भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.72

7.72.1

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येद्विघ्नेशं जलवाससम् ॥
सर्वविघ्नविनाशाय सर्वकार्यप्रसिद्धये

7.72.2

वरुणेन महादेवि तपोनिर्विघ्नहेतवे ॥
पूजितो जलजैर्भक्त्या जलवासास्ततः स्मृतः

7.72.3

चतुर्थ्यां तर्पयेद्भक्त्या गन्धैः पुष्पैः स मोदकैः ॥
यथाभक्त्यनुसारेण तस्य तुष्येद्गणाधिपः

7.72.72

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलवासगणपतिमाहात्म्यवर्णनंनाम द्विसप्ततितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc