भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.61-2

7.61-2.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवीं क्षेत्रदूतीं तु वैष्णवीम् ॥
श्रीदैत्यसूदनाद्देवि पूर्वभागे व्यवस्थिताम्

7.61-2.2

योगेश्वर्यास्तथैशान्यां धनुषां सप्तके स्थिताम् ॥
महादौर्भाग्यदग्धानां स्थितां भेषजरूपिणीम्

7.61-2.3

चाक्षुषस्यांतरे देवि यदा दैत्या बलोत्कटाः ॥
हन्यमाना विष्णुनाऽथ दक्षिणां दिशमाविशन्

7.61-2.4

तत्र वर्षशतं साग्रं दैत्याश्चक्रुर्महाहवम् ॥
विष्णुना सह देवेशि दिव्यास्त्रैश्च पृथग्विधैः

7.61-2.5

दुःखवध्यांस्ततो ज्ञात्वा विष्णुः कमललोचनः ॥
सस्मार भैरवीं शक्तिं महामायां महाप्रभाम्

7.61-2.6

सा स्मृता क्षणमात्रेण विष्णुना प्रभविष्णुना॥
तत्रागता महादेवी आनंदस्फुरितेक्षणा

7.61-2.7

विशाले तु कृते देव्या लोचने विष्णुदर्शनात् ॥
विशालाक्षी ततो जाता तत्रस्था दैत्यनाशिनी

7.61-2.8

अस्मिन्कल्पेसमाख्याता ललितोमा वरानने ॥
उमाद्वयं समाख्यातं सोमेशे दैत्यसूदने

7.61-2.9

पूर्वं सोमेश्वरे पश्येत्पश्चाच्छ्रीदैत्यसूदने ॥
उमा द्वयं पूजयित्वा तीर्थयात्राफलं लभेत्

7.61-2.7.1.61.10

माघे मासि तृतीयायां विधिना योऽर्चयेत्तु ताम्॥
न संततिविहीनः स्यात्तस्यकोट्यन्वये नरः

7.61-2.11

यो नित्यमीक्षते तत्र भक्त्या परमया युतः ॥
आरोग्यसुखसौभाग्यसंयुक्तोऽसौ भवेच्चिरम्

7.61-2.12

इति संक्षेपतः प्रोक्तं माहात्म्यं ललितोद्भवम्॥
श्रुतं यत्पापनाशाय जायते धर्मवृद्धये

7.61-2.61

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये ललितोमाविशालाक्षी माहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc