भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.54-2

7.54-2.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ॥
दण्डपाणेस्तु भवनादुत्तरे निकटे स्थितम्

7.54-2.2

यत्र गंधर्वराजो वै घनवाहेति विश्रुतः॥
तस्य गंधर्वसेनेति ख्याता पुत्री महाप्रभा

7.54-2.3

शिखंडिना गणेनैव सा शप्ता रूपगर्विता॥
ततो गोशृंगऋषिणा दत्तस्तस्या अनुग्रहः

7.54-2.4

सोमवारव्रतेनैव सोमेशाराधनं प्रति॥
ततः क्षेत्रं समागत्य तपः कृत्वा सुदुश्चरम्

7.54-2.5

लिंगं प्रतिष्ठयामास तत्र गंधर्वराट् स्वयम्॥
तथैव पुत्र्या तस्यैव तत्र लिंगं प्रतिष्ठितम्

7.54-2.6

अथ तत्रैव देवेशि दंडपाणेः समीपतः ॥
घनवाहेश्वरं नाम यो लिंगं यत्नतोऽर्चयेत्

7.54-2.7

गंधर्वलोकमाप्नोति दृष्ट्वा स प्रयतः शुचिः ॥
इति ते कथितं देवि गांधर्वं लिंगमुत्तमम्

7.54-2.8

तृतीयं सर्वपापानां नाशनं पुण्यवर्द्धनम् ॥
अग्नितीर्थे नरः स्नात्वा पूज्य गंधर्वपूजितम्

7.54-2.9

अयने चोत्तरे प्राप्ते निर्वाणमधिगच्छति ॥
श्रुत्वा ऽभिनंद्य माहात्म्यं मुच्यते महतो भयात्

7.54-2.54

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनंनाम चतुःपंचाशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc