भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.155

7.155.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रत्नेश्वरमनुत्तमम् ॥
तत्र तप्त्वा तपो देवि विष्णुना प्रभविष्णुना ॥
स्थापितं तत्र तल्लिंगं सर्वकामप्रदं प्रिये

7.155.2

रत्नकुंडे नरः स्नात्वा यस्तं पूजयते सदा ॥
सर्वोपचारैर्भक्त्या स प्राप्नुयादीप्सितं फलम्

7.155.3

अत्र कृत्वा तपो घोरं कृष्णेनामिततेजसा ॥
प्राप्तं सुदर्शनं चक्रं सर्वदैत्यान्तकारकम्

7.155.4

एतत्स्थानं महादेवि सदा प्रियतरं मम ॥
वसामि तत्र देवेशि प्रलयेऽपि न संत्यजे

7.155.5

स्मृतं तद्वैष्णवं क्षेत्रं नाम्ना देवि सुदर्शनम् ॥
धन्वंतराणि षट्त्रिंशत्समंतात्परिमण्डलम्

7.155.6

एतदन्तरमासाद्य ये केचित्प्राणिनोऽधमाः ॥
मृताः कालवशाद्देवि ते यास्यंति परं पदम्

7.155.7

कांचनं तत्र गरुडं पीतानि वसनानि च ॥
विष्णुमुद्दिश्य यो दद्यात्स तु यात्राफलं लभेत्

7.155.155

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशदु त्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc