भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.18-5

2.18-5.1

वाल्मिके:पूर्व जन्मस्य कथा
"व्याध उवाच॥
भवताऽनुगृहीतोऽस्मि मुने पापोऽतिदुष्टधीः॥
दयालवो महांतो हि स्वभावादेव साधवः

2.18-5.2

क्व व्याधश्चाऽकुलीनोऽहं क्व च वा मतिरीदृशी॥
केवलं भवतामेव मन्येऽनुग्रहमुत्तमम्

2.18-5.3

अथ साधो च शिष्योस्मि कृपापात्रोस्मि मानद॥
अनुग्राह्योऽस्मि पुत्रोऽस्मि कृपां कुरु दयानिधे

2.18-5.4

यथा मे न पुनर्भूयादसन्मतिरनर्थदा॥
सद्भिस्तु संगतेः क्वापि नभूयो दुःखमश्नुते

2.18-5.5

तस्माद्बोधय मां विप्र सूक्तैस्तैर्वृजिनापहैः ॥
येन चाद्धा तरिष्यंति संसाराब्धिं मुमुक्षवः

2.18-5.6

साधूनां समचित्तानां तथा भूतदयावताम् ॥
न च हीनोत्तमः क्वापि नात्मीयो हि परस्तथा

2.18-5.7

ऐकाग्र्येण विचिंत्याथ चित्तशुद्धिं च पृच्छति॥
सर्वदोषयुतो वापि सर्वधर्मोज्झितोऽपि वा

2.18-5.8

कृतानुतापश्च यदा यदा पृच्छति वै गुरून्॥
तदैवोपदिशंत्यद्धा ज्ञानं संसारमोचकम्

2.18-5.9

यथा गंगा मनुष्याणां पापनाशस्य भाविनी॥
तथा मन्दसमुद्धारस्वभावाः साधवः स्मृताः

2.18-5.2.7.18.10

मा विचारय मां बोद्धुं दयालो भक्तवत्सल ॥
शुश्रूषुत्वान्नतत्वाच्च शुद्धत्वात्तव संगतेः

2.18-5.11

इति व्याधवचः श्रुत्वा पुनर्विस्मितमानसः॥
साधुसाध्विति संभाष्य धर्मानेतानुवाच ह

2.18-5.12

॥शंख-उवाच॥
विष्णुप्रीतिकरान्दिव्यान्संसाराब्धिविमोचकान् ॥
कुरु धर्मांश्च वैशाखे यदि व्याध शमिच्छसि

2.18-5.13

आतपो बाधते घोरो न च्छाया नांबु चात्र च॥
तस्मात्स्थलांतरं यावो यत्र च्छाया तु वर्तते

2.18-5.14

तत्र गत्वा जलं पीत्वा सुच्छायां च समाश्रितः॥
तत्र ते वर्णयिष्यामि माहात्म्यं पापनाशनम्

2.18-5.15

विष्णोर्माधवमासस्य यथादृष्टं यथाश्रुतम्॥
इत्युक्तो मुनिना तेन व्याधः प्राह कृताञ्जलिः

2.18-5.16

इतो विदूरे सलिलं वर्तते च सरोवरे ॥
कपित्थास्तत्र वै सन्तिफलभारेण पीडिताः

2.18-5.17

गच्छावस्तत्र संतुष्टिर्भविता नात्र संशयः॥
व्याधेनैवं समादिष्टस्तेन साकं ययौ मुनिः

2.18-5.18

कियद्दूरं ततो गत्वा ददर्शाग्रे सरोवरम् ॥
बक कारण्डवाकीर्णं चक्रवाकोपशोभितम्

2.18-5.19

हंससारसक्रौंचाद्यैः समंतात्परिशोभितम् ॥
कीचकैश्च सुघोषैश्च कूजितं भ्रमरैरपि

2.18-5.2.7.18.20

नक्रकच्छपमीनाद्यैर्वगाह्यं सुमनोहरम् ॥
कुमुदोत्पलकह्लार पुंडरीकादिभिर्महत्

2.18-5.21

शतपत्रैः कोकनदैः समन्तात्परिशोभितम् ॥
पक्षिणां च कलारावैर्मुखर नयनोत्सवम्

2.18-5.22

तटे कीचकगुल्मैश्च तथा वृक्षैश्च शोभितम् ॥
वटैः करंजैर्नीपैश्च चिंचिणीभिस्तथैव च

2.18-5.23

निम्बप्लक्षप्रियालैश्च चम्पकैर्बकुलैः शुभैः॥
पुन्नागैस्तुम्बरैश्चैव कपित्थामलकैरपि

2.18-5.24

निष्पेषणैश्च जम्बूभिः समंतात्परिशोभितम्॥
वन्यमातंगसारंग वराहमहिषादिभिः

2.18-5.25

शशैश्च शल्लकैश्चैव गवयैरुपशोभितम्॥
खङ्गनाभिमृगाद्यैश्च व्याघ्रैः सिंहैर्वृकैरपि

2.18-5.26

खरान्तकैश्च शरभैश्च मरीभिः सुमण्डितम् ॥
शाखाशाखान्तरं शीघ्रं प्लवमानैः प्लवंगमैः

2.18-5.27

मार्जारैश्चैव भल्लूकैर्भीषणं रुरुभिस्तथा॥
झिल्लीशब्दैश्च क्रेंकारैः कीचकानां रवैस्तथा

2.18-5.28

घोरवायुविनिर्घातदारुभारैः समन्वितम् ॥
एतादृशं सरो दिव्यं व्याधेनैव प्रदर्शितम्

2.18-5.29

ददर्श मुनिशार्दूलस्तृषया बाधितो भृशम् ॥
स्नात्वा मध्याह्नवेलायां सरस्यस्मिन्मनोरमे

2.18-5.2.7.18.30

वाससी परिधायाऽथ कृत्वा माध्याह्निकीःक्रियाः॥
देवपूजां ततः कृत्वा भुक्त्वा फलमतन्द्रितः

2.18-5.31

व्याधोपनीतं सुस्वादु कपित्थं श्रमहारि च ॥
सुखोपविष्टः पप्रच्छ व्याधं धर्मरतं पुनः

2.18-5.32

किं वक्तव्यं मया ह्यद्य तवादौ धर्मतत्पर ॥
धर्माश्च बहवः संति नानामार्गाः पृथग्विधाः

2.18-5.33

तत्र वैशाखमासोक्ताः सूक्ष्मा अपि महार्थदाः॥
सर्वेषामेव जन्तूनामिहाऽमुत्र फलप्रदाः

2.18-5.35

यत्प्रष्टव्यं मनसि ते यच्चादौ तच्च पृच्छताम्॥
इत्युक्तो मुनिना तेन व्याधः प्रांजलिरब्रवीत्॥३४।
॥व्याध उवाच॥
केन वा कर्मणा चाऽऽसीद्व्याधजन्म तमोमयम्॥
केन वा चेदृशी बुद्धिः संगतिर्वा महात्मनः

2.18-5.36

एतच्चान्यत्समाचक्ष्व यदि मां मन्यसे प्रभो॥
इत्युक्तः पुनरप्याह शंखो नाम महामुनिः

2.18-5.37

मेघगंभीरया वाचा स्मयमानमुखांबुजः॥
॥शंख उवाच॥
शाकले नगरे पूर्वं द्विजस्त्वं वेदपारगः

2.18-5.37

स्तम्बो नाम महातेजास्तथा श्रीवत्सगोत्रजः॥
तवेष्टा गणिका काचिदासीत्तत्संगदोषतः

2.18-5.39

त्यक्त्वा नित्यक्रिया नित्यं शूद्रवद्गृहमागतः ॥
शून्याचारस्य दुष्टस्य परित्यक्तक्रियस्य च

2.18-5.2.7.18.40

ब्राह्मणी च तदा चाऽऽसीद्भार्या कांतिमती तव॥
सा त्वां पर्यचरत्सुभ्रूः सवेश्यं ब्राह्मणाधमम्

2.18-5.41

उभयोः क्षालयंती च पादांस्त्वत्प्रियकारिणी॥
उभयोरप्यधः शेते उभयोर्वचने रता

2.18-5.42

वेश्यया वार्यमाणाऽपि पातिव्रत्यव्रतस्थिता ॥
एवं शुश्रूषयंत्या हि भर्तारं वेश्यया सह

2.18-5.43

जगाम सुमहान्कालो दुःखिताया महीतले॥
अपरस्मिन्दिने भर्ता माषं च मूलकान्वितम्

2.18-5.44

अभक्षयच्छूद्रधर्मान्निपावांस्तिलमिश्रितान् ॥
तदपथ्यमशित्वा तु वमंश्चैव विरेचयन्

2.18-5.45

अपथ्याद्दारुणो रोगो व्यजायत भगंदरः॥
स दह्यमानो रोगेण दिवारात्रं तु भूरिशः

2.18-5.46

यावदास्ते गृहे वित्तं तावद्वेश्या च संस्थिता॥
गृहीत्वा तस्य सा वित्तं पश्चान्नोवास मंदिरे

2.18-5.47

अन्यस्य पार्श्वमासाद्य गता घोरा सुनिर्घृणा ॥
ततः स दीनवचनो व्याधिबाधासुपीडितः

2.18-5.49

उक्तवान्स रुदन्भार्यां रुजा व्याकुलमानसः॥
परिपालय मां देवि वेश्याऽऽसक्तं सुनिष्ठुरम्॥४८।
न मयोपकृतं किंचित्त्वयि सुंदरि पावनि ॥
को भार्यां प्रणतां पापो नानुमन्येत गर्हितः

2.18-5.2.7.18.50

स षंढो भविता भद्रे दश जन्मसु पंचसु ॥
दिवारात्रं महाभागे निमदितः साधुभिर्जनैः

2.18-5.51

पापयोनिमवाप्स्यामि त्वां साध्वीमवमन्य वै॥
अहं क्रोधेन दग्धोऽस्मि तवापमानजेन वै

2.18-5.52

एवं ब्रुवाणं भर्तारं कृताञ्जलिपुटाऽब्रवीत्॥
न दैन्यं भवता कार्यं न व्रीडा कांत मां प्रति

2.18-5.53

न चाऽपि त्वयि मे क्रोधो येन दग्धो वदस्यथ॥
पुरा कृतानि पापानि दुःखानीह भवंति हि

2.18-5.54

तानि या क्षमते साध्वी पुरुषो वा स उत्तमः॥
यन्मया पापया पापं कृतं वै पूर्वजन्मनि

2.18-5.55

तद्भुंजत्या न मे दुःखं न विषादः कथंचन ॥
इत्येवमुक्त्वा भर्तारं सा सुभ्रूस्तमपालयत्

2.18-5.56

आनीय जनकाद्वित्तं बन्धुभ्यो वरवर्णिनी ॥
क्षीरोदवासिनं देवं भर्त्तारं सा त्वचिंतयत्

2.18-5.57

शोधयन्ती दिवारात्रौ पुरीषं मूत्रमेव च ॥
नखेन कर्षती भर्त्तुः कृमीन्कष्टाच्छनैःशनैः

2.18-5.58

न सा स्वपिति रात्रौ तु न दिवा वरवर्णिनी ॥
भर्त्तुर्दुःखेन संतप्ता दुःखितेदमवोचत

2.18-5.59

देवाश्च पातु भर्तारं पितरो ये च विश्रुताः ॥
कुर्वंतु रोगहीनं मे भर्त्तारं गतकल्मषम्

2.18-5.2.7.18.60

चण्डिकायै प्रदास्यामि रक्तमांससमुद्भवम् ॥
सुष्ठवन्नं माहिषोपेतं भर्त्तुरारोग्यहेतवे

2.18-5.61

मोदकान्कारयिष्यामि विघ्नेशाय महात्मने॥
मन्दवारे करिष्यामि चोपवासान्दशैव तु

2.18-5.62

नोपभुंजामि मधुरं नोपभुंजामि वै घृतम् ॥
तैलाभ्यंगविहीनाहं स्थास्ये नैवात्र संशयः

2.18-5.63

जीवताद्रोगहीनोऽयं भर्त्ता मे शरदां शतम्॥
एवं सा व्याहरद्देवी वासरे वासरे गते

2.18-5.64

तदा चाऽऽगान्मुनिः कश्चिन्महात्मा देवलाह्वयः॥
वैशाखे मासि घर्मार्तः सायाह्ने तस्य वै गृहम्

2.18-5.65

तदा वै भार्यया चोक्तं भिषग्वै गृहमागतः॥
तेन वै रोगहानिः स्यात्तस्याऽऽतिथ्य करोम्यहम्

2.18-5.66

ज्ञात्वा त्वां धर्मविमुखं भिषग्व्याजेन वंचितः॥
पादावनेजनं कृत्वा तज्जलं मूर्ध्नि साक्षिपत्

2.18-5.67

पानकं च ददौ तस्मै घर्मार्ताय महात्मने ॥
त्वयाऽनुमोदिता सायं घर्मतापनिवारकम्

2.18-5.68

स प्रातरुदिते सूर्ये मुनिः प्रायाद्यथाऽऽगतः॥
अथ चाल्पेन कालेन सन्निपातोऽभवत्तव

2.18-5.69

त्रिकट्व्यां नीयमानायां भर्त्तांगुलिमखंडयत् ॥
उभयोर्दंतयोः श्लेषः सहसा समपद्यत

2.18-5.2.7.18.70

तत्खंडमंगुलेर्वक्त्रे स्थितं भर्तुः सुकोमलम्॥
खण्डयित्वागुलिं भर्ता पञ्चत्वमगमत्तदा

2.18-5.71

शय्यायां सुमनोज्ञायां स्मरंस्तां पुंश्चली शुभाम् ॥
मृतं विज्ञाय भर्त्तारं भार्या कांतिमती तव

2.18-5.72

विक्रीय चाऽपि वलयं गृहीत्वा चेन्धनं बहु ॥
चक्रे चितिं तेन साध्वी मध्ये कृत्वा पतिं तदा

2.18-5.73

अवगुह्य भुजाभ्यां च पादौ चाश्लिष्य पादयोः॥
मुखे मुखं विनिक्षिप्य हृदयं हृदये तथा

2.18-5.74

जघने जघनं देवी ह्यात्मानं सन्निवेश्य च॥
दाहयामास कल्याणी भर्तृदेहं रुजान्वितम्॥
आत्मना सह कल्याणी ज्वलिते जातवेदसि

2.18-5.75

विमुच्य देहं सहसा जगाम पतिं समालिंग्य मुरारिलोकम्॥
पानीयदानेन च माधवेऽस्मिन्पादावनेजादपि योगिगम्यम्

2.18-5.76

त्वमंतकाले गणिकाविचिंतया देहं त्यक्त्वा मुक्तसमस्तकिल्बिषः॥
जन्म व्याध्यं प्राप्यसे घोररूपं हिंसासक्तः सर्वदोद्वेगकारी

2.18-5.77

दत्ता त्वया पानकस्याऽपि दाने मासेऽनुज्ञा माधवे साधुजाने॥
व्याधो जातस्तेन जाता सुबुद्धिर्धर्मान्प्रष्टुं सर्वसौख्यैकहेतून्

2.18-5.78

धृतं मूर्ध्ना पादशौचावशिष्टं जलं मुनेः सर्वपापापहारि॥
तेनेयं ते संगतिर्मे वनेऽस्मिन्यया भूयः संपदः सन्ततिश्च

2.18-5.79

इत्येतत्सर्वमाख्यातं पूर्वजन्मनि यत्कृतम्॥
कर्म पुण्यं पापकं च दृष्टं दिव्येन चक्षुषा

2.18-5.2.7.18.80

गोप्यं वा ते प्रवक्ष्यामि यद्भवाञ्छ्रोतुमिच्छति॥
जाता ते चित्तशुद्धिर्वै स्वस्ति भूयान्महामते

2.18-5.18

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीष संवादे व्याधोपाख्याने व्याधस्य पूर्वजन्मकथनंनामाष्टादशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc