शिवस्तोत्रावलि · अध्याय 8
अलौकिकोद्बलनाख्यम् अष्टमं स्तोत्रम्
यः प्रसादलव ईश्वरस्थितो या च भक्तिर् इव माम् उपेयुषी &
तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिम् एष्यतः
त्वत्प्रभुत्वपरिचर्वणजन्मा को ऽप्य् उदेतु परितोषरसो ऽन्तः &
सर्वकालम् इह मे परम् अस्तु ज्ञानयोगमहिमादि विदूरे
लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः &
केवलं तव शरीरतयैतान्+ लोकयेयम् अहम् अस्तविकल्पः
देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदम् उपेते &
संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः
निजनिजेषु पदेषु पतन्त्व् इमाः करणवृत्तय उल्लसिता मम &
क्षणमपीश मनाग् अपि मैव भूत् त्वदविभेदरसक्षतिसाहसम्
लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन् &
वपुर् अखिलपदार्थपद्धतेर् व्यवहारान् अतिवर्तयेय तान्
विकसतु स्ववपुर् भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् &
व्रजतु सर्वम् इदं द्वयवल्गितं स्मृतिपथोपगमे ऽप्य् अनुपाख्यताम्
समुदियाद् अपि तादृशतावकानन विलोक परामृतसम्प्लवः &
मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम्
अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा &
सकललोकसुखेषु पराङ्मुखो न भवितास्म्य् उभयच्युत एव किम्
सततम् एव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे &
उपरि मूलतलाद् अपि चान्तराद् उपनमत्व् अज भक्तिमृणालिका
उपयान्तु विभो समस्तवस्तून्य् अपि चिन्ताविषयं दृशः पदं च &
मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु
परमेश्वर तेषु तेषु कृच्छ्रेष्व् अपि नामोपनमत्स्व् अहं भवेयम् &
न परं गतभीस् त्वदङ्गसङ्गादुपजाताधिकसम्मदो ऽपि यावत्
भवदात्मनि विश्वम् उम्भितं यद् भवतैवापि बहिः प्रकाश्यते तत् &
इति यद् दृढनिश्चयोपजुष्टं तद् इदानिं स्फुटम् एव भासताम्
मूल पाठ: Śivastotrāvali · Edition: Constantina R. Bailly (repr. Delhi 1990, Garib Dass Oriental Series, 109) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0