भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.73

7.73.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥
लिंगं महाप्रभावं हि महापातकनाशनम्

7.73.2

धनुषां त्रिंशता देवि वरुणान्नैऋते स्थितम् ॥
गौरीतपोवनाद्देवि दक्षिण स्थानसंस्थितम्

7.73.3

षण्मुखेन महादेवि तत्र कृत्वा महत्तपः ॥
प्रतिष्ठितं महालिंगं कुमारेशस्ततोऽभवत्

7.73.4

यस्तं पूजयते भक्त्या मासमेकं निरन्तरम् ॥
षण्मासस्यार्चनेनैव यत्पुण्यमुपजायते

7.73.5

तत्पुण्यं सकलं तस्य कुमारेशार्चनात्सकृत् ॥
लभते दिवसैकेन विधिना यदि पूजयेत्

7.73.6

कामं क्रोधं तथा लोभं रागं त्यक्त्वा तु मत्सरम् ॥
ब्रह्मचारी यतिर्भूत्वा सकृदप्येनमर्चयेत्

7.73.7

एवं संपूजिते देवि सम्यग्यात्रा फलं लभेत्

7.73.73

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc