भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.22

5.22.1

॥ श्रीसनत्कुमार उवाच ॥ ॥
यमेश्वरं तु यः पश्येत्स्नापयित्वा तिलांभसा ॥
कुंकुमेन समालिप्य पूजयेदुत्पलैस्ततः

5.22.2

दहेत्कृष्णागरुं धूपं दापयेत्तिलतण्डुलान् ॥
य एवमर्चयेद्देवमीश्वरं शूलहस्तकम्

5.22.3

यत्र कुत्र मृतस्यापि यमः पितृसमो भवेत्

5.22.4

॥ इति यमेश्वरमाहात्म्यम्॥
॥ सनत्कुमार उवाच ॥ ॥
कथयामि परं व्यास तीर्थं तीर्थेषु चोत्तमम् ॥
नाम्ना रुद्रसरः प्रोक्तं त्रिषु लोकेषु विश्रुतम्

5.22.5

तत्र स्नात्वा शुचिर्भूत्वा पश्येत्कोटेश्वरं शिवम् ॥
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति

5.22.6

श्राद्धं तत्रैव कृत्वा तु शृणु यत्फलमाप्नुयात् ॥
दशानामश्वमेधानां वाजपेयशतस्य च

5.22.7

फलं कोटिगुणं व्यास लभते नात्र संशयः॥
पितॄनुद्दिश्य यत्किंचित्कोटितीर्थे प्रदीयते

5.22.8

तत्सर्वं कोटिगुणितं जायते नात्र संशयः॥
कोटितीर्थे नरः स्नात्वा ध्यायेद्यः परमाक्षरम्

5.22.9

मुच्यते सर्वपापेभ्यो निर्मोकेन यथोरगः ॥
प्रातरुत्थाय यो विप्र तत्र स्नानं करोति वै

5.22.5.1.22.10

दृष्ट्वा देवं महाकालं गोसहस्रफलं लभेत्॥
कोटितीर्थे नरः स्नात्वा सप्तरात्रोषितः शुचिः

5.22.11

चांद्रायणसहस्रस्य फलं प्राप्नोति मानवः ॥
जागरं तत्र कुर्याद्यो ह्यनंतफलमश्नुते

5.22.12

गन्धपुष्पार्चनं कृत्वा महास्नपनपूर्वकम् ॥
य एवं नयते रात्रिं सोपवासो जितेंद्रियः

5.22.13

लभते सर्वकामित्वं यत्सुरैरपि दुर्लभम् ॥
कार्तिक्यामथ वैशाख्यां देवं तत्र प्रपूजयेत्

5.22.14

गंधपुष्पैश्च कालीनैस्तथा वस्त्रैः सुशोभनैः ॥
कर्पूरं कुंकुमं चैव श्रीखण्डमगरुं तथा

5.22.15

समभागानि कृत्वा तु शिलापृष्ठे च पेषयेत् ॥
अनुलिप्य महाकालं रुद्रस्यानुचरो भवेत्

5.22.22

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये रुद्रसरोमाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः ॥

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc