स्मरदीपिका · श्लोक 81-100
इत्थं च मन्मथोत्पन्ने केलिं कुर्यात् तथैव च ।
स्तनयोर् युगयोश् चैव सनाभिकभगस्थले
जघनोरुनितम्बेषु कामुको मुहुर् अर्पयेत्
भुजयोः स्तनयोश् चैव भगे नाभौ तथैव च ।
षट्सु स्थानेषु विधिना मर्दनं परिकीर्तितम्
कक्षाकण्ठकपोलेषु नाभौ श्रोण्यां पयोधरे ।
कर्णमूले तथा स्कन्धे चुम्बनं द्वादशस्थले
गण्डौष्ठं च तथा वक्त्रं कक्षा नाभिर् भगस् तथा ।
कुचौ च बाहुमूलं च द्वादशैतानि चुम्बनम्
गण्डौ नेत्रे तथा वक्त्रं कक्षा नाभिर् भगस् तथा ।
कुचौ च बाहुमूलं च स्थानान्य् एतानि चुम्बने
अधरौष्ठे च सम्पीड्य नायको नायिकाधरम् ।
पूर्णचन्द्रनिभं पेयान् नार्याश् च सरसं मुखम्
पयोधरौष्ठजिह्वाया द्वयोर् एव कुचाग्रयोः ।
पञ्चस्थानस्य वै पानं कुर्यात् कृशविचक्षणः
ओष्ठेन चौष्ठग्रहणपूर्वकं केशकर्षणम् ।
शिरःप्रदेशे कृत्वा ताम् उपविष्टां च कारयेत्
यथा कोकिलशब्दः स्याद् यथा पारावतध्वनिः ।
यथा हंसमयूरादेः कलरावं तथा चरेत्
मुष्टामुष्टिनितम्बे च कुर्याच् चैव परस्परम् ।
उपहस्तेनाबलायास् ताडयेज् जघनद्वये
भगगर्भस्य मध्ये तु नाडिका ध्वजरूपिणी ।
पूर्णा कामजलैर् नित्यं वामस्था मृदुपीवरा ।
मर्दिता चाङ्गुलीभ्यां तु जनयेत् कामजं जलम्
तत्र एकविंशतिप्रकारः ।
तेषां नामानि काकपदः विपरीतकः नागरिकः रतिपाशः केयूरः प्रियतोषणं समपदः एकपदः ऊर्ध्वसंपुटः संपुटकः मन्मथप्रियः रतिसुन्दरः उरुपीडनः स्मरचक्रं नागपाशकः गगनकः वंशदारकः कनकक्षयः नागरः कुलिशनामकः कामसुन्दर इति ।
यथाक्रमं तेषां लक्षणान्य् अप्य् आह ।
स्त्रीपादौ स्कन्धयुग्मस्थौ क्षिप्त्वा ध्वजं भगं लघु ।
कामयेत् कामुको नारीं बन्धः काकपदो हि सः
पादम् एकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् ।
नारीं कामयते कामी बन्धः स्याद् विपरीतकः
ऊरुमूलोपरि न्यस्य योषिदूरुं नरो यदि ।
ग्रीवां धृत्वा कराभ्यां तु बन्धो नागरिको मतः
पीडयेद् ऊरुयुग्मेन कामुकं यदि कामिनी ।
रतिपाशस् तदा ख्यातः कामिनीनां मनोहरः
स्त्रीणां जङ्घान्तराविष्टो गाढालिङ्ग्य च सुन्दरीम् ।
रमते विह्वलः कामी बन्धः केयूरसंज्ञकः
नरीपादौ स्वहस्तेन हृदये धारयेद् यदि ।
स्तनार्पितकरः कामी कामयेत् प्रियतोषणम्
योषित्पादौ हृदि न्यस्य कराभ्यां धारयेत् कुचौ ।
यथेष्टं ताडयेद् योनौ बन्धः समपदः स्मृतः
पादम् एकं करे धृत्वा द्वितीयं स्कन्धसंस्थितम् ।
स्तनार्पितकरः कामी बन्धस् त्व् एकपदो हि सः
मूल पाठ: Smaradīpikā · Edition: included in: Kamakunjalata, Benares : The Chowkhamba Sanskrit Series Office, 1967. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0