भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.61

7.61.1

॥ पुलस्त्य उवाच ॥ ॥
गंगाधरं ततो गच्छेत्सुपुण्यं विमलोदकम् ॥
येन गंगा धृता राजन्निपतन्ती नभस्तलात्

7.61.2

आहूता देव देवेन ह्यचलेश्वररूपिणा ॥
हरेण रभसा राजन्यत्पुरा कथितं तव

7.61.3

तत्र यः कुरुते स्नानमष्टम्यां च समाहितः ॥
स गच्छेत्परमं स्थानं देवै रपि सुदुर्लभम्

7.61.61

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयऽर्बुदखण्डे गंगाधरतीर्थमाहात्म्य वर्णनंनामैकषष्टितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc