ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.55
7.55.1
॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ पुण्यं रुद्रह्रदं शुभम् ॥
यत्र स्नातो नरो भक्त्या गणाधीशत्वमाप्नुयात्
7.55.2
पुरा हत्वांऽधकं दैत्यं सगणो वृषभध्वजः ॥
ततः स्नातो ह्रदं कृत्वा ततो रुद्रह्रदोऽभवत्
7.55.3
चतुर्द्दश्यां महाराज यस्तत्र कुरुते नरः ॥
स्नानं तस्य भवेत्पुण्यं सर्वतीर्थसमुद्भवम्
7.55.55
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रुद्रह्रदमाहात्म्यवर्णनंनाम पञ्चपञ्चाशत्तमोऽध्यायः ॥
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0