भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.258

7.258.1

॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शशापानमिति स्मृतम् ॥
तस्यैव दक्षिणे तीर्थं सर्वपापप्रणाशनम्

7.258.2

यस्मिन्स्नात्वा नरः सम्यङ्नापमृत्युभयं लभेत् ॥
शृणु यस्मात्तदुत्पत्तिं वदतो मम वल्लभे

7.258.3

मथित्वा सागरं देवा गृहीत्वाऽमृतमुत्तमम् ॥
सत्वरास्तत्र ते गत्वा पपुश्चैव यथेप्सया

7.258.4

पिबतां तत्र पीयूषं देवानां वरवर्णिनि ॥
बिंदवः पतिता भूमौ शतशोथ सहस्रशः

7.258.5

एतस्मिन्नेव काले तु शशकस्तत्र चागतः ॥
प्रविष्टः सलिले तत्र तृषार्तो वरवर्णिनि

7.258.6

अमरत्वमनुप्राप्तो वर्द्धते सलिलालये ॥
तं दृष्ट्वा त्रिदशाः सर्वे स्पर्द्धमाना मुहुर्मुहुः ॥
ज्ञात्वामृतान्वितं तोयं मंत्रं चक्रुर्भयान्विताः

7.258.7

अमृतं पतितं भूमौ भक्षयिष्यंति मानवाः ॥
ततोऽमर्त्त्या भविष्यंति नात्र कार्या विचारणा

7.258.8

तिर्यग्योन्यां समुत्पन्नः कृपणः शशको ह्ययम् ॥
अस्माभिः स्पर्द्धते तस्मात्ततो भयमुपस्थितम्

7.258.9

अथ प्राप्तो निशानाथो व्याधिना स परिप्लुतः ॥
अब्रवीत्त्रिदशान्सर्वानमृतं मे प्रयच्छत

7.258.7.1.258.10

कृच्छ्रेण महता प्राप्तो नाहं शक्तो विसर्पितुम् ॥
अथोचुस्त्रिदशाः सर्वे सर्वमस्माभिर्भक्षितम्

7.258.11

विस्मृतस्त्वं निशानाथ चिरात्कस्मादिहागतः ॥
कुरुष्व वचनं चंद्र अस्माकं तिमिरापह ॥

7.258.12

अस्मिञ्जलेऽमृतं भूरि पतितं पिबतां हि नः ॥
तत्पिबस्व निशानाथ सर्वमेतज्जलाशयम्

7.258.13

अर्द्धं निपतितं चात्र सत्यमेतन्निशामय ॥
तेषां तद्वचनं श्रुत्वा शीतरश्मिस्त्वरान्वितः

7.258.14

तृषार्तो वाऽपिबत्तोयं शशकेन समन्वितम् ॥
अस्थिशेषं तु तत्तस्य कायं पीयूषभक्षणात्

7.258.15

तत्क्षणात्पुष्टिमगमत्कांत्या परमया युतः ॥
धातुषु क्षीयमाणेषु पुष्टो हि सुधया हि सः

7.258.16

स चापि शशकस्तस्य न मृतो जठरं गतः ॥
अद्यापि दृश्यते तत्र देहे पीयूषभक्षणात्

7.258.17

तत्क्षणात्तुष्टिमगमत्कांत्या परमया युतः ॥
अब्रुवन्खन्यतामेतद्यथा भूयो जलं भवेत् ॥

7.258.18

अस्माकं संगमादेतच्छुष्कं श्वभ्रं जलाशयम् ॥
तद्युक्तं च कृतं कर्म नैतत्साधुविचेष्टितम्

7.258.19

ततोऽखनंश्च ते सर्वे यावत्तोयविनिर्गमः ॥
अथाब्रुवंस्ततः सर्वे हर्षेण महतान्विताः

7.258.7.1.258.20

यस्माच्छशेन संयुक्तं पीतमेतज्जलाशयम् ॥
चंद्रेण हि शशापानं तस्मादेतद्भविष्यति ॥

7.258.21

अत्रागत्य नरः स्नानं यः करिष्यति भक्तितः ॥
स यास्यति परं स्थानं यत्र देवो महेश्वरः

7.258.22

अत्रान्नं संप्रदास्यंति ब्राह्मणेभ्यः समा हिताः ॥
सर्वयज्ञफलं तेषां भविष्यति न संशयः

7.258.23

अस्मिन्दृष्टे सुराः सर्वे दृष्टाः स्युः सर्वदेवताः ॥
एवमुक्त्वा सुराः सर्वे जग्मुश्चैव सुरालयम्

7.258.24

अथ कालेन महता प्राप्ता तत्र सरस्वती ॥
वडवाग्निं समादाय तयानुप्लावितं पुनः

7.258.25

ततो मेध्यतरं जातं तीर्थं च वरवर्णिनि ॥
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत्

7.258.258

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शशापानमाहात्म्यवर्णनंनामाष्टापञ्चाशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc