भाषा

ENहिગુ
ग्रंथ पाठ

स्पन्दकारिका · अध्याय 1

1.1

प्रथमो निःष्यन्दः
यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ ।
तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः

1.2

यत्र स्थितम् इदं सर्वं कार्यं यस्माच् च निर्गतं ।
तस्यानावृतरूपत्वान् न निरोधो ऽस्ति कुत्रचित्

1.3

जाग्रदादि विभेदे ऽपि तदभिन्ने प्रसर्पति ।
निवर्तते निजान्नैव स्वभावाद् उपलब्धृतः

1.4

अहं सुखी च दुःखी च रक्तश् च इत्यदिसम्विदः ।
सुखाद्यवस्थानुस्यूते वर्तन्ते ऽन्यत्र ताः स्फुटम्

1.5

न दुःखं न सुखं यत्र न ग्राह्यम् ग्राहकं न च ।
न चास्ति मूढभावो ऽपि तद् अस्ति परमार्थतः

1.6

यतः करणवर्गो ऽयं विमूढो ऽमूढवत् स्वयम् ।
सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतिः

1.7

लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वम् आदरात् ।
यतः स्वतन्त्रता तस्य सर्वत्रेयम् अकृत्रिमा

1.8

न हीच्छानोदनस्यायम् प्रेरकत्वेन वर्तते ।
अपि त्व् आत्मबलस्पर्शात् पुरुषस् तत्समो भवेत्

1.9

निजाशुद्ध्यासमर्थस्य कर्तव्येष्व् अभिलाषिणः ।
यदा क्षोभः प्रलीयेत तदा स्यात् परमम् पदम्

1.10

तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणह् ।
यतस् तदेप्सितं सर्वं जानाति च करोति च

1.11

तम् अधिष्ठातृभावेन स्वभावम् अवलोकयन् ।
स्मयमान इवास्ते यस् तस्येयं कुसृतिः कुतः

1.12

नाभावो भाव्यताम् एति न च तत्रास्त्य् अमूढता ।
यतो ऽभियोगसंस्पर्शात् तदासिद् इति निश्चयह्

1.13

अतस् तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत् सदा ।
न त्व् एवं स्मर्यमाणत्वं तत् तत्त्वम् प्रतिपद्यते

1.14

अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ।
कार्यता क्षयिणी तत्र कर्तृत्वम् पुनर् अक्षयम्

1.15

कार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते ।
तस्मिन् लुप्ते विलुप्तो ऽस्मीत्य् अबुधः प्रतिपद्यते

1.16

न तु यो ऽन्तर्मुखो भावह् सर्वज्ञात्वगुणास्पदम् ।
तस्य लोपः कदाचित् स्याद् अन्यस्यानुपलम्भनात्

1.17

तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी ।
नित्यं स्यात् सुप्रबुद्धस्य तदाद्यन्ते परस्य तु

1.18

ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ।
पदद्वये विभुर् भाति तदन्यत्र तु चिन्मयः

1.19

गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् ।
लब्धात्मलाभः सततं स्युर् ज्ञस्यापरिपन्थिनः

1.20

अप्रबुधधियस् त्व् एते स्वस्थितिस्थगनोद्यताः ।
पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि

1.21

अतः सततम् उद्युक्तः स्पन्दतत्त्वविविक्तये ।
जाग्रद् एव निजम् भावम् अचिरेणाधिगच्छति

1.22

अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन् व यत् पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः

1.23

याम् अवस्थां समालम्ब्य यद् अयम् मम वक्ष्यति ।
तदवश्यं करिष्ये ऽहम् इति संकल्प्य तिष्ठति

1.24

ताम् अश्रित्योर्ध्वमार्गेण चन्द्रसूर्याव् उभाव् अपि ।
सौषुम्ने ऽध्वन्यस्तमितो हित्वा ब्रह्मा.ङ्दगोचरम्

1.25

तदा तस्मिन् महाव्योम्नि प्रलीनशशिभास्करे ।
सौषुप्तपदवन् मूढः प्रबुद्धः स्याद् अनावृतः

मूल पाठ: Spandakārikā · Data entry Marino Faliero · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc