भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.259

7.259.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पर्णादित्यं सुरेश्वरम् ॥
प्राचीसरस्वतीकूले तटे चोत्तरतः स्थितम्

7.259.2

पुरा त्रेतायुगे देवि पर्णादोनाम वै द्विजः ॥
प्रभासं क्षेत्रमासाद्य तपस्तेपे सुदारुणम् ॥
आराधयामास रविं भक्त्या परमया युतः

7.259.3

तर्पयित्वा ततः सूर्यं धूपमाल्यविलेपनैः ॥
वेदोक्तैः स्तवनैः सूक्तैर्दिवारात्रं समाहितः

7.259.4

एवं च ध्यायतस्तस्य कालेन महता ततः ॥
तुतोष भगवान्सूर्यो वाक्यमेतदुवाच ह

7.259.5

परितुष्टोऽस्मि विप्रेन्द्र तपसानेन सुव्रत ॥
वरं वरय भद्रं ते नित्यं यन्मनसेप्सितम्

7.259.6

॥ ब्राह्मण उवाच ॥ ॥
एष एव वरः कामो यत्तुष्टो भगवान्स्वयम् ॥
दर्शनं तव देवेश स्वप्नेष्वपि च दुर्ल्लभम्

7.259.7

अवश्यं यदि दातव्यो वरो मम दिवाकर ॥
अत्र संनिहतो देव सदा त्वं भव भास्कर

7.259.8

तव प्रसादात्ते यांतु तव लोकं दिवा कर ॥
एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः

7.259.9

पर्णादोऽपि स्थितस्तत्र तस्याराधनतत्परः ॥
तत्र भाद्रपदे मासे षष्ठ्यां स्नानं समाचरेत् ॥
पर्णादित्यं ततः पश्येन्न स दुःखमवाप्नुयात्

7.259.7.1.259.10

गोशतस्य प्रयागे तु सम्यग्दत्तस्य यत्फलम् ॥
तत्फलं लभते मर्त्यः पर्णादित्यस्य दर्शनात्

7.259.11

ये सेवंते महाकुष्ठं पांगुल्यं च विवर्चिकाः ॥
पर्णादित्यं न जानंति नूनं ते मंदबुद्धयः

7.259.259

इति श्रीस्कान्दे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पर्णादित्यमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc