प्राप्नुयात्. तं प्रत्य् एवम् उक्तं. एकादशभिर् इति. न तु संभवो ऽस्ति सखसौमनस्योपेक्षाणां एकस्मिं काले समवधानम् इत्य् अर्थः. चित्तचैत्तानाम् एकैकद्रव्योत्पत्तेः. यो हि कश्चिन् मृद्विन्द्रियः पुद्गलो ऽनागम्यं अन्यं वोपेक्षेन्द्रियनिश्रयं निश्रित्य अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिर् उपेक्षेन्द्रियेण. ततः पुनर् अपि परिहीयते. ततः प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनर् अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिः सौमनस्येन्द्रियेण. ततः पुनर् अपि परिहीयते. ततः स तृतीयं ध्यानं निश्रित्य पुनर् अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिः सुखेन्द्रियेण इति. प्रत्येकं तत्र फलप्राप्तौ अवश्यं नवैवेन्द्रियाणि व्याप्रियन्ते. श्रद्धादीनि पंच मनआज्ञातावीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमद् इति. पुनःपुनः प्राप्तेस् तद् एकादशभिर् इत्य् उक्तं. कथम् अनागामिनो ऽप्य् एष प्रसंगो [तिब्. 106अ] न भवतीति. कस्मात् तत्र शास्त्रे ऽर्हत्वफलम् एव एकादशभिः प्राप्नोतीत्य् उक्तं. न तूक्तम् अनागामिफलम् अपीति. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. असाव् अनागामी तृतीयध्यानोर्ध्वभूमिलाभात् परिहीणो भवति. ऊर्ध्वभूमेर् एव परिहीणो भवति. नसाव् ( अभिध्-क्-व्य् 117 ) अनागामिफलात् परिहीण इत्य् उच्यते. एवं यावत्. द्वितीयध्यानात्. यदा तु प्रथमात् परिहीणो भवति. तदानागामिफलात् परिहीण इत्य् उच्यते. पंचावरभागीयप्रहाणाद् धि अनागामिफलं व्यवस्थाप्यते. यदा च स कामवैराग्यात् परिहीणः. तदा तृतीयं ध्यानम् अस्य नास्ति. तत् कथं सुखेन्द्रियेणानागामिफलं प्राप्नुयात्. तत आह. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. किं. सौमनस्येन्द्रियेण प्राप्नुयात्. यत एवं सुखेन्द्रियस्यैव प्रतिषेधः. प्राप्नुयात् यदि नवमे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत्. नैतद् अस्ति. यो हि परिहीणो भवेत्. स मृद्विन्द्रियः. यश् च मृद्विन्द्रियः. स न शक्नोति नवमे विमुक्तिमार्गे मौलं ध्यानं प्रवेष्टुं. तीक्ष्णेन्द्रियस् तु शक्नोति. इन्द्रियसंचारस्य दुष्करत्वात्. अस्त्य् एतत्. किं तु यद्य् असौ मृद्विन्द्रिय आनुपूर्विको ऽनागामिफलं प्राप्य ततश् च परिहीणो भूत्वा इन्द्रियसंचारं कुर्यात्. इन्द्रियसंचारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणानागामिफलं प्राप्नुवन् यदि नवमे विमुक्तिमार्गे मौलं [तिब्. 106ब्] प्रविशेत्. तस्य तदानागामिफलप्राप्तिर् अष्टाभिर् नवभिर् वा भवति. श्रद्धादिभिः पंचभिर् मनैन्द्रियेण उपेक्षेन्द्रियेण चानन्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्गसंगृहीतेनेति. लोकोत्तरेण चेन् मौलं ध्यानं प्रविशेत्. एभिश् चाष्टाभिर् आज्ञेन्द्यियेण च नवमेनेत्य् अवगन्तव्यं. तस्मात् सूक्तं. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. वीतरागपूर्वी तर्ह्य् एकादशभिस् तत् प्राप्नुयात्. कथं. यो मृद्विन्द्रियः पुद्गलस् तृतीयध्यानलाभी तृतीयं ध्यानं निश्रित्य नियामम् अवक्रामेत्. स षोडशे चित्तक्षणे अनागामी भवति. सा तत्फलप्राप्तिः. सुखेन्द्रियेण श्रद्धादिभिः पंचभिर् मनआज्ञास्यामीन्द्रियाज्ञेन्द्रियैश् चेति. स ततो ऽनागामिफलात् परिहीण इन्द्रियोत्तापनेन तीक्ष्णेन्द्रियम् आत्मानं कृत्वा अनागम्यनिश्रयेणैवानागामिफलं प्राप्नुवन् नवमे विमुक्तिमार्गे मौलं प्रविशेत्. तस्य तत्फलप्राप्तिः पूर्ववद् उपेक्षेन्द्रियेण सौमनस्येन्द्रियेण च श्रद्धादिभिश् चापि पंचभिर् मनैन्द्रियेण चाष्टमेन लोकोत्तरमार्गत्वात् आज्ञेन्द्रियेणापि नवमेनेति. एवं द्वयोः कालयोर् एकादशभिर् इन्द्रियैस् स पुद्गलस् तद् अनागामिफलं प्राप्नुयाद् इति. ततस् तत् प्रतिषेधार्थम् इदम् आह. न च वीतरागपूर्वी परिहीयते. तद्वैराग्यस्य द्विमार्यप्रापणाद् इति. न च कामवीतरागः केनचिन् निश्रयेण नियामम् [तिब्. 107अ] अवक्रान्तः परिहीयते. कस्मात्. तद्वैराग्यस्य कामवैराग्यस्य द्विमार्गप्रापणात्. लौकिकलोकोत्तरमार्गप्रापणात्. इह फलं द्विविधं. संस्कृतम् असंस्कृतं च.
संस्कृतासंस्कृतं फलम्
इति वचनात्. तत्र यद् असंस्कृतं विसंयोगलक्षणम् अनागामिफलं. तत्
( अभिध्-क्-व्य् 118 ) पूर्वं लौकिकेन मार्गेण प्राप्तं. नियामावक्रान्तौ च लोकोत्तरेण मार्गेण पुनस् तत् प्राप्तं. द्विविधा हि तस्य प्राप्तिः. लौकिकी लोकोत्तरा च. तस्मात् स्थिरं तद् वैराग्यं. तस्माद् अतो न परिहीयते. ननु च
फलाद् धानिर् न पूर्वकात्.
दर्शनहेयानाम् अवस्तुकत्वाद् इत्य् एतद् अपि कारणान्तरम् अस्ति. कस्मात् तद् इह नोक्तम् इत्य् एतद् अपि वक्तव्यं. अपि खलु पर एवं ब्रूयात्. मा भूद् दर्शनहेयक्लेशवैराग्यपरिहाणिः. भावनाहेयक्लेशमात्रवैराग्यपरिहाणिस् तु कस्माद् अस्य परिहीणकस्य न भवेत्. पंचावरभागीयप्रहाणाद् धि अनागामिफलं भवति. तत्र च सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च दर्शनहेयाः. कामच्छन्दो व्यापादश् च भावनाहेयौ. तयोश् च तस्य वीतरागपूर्विणो ऽभिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लौकिकेन मार्गेण प्राप्तस्य तत्सामर्थ्यात् पुनर् अनास्रवा प्राप्तिर् भवति. अनास्रवगोत्राणां लब्धत्वात्. [तिब्. 107ब्] अनास्रवं हि नवमविमुक्तिमार्गस्वभावं संस्कृतम् अनगामिफलम् असंस्कृतं च कामच्छन्दादिप्रहाणं तस्याम् अवस्थायां लभ्यते. तस्माद् इदम् एव कारणम् उक्तं. आर्येण तद् वैराग्यस्य द्विमार्गप्रापणाद् इति. कामच्छन्दादिप्रहाणस्य द्विमार्गप्रापणाद् इत्य् अर्थः.
(इइ.18-20) उपेक्षाजीवितमनोयुक्तो ऽवश्यं त्रयान्वित
इति. उपेक्षया जीवितेन मनसा वा युक्तो ऽन्वितो ऽवश्यं त्रयेण समन्वागतः तेनैवोपेक्षाजीवितमनःस्वभावेन. न ह्य् एषाम् अन्योन्येन रिना समन्वागम इति. यदैकस्य समन्वागमः. तदेतरयोर् अपि समन्वागमः. तेनैषां समन्वागमव्यवस्थानं क्रियते. चक्षुरादीनां तु न क्रियते. तस्माद् आह. चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैर् इति विस्तरः. चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैर् आरूप्यधातूपपन्नो न समन्वागत इत्य् अत्र कायेन्द्रियाग्रहणं. कामधातौ च येनाप्रतिलब्धविहीनानीत्य् अस्योपचयार्थस्य चक्षुरादिष्व् एव संभवान् न कायेन्द्रिये. अन्यथा हि रूपिभिर् इन्द्रियैर् आरूप्योपपन्नो न समन्वागत इत्य् एवोच्यते. अप्रतिलब्धानि कललाद्यवस्थायां. विहीनानि लब्धविनाशाद् अन्धत्वाद्यवस्थायां क्रममरणे वा. पृथग्जना न समन्व्गागता इति विशेषणं. आर्यस्यावश्यं समन्वागतत्वात्. न हि तस्य भूमिसंचारेण अनास्रवसुखादित्यागः. दौर्मनस्येन कामवीतराग इति. इहस्थो धात्वन्तरस्थो वा पृथग्जनो वार्यो [तिब्. 108अ] वा न समन्वागतः. पृथग्जनफलस्था इति. फलस्थाः स्रोतआपन्नादयो ऽभिसमयान्ते विहीनत्वात्. तेनानाज्ञातमाज्ञास्यामीन्द्रियेणासमन्वागताः. आज्ञेन्द्रियेण दर्शनमार्गस्था ( अभिध्-क्-व्य् 119 ) अप्राप्तत्वाद् असमन्वागताः. अशैक्षमार्गस्थाः फलप्राप्तौ विहीनत्वात् असमन्वागताः. अप्रतिषिद्धास्व् अवस्थासु यथोक्तसमन्वागमो वेदितव्य इति. या अप्रतिषिद्धा अवस्थाश् चक्षुरादिभिर् इन्द्रियैः समन्वागमं प्रति. तास्व् अवस्थासु यद्यद् इन्द्रियम् उक्तं. तैस्तैः समन्वागतो वेदितव्य इत्य् अर्थः. तद्यथा कामधाताव् अप्रतिलब्धविहीनावस्थां हित्वा चक्षुराधिभिर् जिह्वान्तैः समन्वागतः. कायेन्द्रियेण कामरूपधातूपपन्नः समन्वागत इत्यादि.
चतुर्भिस् सुखकायाभ्याम्
इति. युक्त इति वर्तते. अवश्यम् इति च. संख्यानुक्रमविवक्षायां तु तदनन्तरं तैर् इत्य् एवानन्तरं सुखादिग्रहणं. सुखेन्द्रियेण समन्वागत इति. चतुर्थध्यानारूप्यधातूपपन्नं पृथग्जनं मुक्त्वा सर्वः सुखेन्द्रियेण समन्वागतः. तस्यान्यैर् नावश्यं समन्वागतः. चक्षुरादिभिर् जिह्वेन्द्रियान्तैर् आरूप्यधातौ कामधातौ च अप्रतिलब्धविहीनावस्थायाम् असमन्वागमः. कायेन्द्रियेण च आरूप्यधातौ. स्त्रीपुरुषेन्द्रियाभ्यां रूपारूप्यधात्वोश् च. कामधातौ च अलब्धविहीनावस्थायां. दुःखेन्द्रियेण रूपारूप्यधात्वोः. सौमनस्येन्द्रियेण पृथग्जनस् तृतीयध्यानोपपन्नः. [तिब्. 108ब्] दौर्मनस्येन्द्रियेण कामवीतरागावस्थायां. श्रद्धादिभिः पंचभिः समुच्छिन्नकुशलमूलावस्थायां. आज्ञास्यामीन्द्रियेण पृथग्जनफलस्थावस्थायां. आज्ञेन्द्रियेण पृथग्जनदर्शनमार्गस्थाशैक्षावस्थायां.
आज्ञातावीन्द्रियेण पृथग्जनशैक्षावस्थायां असमन्वागत इति. यः कायेन्द्रियेण सो ऽपि चतुर्भिर् इति. कामधातूपपन्नः कायेन्द्रियेण समन्वागतस् तस्य. नान्यैर् अवश्यं समन्वागमः. चक्षुरादिभिः कामाधाताव् अलब्धविहीनावस्थायाम् असमन्वागमः. स्त्रीपुरुषेन्द्रियाभ्याम् एतस्याम् एवावस्थायां रूपधातौ चासमन्वागमः. दुःखेन चास्मिन्न् एव. सुखेन च पृथग्जनस्य चतुर्थध्यानोपपत्ताव् असमन्वागमः. सौमनस्येन पृथग्जनस् तृतीयचतुर्थध्यानोपपन्नो ऽसमन्वागतः. दौर्मनस्येन श्रद्धादिभिश् चान्यैः पूर्ववद् असमन्वागमो वक्तव्यः.
पंचभिश् चक्षुरादिमान्
इति. चक्षुःश्रोत्रघ्राणजिह्वावान् इत्य् अर्थः. तेन चेति. तेन चक्षुषा. चक्षुषि सत्य् अवश्यं कायेन्द्रियं. न तु श्रोत्रादीनि. कामधाताव् अलब्धविहीनत्वसंभवात्. स्त्रीपुरुषेन्द्रियादीनां पूर्ववद् व्यभिचारो वक्तव्यः. एवं श्रोत्रघ्राणजिह्वेन्द्रियैर् इति. यः श्रोत्रेन्द्रियेण. सो ऽवश्यं पंचभिर् उपेक्षाजीवितमनःकायैस् तेन चेत्य् एवं सर्वं नेयं.
सौमनस्यी च.
किं. पंचभिर् [तिब्. 109अ] अवश्यं समन्वागत इत्य् अधिकृतं. चक्षुरादिष्व् एव सौमनस्यं कस्मान् न प्रक्षिप्तं. अन्यस्थानपाठात्. तथा ह्य् आदिशब्देन प्रक्षेप आकुलः स्यात्. द्वितीयध्यानजस् तृतीयालाभी कतमेन सुखेन्द्रियेण समन्वागत इति. सुखेन्द्रियं कामधातौ पंचविज्ञानकायिकं. प्रथमे च ध्याने त्रिविज्ञानकायिकम् अस्ति. तृतीये तु ध्याने मानसं. अतो द्वितीयध्यानजो नाधरेण सुखेन्द्रियेण समन्वागतः. तस्य भूमिसंचारेण त्यक्तत्वात्. न टृतीयध्यानभूमिकेन तस्यालाभित्वाद् इति मत्वा चोदयति. कतमेन सुखेन्द्रियेण समन्वागत इति. आह. क्लिष्टेन तृतीयध्यानभूमिकेनेति. सर्वे ह्य् अधरभूम्युपपन्नाः सत्त्वा उपरिभूमिकेनाप्रहीणेन क्लिष्टेन समन्वागता इति सिद्धान्तः. शेषेन्द्रियव्यभिचारः पूर्ववद् वक्तव्यः.
दुःखी तु सप्तभिर्
इति. कामधातूपपन्नो ह्य् एष. तस्माद् अवश्यं कायेन्द्रियेण चतुर्भिश् च वेदनेन्द्रियैर् इति. दौर्मनस्यवर्ज्यैः. तद्वीतरागावस्थायां दौर्मनस्यं व्यभिचरति. मनोजीवितेन्द्रिये च स्तः. इत्य् अवश्यं सप्तभिर् इन्द्रियैः समन्वागतः. शेषेन्द्रियव्यभिचारस् तु पूर्ववद् वाच्यः.
स्त्रीन्द्रियादिमान्
अष्टादिभिर्
इति. स्त्रीपुरुषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियवान् इत्य् अर्थः. जीवितमनःसुखदुःखसौमनस्योपेक्षेन्द्रियाणाम् उक्तत्वात्. आज्ञातावीन्द्रियादीनां च त्रयाणां वक्ष्यमाणत्वात्. [तिब्. 109ब्] एषाम् एवाष्टानाम् इन्द्रियाणां ग्रहणं भवति. यः स्त्रीन्द्रियेण समन्वागत इति. स कामधातूपपन्न एव स्त्रीन्द्रियवत्त्वात्. अतः सो ऽवश्यम् अष्टाभिर् इन्द्रियैः समन्वागतः. कतमैर् इत्य् आह. तैश् च सप्तभिः स्त्रीन्द्रियेण चेति. कायजीवितमनोभिश् चतुर्भिश् च वेदनेन्द्रियैर् इति सप्तभिः स्त्रीन्द्रियेण चाष्टमेन. शेषैर् अनियमः. यथोक्तं चक्षुरादीनां वैकल्यसंभवाद् इत्यादिभिः कारणैः. स्त्रीन्द्रियवत् पुरुषेन्द्रियवान् अपि वक्तव्यः. दौर्मनस्यवान् अपि कामोपपन्नः कामवीतराग इति तथैव तैः सप्तभिर् दौर्मनस्येन च. श्रद्धावान् अपि त्रैधातुकः सत्त्व इति तैः पंचभिः श्रद्धादिभिर् अविनाभाविभिर् उपेक्षाजीवितमनोभिश् च समन्वागतः. शेषैर् अनियमः पूर्ववत्. यथा श्रद्धावान् एवं यावत् प्रज्ञावान्. आज्ञाते इन्द्रियम् आज्ञातेन्द्रियम् इति. आज्ञात एव इन्द्रियं आज्ञातेन्द्रियं. निरवशेषाज्ञात इन्द्रियम् इत्य् अर्थः. आज्ञेन्द्रियम् अपि हि आज्ञात इन्द्रियं न तु निरवशेषे सावशेषत्वात् प्रहेयस्य. अथ वा पदैकदेशग्रहणेन आज्ञातावी पुद्गल आज्ञात इत्य् उच्यते. तस्येन्द्रियं आज्ञातेन्द्रियम् इति. य आज्ञेन्द्रियेण सो ऽवश्यम् एकादशभिर् इति. आज्ञेन्द्रियवान् फलस्थः ( अभिध्-क्-व्य् 121 ) शैक्षः त्रिष्व् अपि धातुषु भवति. स चतुर्थध्यानारूप्योपपन्नः कथं सुखसौमनस्येन्द्रियाभ्यां समन्वागतः. [तिब्. 110अ] यस्माद् आर्यः कामवैराग्ये ऽवश्यं सौमनस्येन्द्रियं प्रतिलभते. द्वितीयध्यानवैराग्ये च सुखेन्द्रियं. ते च भूमिसंचारे ऽपि न त्यज्येते. तथा हि वक्ष्यति.
भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभं
तथारूप्याप्तम्. आर्यं तु फलाप्त्युत्तप्तिहानिभिर्
इति. फलप्राप्तीन्द्रियोत्तापने ऽपि यद्य् अपि ते प्रतिपन्नकमार्गमृद्विन्द्रियमार्गसंगृहीते त्यज्येते. तथाप्य् अपरे फलस्थतीक्ष्णेन्द्रियमार्गस्वभावे लभ्येते. तस्मात् ताभ्यां सुखसौमनस्याभ्यां भूमिसंचारे ऽपि अपरित्यक्ताभ्यां चतुर्थध्यानारूप्योपपन्नो ऽपि आर्यः समन्वागत एव भवति. शेषैः पूर्ववद् अनियमः.
आज्ञास्यामीन्द्रियोपेतस् त्रयोदशभिर् अन्वित.
इति विस्तरः. आज्ञास्यामीन्द्रियसमन्वागतः कामावचरः सत्त्वः कामधाताव् एवाज्ञास्यामीन्द्रियोत्पादनात्.
असंवेगाद् इह विधा तत्र निष्ठेति वाचनाद्
इति. तस्माद् अवश्यं कायेन्द्रियम् अस्यास्ति. चतस्रो वेदना दौर्मनस्यवर्ज्याः तस्य वीतरागावस्थायां व्यभिचारात्. तत्रावश्यम् इति वर्तते. त्रयोदशभिर् एभिर् इन्द्रियैर् अवश्यम् एव समन्वागत इत्य् अवधार्यते. न तु त्रयोदशभिर् एवेति. शेषैर् अनियमः. अन्धादिष्व् अपि दर्शनमार्गसंभवात्. स्त्रीपुरुषेन्द्रिययोर् वैकल्ये कथं दर्शनमार्गोत्पत्तिः. स्त्रीपुरुषेन्द्रियवियुक्तविकलानां हि संवरफलप्राप्तिवैराग्याणि [तिब्. 110ब्] न सन्तीति. केचित् तावद् आहुः. प्रतिलब्धसंवराणां फलप्राप्तिर् भवति. द्विव्यंजनोदयाद् धि प्रातिमोक्षसम्वरत्यागो भवति. न तद्वैकल्यात्. क्रममरणाद् वा स्त्रीपुरुषेन्द्रिये निरोधे ऽप्य् अभ्यस्तनिर्वेधभागीयस्य दर्शनमार्गोत्पत्तिर् भवति. अपरे पुनर् आहुः. पुद्गलसामान्यम् इहाधिक्रियते. नैकत्रैवेन्द्रियैर् आवश्यकसमन्वागमव्यभिचाराव् उच्येते. कथम्.
उपेक्षाजीवितमनोयुक्तो ऽवश्यं त्रयान्वित
इति यावत्. उपेक्षासमन्वागतः पुद्गलः कामधातूपपन्नो वा यावद् भवाग्रोपपन्नो वा सर्वो ऽसाव् अवश्यं त्रयेण समन्वागतः. चक्षुरादिव्यभिचारस् तु संभवतो न सर्वत्र. कश्चिद् एव हि रूपिभिर् इन्द्रियैर् असमन्वागतो य आरूप्यधातूपपन्नः. न तु यो रूपधातूपपन्नः. विस्तरेण यावत् कश्चिद् एव श्रद्धादिभिर् असमन्वागतो यः समुच्छिन्नकुशलमूलः. न तु स एव आरूप्यधातूपपन्नः. तस्थेहापि यावान् आज्ञास्यामीन्द्रियोपेतः सर्वो ऽसाव् एभिर् यथोक्तैस् त्रयोदशभिर् इन्द्रियैर् अवश्यं समन्वागतः. व्यभिचारस् तु संभवतः ( अभिध्-क्-व्य् 122 ) कस्यचिद् एव. तथा हि कस्यचिच् चक्षुरिन्द्रियेणासमन्वागमो यो ऽन्धः. कस्यचिच् छ्रोत्रेन्द्रियेण यो बधिरः. एवं घ्राणादिभिः. यावत् कस्यचित् स्त्रीन्द्रियेण यः पुरुषः. कस्यचित् पुरुषेन्द्रियेण या स्त्री. कस्यचिद् दौर्मनस्येन यो वीतरागः. इत्य् एवम् एवावगन्तव्यं.
(इइ.21) सर्वाल्पैर् निःशुभो ऽष्टाभिर्
इति एकः पुद्गलः. सर्वेभ्यो ऽल्पैर् [तिब्. 111अ] यः समन्वागतः. स कियद्भिर् अल्पैः समन्वागत इत्य् आह. निःशुभो यः समुच्छिन्नकुशलमूलः. स च कामधाताव् एव.
च्छिनत्ति स्त्री पुमान् दृष्टिचरित
इति. कामवैराग्यं चात्र न संभवति. तस्माद् अस्य पंचापि वेदनेन्द्रियाणि सन्ति. कायेन्द्रियं च जीवितमनसी च स्त एव सर्वत्र. चक्षुरादीनि तु न सन्ति. क्रममरणावस्थायां अन्धत्वाद्यवस्थायां च तेषाम् अभावात्. व्च्दयत इति कृत्वेति कर्तरि क्विप्. वेदनं वा विद् इति भावसाधन औणादिकः क्विप्. ज्ञापकं दर्शयति. यथा संपदनं संपद् इति.
तथारूप्य
इति संख्यामात्रं तथाशब्देन संबध्यते. एकान्तकुशलत्वात् श्रद्धादीनि शुभग्रहणेन गृह्यन्त इति. शुभान्य् एव नाकुशलाव्याकृतानि यानि तानि शुभानीत्य् अर्थः. आज्ञास्यामीन्द्रियादीनाम् अपि ग्रहणप्रसंग इति. तान्य् अपि एकान्तकुशलानि. तस्मात् तद्ग्रहणप्रसंग इति. न. अष्टाधिकाराद् इति.
निःशुभो ऽष्टाभिर्
इत्य् एतस्मात्.
उपेक्षायुर्मनःशुभैर्
अष्टाभिर् इत्य् आज्ञास्यामीन्द्रियादीनां निरासः कृतो भवति. अष्टशब्देन कृतावधित्वात्. बालाधिकाराच् चेति. बालो ऽत्राधिक्रियते.
बालस् तथारूप्य
इति वचनात्. [तिब्. 111ब्] आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो भवति. पृथग्जनत्वं कतमत्. आर्यधर्माणाम् अलाभ इति वचनात्. तस्मात् तेष्व् अनास्रवेषु अप्रसंग इति.
(इइ.22) द्विव्यंजनो यः समग्रेन्द्रिय इति. द्विव्यंजनो ऽपि हि समग्रचक्षुरादिकः. एवम् एकान्नविंशत्या समन्वागतो नान्यथा. आज्ञातावीन्द्रियं द्वयोश् चान्यतरद् इति. रागित्वाद् आज्ञातावीन्द्रियं एकान्तेन वर्जयितव्यं. आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्याम् अवश्यं पर्यायेण समन्वागमात्. यदाज्ञास्यामीन्द्रियं. न तदाज्ञेन्द्रियं. यदाज्ञेन्द्रियं. न तदाज्ञास्यामीन्द्रियं. ( अभिध्-क्-व्य् 123 ) उक्त इन्द्रियाणां धातुप्रभेदप्रसंगेनागतानां विस्तरेण प्रभ्च्द इति. अष्टादशानां धातूनां कतीन्द्रियं कति नेन्द्रियम् इति धातुप्रभेदप्रसंगेन.
धर्मार्धम् इन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृता
इति. इन्द्रियाणि आगतानि. तेषां प्रभेदः
अमलं त्रयम्
इत्य् एवमादिविस्तरेणोक्तः.
(इइ.23) किम् एते संस्कृता धर्मा इति. ये ते स्कन्धधात्वायतनत्वेनाभिहिताः पूर्वं. यथा भिन्नलक्षणा इति. रूप्यते इति रूपं. अनुभवो वेदना. निमित्तोद्ग्रहणं संज्ञेत्यादि. संस्कृतग्रहणम् उत्पत्तिमत्त्वात्. उताहो नियतसहोत्पादा अपि. केचित् सन्तीति. सन्ति हि केचित् सहोत्पादा न तु नियतसहोत्पादाः. यथा चक्षुरादिसहोत्पादाः. तद्विज्ञानादयः चक्षुरादीनां सभागतत्सभागभावात्. तस्माद् एवं पृच्छति. सर्व इमे धर्माः [तिब्. 112अ] पंच भवंतीति. पंचवस्तुकनयेन एवं सर्वधर्मसंग्रहो व्यवस्थाप्यते. रूपादिकलापमुखेन धर्मनिर्देशः. सुखप्रतिपत्त्यर्थं. तत्रासंस्कृतं नैवोत्पद्यत इति. न तत् प्रति सहोत्पादनियमश् चिन्त्यते. सर्वसूक्ष्मो रूपसंघातः परमाणुर् इति. संघातपरमाणुर् न द्रव्यपरमाणुः. यत्र हि पूर्वपरभागो नास्ति. तत् सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुर् इतीष्यते. तस्माद् विशिनष्टि संघातः परमाणुर् इति.
कामे ऽष्टद्रव्यको ऽशब्द
इति. कामधातौ यदा शब्दो ऽत्र नोत्पद्यते. तदा नियतम् अष्टद्रव्यक एव भवति नातो न्यूनद्रव्यकः.
अपरेन्द्रिय
इति. अपरम् इन्द्रियम् अस्मिन्न् इत्य् अपरेन्द्रियः. चक्षुरादिमान् इत्य् अर्थः. यत्र हि चक्षुः श्रोत्रादि वा तत्र कायेन्द्रियेण भवितव्यं तत्प्रतिबद्धवृत्तित्वाच् चक्षुरादीनां. सशब्दाः पुनर् एते परमाणव इत्य् अष्टद्रव्यकादयः संघातपरमाणवः सशब्दा उत्पद्यमाना यथाक्रमं नव दशैकादशद्रव्यका उत्पद्यन्ते. यो ऽष्टद्रव्यकः. स नवद्रव्यकः. यो नवद्रव्यकः. स दशद्रव्यकः. यो दशद्रव्यकः. स एकादशद्रव्यक इति. अस्ति हीन्द्रियविनिर्भागी शब्दो ऽपीति. इन्द्रियाद् विनिर्भक्तुं यो न शक्यते. स इन्द्रियाविनिर्भागी शब्दः. इन्द्रियापृथग्वर्तीत्य् अर्थः. अविनिर्भोगीति केचिद् भुजि पठन्ति.
कथम् अविनिर्भागे भूतानां कश्चिद् एव संघातः कठिन इत्यादि. कठिनः पृथिवीधातुः. द्रवो [तिब्. 112ब्] ऽब्धातुः. उष्णस् तेजोधातुः. समुदीरणा ( अभिध्-क्-व्य् 124 ) वायुधातुः. तुल्यभूतसद्भावात् तुल्यरूपैस् तत्संघातैर् भवितव्यम् इत्य् अभिप्रायः. यद् यत्र पटुतमम् इति विस्तरः. यद् द्रव्यं पृथिव्यादिलक्षणं. यत्र संघाते पटुतमं स्फुटतमं प्रभावतः शक्तितो न तु द्रव्यतः उद्भूतम् उत्पन्नं. तस्य तत्रोपलब्धिः. तस्य द्रव्यस्य तत्र संघात उपलब्धिर् ग्रहणं. सूचीतूलीकुलापस्पर्शवत्. तत्र सूच्यो लोहमय्यः प्रतीता लोके. तूल्यो वीरणादिपुष्पमूलदण्डाः. याः सिंका इति प्राकृतप्रतीताः. तासां सूचीनां तूलीनां च कलापः. तस्य स्पर्शः सूचीतूलीकलापस्पर्शः. तस्य चोपलब्धिः. तस्य पटुतमस्य प्रभावत उद्भूतस्य भूतस्येति. तत्र तस्येवेति. अनेन लक्षणेन वतिः. एतद् उक्तं भवति. यथा तुल्ये ऽपि सूचीनां तूलीनां कलापसद्भावे तीक्ष्णत्वात् सूचीनाम् एव स्पर्शो व्यक्तम् उपलभ्यते. न तूलीनाम् अतीक्ष्णत्वात्. तथा क्वचिद् एव संघाते काष्ठादिके कठिनम् उपलभ्यते. क्वचिद् द्रवः पानीये. क्वचिद् उष्णो ऽग्नौ. क्वचित् समुदीरणा वायौ. न च तत्रतत्र संघाते चत्वारि महाभूतानि न सन्ति. सक्तुलवणचूर्णरसवच् च. सक्तुचूर्णानां लवणचूर्णानां च यथा रसस्योपलब्धिः. लवणचूर्णरस एव व्यक्तम् उपलभ्यते. न तु सक्तुचूर्णरसः. तद्वद् इहापीति. संग्रहधृतिपक्तिव्यूहनाद् इति. संग्रहकर्मणाब्धातोर् अस्तित्वं गम्यते काष्ठादिके. अन्यथा पांसुमुष्टिवत् तद् विशीर्यते. यदि तत्राब्धातुर् न स्यात्. धृतिकर्मणाप्सु नौप्रभृतीनां [तिब्. 113अ] पृथिवीधातोर् अस्तित्वं गम्यते. पक्तिकर्मणा तेजोधातोर् अस्तित्वं गम्यते. यदि हि तन् न स्यात् काष्ठादिकं न पूतीभवेत्. व्यूहनकर्मणा वायुधातोर् अस्तित्वं गम्यते. प्रसर्पणं हि तस्य न स्याद् वृद्धिर् वा यदि वायुधातुस् तत्र न स्यात्. एवम् अन्यत्रापि योज्यं. प्रत्ययलाभे च सतीति विस्तरः. प्रत्ययानाम् अग्न्यादीनां लाभे सति कठिनादीनां च द्रवणादिभावात्. द्रवणघनत्वादिभावात्. तद्यथाग्निभूते सति क्कठिनस्य लोहस्य द्रवणं. तेन ज्ञायते लोहे ऽब्धातुर् अस्तीति. तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यं. तेन ज्ञायते पृथिवीधातोर् अत्रास्तित्वम् इति. तथा कठिनसंघर्षाद् औष्ण्यम् उपलभ्यते. तेन तेजोधातोर् अत्रास्तित्वं गम्यते. इति एवं संभवतो ऽन्यत्रापि योज्यं. अप्सु शैत्यातिशयाद् औष्ण्यं गम्यते इत्य् अपर इति भदन्तश्रीलातः. यस्माद् आपः शीताः शीततराः शीततमाश् च उपलभ्यन्ते. ततो ज्ञायते तेजसस् तत्रान्यतरतमोत्पत्तेः शैत्यातिशयः. तेन च तत्र तेजो ऽस्तीति गम्यते.
अव्यतिभेदे ऽपीति विस्तरः. तं मतम् आचार्यो दूषयति. यथा न च ( अभिध्-क्-व्य् 125 ) शब्दस्य द्रव्यान्तरेण व्यतिभेदो मिश्रीभावो ऽस्ति अतिशयश् च भवति स्वभावभेदात् पटुः शब्दः पटुतरः पटुतम इति. एवम् इहापि भवेत्. यथा च वेदनाया न केनचिद् द्रव्यान्तरेण व्यतिभेदो भवतीति [तिब्. 113ब्] स्वभावभेदात् तारतम्येनातिशयः. तथेहपीति. नानेन तेजोऽस्तित्वं गम्यते. ता एव ह्य् आपः काश्चिच् छीताः काश्चिच् छीततराः काश्चिच् छीततमा इति. बीजतस् तेषु तेषां भावो न स्वरूपत इत्य् अपर इति सौत्रान्तिकाः. बीजतः शक्तितः सामर्थ्यत इत्य् अर्थः. न स्वरूपतो न द्रव्यत इत्य् अर्थः. शक्तिर् एव हि नानाविधास्ति यया योगिभिर् अधिमोक्षविशेषेण सुवर्णधातू रूप्यधातुस् ताम्रधातुर् इत्य् एवमादयो धातवः क्रियन्ते. कस्माद् इत्य् आह. संत्य् अस्मिं दारुस्कन्धे विविधा धातव इति वचनात्. धातुशक्तयो हि तत्रैवं भगवतोक्ताः. न हि तत्रातिबहूनां सुवर्णरूप्यादीनां स्वरूपतो ऽवकाशो ऽस्तीति.
कथं वायौ वर्णसद्भाव इति वैभाषिकान् एवं चोदयन्ति.
कामे ऽष्टद्रव्यक
इति नियमे कथं वायौ वर्णो ऽस्तीति निर्धार्यते. न हि कथंचित् तत्र वर्ण उपलभ्यते. श्रद्धानीय एषो ऽर्थो नानुमानीय इति वैभाषिकाः. परमाप्तैर् अयम् उक्तो ऽर्थ इति प्रत्येतव्यो नार्थो ऽनुमानसाध्य इत्य् अभिप्रायः. संसर्गतो गन्धग्रहणाद् वेति. अस्ति वानुमानम् इति दर्शयति. गन्धवता तु द्रव्येण वायोः संपर्काद् गन्ध उपलभ्यते. स च गन्धो वर्णं न व्यभिचरति. यत्र हि गन्धः. तत्र वर्णेन भवितव्यम् इति. अत्र च साधनवचनं. वर्णवान् वायुर् गन्धवत्त्वाज् [तिब्. 114अ] जातिपुष्पवद् इति.
रूपधातौ गन्धरसयोर् अभाव उक्त इति.
विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिर्
इति वचनात्. तेन तत्रत्याः परमाणवः षट्सप्ताष्टा द्रव्यका इति. तत्रत्यास् तत्र भवाः. तत्रत्याः परमाणवः संघातपरमाणवो ऽधिकृताः. य इहाष्टद्रव्यक उक्तो निरिन्द्रियो ऽशब्दः. स तत्र सड्द्रव्यकः. यो नवद्रव्यकः कायेन्द्रिया. स सप्तद्रव्यकः. यो दसद्रव्यको ऽपरेन्द्रियः. सो ऽष्टद्रव्यकः. सशब्दकाः पुनर् एते सप्ताष्टनवद्रव्यका इत्य् अवगन्तव्यं. उक्तरूपत्वान् न पुनर् उच्यन्त इति. उक्तकल्पत्वान् न पुनः सूत्र्यन्त इत्य् अर्थः.
किं पुनर् अत्र द्रव्यम् एव द्रव्यम् इति विस्तरः. मुख्यवृत्त्या यद् द्रव्यं यस्य स्वलक्षणम् अस्ति. तद् द्रव्यं गृह्यते. आहोस्विद् आयतनं द्रव्यम् इत्य् अधिकृतं. आयतनम् अपि हि द्रव्यम् इति शक्यते वक्तुं सामान्यविशेषलक्षणसद्भावात्. किं चातः. कश् चातो दोष इत्य् अर्थः. यदि द्रव्यम् एव द्रव्यं गृह्यते. यदि रूपपर्यन्तलक्षणं पृथिव्यादिपरमाणुद्रव्यं ( अभिध्-क्-व्य् 126 ) गृह्यते. अत्यल्पम् इदम् उच्यते. अष्टद्रव्यक इत्यादि. संस्थानगुरुत्वलघुत्वश्लक्ष्णत्वकर्कशत्वशीतजिघत्सापिपासानां संभवतो द्रव्यान्तराणां क्वचित्क्वचित् सद्भावात्. तथा च सति यो ऽष्टद्रव्यकः. स नवद्रव्यको यावच् चतुर्दशद्रव्यक इत्य् अष्टद्रव्यकनियमो भिद्यते. एवं नवद्रव्यकादिषु योज्यं. एवंरूपधाताव् [तिब्. 114ब्] अपि षट्सप्ताष्टद्रव्यनियमभेदो वक्तव्यः. चतुर्द्रव्यको हि वक्तव्य इति. यस्माद् भूतान्य् अपि पृथिव्यादीनि स्प्रष्टव्यायतनं.
स्प्रष्टव्यं द्विविधम्
इति वचनात्. तस्मात् कामे चतुर्द्रव्यको ऽशब्दः. रूपं गन्धो रसः स्प्रष्टव्यम् इति. सशब्दस् तु पंचद्रव्यक इति वक्तव्यं. यद् आश्रयभूतम् इति. पृथिव्यादीनि चत्वारि. यद् आश्रयिभूतम् इति. रूपं गन्धो रसः स्प्रष्ट्व्यैकदेशश् च. तद् एवं संस्थानस्य रूपे ऽन्तर्भावात्. गुरुत्वादीनां च स्प्रष्टव्य इति. नात्यल्पम् इदम् उच्यते. नाप्य् अतिबहु. आश्रयभूतानां स्प्रष्टव्यायतनान् निःकृष्य चतुर्धा निर्देशात्. एवम् अपि भूयान्सीति विस्तरः. यद् भूतचतुष्कम् आश्रय एकस्योपादायरूपस्य नीलस्य पीतस्य वा. न तद् एवान्यस्योपादायरूपस्य गन्धस्य रसस्य वाश्रयः. किं तर्हि. अन्यद् एव भूतचतुष्कं तस्याश्रय इति वैभाषिकसिद्धान्तः. तत्र पुनर् जातिद्रव्यम् इति. भूतचतुष्कजातिर् अत्र गृह्यते. या ह्य् एकस्य भूतचतुष्कस्य जातिः. ताम् अन्यानि भूतचतुष्कानि नातिक्रामन्ति. एवं विकल्पेन वक्तुम् इति. किंचिद् अत्र द्रव्यम् एव द्रव्यं गृह्यते यद् आश्रयभूतं. किंचिद् अत्रायतनद्रव्यं गृह्यते यद् आश्रयिभूतं. यच् चैतद् आश्रयभूतं. तज् जात्या गृह्यत इति. छन्दतो हि वाचां प्रवृत्तिः. अर्थस् तु परीक्ष्य इति. छन्दत इच्छातः संक्षेपविस्तरविधानानुविधायिन्यो वाचः प्रवर्तन्ते. अर्थस् तु तासां परीक्ष्यः. किम् एवं नियतसहोत्पादानि [तिब्. 115अ] तानि भवन्ति. न भवन्तीति. योगाचारचित्तास् तु संघातावस्थाने भूतानां भौतिकानां च नियमं वर्णयन्ति. कथम् इति. उच्यते. अस्ति समुदाय एकभौतिकस् तद्यथा शुष्को मृत्पिण्डः. अस्ति द्विभौतिकः स एवार्द्रः. अस्ति त्रिभौतिकः स एवोष्णः. अस्ति यावत् सर्वभौतिकः स एवार्द्र उष्णश् च मृत्पिण्डो गमनावस्थायाम् इति. उपादायरूपे ऽपि यद् उपादायरूपं यस्मिन् समुदाये उपलभ्यते. तत् तत्रास्तीति वेदितव्यं. अस्ति समुदाय एकोपादायरूपिकः. तद्यथा प्रभा. अस्ति द्व्युपादायरूपिकः. तद्यथा सशब्दगन्धो वायुः. त्र्युपादायरूपिकः. तद्यथा धूमः. तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात्. स्प्रष्टव्यविशेषः पुनर् अत्र लघुत्वं वेदितव्यं. चतुरुपादायरूपिकः. तद्यथा गुडपिण्डः. पंचोपादायरूपिकः. तद्यथा स एव सशब्दः. इत्य् एवमाद्य् अपि ( अभिध्-क्-व्य् 127 ) वक्तव्यं.
(इइ.24अब्) शेषाणां वक्तव्य इति चित्तचैत्तानां विप्रयुक्तानां च.
चित्तचैत्ताः सहावश्यम्
इति. न चित्तं चैत्तैर् विना उत्पद्यते. नापि चैत्ता विना चित्तेनेत्य् अवधार्यते. न तु सर्वं चित्तं सर्वचैत्तनियतसहोत्पादं. नापि सर्वचैत्ताः सर्वचित्तनियतसहोत्पादा इति.
[तिब्. 115ब्] सर्वं संस्कृतलक्षणैर्
इति. संस्कृतलक्षणैर् यद् युक्तं. तत् सर्वं तैः संस्कृतलक्षणैर् जात्यादिभिर् अवश्यं सहोत्पद्यते. किं पुनस् तद् इत्य् आह. यत्किंचिद् उत्पद्यते रूपं चित्तं चैतसिकाश् चित्तविप्रयुक्ताश् चेति. पूर्वम् एव ह्य् असंस्कृतं बहिष्कृतं. तत्रासंस्कृतं नैवोत्पद्यते इति वचनात्. विकल्पार्थो वाशब्द इति. किंचित् प्राप्त्या सहोत्पद्यते यत् सत्त्वसंख्यातं. किंचिन् न यद् असत्त्वसंख्यातम् इति विकल्पः. प्रतिसंख्याप्रतिसंख्यानिरोधयोर् यद्य् अपि प्राप्तिर् अस्ति न तु ताव् उत्पद्येते इति न तयोर् ग्रहणं. सहोत्पादननियमो ह्य् अयम् आरम्भ इति. असत्त्वसंख्यातस्य प्राप्तिर् नास्तीति किम् अत्र कारणं. सर्वसत्त्वसाधारणत्वात्. सहजयैव च प्राप्त्या प्राप्त्या प्राप्तिमान् सहोत्पद्यते. न पूर्वपश्चात्कालजयेत्य् अवगन्तव्यं.
(इइ.24च्द्) गतिविषय इति. उत्पत्तिविषय इत्य् अर्थः. महाभूमिका इति. महत्त्वं सर्वचित्तभवत्वात्.
मूल पाठ: Sphuṭārthā abhidharmakośavyākhyā · Edition: Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936. · Data entry Seishi Karashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0