भाषा

ENहिગુ
ग्रंथ पाठ

स्पन्दकारिका · अध्याय 2

2.1

द्वितीयो निःष्यन्दः
तदाक्रम्य बलम् मन्त्राः सर्वज्ञाबलशालिनः ।
प्रवर्तन्ते ऽधिकाराय करणानीव देहिनाम्

2.2

तत्रैव सम्प्रलीयन्ते शान्तरूपा निरञ्जनाः ।
सहाराधकचित्तेन तेनैते शिवधर्मिणः

2.3

यस्मात् सर्वमयो जीवः सर्वभावसमुद्भवात् ।
तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः

2.4

तस्माच् छब्दार्थचिन्तासु न सावस्था न या शिवः ।
भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः

2.5

इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः

2.6

अयम् एवोदयस् तस्य ध्येयस्य ध्यायिचेतसि ।
तदात्मतासमापत्तिर् इच्छतः साधकस्य या

2.7

इयम् एवामृतप्राप्तिर् अयम् एवात्मनो ग्रहः ।
इयं निर्वाण-दीक्षा च शिवसद्भावदायिनि

मूल पाठ: Spandakārikā · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc