शिवस्तोत्रावलि · अध्याय 9
स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम्
कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् &
प्रवर्तेत विहायान्यन् मम त्वत्स्पर्शने मनः
त्वदेकरक्तस् त्वत्पादपूजामात्रमहाधनः &
कदा साक्षात्करिष्यामि भवन्तम् अयम् उत्सुकः
गाढानुरागवशतो निरपेक्षीभूतमानसो ऽस्मि कदा &
पटपटिति विघटिताखिलमहार्गलस् त्वाम् उपैष्यामि
स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः &
कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः
कदा मे स्याद् विभो भूरि भक्त्यानन्दरसोत्सवः &
यदालोकसुखानन्दी पृथङ् नामापि लप्स्यते
ईश्वरम् अभयम् उदारं पूर्णम् अकारणम् अपह्नुतात्मानं &
सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि
कदा काम् अपि तां नाथ तव वल्लभताम् इयाम् &
यया मां प्रति न क्वापि युक्तं ते स्यात् पलायितुम्
तत्त्वतो ऽशेषजन्तूनां भवत्पूजामयात्मनाम् &
दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो
ज्ञानस्य परमा भूमिर् योगस्य परमा दशा &
त्वद्भक्तिर् या विभो कर्हि पूर्ण मे स्यात् तदर्थिता
सहसैवसाद्य कदा गाढम् अवष्टभ्य हर्षविवशो ऽहम् &
त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि
परितः प्रसरच्छुद्धत्वदालोकमयः कदा &
स्यां यथेश न किञ्चिन् मे मायाच्छायाबिलं भवेत्
आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः &
कदा भवेयं भगवंस् त्वद्भक्तगणनायकः
नाथ लोकाभिमानानाम् अपूर्वं त्वं निबन्धनम् &
महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः
अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः &
शयीयम् इव शीताङ्घ्रिकुशेशययुगे कदा
भक्त्यासवसमृद्धायास् त्वत्पूजाभोगसम्पदः &
कदा पारं गमिष्यामि भविष्यामि कदा कृती
आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः &
हासोल्लासितवदनस् त्वत्स्पर्शरसं कदाप्स्यामि
पशुजनसमानवृत्ताम् अवधूय दशाम् इमां कदा शम्भो &
आस्वादयेय तावकभक्तोचितम् आत्मनो रूपम्
लब्धाणिमादिसिद्धिर् विगलितसकलोपतापसन्त्रासः &
त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय
नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद् वाचि &
यत् समनन्तरम् एव स्फुरति पुरस् तावकी मूर्तिः
गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः &
वस्त्व् अवस्त्व् इदम् अयत्नत एव त्वां कदा समवलोकयितास्मि
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0