भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.6-3

2.6-3.1

॥ मुनय ऊचुः ॥ ॥
कस्मिन्देशे द्विजश्रेष्ठ तत्क्षेत्रं पुरुषोत्तमम् ॥
यत्र नारायणः साक्षाद्दारुरूपी प्रकाशते

2.6-3.2

॥ जैमिनि रुवाच ॥ ॥
उत्कलोनाम देशोऽस्ति ख्यातः परमपावनः ॥
यत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च

2.6-3.3

दक्षिणस्योदधेस्तीरे स तु देशः प्रतिष्ठितः ॥
यत्र स्थिता वै पुरुषाः सदाचारनिदर्शनाः

2.6-3.4

वृत्ताध्ययनसंपन्ना यज्वानो यत्र भूसुराः ॥
सृष्ट्यादौ क्रतवो वेदा वेदशास्त्रप्रवर्तकाः

2.6-3.5

।
अष्टादशानां विद्यानां निधानं संप्रकीर्तितम् ॥
गृहे गृहे निवसति लक्ष्मीर्नारायणाज्ञया

2.6-3.6

लज्जाशीला विनीताश्च आधिव्याधिविवर्जिताः ॥
पितृमातृरताः सत्यवादिनो वैष्णवा जनाः

2.6-3.7

न चात्रावैष्णवः कश्चिन्नास्तिको वापि वर्तते ॥
सर्वे परहितास्तत्र न लुब्धा न शठाः खलाः

2.6-3.8

दीर्घायुषस्तत्र जनाः स्त्रियश्च पतिदेवताः ॥
सुशीला धर्मशीलाश्च त्रपाचारित्रभूषिताः

2.6-3.9

रूपयौवनगर्वाढ्याः सर्वालंकारभूषिताः ॥
कुलशीलवयोवृत्तानुरूपाचारचंचवः

2.6-3.2.2.6.10

स्वकर्मनिरतास्तत्र प्रजारक्षणदीक्षिताः ॥
क्षत्रिया दानशौंडाश्च शस्त्रशास्त्रविशारदाः

2.6-3.11

यजंते क्रतुभिः सर्वे सततं भूरिदक्षिणैः ॥
दीप्यंते चित्तयो येषां यूपाः कांचनभूषिताः

2.6-3.12

येषां गृहेष्वतिथयः कामनाधिकपूजिताः ॥
वैश्याश्च कृषि वाणिज्यगोरक्षावृत्तिसंस्थिताः

2.6-3.13

देवान्गुरून्द्विजान्भक्त्या प्रीणयंति धनैरपि ॥
एकस्य द्वारि यातोऽर्थी न गच्छेदन्यवेश्मनि

2.6-3.14

गीतकाव्यकलाशिल्पकुशलाः प्रियवादिनः ॥
शूद्राश्च धार्मिकास्तत्र स्नानदानक्रियारताः

2.6-3.15

कर्मणा मनसा वाचा धनैश्च द्विजसेवकाः ॥
येऽन्ये संकरजातास्ते स्वेस्वे धर्मे प्रतिष्ठिताः

2.6-3.16

न विपर्यंति ऋतवो नाकाले वर्षते घनः ॥
न सस्यहानिर्न मरुत्क्षुन्न पीडयति प्रजाः

2.6-3.17

दुर्भिक्षमरके नात्र राष्ट्रभंगः प्रजायते ॥
नालभ्यं तत्र वस्त्वस्ति यत्किंचित्पृथिवीगतम्

2.6-3.18

एवं सर्वगुणैर्युक्तो नानाद्रुमलताकुलः ॥
अर्जुनाशोकपुन्नाग तालहिंतालशालकैः

2.6-3.19

प्राचीनामलकैर्लोध्रैर्बकुलैर्नागकेशरैः ॥
नारिकेलैः प्रियालैश्च सरलैर्देवदारुभिः ॥

2.6-3.2.2.6.20

धवैश्च खदिरैर्बिल्वैः पनसैश्च कपित्थकैः ॥
चंपकैः कर्णिकारैश्च कोविदारैः सपाटलैः

2.6-3.21

कदंबनिंबनिचुरलरसालामलकैस्तथा ॥
नागरंगैश्च जंबीरैर्नीपकैर्मातुलुंगकैः

2.6-3.22

मंदारैः पारिजातैश्च न्यग्रोधागुरुचंदनैः ॥
खर्जूराम्रातकैः सिद्धैर्मुचुकुंदैः सकिंशुकैः

2.6-3.23

तिंदुकैः सप्तपर्णैश्च अश्वत्थैश्च बिभीतकैः ॥
अन्यैश्च विविधैर्वृक्षैः प्रकीर्णः सुमनोहरैः

2.6-3.24

मालतीकुंदबाणैश्च करवीरैः सितेतरैः ॥
केतकीवनषंडैश्च अतिमुक्तैः सकुब्जकैः

2.6-3.25

एलालवंगकंकोलदाडिमैर्बीजपूरकैः ॥
श्रेणीकृतैः पूगवनैरुद्यानैः शतशो वृतः

2.6-3.26

नानाद्रुमलताकीर्णः पर्वतैः सिंधुर्भिर्वृतः ॥
स एष देशप्रवर उत्कलाख्यो द्विजोत्तमाः

2.6-3.27

ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ॥
स्वर्णरेखामहानद्योर्मध्ये देशः प्रतिष्ठितः

2.6-3.28

सन्त्यत्र पुण्यायतने क्षेत्राणि सुबहून्यपि ॥
पूर्वं वस्तीर्थयात्रायां वर्णितानि मया द्विजाः ॥
भूस्वर्गः सांप्रतं ह्येष कथितः पुरुषोत्तमः

2.6-3.6

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य ओढ्रदेशवर्णनं नाम षष्ठोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc