भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.37-2

2.37-2.1

॥ ॥ अथ शंखाभिधाननृपवृत्तान्तः ॥
॥ भारद्वाज उवाच ॥ ॥
शृणु पार्थ प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ॥
यथाऽसौ भगवानस्मिञ्छैले प्राप प्रकाशताम्

2.37-2.2

श्रुताभिधानो नृपतिरस्ति हैहयवंशजः ॥
यः प्रजाः स्वा इव चिरं शशास धरणीं शुभाम्

2.37-2.3

तस्य पुत्रो गुणनिधिः शंखो नाम महीपतिः ॥
पालयामास वसुधां सर्वशास्त्रविशारदः

2.37-2.4

तस्य विष्णौ जगन्नाथे पुण्डरीकायतेक्षणे ॥
बभूव निश्चला भक्तिः परित्यक्तान्यसंश्रया

2.37-2.5

देवदेवं जगन्नाथमनन्तं पुरुषोत्तमम् ॥
प्रगाढनिश्चयो नित्यं ध्यायन्नद्भुतवैभवम्

2.37-2.6

चक्रे व्रतानि दानानि पुण्यानि विविधानि च ॥
वेदवेद्यस्य नियतं प्रीत्यर्थं मधुविद्विषः

2.37-2.7

तमुद्दिश्यैव विदधे वाजिमेधादिकान्क्रतून् ॥
यथोक्तदक्षिणायोगात्प्रीणिताशेषभूसुरः ॥

2.37-2.8

इष्टापूर्त्तात्मकं चक्रे कर्मजातमतन्द्रितः ॥
विन्यस्तहृदयो नित्यं केशवे भक्तवत्सले

2.37-2.9

स्मरत्यजस्रं गोविन्दं जपत्यच्युतमव्ययम् ॥
पूजयत्यब्जनयनं संकीर्तयति शार्ङ्गिणम्

2.37-2.2.1.37.10

शृणोति सततं राजा संसारार्णवतारिणीः ॥
पौराणिकैः समाख्याताः पवित्रा वैष्णवी कथाः

2.37-2.11

ब्राह्मणानर्चति स्मायं हरिप्रीत्यर्थमेव च ॥
इत्थं सर्वात्मना युक्तोऽप्यश्रान्तः पृथिवीपतिः

2.37-2.12

नापश्यच्छाश्वतैश्वर्यं स्वतन्त्रं पुरुषोत्तमम् ॥
अप्राप्य दर्शनं विष्णोः सर्वयज्ञमयात्मनः

2.37-2.13

सशोकाक्रान्तहृदयः परां चिन्तामुपागमत्

2.37-2.14

॥ शंख उवाच ॥ ॥
परः सहस्रैर्जनैरतीतदुष्कृतं बहु ॥
कृतं मया यदप्राप्तं हृषीकेशस्य दर्शनम्

2.37-2.15

उपार्जितानां तमसामनेकैः पूर्वजन्मभिः ॥
अखण्डं हि फलं विष्णोर्दर्शनं मधुघातिनः

2.37-2.16

कथं नु यायाद्भगवान्विषयं मम नेत्रयोः ॥
कदा वा लभ्यते श्रेयस्तद्वाक्याकर्णनात्मकम्

2.37-2.17

हा धिङ्मां विहितागस्कं क्रियासाफल्यवर्जितम् ॥
नारायणकृपादूरं संसारक्लेशगोचरम्

2.37-2.18

॥ भरद्वाज उवाच ॥ ॥
इति चिन्ताकुले तस्मिन्राज्ञि जीवितनिःस्पृहे ॥
अदृश्यमूर्तिः सर्वेषां शृण्वतामाह केशवः

2.37-2.19

॥ श्रीभगवानुवाच ॥ ॥
मा शोकस्य वशं यायाः शृणु वक्ष्याभि ते हितम् ॥
मदेकशरणं साधुं त्वां त्यक्ष्यामि कथं नृप

2.37-2.2.1.37.20

अयं वेंकटनामाद्रिस्त्रिषु लोकेषु विश्रुतः ॥
वैकुण्ठादपि मे राजन्नावासोऽतिप्रियावहः ॥

2.37-2.21

तं गत्वा भूधरवरं तव भक्त्या तपस्यतः ॥
गते सहस्रे वर्षाणां यास्याम्यालोकनीयताम्

2.37-2.22

भवानिवोद्यतोऽगस्त्यो मम दर्शनमञ्जसा ॥
क्व वा संदृश्यते विष्णुरेवमाह चतुर्मुखम्

2.37-2.23

वृषभाद्रौ हरिर्द्रष्टुं लभ्यते नियतात्मभिः ॥
गच्छ तत्रेति मुनये कथयामास पद्मभूः

2.37-2.24

अम्भोजसंभवेनेत्थमादिष्टः कुम्भसम्भवः ॥
अञ्जनाद्रौ महावासे तपस्तप्तुं समेष्यति

2.37-2.25

तस्मिन्महीधरे पुण्ये कृतवासो भवानपि ॥
आराध्य मां तपोनिष्ठो मम दर्शनमाप्स्यसि

2.37-2.26

॥ अथ भगवदुक्त्या शंखनृपस्य श्रीवेंकटाचलागमनम् ॥
॥ भरद्वाज उवाच ॥ ॥
इत्याज्ञप्तो भगवता शंखो दानववैरिणा ॥
जगाम प्रीतिमतुलां धन्योस्मीति स्वचेतसि

2.37-2.27

विन्यस्य तनयं वज्रं प्रजापालनकर्मणि ॥
गोविन्ददर्शनापेक्षी नारायणगिरिं ययौ

2.37-2.28

तस्य शृंगे समुत्तुंगे स्वामिपुष्करिणीं शुभाम् ॥
दिव्यैः पयोभिरापूर्णामपश्यदमृतोपमैः

2.37-2.29

अनेकसिद्धगन्धर्वदेवर्षिगणसेविताम् ॥
भवतापप्रशमनी सर्वतीर्थसमाश्रयाम्

2.37-2.2.1.37.30

जलकाकबकक्रौञ्चहंसकारण्डवाकुलाम् ॥
कुमुदोत्पलराजीवसौगन्धिकमनोहराम्

2.37-2.31

तां दृष्ट्वा पद्मिनीं दिव्यां तत्तीरे विहितोटजः ॥
तोषितः स्नानपानाद्यैर्निर्विकल्पमनोगतिः

2.37-2.32

सर्वकर्माणि विन्यस्य जगदीशे जनार्दने

2.37-2.33

॥ अथ भगवद्दर्शनार्थमगस्त्यस्य वेंकटाचलागमनम् ॥ ॥
जपध्यानपरो नित्यं तपस्तेपे सुदारुणम् ॥
तस्मिन्नेव मुनिः काले शासनात्परमेष्ठिनः

2.37-2.34

अगस्त्योऽप्याससादाद्यं शैलं मुनिशतावृतः ॥
प्रतीचीं दिशमारभ्य कृतयत्नः प्रदक्षिणे

2.37-2.35

पश्यंस्तीर्थानि पुण्यानि बभ्राम सुचिरं गिरौ ॥
तत्र तत्र ददर्शासौ हरिदर्शनलालसान्

2.37-2.36

विरिंचिगुहशक्रेशविष्वक्सेनादिकान्क्रमात् ॥
सनकाद्यांश्च योगीन्द्रान्नारदप्रमुखानृषीन्

2.37-2.37

सिद्धगन्धर्वदैतेययक्षराक्षसपन्नगान् ॥
तैस्तैः संमान्यमानोऽसौ प्रश्रयप्रियभाषणैः

2.37-2.38

पश्यन्नाश्चर्यभूतानि सर्वाणि विचचार ह ॥
स्नात्वा तीर्थेषु सर्वेषु स्कन्दधारादिकेषु च

2.37-2.39

तत्र तत्रार्चयामास गोविन्दं जगतां पतिम् ॥
एवं भ्रान्त्वा गतेऽब्दानां सहस्रे मुनिसत्तमः

2.37-2.2.1.37.40

नापश्यत्पुण्डरीकाक्षं चिन्ताशोकपरोऽभवत्

2.37-2.41

॥ अथागस्त्यं प्रति गुरुवस्वाद्युक्तिः ॥ ॥
तस्मिन्काले समाजग्मुर्धिषणोशनसौ पुनः ॥
राजोपरिचरो नाम वसुश्च तमृषीश्वरम्

2.37-2.42

अस्माकं सफलं जातं जीवितं मुनिसत्तम ॥
दृष्टो भवान्यदस्माभिर्नारायण इवापरः

2.37-2.43

ब्रह्मणा लोकनाथेन यदादिष्टा वयं मुने ॥
अच्युतालोकनपरास्तदिदं कथ्यते तव

2.37-2.44

अस्ति दक्षिणदिग्भागे वेंकटोनाम भूधरः ॥
श्वेतद्वीपादपि हरेरावासोऽयमभीप्सितः

2.37-2.45

तस्मिन्गिरावगस्त्यस्य शंखस्य च महीपतेः ॥
दर्शयिष्यति गोविन्दो निजरूपं जगद्गुरुः

2.37-2.46

तदानीं सर्वदेवानामृषीणां यक्षरक्षसाम् ॥
अस्माकं देवदेवस्य दर्शनं संभविष्यति

2.37-2.47

अचिरेणैव तद्भावि ततः संत्यक्तकल्मषाः ॥
अन्वेष्टुं गच्छतागस्त्यं तस्मिन्नारायणाचले

2.37-2.48

इत्याज्ञप्ता वयं धात्रा समागम्यात्र भाग्यतः ॥
दृष्टवन्तो महाभागं भवंतं भूरितेजसम्

2.37-2.49

भवता सहिता गत्वा स्वामिपुष्करिणीतटे ॥
तमप्यालोकयिष्यामः शंखं भागवतोत्तमम्

2.37-2.2.1.37.50

॥
अथागस्त्यादिकृतश्रीवेंकटाचलस्थरम्यवस्तुदर्शनम् ॥
॥ ॥ भरद्वाज उवाच ॥ ॥
गीष्पतिप्रमुखैरित्थमादिष्टः कुम्भसंभवः ॥
शोकजालं परित्यज्य ययौ तैः सहितो द्रुतम्

2.37-2.51

स ददर्श महावृक्षान्फलपुष्पभरानतात् ॥
प्ररूढशाखानिकरच्छायाच्छादितदिक्तटान्

2.37-2.52

सिंहदंतावलव्याघ्रवराहमहिषादिकान् ॥
मृगानालोकयामास पंथानं चांतरांतरा

2.37-2.53

तैस्तदानीं ददृशिरे सानवोऽप्यम्बुभृद्भृतः ॥
सुवर्णरौप्यताम्रादिशोभितास्तत्र तत्र तु

2.37-2.54

उच्चलच्छीकरासारनिर्वाहितदिवौकसः ॥
वेगोद्धृतशिला दृष्टाः शतशो गिरिनिर्झराः

2.37-2.55

तेषामापादयामास प्रमोदं मंदमारुतः ॥
कमलामोदसंवाही विचरन्गिरिसानुषु

2.37-2.56

शुकानां कोकिलानां च तदा शुश्रुविरे गिरः

2.37-2.57

तत्र तत्र समासीनान्विस्तीर्णासु दृषत्सु ते ॥
सिद्धानपश्यन्कृष्णस्य गायतो गुणवैभवम्

2.37-2.58

अगस्त्यप्रमुखाः सर्वे परिक्रम्य मुनीश्वराः ॥
स्वामिपुष्करिणीं दिव्यां ददृशुर्विमलोदकाम्

2.37-2.59

तत्तीरे विहितावासमपश्यच्छङ्खभूपतिम् ॥
वाङ्मनःकायजं कर्म सन्निवेश्य स्थितं हरौ

2.37-2.2.1.37.60

स तानालोक्य सहसा मुनीन्द्रान्संशितव्रतान् ॥
यथोक्तमकरोत्पूजां प्रणामस्तुतिपूर्विकाम्

2.37-2.61

आसीनास्तत्र ते सर्वे संभाव्यान्योऽन्यमुत्सुकाः ॥
गोविन्दकीर्तनपराः कृतार्थत्वं प्रपेदिरे

2.37-2.37

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां श्रीवेंकटाचलं प्रति शंखागस्त्याद्यागमनवर्णनंनाम सप्तत्रिंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc