भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 5.22-2

5.22-2.1

॥ श्रीविश्वनाथ उवाच ॥ ॥
द्वाविंशतितमं विद्धि कर्कटेश्वरसंज्ञकम् ॥
यस्य दर्शनमात्रेण तिर्यग्योनिर्न दृश्यते

5.22-2.2

आसीत्पुरा बृहत्कल्पे धर्म मूर्तिर्जनाधिपः ॥
सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः

5.22-2.3

सोमसूर्यादयो यस्य तेजसा निष्प्रभाः कृताः ॥
प्रजाश्च पालिता येन निहत्य समरे द्विषः

5.22-2.4

यथेच्छारूपधारी च संग्रामेष्वपराजितः ॥
तस्य भानुमतीनाम भार्या त्रैलोक्यसुंदरी

5.22-2.5

राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी ॥
दशनारीसहस्राणां मध्ये श्रीरिव राजिता

5.22-2.6

नृपो नृपसहस्रेण न कदाचित्प्रमुच्यते ॥
कदाचिदेकांतगतः पप्रच्छ स्वपुरोहितम् ॥
विस्मयेनावृतमना वशिष्ठमृषिसत्तमम्

5.22-2.7

भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा ॥
कस्माच्च विपुलं तेजो दुःसहं मम दृश्यते

5.22-2.8

॥
॥ वशिष्ठ उवाच ॥ ॥
पुरा त्वमवनीपाऽऽसीः शूद्रजातिसमुद्भवः ॥
बहुदोषसमाविष्टो दुष्टया भार्ययाऽनया

5.22-2.9

निवसन्दुष्टहृदयो वर्षाणि सुबहून्यपि ॥
महाक्रोधाभिभूतात्मा सदा निष्ठुरजल्पकः

5.22-2.5.2.22.10

सदा ब्रह्मस्वहारी त्वं सदा वेदविनिंदकः ॥
सदा चासूयको राजन्सदा विश्वासघातकः

5.22-2.11

अथ पंचत्वमापन्नः काले नरकमाप्तवान् ॥
ताम्रभ्राष्ट्रे परं दग्धो दशवर्षाणि पंच च

5.22-2.12

रौरवे कुम्भिपाके च महारौरवसंज्ञके ॥
सूक्ष्माणि तिलमात्राणि कृत्वा खंडान्यनेकशः

5.22-2.13

मूषायां धीमतो राजन्नसिपत्रे च दारितः ॥
शेषपातकशुद्ध्यर्थं धराया मवतारितः

5.22-2.14

विधाय कार्कटं रूपं यमेन त्वयि पार्थिव ॥
शिवस्य सरो विख्यातं महाकालवनोत्तमे

5.22-2.15

दत्तं जप्तं कृतं यच्च हुतं देवार्चनादि यत्॥
सर्वं तदक्षयं कर्म तस्मिन्सरसि विश्रुतम्

5.22-2.16

निक्षिप्तस्त्वं तदा तेन भाविपुण्येन कर्मणा॥
तत्र स्थितस्त्वं भूपाल वर्षाणां पंचकं तथा

5.22-2.17

कदाचित्तीरभूम्यां त्वं गतः संक्रीडितुं शनैः ॥
समीक्ष्य तत्र काकेन धृत्वा चंचुपुटेन च

5.22-2.18

आकाशमार्गं चोड्डीनः स त्वया ताडितो भृशम्॥
त्वत्तीक्ष्णपातैश्चरणैस्ताडितो व्यथितस्तदा

5.22-2.19

मुक्तस्त्वं चंचुपुटतो वायसेनाकुलेन तु ॥
स्वर्गद्वारस्य पूर्वे तु देव्यगारे सुपुण्यदे

5.22-2.5.2.22.20

शिवस्य क्षिप्तस्त्वं शीघ्रं चञ्च्वाक्षेपप्रपीडितः ॥
मृतोऽसि संनिधौ तत्र देवस्य परमेष्ठिनः

5.22-2.21

विमुच्य देहं तज्जीर्णं यावत्तं कार्कटं पुरा॥
तत्क्षणाद्दिव्य देहश्च दिव्याभरणभूषितः

5.22-2.22

तस्य लिंगस्य माहात्म्याद्भूत्वा विद्याधरेश्वरः ॥
कामगेन विमानेन पूज्यमानो गणेश्वरैः

5.22-2.23

स्वर्गे व्रजंस्त्वं संपृष्टः सुरसंघैश्च सादरम्॥
कोयं महात्मा मुदितो याति दिव्यपथोंऽबरात्

5.22-2.24

ततो रुद्रगणैः सर्वं सुराणां कथितं पुरा ॥
वृत्तांतं विस्तरात्सर्वं कार्कटत्वविमोचनूम्

5.22-2.25

तस्य लिंगस्य देवेशाः प्रभावोऽयमुपस्थितः ॥
देवैः प्रोक्तं च सहसा लिंगस्यास्य प्रभावतः

5.22-2.26

कार्कटीयोनि मुक्तस्य प्राप्तं स्वर्गसुखं यतः ॥
कर्कटेश्वरनामायमतो लोके भविष्यति

5.22-2.27

तदाप्रभृति देवोऽयं कर्कटेश्वरसंज्ञकः ॥
त्वया स्वर्गे महाभोगा भुक्ता राजन्यथेच्छया

5.22-2.28

आगतोऽसि पुनर्भूमौ लब्धं राज्यमकंटकम् ॥
तस्य लिंगस्य माहात्म्याज्जातं सर्वं तवाधुना

5.22-2.29

तस्मात्पार्थिव भूयस्त्वं लिंगमाराधय द्रुतम् ॥
जातिस्मरत्वमापन्नो वशिष्ठवचनात्तदा

5.22-2.5.2.22.30

पूर्वं कर्म स्मृतं तेन स्वकीयं पार्थिवेन तु ॥
पुनर्गत्वा च तल्लिंगं पूजयामास यत्नतः

5.22-2.31

तस्मिँल्लिंगे लयं प्राप्तः स्वशरीरेण पार्वति॥
येऽर्चयंति सदा भक्त्या कर्कटेश्वरसंज्ञकम्॥
भुक्त्वा भोगांश्चिरं भूमौ ते यांति परमां गतिम्

5.22-2.32

नियमेन प्रपश्यंति ये देवं कर्कटेश्वरम्॥
अष्टम्यां वा चतुर्दश्यां तेषां पुण्यफलं शृणु

5.22-2.34

सूर्यदीप्तिप्रतीकाशैर्विमानैः सार्वकामिकैः॥
मृता मम पुरं यांति त्रिसप्तकुलसंयुताः॥३३।
तत्र दिव्यैर्महाभोगैः स्त्रीसहस्रैर्मनोरमैः॥
कल्पकोटिशतैर्देवि सेव्यमाना वसंति हि

5.22-2.35

तदंते विष्णुभवने तावत्कालं च संति हि ॥
वैष्णवैर्विविधैर्भोगैः स्त्रीसहस्रैस्तु सेविताः

5.22-2.36

विष्णुलोकाद्ब्रह्मलोकं संप्राप्य मुदिताः पुनः ॥
भोगान्नानाविधान्भुक्त्वा ततो यांति परं पदम्

5.22-2.37

दशाश्वमैधैर्यत्पुण्यं तत्फलं तीर्थयात्रया ॥
कर्कटेश्वरदेवस्य मेघनादेश्वरं शृणु

5.22-2.22

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये कर्कटेश्वरमाहात्म्यवर्णनं नाम द्वाविंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc