शिवस्तोत्रावलि · अध्याय 10
अविच्छेदभङ्गाख्यं दशमं स्तोत्रम्
न सोढव्यम् अवश्यम् ते जगदेकप्रभोर् इदम् &
माहेश्वराश् च लोकानाम् इतरेषां समाश् च यत्
ये सदैवानुरागेण भवत्पादानुगामिनः &
यत्र तत्र गता भोगांस् ते कांश् चिद् उपभुञ्जते
भर्ता कालान्तको यत्र भवांस् तत्र कुतो रुजः &
तत्र चेतरभोगाशा का लक्ष्मीर् यत्र तावकी
क्षनमात्रसुखेनापि विभुर् येनासि लभ्यसे &
तदैव सर्वः कालो ऽस्य त्वदानन्देन पूर्यते
आनन्दरसबिन्दुस् ते चन्द्रमा गलितो भुवि &
सूर्यस् तथा ते प्रसृतः संहारी तेजसः कणः
बलिं यामस् तृतीयाय नेत्रायास्मै तव प्रभो &
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे
तेनैव दृष्टो ऽसि भवद्दर्शनाद्यो ऽतिहृष्यति &
कथञ्चिद् यस्य वा हर्षः को ऽपि तेन त्वम् ईक्षितः
येषाम् प्रसन्नो ऽसि विभो यैर् लब्धं हृदयं तव &
आकृष्य त्वत्पुरात्तैस् तु बाह्यम् आभ्यन्तरीकृतम्
त्वद् ऋते निखिलं विश्वं समदृग्यातम् ईक्ष्यताम् &
ईश्वरः पुनर् एतस्य त्वम् एको विषमेक्षणः
आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् &
त्वद्दूषणकथा येषाम् त्वद् ऋते नोपपद्यते
बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः &
त्वयि चेत् स्यान् मम विभो किम् अन्यद् उपयुज्यते
अन्ये भ्रमन्ति भगवन्न् आत्मन्य् एवातिदुःस्थिताः &
अन्ये भ्रमन्ति भगवन्न् आत्मन्य् एवातिसुस्थिताः
अपीत्वापि भवद्भक्तिसुधाम् अनवलोक्य च &
त्वाम् ईश त्वत्समाचारमात्रात् सिद्ध्यन्ति जन्तवः
भृत्या वयं तव विभो तेन त्रिजगतां यथा &
बिभर्ष्य् आत्मानम् एवं ते भर्त्तव्या वयम् अप्य् अलम्
परानन्दामृतमये दृष्टो ऽपि जगदात्मनि &
त्वयि स्पर्शरसे ऽत्यन्ततरसुत्कण्ठितो(?) ऽस्मि ते
देव दुःखान्य् अशेषाणि यानि संसारिणाम् अपि &
घृत्याख्यभवदीयात्मयुतान्य् आयान्ति सह्यताम्
सर्वज्ञे सर्वशक्तौ च त्वय्य् एव सति चिन्मये &
सर्वथाप्य् असतो नाथ युक्तास्य जगतः प्रथा
त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि &
नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा
यदि नाथ गुणेष्व् आत्माभिमानो न भवेत् ततः &
केन हीयेत जगतस् त्वदेकात्मतया प्रथा
वन्द्यास् ते ऽपि महीयांसः प्रलयोपगता अपि &
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर
महाप्रकाशवपुषि विस्पष्टे भवति स्थिते &
सर्वतो ऽपीश तत् कस्मात् तमसि प्रसराम्य् अहम्
अविभागो भवान् एव स्वरूपम् अमृतं मम &
तथापि मर्त्यधर्माणाम् अहम् एवैकम् आस्पदम्
महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् &
प्रणामाङ्कश् च शिरसि स एवैकः प्रभावितः
सदसच् च भवान् एव येन तेनाप्रयासतः &
स्वरसेनैव भगवंस् तथा सिद्धिः कथं न मे
शिवदासः शिवैकात्मा किं यन् नासादयेत् सुखम् &
तर्प्यो ऽस्मि देवमुख्यानाम् अपि येनामृतासवैः
हृन्नाभ्योर् अन्तरालस्थः प्राणिनां पित्तविग्रहः &
ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम्
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0