भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.29

5.29.1

॥ सनत्कुमार उवाच ॥ ॥
तीर्थस्याऽनरकस्यास्य माहात्म्यं शृणु सांप्रतम् ॥
तीर्थे चानरके स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥
न पश्येन्नरकं क्वापि यद्यपि ब्रह्महा भवेत्

5.29.2

॥ व्यास उवाच ॥ ॥
कियंतो नरकास्तात कस्मिन्स्थाने प्रतिष्ठिताः॥
पतन्ति केन पापेन पापिनस्तेषु दुःखिताः

5.29.3

तत्कथं प्राणिनस्तत्र गच्छन्ति पापकारिणः ॥
एतत्सर्वं समाख्याहि यदि तुष्टोऽसि मे प्रभो

5.29.4

॥
॥ सनत्कुमार उवाच ॥ ॥
शृणुष्व नरकान्व्यास तावन्तो यत्र संस्थिताः ॥
न लभ्यंते यथा चैते सत्यमेतद्वदामि ते

5.29.5

पातालनि लयाः सर्वे विख्याता दुःखदाः सदा ॥
पुण्यप्लावेन ते सर्वे तिर्यग्यांति स्वकर्मभिः

5.29.6

रौरवः सूकरो रौद्रस्तालो विनशकस्तथा ॥
तप्तकुम्भस्तु तप्तायो महाज्वालस्तथैव च

5.29.7

कुंभीपाकः क्रकचनस्तथा देवातिदारुणः ॥
कृमिभुक्तिश्च रक्ताख्यो लालाभक्षश्च गंडकः

5.29.8

अधोमुखश्चास्थिभंगो यंत्रपीडनकस्तथा ॥
संदंशो रुधिरांगश्च श्वभोज्यश्च कुभोजनः

5.29.9

इत्येवमादयः सर्वे नरका भृशदारुणाः ॥
यमस्य विषये संति स्तुता हि भयदायिनः

5.29.5.1.29.10

पतंति पुरुषास्तेषु पापकर्मरताश्च ये ॥
पतिताश्च प्रपच्यंते नराः कर्मानुरूपतः

5.29.11

यातनाभिर्विचित्राभी रौद्रकर्म क्षयाद्भृशम् ॥
सुगाढं हस्तयोर्बद्धास्तप्तशृंखलया नराः

5.29.12

महावृक्षाग्रशृंगेषु लंब्यंते यमकिंकरैः ॥
शोचंतः स्वानि कर्माणि तूष्णीं तिष्ठंति निश्चलाः

5.29.13

अग्निवर्णैः शंकुभिश्च लोहदंडैः सकंटकैः॥
हन्यंते किंकरैर्घोरैः समंतात्पापकारिणः

5.29.14

तत्तत्क्षणात्प्रदीप्तेन वह्निना च विशेषतः ॥
समंततः प्रक्षिप्यंते कृत्ताश्च जर्जरीकृताः

5.29.15

कूटसाक्षी तथाऽसम्यक्पक्षपातेन यो वदेत् ॥
यश्चान्यदनृतं ब्रूयात्स नरो याति रौरवम्

5.29.16

सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूचकः ॥
प्रयांति नरकांश्चैव तैः संसर्गमुपैति यः

5.29.17

भ्रूणहा गुरुहंता च गोघ्नश्च मुनिसत्तम ॥
यांत्येते नरकं रौद्रं ये च विश्वासघातकाः

5.29.18

तप्तलोष्ठेषु पच्यंते यस्तु भक्तं परित्यजेत् ॥
स्नुषां सुतां च यो गच्छेन्महा ज्वाले स पात्यते

5.29.19

कुंभीपाके प्रयात्येव पादैरूर्ध्वैरधोमुखः ॥
करोति कर्म वै नित्यं यश्च गां प्रतिषेधयेत्

5.29.5.1.29.20

स्वामिद्रोही च यो रौद्रस्तप्तकुंभे स पात्यते ॥
देवदूषयिता यश्च वेदविक्रयिकस्तथा

5.29.21

परस्त्रीगामिनो ये च यांति क्रकचने तु ते ॥
चौरोऽतिदारुणे याति मर्यादाभेदकस्तथा

5.29.22

देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥
स याति कृमिभक्षे वै रक्ताख्ये च पतंति ते

5.29.23

पितृदेवगुरूणां च सपर्यां न करोति यः ॥
लालाभक्षे स यात्युग्रे कूटकर्म करोति यः

5.29.24

अंत्यजेभ्यो ग्रहीता च नरके यात्यधोमुखे ॥
अस्थिभंगे प्रयात्येव एको मिष्टान्नभुङ्नरः

5.29.25

कृतघ्नः पिशुनः क्रूरः कूटमानी विडंबकः ॥
यंत्रपीडनके याति परगुह्यप्रकाशकः

5.29.26

लाक्षामांसरसानां च तिलानां रसकस्य च ॥
विक्रयी ब्राह्मणो याति श्वदंशे नात्र संशयः

5.29.27

मधुहा ग्रामहंता च याति वैतरणीं नरः ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः

5.29.28

कर्मणा मनसा वाचा महानद्यां प्रयांति ते ॥
गुरूणामवमंता च शास्त्रदूषयिता च यः

5.29.29

असिपत्रे प्रयात्येव तथा पर्वविलंघकः ॥
धनयौवनमत्ता ये मर्यादाभेदिनो नराः

5.29.5.1.29.30

ते यांति नरके घोरे कृष्णसूत्रेऽतिदारुणे ॥
असंस्कृतश्च यो विप्रो वृषलीं सेवते तु वै

5.29.31

वृषलीमिथुनो यश्च पततस्तावुभावपि ॥
उच्छिष्टा ये स्पृशंतीह गावोऽग्निं जननीं द्विजान्

5.29.32

ते पच्यंते कुभोज्ये च मित्र द्वेषी विशेषतः ॥
पंक्तिभेदे दिवास्वप्रे ये नरोऽब्रह्मचारिणः

5.29.33

पुत्रैरध्यापिता ये तै ते पतंति श्वभोजने ॥
एते चान्ये च नरकाः शतशोऽ थ सहस्रशः

5.29.34

तत्र दुष्कृतकर्माणः पच्यंते यातनागताः ॥
नृणां स्वर्गाश्च यावंतस्तावंतो निरयास्तथा

5.29.35

पापं कृत्वा तु बहुलं प्रायश्चित्तपराङ्मुखाः ॥
कृते पापे च वै तापो यस्य पुंसः प्रजायते

5.29.36

प्रायश्चित्तं तु तस्यैकं शिवसंस्मरणं परम् ॥
तस्मादहर्निशं शंभुं संस्मरन्पुरुषोत्तमः

5.29.37

न याति नरकं शुद्धः संक्षीणाखिलपातकः ॥
कार्तिकस्यासिते पक्षे कृष्णा या च चतुर्दशी ॥
तस्यां दीपः प्रदातव्यो देवदेवस्य चाग्रतः

5.29.29

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नरकऽकथनं नामैकोनत्रिंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc