स्पन्दकारिका · अध्याय 3
तृतीयो निःष्यन्दः
यथेच्छाभ्यर्थितो धाता जाग्रतो ऽर्थान् हृदि स्थितान्
सोमसूर्योदयं कृत्वा सम्पादयति देहिनः ॥ 1 ।
तथा स्वप्ने ऽप्य् अभीष्टार्थान् प्रणयस्यानतिक्रमात् ।
नित्यं स्फुटतरं मध्ये स्थितो ऽवश्यं प्रकाशयेत्
अन्यथा तु स्वतन्त्रा स्यात् सृष्टिस् तद्धर्मकत्वतः ।
सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये
यथा हि अर्थो ऽस्फुटो दृष्टः सावधाने ऽपि चेतसि ।
भूयः स्फुटतरो भाति स्वबलोद्योगभावितः
तथा यत् परमार्थेन येन यत्र यथा स्थितम् ।
तत् तथा बलम् आक्रम्य न चिरात् सम्प्रवर्तते
दुर्बलो ऽपि तदाक्रम्य यतः कार्ये प्रवर्तते ।
आच्छादयेद् बुभुक्षां च तथा यो ऽति बुभुक्षितः
अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः ।
तथा स्वात्मन्य् अधिष्ठानात् सर्वत्रैवम् भविष्यति
ग्लानिर् विलु.ङ्थिका देहे तस्याश्चाज्ञानतः सृतिः ।
तद् उन्मेषविलुप्तं चेत् कुतः सा स्याद् अहेतुका
एकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत्
अतो बिन्दुर् अतो नादो रूपम् अस्माद् अतो रसः ।
प्रवर्तन्ते ऽचिरेणैव क्षोभकत्वेन देहिनः
दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयम् एव अवभोत्स्यते
प्रबुद्धः सर्वदा तिष्ठेज् ज्ञानेनालोक्य गोचरम् ।
एकत्रारोपयेत् सर्वं ततो ऽन्येन न पीड्यते
शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् ।
कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः
परामृतरसापायस् तस्य यः प्रत्ययोद्भवः ।
तेनास्वतन्त्रताम् एति स च तन्मात्रगोचरः
स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञात सिद्ध्युपपादिका
तन्मात्रोदयरूपेन मनो ऽहंबुद्धिवर्तिना ।
पुर्यष्टकेन संरुद्धस् तदुत्थम् प्रत्ययोद्भवम्
भुङ्क्ते परवशो भोगं तद्भावात् संसरेद् अतः ।
संसृतिप्रलयस्यास्य कारणं सम्प्रचक्ष्महे
यदा त्व् एकत्र संरूढस् तदा तस्य लयोदयौ ।
नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत्
मूल पाठ: Spandakārikā · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0