भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.120

7.120.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोपीश्वरमनुत्तमम् ॥
बलातिबलदैत्यघ्न्या उत्तरे धनुषां त्रये

7.120.2

संस्थितं पापशमनं गोपीभिः संप्रतिष्ठितम् ॥
समाराध्य महादेवं पुत्रहेतोर्महेश्वरम् ॥
सर्वकामप्रदं नॄणां पूजितं संततिप्रदम्

7.120.3

चैत्रशुक्लतृतीयायां यस्तं पूजयते नरः ॥
गंध पुष्पोपहारैश्च स प्राप्नोतीप्सितं फलम्

7.120.4

एवं संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
गोपीश्वरस्य देवस्य प्रभासक्षेत्रवासिनः

7.120.120

इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्ये गोपीश्वर माहात्म्यवर्णनंनाम विंशत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc