स्कन्द पुराण · अध्याय 7.156
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वैनतेयप्रतिष्ठितम् ॥
रत्नेश्वरादुत्तरतो धनुषां त्रितये स्थितम्
वैनतेयश्च देवेशि ज्ञात्वा क्षेत्रं तु वैष्णवम् ॥
लिंगं प्रतिष्ठयामास सर्वपापप्रणाशनम्
यस्तं पूजयते भक्त्या पंचम्यां तु विधानतः ॥
न विषं क्रमते तस्य सप्त जन्मानि सर्पजम्
पंचामृतेन संस्नाप्य पूजयित्वा विधानतः ॥
प्राप्नुयात्सकलं पुण्यं मोदते दिवि देववत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्ये गरुडेश्वरमाहात्म्यवर्णनंनाम षट्पंचाशदुत्तरशततमोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0