भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.121

7.121.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम् ॥
जामदग्न्येन रामेण स्वयं तत्र प्रतिष्ठितम्

7.121.2

गोपीश्वराच्च वायव्ये धनुषां त्रिंशकेऽन्तरे ॥
स्थितं महाप्रभावं हि लिंगं पातकनाशनम्

7.121.3

यदा रामेण देवेशि जमदग्निसुतेन वै ॥
कृतो मातृवधो घोरः पितुराज्ञानुवर्तिना

7.121.4

तदा मनसि संतापं कृत्वा निर्वेदमागतः ॥
ततः प्रसन्नतां यातो जमदग्निर्महातपाः

7.121.5

ददौ वरं ततस्तुष्टो रेणुकायाश्च जीवितम् ॥
एवं यद्यपि सा तत्र जीविता वरवर्णिनी

7.121.6

तथापि सघृणो देवि जामदग्न्यो महाप्रभः ॥
प्रभासं क्षेत्रमासाद्य तपश्चक्रे ततोऽद्भुतम्

7.121.7

प्रतिष्ठाप्य महादेवं शंकरं लोकशंकरम् ॥
दिव्यं वर्षशतं साग्रं ततस्तुष्टो महेश्वरः

7.121.8

ददौ तस्येप्सितं सर्वं स्वयं तत्रैव संस्थितः ॥
ततः कृतार्थतां प्राप्तो जामदग्न्यो महाऋषिः

7.121.9

त्रिःसप्तकृत्वः पृथिवीं जित्वा हत्वा च क्षत्रियान् ॥
कृत्वा पंचनदं तत्र कुरुक्षेत्रे महामनाः

7.121.7.1.121.10

रक्तैः संपूर्णतां नीत्वा क्षत्रियाणां वरानने ॥
आनृण्यं समनु प्राप्तः पितॄणां यो महाबलः

7.121.11

एवं क्षत्त्रान्तकं कृत्वा दत्त्वा विप्रेषु मेदिनीम् ॥
कृतार्थतामनुप्राप्तस्त्रैलोक्ये ख्यातपौरुषः

7.121.12

तेन तत्स्थापितं लिंगं क्षेत्रे प्राभासिके शुभे ॥
यस्तं पूजयते भक्त्या पापयुक्तोऽपि मानवः ॥
स मुक्तः पातकैः सर्वैर्याति लोकमुमापतेः

7.121.13

ज्येष्ठकृष्णचतुर्दश्यां जागृयात्तत्र यो नरः ॥
सोऽश्वमेधफलं प्राप्य मोदते दिवि देववत्

7.121.121

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जामदग्न्येश्वरमाहात्म्यवर्णनं- नामैकविंशत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc