भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.241

7.241.1

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येद्बलभद्रकलेवरम् ॥
शेषरूपेण यत्रासौ प्रात्यजत्स्वकलेवरम्

7.241.2

गतस्त्रैसंगमे तीर्थे तत्र पातालवर्त्मना ॥
अस्मिन्मित्रवने देवि गव्यूतिद्वयविस्तृते

7.241.3

कलेवरं स्थितं देवि लिंगाकारं महाप्रभम् ॥
रेवत्या सहितं तत्र शेषनामेति विश्रुतम्

7.241.4

यत्र सिद्धः पुरा देवि जरानामा तु कौलिकः ॥
विष्णुहंता भल्लतीर्थे सोऽस्मिन्स्थाने लयं गतः

7.241.5

तत्प्रभृत्येव सकले शेष इत्यभिविश्रुतः ॥
चैत्रे शुक्लत्रयोदश्यां यस्तं पूजयते नरः ॥
स पुत्रपौत्रपशुमान्वर्षं क्षेमेण गच्छति

7.241.6

मसूरिकादिरोगेभ्यः शिशूनां न भयं भवेत् ॥
विस्फोटकादिरोगेभ्यो न भयं जायते क्वचित्

7.241.7

अस्मिन्क्षेत्रे महासिद्धे सिद्धयज्ञस्तु यः स्मृतः ॥
वर्णानां सांतरालानां सर्वेषां चातिवल्लभः

7.241.8

पशुपुष्पोपहारैश्च बलिदानैः पृथग्विधैः ॥
संतुष्टिं शीघ्रमायाति शेषोऽशेषाघनाशनः ॥

7.241.241

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शेषमाहात्म्यवर्णनंनामैकचत्वारिंश दुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc