भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 1.2.3

1.2.3.1

॥ मार्कंडेय उवाच ॥ ॥
भगवन्वंचनेनालं त्वदेकप्रवणे मयि ॥
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी

1.2.3.2

स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक् ॥
यत्र सर्वफलप्राप्तिः स्थानं तद्वद मे विभो

1.2.3.3

चराचराणां भूतानां जानतामप्यजानताम् ॥
यस्य स्मरणमात्रेण मुक्तिस्तद्वद देशिक

1.2.3.4

पश्यैतेन मयैकेन भगवान्नानुराध्यसे ॥
सर्वैरप्येतदर्थं हि मुनिभिः परिवार्यसे

1.2.3.5

पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना ॥
अगस्त्येन दधीचेन नक्रुणा भृगुणात्रिणा

1.2.3.6

जाबालिना जैमिनिना धौम्येन जमदग्निना ॥
उपयाजेन याजेन भरतेनार्वरीवता

1.2.3.7

पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना ॥
कुमुदाक्षेण कुत्सेन वत्सेन वरतंतुना

1.2.3.8

विभांडकेन व्यासेन कण्वरीषेण कंडुना ॥
मांडव्येन मतंगेन कुक्षिणा मांडकर्णिना

1.2.3.9

चंडकौशिकशांडिल्यशाकटायनकौशिकैः ॥
शातातपमधुच्छन्दोगर्गसौभरिरोमशैः

1.2.3.1.3.2.3.10

आपस्तंबपृथुस्तंबभार्गवोदंकपर्वतैः ॥
भारद्वाजेन दाल्भ्येन दांतेन श्वेतकेतुना

1.2.3.11

कौंडिन्यपुण्डरीकाभ्यां रैभ्येण तृणबिन्दुना ॥
वाल्मीकिना नारदेन वह्निना दृढमन्युना

1.2.3.12

बोधायनसुबोधाभ्यां हारीतेन मृकण्डुना ॥
दुर्वाससातितीक्ष्णेन जालपादेन शक्तिना

1.2.3.13

कांक्वार्येण नदन्तेन देवदत्तेन न्यंकुना ॥
सुश्रुता चाग्निवेश्येन गालवेन मरुत्वता

1.2.3.14

लोकाक्षिणा विश्रवसा सैंधवेन सुमंतुना ॥
शिशुपायनमौद्गल्यपथ्यचावनमातुरैः

1.2.3.15

ऋष्यशृङ्गैकपात्क्रौंचदृढगोमुखदेवलैः ॥
अंगिरोवामदेवौर्वपतंजलिकपिंजलैः

1.2.3.16

सनत्कुमारसनकसनंदनसनातनैः ॥
हिरण्यनाभसत्याख्यवाताशनसुहोतृभिः

1.2.3.17

मैत्रेयपुष्पजित्सत्यतपःशालीष्यशैशिरैः ॥
निदाघोतथ्यसंवर्त्तशौल्कायनिपराशरैः

1.2.3.18

वैशंपायनकौशल्यशारद्वतकपिध्वजैः ॥
कुशस्वार्चिककैवल्ययाज्ञवल्क्याश्वलायनैः

1.2.3.19

कृष्णातपोत्तमानंतकरुणामलकप्रियैः ॥
चरकेण पवित्रेण कपिलेन कणाशिना

1.2.3.1.3.2.3.20

नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः ॥
मत्प्रश्नोत्तरशुश्रूषातत्परैः प्रत्यवेक्ष्यसे

1.2.3.21

माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः ॥
व्याप्तश्च सर्वलोकेषु यस्मात्तदनुसाधि नः

1.2.3.22

त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः ॥
पूर्वमेव त्वया देव किं वान्यदुपपद्यते

1.2.3.23

दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः ॥
कात्यायनी वा स्कन्दो वा भगवान्वाथ वा भवान्

1.2.3.24

त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि ॥
रहस्यमिदमुद्घाट्य प्रसादं कर्तुमर्हसि

1.2.3.25

इत्थं मृकण्डुतनयेन स नंदिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम् ॥
तं प्राह चोन्नततरं शिवभक्तिमस्तु प्राग्भक्तितोषितशिवाप्तशरीरसिद्धिम्

1.2.3.3

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनंनाम तृतीयोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc