भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.3-3

3.3-3.1

॥ ऋषय ऊचुः ॥ ॥
चतुर्विंशतितीर्थानि यान्युक्तानि त्वया मुने ॥
तेषां प्रधानतीर्थानां सेतौ पापविनाशने

3.3-3.2

आदिमस्य तु तीर्थस्य चक्रतीर्थमिति प्रथा ॥
कथं समागता सूत वदास्माकं हि पृच्छताम्

3.3-3.3

॥ श्रीसूत उवाच ॥ ॥
चतुर्विंशतितीर्थानां प्रधानानां द्विजोत्तमाः ॥
यदुक्तमादिमं तीर्थं सर्वलोकेषु विश्रुतम् ॥

3.3-3.4

स्मरणात्तस्य तीर्थस्य गर्भवासो न विद्यते ॥
विलयं यांति पापानि लक्षजन्मकृतान्यपि

3.3-3.5

तस्मिंस्तीर्थे सकृत्स्नाना त्स्मरणात्कीर्तनादपि ॥
लोके ततोधिकं तीर्थं तत्तुल्यं वा द्विजोत्तमाः

3.3-3.6

न विद्यते मुनिश्रेष्ठाः सत्यमुक्तमिदं मया ॥
गंगा सरस्वती रेवा पंपा गोदावरी नदी

3.3-3.7

कालिंदी चैव कावेरी नर्मदा मणिकर्णिका ॥
अन्यानि यानि तीर्थानि नद्यः पुण्या महीतले ॥

3.3-3.8

अस्य तीर्थस्य विप्रेंद्राः कोट्यंशेनापि नो समाः ॥
धर्मतीर्थमिति प्राहुस्तत्तीर्थं हि पुराविदः

3.3-3.9

यथा समागता तस्य चक्रतीर्थमिति प्रथा ॥
तदिदानीं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः

3.3-3.3.1.3.10

सेतुमूलं हि तत्प्रोक्तं तद्दर्भशयनं मतम् ॥
तत्रैव चक्रतीर्थं तु महापातकमर्द्दनम् ॥

3.3-3.11

।
पुरा हि गालवोनाम मुनिर्विष्णुपरायणः ॥
दक्षिणांभोनिधेस्तीरे हालास्यादविदूरतः

3.3-3.12

फुल्लग्रामसमीपे च तथा क्षीरसरोंतिके ॥
धर्म पुष्करिणीतीरे सोऽतप्यत महत्तपः

3.3-3.13

युगानामयुतं ब्रह्म गृणन्विप्राः सनातनम्॥
दयायुक्तो निराहारः सत्यवान्विजितेंद्रियः

3.3-3.14

आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ॥
सर्वभूतहितो दांतः सर्वद्वंद्वविवर्जितः

3.3-3.15

वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत ॥
किंचित्कालं जलाहारो वायुभक्षः कियत्समाः

3.3-3.16

एवं पंचसहस्राणि वर्षाणि स महामुनिः ॥
अतप्यत तपो घोरं देवैरपि सुदुष्करम्

3.3-3.17

।
ततः पंचसहस्राणि वर्षाणि मुनिपुंगवः ॥
निराहारो निरालोको निरुच्छ्वासो निरास्पदः

3.3-3.18

वर्षास्वासारसहनं हेमंतेषु जलेशयः॥
ग्रीष्मे पंचाग्निमध्यस्थो विष्णुध्यानपरायणः

3.3-3.19

जपन्नष्टाक्षरं मंत्रं ध्यायन्हृदि जनार्दनम्॥
तताप सुमहातेजा गालवो मुनिपुंगवः

3.3-3.3.1.3.20

एवं त्वयुतव वर्षाणि स समतीतानि वै मुनेः॥
अथ तत्तपसा तुष्टो भगवान्कमलापतिः

3.3-3.21

।
प्रत्यक्षतामगात्तस्य शंखचक्रगदाधरः॥
विकचांबुजपत्राक्षः सूर्यकोटिसमप्रभः

3.3-3.22

विनतानंदनारूढश्छत्रचामरशोभितः॥
हारकेयूरमुकुटकटकादिविभूषितः

3.3-3.23

विष्वक्सेनसुनंदादिकिंकरैः परिवारितः ॥
वीणावेणुमृदंगादिवादकैर्नारदादिभिः

3.3-3.24

उपगीयमानविजयः पीतांबरविराजितः ॥
लक्ष्मीविराजितोरस्को नीलमेघसमच्छविः॥

3.3-3.25

धुनानः पद्ममेकेन पाणिना मधुसूदनः ॥
सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः

3.3-3.26

मंदस्मितेन सकलं मोहयन्भुवनत्रयम् ॥
स्वभासा भासयन्सर्वान्दिशो दश च भूसुराः

3.3-3.27

कंठलग्रेन मणिना कौस्तुभेन च शोभितः ॥
सुवर्णवेत्रहस्तैश्च सौविदल्लैरनेकशः ॥

3.3-3.28

अनन्यदुर्लभाचिंत्यगीयमाननिजाद्भुतः ॥
सुभक्तसुलभो देवो लक्ष्मीकांतो हरिः स्वयम्

3.3-3.29

सन्न्यधत्त पुरस्तस्य गालवस्य महामुनेः ॥
आविर्भूतं तदा दृष्ट्वा श्रीवत्सांकितवक्षसम्

3.3-3.31

पीतांबरधरं देवं तुष्टिं प्राप महामुनिः ॥
भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम्॥ ॥3.1.3.३०।
॥ गालव उवाच ॥
नमो देवादिदेवाय शंखचक्रगदाभृते ॥
नमो नित्याय शुद्धाय सच्चिदानंदरूपिणे

3.3-3.32

नमो भक्तार्ति हंत्रे ते हव्यकव्यस्वरूपिणे॥
नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यंतकारिणे

3.3-3.33

नमः परेशाय नमो विभूम्ने नमोस्तु लक्ष्मीपतये विधात्रे॥
नमोस्तु सूर्येंदुविलोचनाय नमो विरिंच्याद्यभिवंदिताय

3.3-3.34

यो नामजात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ॥
स्रमस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशनाय

3.3-3.35

वेदांतवेद्याय रमेश्वराय वैकुण्ठवासाय विधातृपित्रे ॥
नमोनमः सत्यजनार्तिहारिणे नारायणायामितविक्रमाय

3.3-3.36

नमस्तुभ्यं भग वते वासुदेवाय शार्ङ्गिणे ॥
भूयोभूयो नमस्तुभ्यं शेषपर्यंकशायिने

3.3-3.37

इति स्तुत्वा हरिं विप्रास्तूष्णीमास्ते स गालवः ॥
श्रुत्वा स्तुतिं श्रुति सुखां हरिस्तस्यमहात्मनः

3.3-3.38

अवाप परमं तोषं शंखचक्रगदाधरः ॥
अथालिंग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा

3.3-3.39

बभाषे प्रीतिसं युक्तो वरो वै व्रियतामिति ॥
तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि च गालव

3.3-3.3.1.3.40

नमस्कारेण च प्रीतो वरदोऽहं तवागतः ॥
॥ गालव उवाच ॥ ॥
नारायण रमानाथ पीतांबर जगन्मय

3.3-3.41

जनार्दन जगद्धामन्गोविंद नरकांतक ॥
त्वद्दर्शनात्कृतार्थोऽस्मि सर्वस्मादधिकस्तथा

3.3-3.42

त्वां न पश्यंत्यधर्मिष्ठा यतस्त्वं धर्मपालकः ॥
यन्न वेत्ति भवो ब्रह्मा यन्न वेत्ति त्रयी तथा

3.3-3.43

तं वेद्मि परमात्मानं किमस्मा दधिकं वरम्॥
योगिनो यं न पश्यन्ति यं न पश्यंति कर्मठाः

3.3-3.44

तं पश्यामि परात्मानं किमस्मादधिकं वरम् ॥
एतेन च कृतार्थोऽस्मि जनार्दन जगत्पते

3.3-3.45

यन्नामस्मृतिमात्रेण महापातकिनोऽपिच॥
मुक्तिं प्रयांति मुनयस्तं पश्यामि जनार्दनम्

3.3-3.46

त्वत्पादपद्मयुगले निश्चला भक्तिरस्तुमे ॥
॥ हरिरुवाच ॥ ॥
मयि भक्तिर्दृढा तेऽस्तु निष्कामा गालवाधुना

3.3-3.47

शृणु चाप्यपरं वाक्यमुच्यमानं मया मुने ॥
मदर्थं कर्म कुर्वाणो मद्ध्यानो मत्परायणः

3.3-3.48

एतत्प्रारब्धदेहांते मत्स्वरूपमवाप्स्यसि ॥
अस्मिन्नेवाश्रमे वासं कुरुष्व मुनिपुंगव

3.3-3.49

धर्मपुष्करिणी चेयं पुण्या पापविनाशिनी ॥
अस्यास्तीरे तपः कुर्वंस्तपःसिद्धिमवाप्नुयात्

3.3-3.3.1.3.50

धर्मः पुरा समागत्य दक्षिणस्योदधेस्तटे ॥
तपस्तेपे महादेवं चिंतयन्मनसा तदा

3.3-3.51

स्नानार्थमेकं तीर्थं च चक्रे धर्मो महामुने ॥
धर्मपुष्करिणी तेन प्रसिद्धा तत्कृता यतः

3.3-3.52

त्वया यथा तपस्तप्तमिदानीं मुनिसत्तम ॥
तथा तप्तं तपस्तेन धर्मेण हरसेविना

3.3-3.53

तपसा तस्य तुष्टः सञ्छूलपाणिर्महेश्वरः ॥
प्रादुरासीस्त्वया दीप्त्या दिशोदशविभासयन्

3.3-3.54

अथाश्रममनुप्राप्तं महादेवं कृपानिधिम् ॥
धर्मः परमसन्तुष्टस्तुष्टाव परमेश्वरम्

3.3-3.55

॥ धर्म उवाच ॥ ॥
प्रणमामि जगन्नाथमीशानं प्रणवात्मकम् ॥
समस्तदेवतारूपमादिमध्यांतवर्जितम्

3.3-3.56

ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्य हम् ॥
समस्तजगदाधारमनन्तमजमव्ययम्

3.3-3.57

यमामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ॥
नमो लोकाधिनाथाय वंचते परिवंचते

3.3-3.58

नमोऽस्तु नीलकण्ठाय पशूनां पतये नमः ॥
नमः कल्मषनाशाय नमो मीढुष्टमाय च

3.3-3.59

नमो रुद्राय देवाय कद्रुद्राय प्रचेतसे ॥
नमः पिनाकहस्ताय शूलहस्ताय ते नमः

3.3-3.3.1.3.60

नमश्चैतन्यरूपाय पुष्टीनां पतये नमः ॥
नमः पंचास्यदेवाय क्षेत्राणां पतये नमः

3.3-3.61

इति स्तुतो महादेवः शंकरोलोकशंकरः ॥
धर्मस्य परमां तुष्टिमापन्नस्तमुवाच वै

3.3-3.62

॥ महेश्वर उवाच ॥ ॥
प्रीतोस्म्यनेन स्तोत्रेण तव धर्म महामते ॥
वरं मत्तो वृणीष्व त्वं मा विलंबं कुरुष्व वै

3.3-3.63

ईश्वरेणैवमुक्तस्तु धर्मो देवमथाब्रवीत् ॥
वाहनं ते भविष्यामि सदाहं पार्वतीपते ॥।

3.3-3.64

अयमेव वरो मह्यं दातव्यस्त्रिपुरांतक ॥
तवोद्वहनमात्रेण कृतार्थोऽहं भवामि भोः

3.3-3.65

इत्थं धर्मेण कथितो देवो धर्ममथाब्रवीत् ॥
॥ ईश्वर उवाच ॥ ॥
वाहनं भव मे धर्म सर्वदा लोकपूजितः

3.3-3.66

मम चोद्वहने शक्तिरमोघा ते भविष्यति ॥
त्वत्सेविनां सदा भक्तिर्मयि स्यान्नात्र संशयः

3.3-3.67

इत्युक्ते शंकरेणाथ धर्मोपि वृषरूपधृक् ॥
उवाह परमेशानं तदाप्रभृति गालव

3.3-3.68

महादेवस्तमारुह्य धर्मं वै वृषरूपिणम् ॥
शोभमानो भृशं धर्ममुवाच परमामृतम्

3.3-3.69

॥ ईश्वर उवाच ॥
त्वया कृतं हि यत्तीर्थं दक्षिणस्योदधेस्तटे ॥
धर्मपुष्करिणीत्येषा लोके ख्याता भविष्यति

3.3-3.3.1.3.7

अस्यास्तीरे जपोहोमो दानं स्वाध्याय एव च ॥
अन्ये च धर्मनिवहाः क्रियमाणा नरैर्मुदा

3.3-3.71

।
अनंतफलदा ज्ञेया नात्र कार्या विचारणा ॥
इति दत्त्वा वरं तस्मै धर्मतीर्थाय शंकरः

3.3-3.72

आरुह्य वृषभं धर्मं कैलासं पर्वतं ययौ ॥
धर्मपुष्करिणीतीरे गालव त्वमतोधुना

3.3-3.73

शरीरपातपर्यंतं तपः कुर्वन्समाहितः ॥
वस त्वं मुनि शार्दूल पश्चान्मामाप्स्यसे ध्रुवम्

3.3-3.74

यदा ते जायते भीतिस्तदा तां नाशयाम्यहम् ॥
ममायुधेन चक्रेण प्रेरितेन मया क्षणात्

3.3-3.75

इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत ॥
॥ श्रीसूत उवाच ॥ ॥
तस्मिन्नंतर्हिते विष्णौ गालवो मुनिपुंगवः

3.3-3.76

धर्मपुष्करिणीतीरे विष्णुध्यानपरायणः ॥
त्रिकालमर्चयन्विष्णुं शालग्रामे विमुक्तिदे

3.3-3.77

उवास मतिमान्धीरो विरक्तो विजितेंद्रियः ॥
कदाचिन्माघमासे तु शुक्लपक्षे हरेर्दिने

3.3-3.78

उपोष्य जागरं कृत्वा रात्रौ विष्णुमपूजयत् ॥
स्नात्वा परेद्युर्द्वादश्यां धर्मपुष्करिणीजले

3.3-3.79

संध्यावन्दनपूर्वाणि नित्यकर्माणि चाकरोत् ॥।
ततः पूजां विधातुं स हरेः समुपचक्रमे

3.3-3.3.1.3.80

तुलस्यादीनि पुष्पाणि समाहृत्य च गालवः ॥
विधाय पूजां कृष्णस्य स्तोत्रमेतदुदैरयत्

3.3-3.81

॥ गालव उवाच ॥ ॥
सहस्रशिरसं विष्णुं मत्स्यरूपधरं हरिम् ॥
नमस्यामि हृषीकेशं कूर्मवाराहरूपिणम्

3.3-3.82

नारसिंहं वामनाख्यं जाम दग्न्यं च राघवम् ॥
बलभद्रं च कृष्णं च कल्किं विष्णुं नमाम्यहम्

3.3-3.83

वासुदेवमनाधारं प्रणतार्तिविनाशनम् ॥
आधारं सर्वभूतानां प्रणमामि जनार्दनम्

3.3-3.84

सर्वज्ञं सर्वकर्तारं सच्चिदानंदविग्रहम् ॥
अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्दनम्

3.3-3.85

एवं स्तुवन्महा योगी गालवो मुनिपुंगवः ॥
धर्मपुष्करिणीतीरे तस्थौ ध्यानपरायणः

3.3-3.86

एतस्मिन्नंतरे कश्चिद्राक्षसो गालवं मुनिम् ॥
आययौ भक्षितुं घोरः क्षुधया पीडितो भृशम्

3.3-3.87

गालवं तरसा सोऽयं राक्षसो जगृहे तदा ॥
गृहीतस्तरसा तेन गालवो नैऋतेन सः

3.3-3.88

प्रचुक्रोश दयां भोधिमापन्नानां परायणम् ॥
नारायणं चक्रपाणिं रक्षरक्षेति वै मुहुः

3.3-3.89

परेश परमानंद शरणागतपालक ॥
त्राहि मां करुणासिंधो रक्षोवशे मुपागतम्

3.3-3.3.1.3.90

लक्ष्मीकांत हरे विष्णो वैकुंठ गरुडध्वज ॥
मां रक्ष रक्षसाक्रांतं ग्राहाक्रांतं गजं यथा

3.3-3.91

दामोदर जगन्नाथ हिरण्यासुर मर्द्दन ॥
प्रह्रादमिव मां रक्ष राक्षसेनातिपीडितम्

3.3-3.92

इत्येवं स्तुवतस्तस्य गालवस्य द्विजोत्तमाः ॥
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिवृषा कपिः

3.3-3.93

स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ॥
प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना

3.3-3.94

आजगामाथ वेगेन धर्मपुष्करिणी तटम् ॥
अनंतादित्यसंकाशमनंताग्निसमप्रभम्

3.3-3.95

महाज्वालं महानादं महासुरविमर्दनम् ॥
दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे ॥

3.3-3.96

द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम्॥
शिरश्चकर्त सहसा ज्वालामालादुरासदम्

3.3-3.97

ततस्तु गालवो दृष्ट्वा राक्षसं पतितं भुवि ॥
मुदा परमया युक्तस्तुष्टाव च सुदर्शनम्

3.3-3.98

॥ गालव उवाच ॥ ॥
विष्णुचक्रं नमस्तेस्तु विश्वरक्षणदीक्षित ॥
नारायणकरांभोजभूषणाय नमोऽस्तु ते

3.3-3.99

युद्धेष्वसुरसंहारकुशलाय महारव ॥
सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशिने

3.3-3.3.1.3.100

रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ॥
स्वामिन्सुदर्शन विभो धर्मर्तीर्थे सदा भवान्

3.3-3.101

संनिधेहि हिताय त्वं जगतो मुक्तिकांक्षिणः ॥
गालवेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः ॥
तं प्राह गालवमुनिं प्रीणयन्निव सौहृदात्

3.3-3.102

॥ सुदर्शन उवाच ॥ ॥
गालवैतन्महापुण्यं धर्मतोर्थमनुत्तमम्

3.3-3.103

अस्मिन्वसामि सततं लोकानां हितकाम्यया॥
त्वत्पीडां परिचिंत्याह राक्षसेन दुरात्मना

3.3-3.104

प्रेरितो विष्णुना विप्र त्वरया समुपागतः॥
त्वत्पीडकोथ निहतो मयायं राक्षसाधमः

3.3-3.105

मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ॥
पुष्करिण्यामहं त्वस्यां धर्मस्य मुनिपुंगव

3.3-3.106

सततं लोकरक्षार्थं संनिधानं करोमि वै ॥
अस्यां मत्संनिधानात्ते तथान्येषामपि द्विज

3.3-3.107

इतः परं न पीडा स्याद्भूतराक्षससंभवा ॥
धर्मपुष्करिणी ह्येषा सर्वपापविनाशिनी

3.3-3.108

देवीपट्टणपर्यंता कृता धर्मेण वै पुरा ॥
अत्र सर्वत्र वत्स्यामि सर्वदा मुनिपुंगव

3.3-3.3.1.3.110

अस्या मत्संनिधा नात्स्याच्चक्रतीर्थमिति प्रथा॥
स्नानं येऽत्र प्रकुर्वंति चक्रतीर्थे विमुक्तिदे ॥ १०९. ॥
तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ॥
विधूतपापा यास्यंति तद्विष्णोः परमं पदम्

3.3-3.111

पितॄनुद्दिश्य पिंडानां दातारो येऽत्र गालव ॥
स्वर्गं प्रयांति ते सर्वे पितरश्चापि तर्प्पिताः

3.3-3.112

इत्युक्त्वा विष्णुचक्रं तद्गालवस्यापि पश्यतः॥
अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः

3.3-3.113

धर्मापुष्कारिणीं तां तु प्राविशत्पापनाशिनीम् ॥
श्रीसूत उवाच॥
धर्मतीर्थस्य विप्रंद्राश्चक्रतीर्थमिति प्रथा

3.3-3.114

प्राप्ता यथा तत्कथितं युष्माकं हि मया मुदा॥
चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति

3.3-3.116

अत्र स्नाता नरा विप्रा मोक्षभाजो न संशयः॥
कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः॥
चक्र तीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥
इह लोके सुखं प्राप्य परत्रापिसुखं लभेत्

3.3-3.117

यो धर्मतीर्थं च तथैव गालवं कुर्वाणगत्युग्रसमाधियो गम् ॥
सुदर्शनं राक्षसनाशनं च स्मरेत्सकृद्वा न स पापभाग्जनः

3.3-3.3

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे. सेतुमाहात्म्ये गालवाख्याने धर्मतीर्थस्य चक्रतीर्थप्रथावर्णनंनाम तृतीयो ऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc