भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 2.37

2.37.1

॥ जैमिनिरुवाच ॥ ॥
अतः परं प्रवक्ष्यामि दक्षिणायनमुत्तमम् ॥
संक्रांतेः पूर्वकाले याः कला वै विंशतिर्मताः

2.37.2

अयनं पुण्यकालोऽयं पुण्यकर्मसु कर्मिणाम् ॥
पंचामृतैस्तत्र देवं स्नापयेत्स्वापवद्द्विजाः

2.37.3

सर्वांगं लेपयेदस्यागुरुकर्पूरचंदनैः ॥
सुगन्ध माल्यालंकारैश्चारुवस्त्रैश्च दीपकैः

2.37.4

नानाभक्ष्योपहारैश्च पूजयेत्परमेश्वरम् ॥
कर्पूरालतिकामुच्चैर्मुखाभ्याशे हरेर्ददेत्

2.37.5

दूर्वांकुराक्षतैर्नीराजनेनाथ प्रवन्दयेत् ॥
मांगल्यगीतनृत्ताद्यैर्नारी हुलुहुलां वदेत्

2.37.6

पूजितं पूज्यमानं च यः पश्येत्पुरुषोत्तमम् ॥
पूजाशतगुणं पुण्यं तस्मै दद्याज्जनार्दनः

2.37.7

अयने दक्षिणे तस्मिन्नर्च्यमानं श्रियः पतिम् ॥
विहाय सर्वपापानि विष्णुलोकं व्रजंति ते

2.37.8

स्वल्पा वा महती यात्रा सर्वा मुक्तिप्रदा हरेः ॥
तस्मिंस्तस्मिन्दिने दृष्टो भगवान्मुक्तिदो ध्रुवम्

2.37.9

विश्वासहेतोर्मूर्खाणां यात्रा ह्येताः कृपावता ॥
विष्णुना कथिता विप्राः पापिनां किल्बिषापहाः

2.37.2.2.37.10

आयासजनितं पुण्यं मन्यन्ते ये नराधमाः ॥
लक्ष्मीपतेर्भोजनाय संस्कार्योऽत्र महानसः

2.37.11

वैष्णवाग्निं समाधाय निरुप्य चरुमुत्तमम् ॥
वैश्वदेवं प्रकुर्वीत भगवत्पाकसाधनम्

2.37.12

ब्रह्मणे वास्तुपतये प्रजानां पतये तथा ॥
विष्णवे विश्वकर्त्रे च शुच्यग्नौ जुहुयाच्छुचिः

2.37.13

राज्ञा नियुक्त आचार्यः श्रौतस्मार्तक्रियापरः ॥
द्वारपालप्रचंडाभ्यामैशान्यां क्षेत्रपालिने

2.37.14

दक्षिणे च विरूपाय खगानां पतये तथा ॥
दुर्गासरस्वतीभ्यां च नैरृत्यां विनिवेदयेत्

2.37.15

महालक्ष्मीमहेंद्राभ्यां प्राच्यां दिशि बलिः स्मृतः ॥
विष्णु पारिषदेभ्योऽथ पशूनां पतये तथा

2.37.16

उदीच्यां बलिदानं तु नारदायाथ पश्चिमे ॥
आग्नेय्यामग्नये दद्याद्वायव्यां विश्वसाक्षिणे

2.37.37

पञ्चश्वसनरूपेभ्यो विश्वकर्त्रेऽथ मध्यतः ॥
आद्यंतयोर्जलं दद्यात्प्रत्येकं बलिकर्मणि

2.37.18

दत्त्वा वलिं तदग्नौ तु कारयेत्पाकमुत्तमम् ॥
संध्यात्रये भगवतः पूजायै चरुकारणात्

2.37.19

चरुसंस्कारकांगानि भक्ष्यभोज्यादिकानि वै ॥
न दीप्तान्योजयेत्तत्र लोके त्रैवर्णिको नृपः ॥

2.37.2.2.37.20

आर्यान्पवित्राञ्छूद्रान्वा वर्णांश्च परिसेवकान् ॥
लौकिकव्यवहारोऽयं पचति श्रीः स्वयं ध्रुवम्

2.37.21

भुंक्ते नारायणो नित्यं तया पक्वं शरीरवान् ॥
अमृतं तद्धि नैवेद्यं पापघ्नं मूर्ध्नि धारणात्

2.37.22

भक्षणान्मद्यपानादिमहादुरितनाशनम् ॥
आघ्राणान्मानसं पापं दर्शनाद्दृष्टिजं तथा

2.37.23

आस्वादात्तु कृतं पापं श्रावणं च व्यपोहति ॥
स्पर्शनात्त्वक्कृतं पापं मिथ्याभाषणजं तथा

2.37.24

गात्रलेपाद्दहेत्पापं शारीरं वै न संशयः

2.37.25

महापवित्रं हि हरेर्निवेदितं नियोजयेद्यः पितृदेवकर्मसु ॥
तृप्यंति तस्मै पितरः सुरास्तथा प्रयांति लोकं मधुसूदनस्य ते

2.37.26

नात्ः पवित्रं वस्त्वस्ति हव्यकव्येषु भो द्विजाः ॥
नराणां रूपमास्थाय तदश्नंति दिवौकसः

2.37.27

अभिमानो महांस्तत्र देवदेवस्य चक्रिणः ॥
श्वेतो नाम महाराजः पुरा त्रेतायुगेऽभवत्

2.37.28

व्रतस्थोऽपि महाभक्तिं चकार पुरुषोत्तमे ॥
इन्द्रद्युम्नेन रचितभोगमात्रानुसारतः

2.37.29

भोगान्प्रकल्पयामास प्रत्यहं श्रीपतेर्मुदा ॥
भक्ष्यभोज्यान्यनेकानि षड्रसांश्च सुसंस्कृतान्

2.37.2.2.37.30

माल्यानि च विचित्राणि सुगंधमनुलेपनम् ॥
गीतवादित्रनृत्यानि दिव्यानि सुबहूनि च

2.37.31

राजोपचारा बहुशोऽवसरेऽवसरे हरेः ॥
बहुवित्तव्ययायास भक्तिभावनिरूपकाः

2.37.32

तत्तद्वैष्णवशास्त्रोक्तचित्रभोगाः पृथग्विधाः ॥
कल्पितास्तेन भूपेन विद्वत्पंकजभानुना

2.37.33

प्रातः पूजनवेलायां हरिं द्रष्टुं जगाम सः ॥
कस्मिंश्चिद्दिवसे राजा पूज्यमानं ददर्श तम्

2.37.34

प्रणम्य देवदेवं तु बद्धांजलिपुटो मुदा ॥
प्रासादद्वारनिकटे तस्थिवानृपसत्तमः

2.37.35

दृष्ट्वा स्वयं विरचितानुपचाराननुत्तमान् ॥
उपायनसहस्रं च हरेरग्रे प्रकल्पितम्

2.37.36

चिंतयामास मनसा किंचिद्ध्यानावलंबितः ॥
मनुष्यकल्पितंभोगं ग्रहीष्यति हरिः किमु

2.37.37

देवैर्दिव्योपचारैर्यो शक्यते नार्चनाविधौ ॥
मानसैरुपहारैर्यं पूजयंति यतव्रताः

2.37.38

भावदुष्टो बहिर्यागो न मुदे तस्य निश्चितम् ॥
इत्थं संचितयन्राजा दिव्यासनगतं विभुम्

2.37.39

भुंजानमन्नपानाढ्यं श्रिया सुपरिवेषितम् ॥
दिव्यस्रजालंकृतया दिव्यगंधदुकूलया

2.37.2.2.37.40

अनर्घ्यरत्नमंजीरसिंजितेन सुरालयम् ॥
पूरयंत्या स्वर्णदर्व्या ददत्या सादरं रसान्

2.37.41

भगवत्प्रतिरूपैश्च भुंजानैः परिवेष्टितम् ॥
दृष्ट्वा कृतार्थमात्मानं मन्यमानस्तदद्भुतम्

2.37.42

प्रोन्मीलिताक्षः स पुनः प्राग्दृष्टं समवैक्षत ॥
अतः प्रभृति राजासौ परां निर्वृतिमाप्तवान्

2.37.43

निवेदिताशीर्व्रतवांश्चचार सुमहत्तपः ॥
अकालमृत्युनाशाय स्वराज्ये मृतमुक्तये

2.37.44

मंत्रराजं जपन्नित्यं श्रितानां कल्पपादपम् ॥
ददर्श शतवर्षांते नृहरिं दुरितापहम्

2.37.45

योगासनाब्जनिलयं वामांगावस्थितश्रियम् ॥
दिव्यालंकृतसर्वांगं स्फटिकामलविग्रहम्

2.37.46

त्रिदशैः सिद्धमुक्तैश्च स्तूयमानं स्मिताननम् ॥
भ्रांतो विस्मयभीतिभ्यां हर्षगद्गदया गिरा ॥
प्रसीद नाथेति लपन्पपात धरणीतले

2.37.47

तपःकृशं तं प्रणतं दृष्ट्वा मनुजकेसरी ॥
अकल्मषं क्षितिपतिं विवक्षुर्भक्तवत्सलः

2.37.48

॥
॥ श्रीभगवानुवाच ॥ ॥
उत्तिष्ठ वत्स भक्त्या ते प्रसन्नं विद्धि मां प्रभुम् ॥
मयि प्रसन्ने नालभ्यं वरं तत्प्रार्थ्यतां भवान्

2.37.49

श्रुत्वेत्थं भगवद्वाक्यं समुत्तस्थौ ततो नृपः ॥
बद्धांजलिपुटो नम्रो भक्त्योवाच जनार्दनम्

2.37.2.2.37.50

॥ श्वेत उवाच ॥ ॥
स्वामिन्यदि प्रसादस्ते मयि जातः सुदुर्लभः ॥
सारूप्यमथ संप्राप्य स्थास्यामि तव सन्निधौ

2.37.51

स्थास्ये यावन्नृपत्वेऽहं मद्राज्ये नो जनः क्वचित् ॥
अकाले म्रियतां जंतुः काले चेन्मुक्तिमाप्नुयात्

2.37.52

तच्छ्रुत्वा भगवान्प्राह श्वेतराजानमुत्तमम्

2.37.53

श्वेत ते वांछितं भूयात्तिष्ठ त्वं मम दक्षिणे ॥
भुक्त्वा वर्षसहस्रं तु स्वराज्यं सुसमृद्धिमत्

2.37.54

मम निर्माल्यभोगेन क्षीणशेषाघसंचयः ॥
सुनिर्मलांतःकरणो मत्सायुज्यमवाप्स्यसि

2.37.55

वटसागरयोर्मध्ये मुक्तिस्थाने सुदुर्लभे ॥
मदीयाऽऽद्यावतारस्य विष्णोर्मत्स्यस्वरूपिणः

2.37.56

संमुखीनो वस त्वं हि स्फटिकामलविग्रहः ॥
ख्यातिं यास्यसि भूर्लोके श्वेतमाधवसंज्ञया

2.37.57

युवयोरंतराले ये प्राणांस्त्यक्ष्यंति मानवाः ॥
तिर्यंचोऽपि च कीटा वा ध्रुवं ते मुक्तिमाप्नुयुः

2.37.58

अमरा यत्र मरणमिच्छंति किमु मानवाः ॥
तवोत्तरस्यां दिशि यत्सरः पापनिबर्हणम्

2.37.59

तत्र स्नात्वा उपस्पृश्य तदीये दक्षिणे तटे ॥
उभयोर्दृष्टिपूतःसंत्यक्त्वा प्राणान्विमुच्यते ॥

2.37.2.2.37.60

आसमंतादिदं क्षेत्रं यत्रतत्रापि मुक्तिदम् ॥
मूढात्मनां विश्वसितुं प्रधानं स्थानमीरितम्

2.37.61

तव राज्ये तु ये लोका मम निर्माल्यभोजिनः॥
मृतिराकालिकी तेषां न कदाचिद्भविष्यति

2.37.37

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तत्रिंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc