भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.240

7.240.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि बलभद्रं सुरेश्वरम् ॥
सुभद्रां च तथा कृष्णं सर्वपातकनाशनम्

7.240.2

पूर्व कल्पे महादेवि देहमत्रात्यजद्धरिः ॥
अस्मिन्कल्पेपि च पुनर्गात्रोत्सर्गमिति स्मृतम्

7.240.3

तत्र ये पूजयिष्यंति नागरादित्यसंनिधौ ॥
बलभद्रं सुभद्रां च कृष्णं ते स्वर्गगामिनः

7.240.240

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलभद्र सुभद्रा कृष्ण माहात्म्यवर्णनंनाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc